"जैमिनीयं ब्राह्मणम्/काण्डम् ३/३४१-३५०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">यस्माद् एषा समाना सती षडहवि... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 200%">एका ह वाव देवता स्वयंभूः प्रजापतिर् एव। सो ऽकामयत बहु स्यां प्रजायेयेति। सो ऽस्मिन् लोके त्रिवृता स्तोमेन देवान् असृजत वसून्। तम् अभि समपतन्। स्वादु स्वादुर् इति तम् आदन्। तम् अधयन् यथा वत्सो जातो मातरं धयेद् एवम्। स ऐक्षत यदि वा इह भविष्यामि क्षेष्यन्ति मा, हन्तोर्ध्व उत्क्रामाणीति। स उ वा ऐक्षत हन्तो नु संसृजेय यं मां मन्यमाना यं पश्यन्तीर् इमा इहोपरमेरन्न् इति। सो ऽग्निम् असृजत॥3.341॥
<span style="font-size: 14pt; line-height: 200%">यस्माद् एषा समाना सती षडहविभक्तिर् अथ नाना भवति, तस्मान् नानारूपस् संवत्सरो नानारूपम् एनम् अनु प्रजायते। अग्न इति प्रथमस्याह्नो विभक्तिर्, अग्निम् इति द्वितीयस्याग्निनेति तृतीयस्याग्निर् इति चतुर्थस्याग्नेर् इति पञ्चमस्याग्न इत्य् एव पुनष् षष्ठस्य। ताव् एताव् अन्तौ संधत्त। एतद् अन्व् अनन्तस् संवत्सरः। तस्यैताव् अन्तौ यद् धेमन्तश् च वसन्तश् च। एतद् अनु ग्रामस्यान्तौ समेत, एतद् अनु निष्कस्यान्तौ समेत, एतद् अन्व् अहिर् भोगान् पर्याहृत्य शये। तद् एतद् अन्नम्। तं देवचक्रम् अक्षितं पुनर्नवम् आ च परा च परिवर्तते। स य एतद् एवं वेदैताम् एवानन्तताम् एताम् अक्षितिम् एतां पुनर्नवताम् जयति। अग्न आ याहि वीतय इति ह्वयन्त्य् एवैनम् एतेन, अग्निं दूतं वृणीमह इति वृणत एवैनम् एतेन। अग्निनाग्निस् सम् इध्यत इति सम् एवैनम् एतद् इन्धते। अग्निर् वृत्राणि जंघनद् इति व्य् एवैनेनैतज् जयन्ते। तव श्रियो वर्ष्यस्येव विद्युत इति श्रियम् एवास्मिन्न् एतद् दधति। यो वै षष्ठस्याह्नो विभक्तिं वेद सर्वम् आयुर् एति। जातवेदस इति वै षष्ठस्याह्नो विभक्तिर् अग्न इति च। सर्वम् आयुर् एति य एवं वेद॥3.331॥
 
तम् अस्मिन् लोके प्रतिनिधाय पञ्चदशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष वायुः। तत् तद् व् असृजतो एव रुद्रान्। अन्व् इमे समगच्छन्न् अभ्य् अभी समपतन्। तम् अत्तुम् एवाध्रियन्त। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति। स वायुम् एवैतस्मिन् लोके प्रतिनिधाय सप्दशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष चन्द्रमाः। तत् तद् व् असृजतो एवादित्यान्। अन्व् इमे समगच्छन्न् अभ्य् अभी समपतन्। तम् अत्तुम् एवाध्रियन्त। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति॥3.342॥
 
