"ऋग्वेदः सूक्तं ७.९४" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) Yann ७, ॥ : replace |
(लघु) Yann ७, । : replace |
||
पङ्क्तिः १:
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः
अभ्राद वर्ष्टिरिवाजनि ॥
शर्णुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः
ईशानापिप्यतं धियः ॥
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये
मा नो रीरधतं निदे ॥
इन्द्रे अग्ना नमो बर्हत सुव्र्क्तिमेरयामहे
धिया धेना अवस्यवः ॥
ता हि शश्वन्त ईळत इत्था विप्रास ऊतये
सबाधो वाजसातये ॥
ता वां गीर्भिर्विपन्यवः परयस्वन्तो हवामहे
मेधसाता सनिष्यवः ॥
इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा
मा नो दुःशंस ईशत ॥
मा कस्य नो अररुषो धूर्तिः परणं मर्त्यस्य
इन्द्राग्नीशर्म यछतम ॥
गोमद धिरण्यवद वसु यद वामश्वावदीमहे
इन्द्राग्नीतद वनेमहि ॥
यत सोम आ सुते नर इन्द्राग्नी अजोहवुः
सप्तीवन्ता सपर्यवः ॥
उक्थेभिर्व्र्त्रहन्तमा या मन्दाना चिदा गिरा
आङगूषैराविवासतः ॥
ताविद दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम
आभोगं हन्मना हतमुदधिं हन्मना हतम ॥
|