"ऋग्वेदप्रातिशाख्यम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
पङ्क्तिः २९०:
<poem>
अथ चतुर्थं पटलम्
स्पर्शाः पूर्वे व्यञ्जनान्युत्तरारायास्थापितानामवशङ्गमम् तत् ।
घोषवत्पराः प्रथमास्तृतीयान् स्वानुत्तमानुत्तमेषूदयेषु ॥ १
सर्वैः प्रथमैरुपधीयमानः शकारः शाकल्यपितुश्छकारम् ।
पदान्तैस्तैरेव तृतीयभूतैस्तेषां चतुर्थानुदयो हकारः ॥ २
विस्याने स्पर्शे उदये मकारः सर्वेषामेवोदयस्योत्तमं स्वम् ।
अन्तस्थासु रेफवर्जं परासु तां तां पदादिष्वनुनासिकां तु ॥ ३
तथा नकार उदये मकारः ञकारं शकारचकारवर्जयोः ।
तकारो जकारलकारयोस्तौ तालव्येऽघोष उदये चकारम् ॥ ४
छकारं तयोरुदयः शकारो न शाकल्यस्य ता वशङ्गमानि । रेफोष्मणोरुदययोर्मकारोऽनुस्वारं तत्परिपत्रमाहुः ॥ ५ १
ङकारेऽघोषोष्मपरेनतरैके ककारं टकारनकारयोस्तु ।
आहुः सकारोदययोस्तकारं ञकारे शकारपरे चकारम् ॥ ६
तेऽन्तःपाता अकृतसंहितानामूष्मान्तानां पटलेऽस्मिन्विधानम् ॥ चित्कम्भनेनोष्मलोपः ककुद्मान् सत्वाट्शब्दः परिपन्नापवादः ॥ ७
विसर्जनीय आकारमरेफी घोषवत्परः ।
ओकारं ह्रस्वपूर्व स्तौ सन्धी नियतप्रश्रितौ ॥ ८
सर्वोपधस्तु स्वरघोषवत्परो रेफं रेफी तु पुना रेफसन्धयः ।
रेफोदयो लुप्यते द्राघितोपधा ह्रस्वस्या कामनियता उभाविमौ ॥ ९
अघोषे रेफ्यरेफी चोष्मणां स्पर्श उत्तरे ।
तत्सस्थानमनूष्मपरे तमेवोष्माणमूष्मिणि ॥ १० २
प्रथमोत्तमवर्गीये स्पर्शे वोष्मणि चानते ।
व्यापन्न ऊष्मसन्धिः स विक्रान्तः प्राकृतोपधः ॥ ११
ऊष्मण्यघोषोदये लुप्यते परे नतेऽपि सोऽन्वक्षरसधिर्वक्त्रः ।
अव्यापत्तिः कखषफेषु वृत्ती रेफ स्वर्धूः पूरघोषेष्वविग्रहे ॥ १२
नाक्षा इन्दुः स्वधितीवाह एव भूम्याददेऽहोभिरुषर्वसूयवः ।
आवर्तमोऽहोरात्र्याण्यदो पितो प्रचेता राजन्वर्तनीरहेति च ॥ १३
यथादिष्टं नामिपूर्वः षकारं सकारमन्योऽरिफितः ककारे ।
षकारे च प्रत्ययेऽन्तःपदं तु सर्वत्रैवोपाचरितः स सधिः । १४
अन्तःपादं विग्रहेऽकारपूर्वः पतिशब्दे द्व्यक्षरे पुंस्प्रवादे ।
करं कृतं कृधि करत्करित्यपि परेषु पादान्तगते परीति च ॥ १५ ३
असोऽन्तोऽरेफवतः पारशब्दे परि कृतानि करतीति चैषु ।
अपादान्तीयेष्वपि प्रत्ययेषु वास्तोरित्थेतत्पतिशब्द उत्तरे ॥ १६
आविर्हविर्ज्योतिरित्युत्तरश्चेत् ककारोऽथो पान्तपश्यन्तिशब्दौ ।
इळाया गा नमसो देवयुर्द्रुहो मातुरिळस्तानि पदप्रवादे ॥ १७
पूर्वं पुरः पूरिति पूर्वपद्यान् पदानि चापोद्य नवैतदेवम् ।
अस्या यः सोमो बृहतोऽस्य पूर्व्य उरुज्योतिर्जात इमो वृधोऽन्यः ॥ १८
ब्रह्मणो द्वे त्रातऋतो विदुर्वसुः पशुरेतानि कविशब्द उत्तरे ।
पथिशब्दे जिन्वथश्चेतथोमहः पृथुशब्दे विश्वतो वीळितो रज ॥ १९
कामपोषपूर्धिशब्देषु रायः पादादिरन्तश्च दिवस्परीति च ।