स चन्द्रमसम् एवैतस्मिन् लोके प्रतिनिधाय एकविंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष आदित्यः। तत् तद् व् असृजतो एव विश्वान् देवान्। तद् अन्तम् असृजतान्व् इमे समगच्छन्न् अभ्य अमी समपतन्। तम् अत्तुम् एवाध्रियन्त। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति। स आदित्यम् एवैतस्मिन् लोके प्रतिनिधाय त्रिणवेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष वरुणः। तेत् तन् नासृजत। तम् अन्व एवागच्छन्। तम् अत्तुम् एवाध्रियन्त। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति॥3.343॥
देवा वै पृष्ठ्ये षडहे श्रियम् ऐच्छन्। ताम् अग्न इति प्रथमे ऽहन् नान्वविन्दन्। ताम् अग्निम् इति द्वितीय ऽहन् नान्विन्दन्। ताम् अग्निनेति तृतीये ऽहन् नान्वविन्दन्। ताम् अग्निर् इत्य् एव चतुर्थे ऽहन्न् अन्विन्दन्। भूतम् एवोत्तरे ऽन्ववदताम्। यस्माद् एषा समाना सत्य् अग्निविभक्तिर् अथ नाना भवति, तस्मात् समानस् सन् संवत्सरो नाना सस्यानि पचति। एतैर् ह वा एतद् अग्निभिः पचति य एते प्रविष्टाः। अथो हास्यैतैर् एवाग्निभिस् सर्व ऋतवो ऽग्निमन्तो भवन्ति। प्रसृतेळा प्रथमस्याह्न, ऊर्ध्वेळं द्वितीयं, परिष्टुब्धेळं तृतीयम्, इळाभिर् इळं चतुर्थम्, अध्यर्धेळं पञ्चमम्, इहकारेणाभ्यस्तेळं षष्ठं च। अथो ह वास्यस्को नैमिशीयान् पप्रच्छ - किं प्रथमेनाह्ना कुरुध्वम् इति। प्रैमेति। किं द्वितीयेनेति। अवसं कुर्महा इति। किं तृतीयेनेति। परि वा प्लवामहा इति। किं चतुर्थेनेति। सता सद् अप्यदध्मेति। किं पञ्चमेनेति। पशून् विच्छिन्दन्त ऐमेति। किं षष्ठेनेति। आगच्छामेति होचुः। अथो तेभ्य एवैतत् पशुभ्यो भिषज्यामेति। तद् यत् प्रैमेति प्रव वा एतत् सार्यते यत् प्रैति। प्रसृतेळा प्रथमस्याह्नः॥3.332॥
 
स वरुणम् एवैतस्मिन् लोके प्रतिनिधाय त्रयस्त्रिंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष मृत्युः। तत् तन् मृत्युर् अभवत्। तद् अङ्गानि मुखम् अकुरुत। तं मृत्युं सर्वतोमुखं भूतम् अन्वागत्योपेक्षमाणा एवासत, अनभिधृष्णुवतीः। नैनं तत्रादन्। स ऐक्षत पाप्मा वा अस्मि यो मृत्युर् ऽस्मि। हन्तोर्ध्व एवोत्क्रामाणीति। स मृत्युम् एवैतस्मिन् लोके प्रतिनिधाय चतुर्विंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष रोचनो नाम लोकः। तत् तद् अशनयाभवत्। तम् अशनायां भूतं बिभ्यतीर् नान्वायन्। अन्वीक्षमाणा एवातिष्ठन्न् असौ रोचते ऽसौ रोचतेति। सास्य रोचनता। स ऐक्षत पाप्मा वा अस्मि यो ऽशनया अस्मि। हन्तोर्ध्व एवोत्क्रामाणीति। सो ऽहोरात्रे प्रतिन्यदधात्। ते एव पिपासा चाशनाया चाभवताम्। अहर् ह पिपासा, रात्रिर् अशनाया। तद् यथा द्वारफलके प्रतिनिहिते स्याताम् एवम् एवैते ऽहोरात्रे प्रतिनिहिते अनत्ययनाय। ते उ ह त्व् एवंविदम् एवात्यर्जयतः॥3.344॥
 
