"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२९" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{rh|left='''२१४'''|center='''सिद्धान्तकौमुदीसहिता'''|right=['''अजन्त... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:५३, ५ नवेम्बर् २०१६ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१४
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

३२० । इकोऽचि विभक्तौ । (७-१-७३)

इगन्तस्य क्लीबस्य नुमागमः स्यादचि विभक्तौ । वारिणी । वारीणि । न लुमता–' (सू २६३) इति निषेधस्यानित्यत्वात्पक्षे सम्बुद्धिनिमित्तो गुण । हे वारे-हे वारि । “आडो ना –’ (सू २४४) । वारिणा । ' घेडिति । (सू २४५) इति गुणे प्राप्त “ वृद्धौत्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन (वा ४३७३) वारिणे । वारिण । वारिणो “नुमचिर–' (वा ४३७४)


सोरमश्च लुकि रूपम् । नच ‘आदे परस्य’ इति अम अकारस्यैव लुक् स्यात् । नतु मकारस्यापीति शङ्कयम् । प्रत्ययस्य लाप एव हि लुगत्युच्यत । अम् इात समुदाय एवह प्रत्यय । नतु तदेकदेशभूतमकारमात्रम् । अतो लुगमस्सवांदेश एव भवति । इकोऽचिव ॥ 'इदितो नुम् धातो ' इत्यतो नुमित्यनुवर्तते । ‘नपुसकस्य झलच ' इत्यतेो नपुसकस्येत्यनुवर्तते । अङ्गस्येत्यधि कृतम् इका विशष्यते तदन्तविधि । तदाह । इगन्तस्येत्यादिना । अचि विभक्ता विति ॥ अजादौ विभक्तावित्यर्थे । 'इकोऽचि मुपि' इत्येव सुवचम् । विभक्तौ किम् । मधु मद्य तस्येद माधवम् । आणि परे नुमि लोपे माधुनमिति न भवति । वारिणी इति ॥ वारि ओौ इति स्थिते शीभावे नुमि “ अट्कुत्राड्' इति णत्वे रूपम । वारीणि इति ॥ जश्शसो शिभावे नुमि 'मर्वनामस्थाने च' इति दीर्धे णत्वे रूपम् । हे वारि सु इत्यत्र सोर्लकि प्रक्रिया दर्शयति । पक्षे इति ॥ 'द्रस्वस्य गुण ' इति सम्बुद्धिनिमित्तको गुण कदा चिद्रवतीलयर्थे । नान्वह सम्बुद्धेर्लका लुप्तत्वात् *न लुमता' इति प्रत्ययलक्षणनिषेधात् कय गुण इत्यत आह । न लुमतेतेि निषेधस्यानित्यत्वादिति । अत्र च “इकोऽचि वि भक्तौ' इत्यत्राज्ग्रहण ज्ञापकम् । हलादिषु म्यामादिषु सत्यपि नुमि “न लेप प्रातिपदिका न्तस्य' इति तस्य लोपसम्भवादचीति व्यर्थम् । न च सम्बुद्धिव्यावृत्त्यर्थ अज्ग्रहणम् । तत्र नुमि सति “न डिसम्बुछद्यो ' इति निषेधे सति नकारश्रवणप्रसङ्गादिति वाच्यम् । सम्बु द्वेलुका लुप्ततया प्रत्ययलक्षणाभावेन तत्र नुम प्राप्तेरेवाभावात् । “न लुमता' इति निषेध स्यानित्यत्वे तु सम्बुद्धो प्रत्ययलक्षणेन प्राप्त नुम वारयितुमज्ग्रहणम् अर्थवदिति भवत्यज्ग्रहण न लुमता' इत्यस्यानित्यत्वे लिङ्गमिल्याहु । अत एव “इकोऽचि' इति सूत्रे हे त्रपेो इति एड्हस्वात्' इति सूत्रे हे त्रपु इति च भाष्य सङ्गच्छतेत । आाडो नेति ॥ रूपे विशेषा भावेऽपि नुमपेक्षया परत्वेन नाभावस्यैव न्याय्यत्वादिति भाव । डसिडसो विशेषमाह । घेरिति ॥ नुम बाधित्वा परत्वात् गुणे प्राप्त इत्यर्थे । वृद्धौत्वेति ॥ वार्तिकम् । वृद्धादीना क्रमेण गावौ हरौ क्रोष्ट्रा हरये नुमोऽवकाश वारीणि इति । अतिसखीनि इत्यत्र जश्शसेो “सख्युरसम्बुद्धौ' इति णित्वादृद्धि परत्वात् नुम बाधित्वा प्राप्ता । वारिणि इत्यत्र डौ तु 'अच घे' इत्यत्व प्राप्तम् । प्रियकोछूनि इत्यत्र जश्शसेो तृज्वत्व प्राप्तम् । वारिशब्दान् डयादौ गुण प्राप्त । अत्र पूर्वविप्रतिषधान्नुमेवेत्यर्थ । वारिणे इति ॥ डयि गुण बाधित्वा नुमि णत्वे (रूपम् । वारिणः इति ॥ डसिडसो गुण बाधित्वा नुमि णत्वे