"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/११" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{rh|left='''१९६'''|center='''सिद्धान्तकौमुदीसहिता'''|right='''[अजन्त... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१२:४९, ४ नवेम्बर् २०१६ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९६
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

विग्रहे तु प्रियतिसा । प्रियतिस्रौ । प्रियतिस्र । प्रियतिस्रमित्यादि । प्रियास्तिस्रो यख्य तत्कुलं प्रियत्रि । स्वमेोर्लका लुप्तत्वेन प्रत्ययलक्षणाभावान्न तिस्रादेश ।

  • न लुमता-' (सू २६३) इति निषेधस्यानित्यत्वात्पक्षे प्रियतिस् । रत्वा

त्पूर्वविप्रतिषेधेन नुम् (वा ५०३६) । प्रियतिस्पृणी । प्रियतिसृणि । तृतीयादिषु


सु । अत्र प्रियत्रिशब्दस्य पुलिङ्गत्वेऽपि त्रिशब्दस्य स्त्रीलिङ्गत्वातिस्रादेश । 'ऋदुशनस्' इत्य नड् । “सर्वनामस्थाने च' इति दीर्घ । नलोप । त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे त्व स्राव्याप्तिस्यादिति भाव । ननु त्रिचतुरन्ताङ्गविशेषणत्वेऽपि नात्राव्याप्ति । प्रियास्तिस्रो य स्येति विग्रहवाक्ये प्रवृत्तस्य तिस्रादेशस्य समासेऽयनुवृतिसम्भवात् इति चेन्मैवम् । लौकिक वाक्य हि परिनिष्ठितत्वात् समासस्य न प्रकृति किन्तु अलौकिकमेव प्रक्रियावाक्यम् । ततश्च प्रिया अस् त्रि अस् इत्यलौकिकप्रक्रियावाक्ये समासप्रवृत्तौ * अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इति परिभाषया तिस्रादेश बाधित्वा विभक्तिलुकि प्रियत्रिशब्दात् समासात् सुबुः त्पत्तौ त्रिचतुरोरित्यस्याङ्गत्वात् तदन्तविधावपि * निर्दिश्यमानस्यादेशा भवन्ति' इति परि भाषया त्रिशब्दस्य तिस्रादेश । सच स्त्रियामित्यस्य “त्रिचतुरो ? इत्यङ्गविशेषणत्वे सति न स्यात् । प्रियत्रिशब्दस्याङ्गस्य पुलिङ्गत्वात् । सति चात्र तिस्रादेशे “नद्युतश्च' इति कप् तु न । सहि समासान्तत्वात् समासवदलौकिकविग्रहवाक्ये प्रवृत्तिमर्हति । तदानीञ्च उत्तरपदस्य त्रि शब्दस्य ऋदन्तत्वाभावान्न कप् । अन्तर्वर्तिविभक्तेर्लका लुप्तत्वेन प्रत्ययलक्षणाभावाच । नचा कृते समासान्ते कपि प्रियत्रिशब्दात् सुबुत्पत्तौ तिस्रादेश सति कप् शङ्कय । अकृते कपि समासान्ते समासत्वस्यैवानिष्पत्त्या ततस्सुबुत्पत्तेरसम्भवात् इत्यास्ता तावत् । प्रियतिस्रा विति ॥ गुण बाधित्वा रत्वम् । प्रियतिस्रः इति ॥ जसि पूर्वसवर्णदीर्घ बाधित्वा रत्वम् । प्रियतिस्रमिति । अमि पूर्वरूप गुणच बाधित्वा रत्वम्। ‘गुणदीर्घत्वानामपवाद'इति पूर्वरूप स्याप्युपलक्षणम् । इत्यादीति ॥ प्रियतिस्रौ । प्रियतिस्र । प्रियतिस्रा । प्रियतिखे । डसिडसेो प्रियतिस्र इत्येव 'ऋत उत्' इत्युक्त्व बाधित्वा रत्वम् । प्रियतिस्र । आमि त्रयादेश बाधित्वा परत्वातिस्रादेशे सति रत्व बाधित्वा “नुमविर' इति नुट् । प्रियतिसृणाम् । प्रियतिस्ति । ऋतो डि' इति गुणापवादो । प्रियतिखेो रत्वम् ननु प्रियास्तिस्रो यस्य तत् कुल प्रियत्रि इति कथम्। त्रिशब्दस्य स्त्रीलिङ्गत्वेन तिसृभावप्राप्ते इत्यत आह । स्वमोर्लकेति ॥ स्वमेो पुसकात्' इति स्वमेोर्लका लुप्तत्वेन “न लुमता' इति प्रत्ययलक्षणाभावात् विभक्तिपर कत्वाभावान् तिसृभाव इत्यर्थ । अनित्यत्वादिति ॥ 'न लुमता' इत्यस्यानित्यत्वम् “इकोऽचि विभक्तौ' इत्यज्ग्रहणात् इति नपुसकाधिकारे वक्ष्यते । अजादिविभक्तौ ‘नपुसकस्य झलच इति नुमपेक्षया परत्वात् “ आवि र ऋत ’ इति रत्वमाशङ्कय आह । रत्वादिति ॥ ल्यब्लोपे पञ्चमी । पूर्वविप्रतिषेधेन रत्व बाधित्वा नुमित्यर्थ । प्रियन्निस्सृणी इति । रत्व बाधित्वा जुमि णत्वम् । प्रियतिसृणीति ॥ जश्शसोशि । रत्व बाधित्वा नुम् । शस्सर्वनामस्थानत्वा


१ इह 'प्रियतिसृणी, प्रियतिसृणि' इति ‘प्रत्ययोत्तरपदयोश्च' (सू१३७३) इति सूत्रभाष्योदाहरण मानम् ।