सो ऽहोरात्रे एवैतस्मिन् लोके प्रतिनिधाय चतुश्चत्वारिंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष कामो नाम लोकः। तत् तच्छन्दन्नाद्या अन्तरेण नदीर् असृजतैतस्य पाप्मनो ऽन्वागमाय। ता उ एव कामदुघा अकुरुत। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति। सो ऽष्टाचत्वारिंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष सुवर् नाम लोकः। तत् तस्मिन् ज्योग् अरमत बह्व् अस्य स्वं भवतीति। सास्य सुवता। स ऐक्षत हन्तेभ्यो लोकेभ्य एकं लोकं संभराणीति। स एभ्यो लोकेभ्य एकं लोकं समभरत्। तद् एवैतद् द्वादशाहस्य दशमम् अहर् अभवत्। सो ऽब्रवीन् न वै म इदम् अकम् अभूद् इति। यद् अब्रवीन् न वै म इदम् अकम् अभूद् इति तन् नाकस्य नाकत्वम्। स एष वाव नाको यद् दशमम् अहर्, एष स्वर्गो लोक, एतद् ब्रध्नस्य विष्टपम्॥3.345॥
अथ यद् अवसं कुर्म इत्य् उपरत्येव वा उपविमुच्येवावसं कुर्वते। उपरत्येव हि द्वितीयस्याह्न इळा निधनं गच्छति। अथ यत् परि वा प्लवामहा इति परिप्लुत्येव हि तृतीयस्याह्न इळानिधनं गच्छति। अथ यत् सता सद् अप्यदध्मेतीळाभिर् इळाः पशुभिः पशूंस् तत्। तद् एतत् सता सद् अपिहितम्। अथ यत् पशून् विच्छिन्दन्त ऐमेति विच्छिन्नेव वा एषा यद् अध्यर्धेळान्नकृता। पशवो वा इळा। तस्मात् पशून् विच्छेदं विकारं भुञ्जते। अथ यद् आगच्छामेतीहेत्यस्याम् एवैतत् प्रत्यतिष्ठन्। अथो तेभ्य एवैतत् पशुभ्यो भिषजितम्। यस्माद् एषा समाना सतीळाविभक्तिर् अथ नाना भवति, तस्मान् नानारूपाः पशवः। नानारूपम् एनान् अनु प्रजायते। यद् ऋचारभते तत् प्रथमस्याह्नो रूपम्। परिष्टुब्धं द्वितीयस्योभयतःपरिष्टुब्धं तृतीयस्यानुतुन्नं चतुर्थस्याभ्यस्तं पञ्चमस्येहकारेणाभ्यस्तं षष्ठस्य। यस्माद् एषा समाना सती स्वरविभक्तिर् अथ नाना भवति तस्माद् अयं वायुर् यथर्तु पवत - शीतो हेमन्तम्, उष्णो ग्रीष्मम्। इन्द्रेति प्रथमस्याह्नो विभक्तिर् इन्द्रम् इति द्वितीयस्येन्द्रेणेति तृतीयस्येन्द्र इति चतुर्थस्येन्द्राद् इति पञ्चमस्येन्द्र इत्य् एव पुनष् षष्ठस्य। यस्माद् एषा समाना सतीन्द्रविभक्तिर् अथ नाना भवति तस्माद् असाव् आदित्यो यथर्तु तपति - शीतो हेमन्तम्, उष्णो ग्रीष्मम्॥3.333॥
 
तद् यथा वृक्षं वा गिरिं वाधिरुह्य व्यवेक्षेतैवम् एवैतस्माल् लोकाद् अन्यान् लोकान् व्यवेक्षते। स इमाः प्रजा अशनायन्तीः प्रत्यवैक्षत। ता द्वाभ्यां रूपाभ्यां प्रत्याद्रवन् नीलेन च सुवर्णेन च। तद् यत् पर्जन्यस्य वर्षिष्यतः कृष्णं तन् नीलम्। अथ यद् अप्स्व् अन्तर् विद्योतते तत् सुवर्णम्। ताभ्यो ऽवर्षत्। तत ओदनो ऽजायत। तम् अशित्वोदानन्। स उदनो ऽभवत्। तद् उदनस्योदनत्वम्। उदनो ह वै नामैष। तम् ओदन इति परोक्षम् आचक्षते। द्वितीयं ज्यायो ऽन्नाद्यम् अजायत। तद् अभिसंपद्य व्यमथ्नत। स मन्थो ऽभवत्। तन् मन्थस्य मन्थत्वम्। तद् एतद् द्वयम् एवान्नाद्यस्य रूपं यच् चैवाश्नाति यच् च पिबति। यद् अश्नात्य् ओदनस्य तद् रूपं, यत् पिबति मन्थस्य तत्। उभयं हास्यैतद् गृहे ऽधिगम्यते य एवं वेद। तौ हैतौ प्रजापतेर् एव स्तनौ यद् व्रीहिश् च यवश् च । ताभ्याम् इमाः प्रजा बिभर्ति॥3.346॥
 