दिवस्पृथिव्या अधमस्पवीष्ट पूर्वं पादादौ यदि सस्पदीष्ट ॥ २० ४
शवसो महः सहस इळायाः पात्वित्येकं पुत्रशब्दे पराणि ।
रायस्खां महस्करथो महस्परं निष्क्रव्यादं निष्कथ निष्पिपर्तन ॥ २१
कबन्धं म्पृथु कण्वासः पुत्रः पातु पथा पयः ।
पायुः पृष्ठं पदं तेषां प्रवादा उदये दिवः ॥ २२
रजसस्पात्यन्तस्पथाः कस्काव्या चतुरस्कर ।
स्वादुष्किल निदस्पातु द्यौष्पितर्वसतिष्कृता ॥ २३
तपोष्पवित्रम् त्रिष्पूत्वी धीष्पीपाय विभिष्पतात् ।
द्यौष्पिता रजसस्पृष्टो ददुष्पज्राय नस्करः ॥ २४
वसुष्कुविन्मनुष्पिता पितुष्पिता पितुष्परि
प्र
नकार आकारोपधः पद्यान्तोऽपि स्वरोदयः ।
लुप्यतेऽज्राञ्जग्रसानाञ्जघन्वान्देवहुतमान् ॥ २६
बद्वधानां इन्द्र सोमांस्तृषाणान् नो देव देवान् ।
हन्त देवां इति चैता आन्यदा पदवृत्तयः ॥ २७
विवृत्त्यभिप्रायेषु च पीवोअन्नां रयिवृधः ।
दधन्वां यो जुजुर्वां यः स्ववां या तु दद्वां वेति ॥ २८
हतं योनौ वचोभिर्यान् युवन्यूंर् वनिषीष्टेति ।
ईकारोकारोपहितो रेफमेषु स्वरेषु च ॥ २९
दस्यूंरको नॄ रभि च ते स्पर्शरेफसन्धयह् ।
नास्मानुपैतावान्स्फुरान् गच्छान् देवानयाड्वहान् ॥ ३० ६
हिरण्यचक्रान्मायावान् घोषांस्तानश्विनाविद्वान् ।
पयस्वान्पुत्राना धेह्या यजीयानपतीनुरोः ॥ ३१
चरति चक्रे चमसांश्च चो चिच् चरसि च्यौत्नश्चतुरश्चिकित्वान् ।
एतेषु सर्वत्र विसर्जनीयवत् दीर्घोपधोऽस्मान् चमसान्पशून्न ॥ ३२
तांस्ते सर्वास्तान्देवांस्त्वं तांस्त्रायस्वावदंस्त्वं च ।
विसर्जनीयम् परेष्विति ते सपर्शोष्मसन्धयः ॥ ३३
नॄंः पतिभ्यो नॄंः प्रणेत्रं नॄंः पात्रं स्वतवांः पायुः ।
सन्धिर्विक्रान्त एवैष न पाहि शृणुधीति च ॥ ३४
नकारस्य लोपरेफोष्मभावे पूर्वस्तत्स्थानादनुनासिकः स्वरः ।
आदिस्वरश्चोत्तरेषां पदेऽपि मांस्पचन्या मांश्चत्वे मंश्चतोश्च ॥ ३५ ७
ईमित्यन्तलोप एषूदयेषु गर्भं गावो वत्स मृजन्ति पृच्यते ।
सखायो विव्याच पुना रिणन्ति रथमित्यन्वक्षरसन्धिरेव सः ॥ ३६
पुरु पृथ्वधि पूर्वेषु शकार उपजायते ।
ह्रस्वे च पर्वपद्यान्ते चन्द्रशब्दे परेऽन्तरा ॥ ३७
परीति पद्ये कृपरे षकारो वनेति रेफः सदशब्द उत्तरे ।
परिष्कृण्वन्ति वेधसोऽस्कृतोषसं शौद्धाक्षराः सन्धय एत उक्ताः ॥ ३८
मेधातिथौ वरुणान्तव्रतान्तौ स्पर्शन्तस्थाप्रत्ययौ निर्ह्रसेते ।
आदित्या देवा वरुणासुरेति येत्यादिषु वयमित्यत्र मित्रा ॥ ३९
या सुप्रतीकं निष्कृतम् पुरोहितिः क्षत्रं दाशति शवसा भिषज्यथः ।
सो चिन्वगस्त्ये दशमे च मण्डले सा न्वीयते सः पलिक्नीर्हिषस्तव ॥ ४०
जुगुक्षतो दुदुक्षन्गा अदुक्षत् दुक्षन् वृधेऽस्य दुक्षतानु दक्षि ।
दक्षन्न पष्पन्दक्षुषोऽभि दक्षत् कृष्णासो दक्षि हियानस्य दक्षोः ४१ ८
इति ऋग्वेदप्रातिशाख्ये चतुर्थं पटलम्
</poem>
|