स उपोदको नाम लोको यस्मिन्न् अयम् अग्निः। अथर्तधामा यस्मिन् वायुः। अथ शिवो यस्मिंश् चन्द्रमाः। अथापराजितो यस्मिन्न् आदित्यः। अथाधिद्युर् यस्मिन् वरुणः। अथ प्रद्युर् यस्मिन् मृत्युः। अथ रोचनो यस्मिन्न् अशनाया। अतो ह पराचीनम् अहोरात्रे नान्वितस् सकृद् विष्टा हैवातः पराचीनं यथा विद्युतोवरूपं स्याद् दार्वाचितानां वा समिद्धानाम् एवम्। अथ हैते प्रजापतिलोका एवात ऊर्ध्वाः। कामो ऽष्टमस्, सुवर् नवमो, नाक एव दशमम् अहः। इदम् एव प्रायणम् अद उदयनम्। ते हैते लोका एवैतानि द्वादशाहस्याहानि। स य एतद् एवं वेदैते हैवास्य लोका भवन्ति॥3.347॥
इति हैवेदम् अग्र आस। तद् अकामयत (बहु) स्यां प्रजायेय भूमानं गच्छेयम् इति। तन् मनो अमनुत। तस्य द्वितीयं वित्वावितराह्वयम् ऐत। तस्माद् द्वितीयं वित्वावितराह्वयम् एति। तद् अनेन मनसा सहातप्यत। मनो ह वाव तपः। तत् तप्यमानं वाचम् असृजत। ताभ्याम् अस्तुत स्तो मे स्तो म इति। यत् स्तो म इत्य् अब्रवीत् तत् स्तोमस्य स्तोमत्वम्। स्तुवत एनेन स्वा अयं न श्रेष्ठ इति य एवं वेद। ताव् एवैतौ स्तोमाव् अभवतां पराङ् च पूर्वाङ् च। तौ प्राणापानौ, ते ऽहोरात्रे, तौ पूर्वपक्षापरपक्षौ, ताव् इमौ लोकौ, ताव् इन्द्राग्नी, तौ मित्रावरुणौ, ताव् अश्विनौ, तद् दैव्यं मिथुनं, यद् इदं किं च द्वन्द्वं तद् अभवताम्। तौ ह स्म प्रजापताव् एवान्तस् संभवतः। तद् इदं मनो वाचम् अस्कन्दत्। स हिरण्मयो गर्भो ऽधीयतामृतः। एष वै मृत्युर् यद् अग्निः। तस्मिन् यद् धिरण्यं प्रास्यन्ति कल्याणतरं भवति। सो ऽयं गर्भो ऽजायत। तं जातम् अमृजन् यथा वत्सं जातं माता लिह्याद् एवम्॥3.334॥
 
उपोदको नाम लोको ऽन्ने विष्टो, मनुष्या गोप्तारो, अग्निर् अधिपतिर्, यद् अर्चिषो रूपं तद् रूपम्, अप्सु प्रतिष्ठितः। ऋतधामा नाम लोको वयोभिर् विष्टो, गन्धर्वाप्सरसो गोप्तारो, वायुर् अधिपति, श्वेतं रूपं प्राणे प्रतिष्ठितः। अपराजितो नाम लोको नक्षत्रैर् विष्टश्, चन्द्रमा गोप्ता, आदित्यो ऽधिपतिर्, यद् उद्यतश् च सूर्यस्य रूपम् अस्तं च यतस् तद् रूपं, मनसि प्रतिष्ठितः। अधिद्युर् नाम लोके यज्ञे विष्ट, आदित्या गोप्तारो, वरुणो ऽधिपतिर्, नीलं रूपं यत् पर्जन्यस्य वर्षिष्यतः कृष्णं तन् नीलं, यद् वा कार्तस्वरस्य मणेर्, अनृते प्रतिष्ठितः। प्रद्युर् नामक लोको ऽमृते विष्टो, रुद्रा गोप्तारो, मृत्युर् अधिपतिर्, लोहितं रूपं यद् गौरवछदायै यद् वा माहारोहणस्य वासस, ऋते प्रतिष्ठितो यन् नार्च्छति तस्मिन्। रोचनो नाम लोकस् तपसि विष्टो, वसवो गोप्तारस् - ते हि प्रथमे देवानाम् इयुस् तस्मात् ते परार्ध्या -- , यज्ञो ऽधिपतिर्, यत् सुवर्णस्य हिरण्यस्य रूपं तद् रूपं, सत्ये प्रतिष्ठितः। एते वै लोका, एते गोप्तार, एते ऽधिपतयः। एते हैवास्य लोका, एते गोप्तार, एते ऽधिपतयो भवन्ति य एवं वेद॥3.348॥
 
प्रजापतिर् देवान् असृजत। सह श्रिया वाचा च वा एनांस् तत् सहासृजतान्नेन च सहाद्भिः। ते देवा अन्नं श्रियं वाविदानाना वाचा यत् सधमादम् इवैवासन्न् - अन्नं हि श्रीस् - सो ऽशोचत्। स ऐक्षत कथं न्व् अहम् एषाम् इमा श्रियस् संवृञ्जीयेति। तान् मनो भूत्वानुप्राविशत्। तेषां सर्वां श्रियं निरचिनोद् यथा बदराणि निश्चिनुयाद् एवम्। तेषां मनसा वाचम् अगृह्णात्। सैषा मनसा वाग् गृहीताप्य् अद्य। यद् ध्य् एव मनसा कामयते तद् वाचा वदति। स ऐक्षत केन न्व् एषां रूपेण वाचम् आददीयेति। स पुरुषरूपम् अकुरुत। तेषां पुरुषरूपेण वाचम् आदत्त। तस्मात् पुरुषस् सर्वा वाचो वदति। स इमा अपस् संगृह्योर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष ऋषभो नामान्नलोकः। तद् अन्नं वा ऋषभः। यदा वा अश्नात्य् अथर्षभ्यति। स ऐक्षत किं नु तद् रूपं कुर्वीय यन् मे ऽन्यो नाभ्यारोहेद् इति। सो ऽजः पृश्निर् अभवत्। तस्माद् अजं पृश्निं नाधिगच्छाम। तद् यास् ता अपो ऽहरद् या एता उपर्य् आप, एता एव ताः। अथ यां तां वाचम् अहरद्, य एष उपरि स्तनयित्नुर्, एषैव सा वाग् अथ यो ऽप्स्व् अन्तर् विद्योतते। स इमाः प्रजा अशनायन्तीः प्रत्यवैक्षत --॥3.349॥
तस्य यत् प्रथमम् उल्बम् अपालुम्पंस् तत् कृष्णायस् समभवत्। यद् द्वितीयम् उल्बम् अपालुम्पंस् तद् रजतम् अभवत्। यत् तृतीयम् उल्बम् अपालुम्पंस् तद् धरितम् अभवत्। तस्मात् तत् त्विषिमत्तमम्। तत् तद् ध्य् अस्याध्यात्मम् आसीद् अथ यज् जरायु नाड्याम् आसीत्। तल् लोहम् अभवत्। अथ यत् कुमारो जायमानो वा जातो वा सीसवं करोति तद् एव सीसम् अभवत्। तस्मात् तद् दुर्गन्धितमम्। तानि सप्तदशैवाक्षराण्य् अजायन्त। तानि द्वेधा व्यौहन् नवान्यान्य् अष्टाव् अन्यानि। स एव त्रिवृच् च स्तोमो ऽभवत् गायत्री च छन्दः। स ऐक्षतायं स्तोम इदं छन्द इमौ वाव तस्मा अलं यत् प्रजनयेताम्। हन्तेमाव् एव प्रजनयतम् इति ब्रवाणीति। स त्रिवृता स्तुत्वाब्रवीद् गायत्रीं - विभव, यावत्य असि तावत्य् एधीति। साष्टाक्षरा सत्य् अक्षराणि त्र्यक्षराण्य् अकुरुत। तानि चतुर्विंशतिर् अभवन्। सो ऽस्यै गायत्र्यै चतुर्विंशत्यक्षरायै षड् अक्षराण्य् आदत्त॥3.335॥
 
 
स पञ्चदश स्तोमो ऽभवत्। अपरे द्वे आदत्त। स सप्तदश स्तोमो ऽभवत्। अपराणि चत्वार्य् आदत्त। स एकविंश स्तोमो ऽभवत्। तद् अर्धेन गायत्री विषुवन्तम् अगच्छत्। अपराणि षड् आदत्त। स त्रिणव स्तोमो ऽभवत्। अपराणि षड् आदत्त स त्रयस्त्रिंश स्तोमो ऽभवत्। सो ऽतः पराचीनं न प्राविन्दत्। स ऐक्षतेमान्य् एव वीर्याणि संस्तुतानि प्रत्यपधावानि द्वे द्वे ऽहनी समस्यानीति॥3.336॥
 
 
स त्रिवृच् च पञ्चदशं च समास्यत्। तद् एव चतुर्विंशं सप्तमम् अहर् अभवत् गायत्री छन्दसाम्। तस्माद् अत्रोभे बृहद्रथन्तरे क्रियेते। उभो ह्य् एतौ बार्हतराथन्तरौ स्तोमौ। रथन्तरं वै मात्रायाम् अत्र स्याद्, अथ बृहत् पृष्ठं क्रियते। सप्तदशं च त्रिणवं च समास्यत्। तद् एव चतुश्चत्वारिंशम् अष्टमम् अहर् अभवत् त्रिष्टुप् छन्दसाम्। तस्माद् अत्र रथन्तरं पृष्ठं क्रियते। उभौ ह्य् एतौ राथन्तरौ स्तोमौ। बृहद् वै मात्रायाम् अत्र स्याद्, अथ रथन्तरं पृष्ठं क्रियते। एकविंशं च त्रयस्त्रिंशं च समास्यत्। ततष् षड् अक्षराण्य् अत्यरिच्यन्त। अथ यान्य् अष्टाचत्वारिंशत् पर्यशिष्यन्त तद् एवाष्टाचत्वारिंशं नवमम् अहर् अभवत्, जगती छन्दसाम्। तस्माद् अत्र बृहत् पृष्ठं क्रिय ते। उभौ ह्य् एतौ बार्हतौ स्तोमौ, रथन्तरं वै मात्रायाम् अत्र स्याद्, अथ बृहत् पृष्ठं क्रियते॥3.337॥
 
 
तानीमानि षडक्षराण्य् अभिहिङ्करोत्। ततष् षण् णिरमिमीत। तानि द्वादशाभवन्। तानि पुनर् एवाभिहिंङ्करोत्। ततष् षण् णिरमिमीत। तान्य् अष्टादशाभवन्। तानि पुनर् एवाभिहिंङ्करोत्। ततष् षण् णिरमिमीत। तानि चतुर्विंशतिर् अभवन्। तद् एव चतुर्विंशं दशमम् अहर् अभवद् अनुष्टुप् छन्दसाम्। तस्माद् उ त्रिहिंकृतं साम। तद् आहुर् अति त्रिवृतं स्तोमा यन्ति, न गायत्रीं छन्दांसीति। नाहैव त्रिवृतं स्तोमा अतियन्तीति ब्रूयान् नो गायत्रीं छन्दांसीति। त्रिप्रायणा हि स्तोमास् त्रिमध्यास् त्र्युदयाः। एतद् उ गायत्रीं सर्वाणि छन्दांसि नातियन्ति। तद् एतद् त्रिवृतश् चैव स्तोमस्य पुष्टं गायत्र्यै छन्दसो यद् एष द्वादशाहः। तद् ब्रह्म वै गायत्री। क्षत्रं त्रिवृत्। यत् स वज्रस् तेन क्षत्रम्। तद् एतत् ब्रह्म च क्षत्रं चैष द्वादशाहः। तद् उ वा आहुर् ब्रह्म वै त्रिवृद्, ब्रह्म गायत्री, ब्रह्मैष द्वादशाहो, ब्रह्मैवैष सर्वो द्वादशाह इत्य् एव वेदितव्यम्। तस्यैतौ श्लोकौ -
<poem>चत्वारो ऽग्रे प्र वहन्ति युक्तास् ते षड् भवन्ति परमे व्योमन्।
ते द्वौ द्वौ भूत्वा प्र पतन्ति पक्षैस् ते ऽस्मिन् कस्मिन् प्रतितिष्ठन्ति गत्वा॥
द्वौ स्तोमौ गायत्रीं वसाते द्वौ त्रिइष्टुभं जगतीं द्वौ वसाते।
तेभ्यो महत् प्र रिरिचेति षड्भ्यस् तस्मिन् सर्वे प्रतितिष्ठन्ति गत्वा॥3.338॥</poem>
 
 
प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयत बहु स्यां प्रजायेय भूमानं गच्छेयम् इति। स तपो ऽतप्यत। स एतं व्यूढछन्दसं द्वादशाहं यज्ञम् अपश्यत् । तम् आहरत्। तेनायजत। तं व्यौहत्। यद् व्यौहद् अङ्गान्य् एव तद् व्यौहत्। तस्य यानि शरीराण्य् आसंस् ता एवेमा मर्त्यः प्रजा अभवन्। अथात्मा मनोमयस् समभवत्। तस्य मनश् शरीरं प्राणा अभि समविशन्। स व्यूढ इवासीत्। स देवान् अब्रवीत् शरीरं म इच्छतेति। कथं त इच्छाम इति। समूढछन्दसा द्वादशाहेन याजयतेति। तथेति। तं समूढछन्दसा द्वादशाहे(ह?)नायाजयन्। तद् यत् समौहन्न् अंगान्य् एवास्य तत् समौहन्॥3.339॥
 
 
स मनोमयः प्राणमयश् चक्षुर्मय श्रोत्रमयो वाङ्मय ऋङ्मयो यजुर्मयस् साममयो ब्रह्ममयो हिरण्मयो ऽमृतः प्रजापतिस् समभवत्। एषैव विद्युत्। स एष एव त्रयो वेदः। योर्ध्वा विद्युत् तानि सामानि, या तिरश्ची ता ऋचो, यद् अभीक्ष्णं मन्मलायति तद् यजुः। स य एतद् एवं वेदैषैव देवता भवति। एषा ह वै देवता संस्तुतो यज्ञो भवति। तद् यत् पृच्छेयुः का देवता संस्तुतो यज्ञो भवतीति, विद्युद् इति ह ब्रूयात्। एषा ह वै देवता संस्तुतो यज्ञो भवति। तस्माद् यदि व्यूढछन्दसा द्वादशाहेन यजेत। यजेतो एव समूढछन्दसा। उभाभ्यां ह त्वावेष्टं भवत्य् एवंविदः॥3.340॥
 
 
-- अन्धे तमसि जल्पन्तीः। सो ऽस्यै वाच एकम् अक्षरम् अवच्छिद्य वाग् इति व्यसृजत। तम् पतित्वैषां लोकानां मध्ये व्यरमत। तद् एतन् मण्डलम् अभवत्। तद् अन्वानैत्। स प्राणो ऽभवत्। ताभ्यो व्यौच्छत्। अशनायंस् त्व् एव स आसाम् अपाम् एकं स्तोकं प्राश्च्योतयत् कियत् स्विद् आभ्यो ऽलं भविष्तीति। स दशधाभवच् छतधा सहस्रधा यावतीयं पृथिवी तावान् अभवत्। तद् अभिसंपद्य व्यमथ्नत। स मन्थो ऽभवत्। तन् मन्थस्य मन्थत्वम्। तम् अशित्वोदानन्। स उदनो ऽभवत्। तद् उदनस्योदनत्वम्। तद् एतद् द्वयम् एवान्नस्य रूपं यच् चैव पिबति यच् चाश्नाति। यत् पिबति मन्थस्य तद् रूपं यद् अश्नात्य् ओदनस्य तत्। उभयं हास्यैतद् गृहे ऽधिगम्यते यच् चैव पिबति यच् चाश्नाति य एवं वेद। तद् आहुस् - त्रय स्तोका आगच्छन्तीत्य् उदस्तोको घृतस्तोको मधुस्तोकः। ततो य उदस्तोक इमां स प्रविशत्य्, ओषधीर् घृतस्तोको, वनस्पतीन् मधुस्तोकः। तद् धैतं मीमांसांचक्रुर् आमलक अकूवयेयो ऽहीना आश्वत्थिः केशी दार्भ्यः - किं स्तोकं त्वम् आगच्छन्तं मन्यसे, किं स्तोकं त्वं, किं स्तोकं त्वम् इति। स होवाच केशी - घृतस्तोकम् अहं मन्य इति। अथ होवाचाहीना - मधुस्तोकम् अहं मन्य इति। अथ होवाचामलक - उदस्तोकम् अहं मन्य इति। तस्मिन्न् उ हैव संपादयांचक्रुः। उदकाध्य् एवेदं सर्वं जायते। तद् यां तां वाचं व्यसृजत सो ऽग्निः। अथ यं तं प्राणम् अन्वानैत् स इन्द्रः। अथ यस् स प्रजानां जनयित ऋषभे ऽन्न्लोके ऽप्स्व् अन्तः - ॥3.350॥
</span>