"जैमिनिगृह्यसूत्रम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
==अथ जैमिनिगृह्यसूत्रम्== अथातोऽग्निं प्रणेष्य... नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः ६२:
नवेन यक्ष्यमाणः पुराणेनाग्रे यजेताग्निधन्वन्तरी प्रजापतिमिन्द्रं तिस्रश्च नवाहुतीर्नवेन यजेत शरदि व्रीहीणां वसन्ते यवानां वर्षासु श्यामाकानामैन्द्रा ग्नो वैश्वदेवो द्यावापृथिव्यश्चरव एकचरुर्वोक्ते एवोपस्तरणाभिघारणे द्विर्हविषोऽवद्यत्यथ प्राश्नीयाद्भद्रा न्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नो मयोभूः पितो आविशस्व शं तोकाय तनुवे स्योन इत्येतमु त्यं मधुना संयुतं यवं सरस्वत्या अधि मनावचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इति यवस्य प्राश्नीयादग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणीरिति श्यामाकस्य प्राश्नीयात् २४
इति जैमिनिसूत्रं पूर्वम्
== ==
श्राद्धं करिष्यन्तः स्नाताः शुचिवाससस्तिलैर्वास्त्ववकीर्य सव्यमाचरन्तोऽन्नमुपसाधयेरन्हविष्यैरुपसिच्यैवैवं दद्याद्यद्यद्दद्यात्तत्तद्धविष्यैरुपसिच्यैव हविष्या इति तिलानामाख्या दन्तधावनं स्नानीयानि पाद्यमनीय प्रथमोद्धृतं ब्राह्मणांस्त्र्यवदातानुपवेशयत्या मे गच्छन्तु पितरो भागधेयं विराजाहूताः सलिलात्समुद्रि यात् । अक्षीयमाणमुपजीवतैनन्मया प्रत्तं स्वधया मदध्वमित्युपमूललूनान्दर्भान्विष्टरान्प्रसव्यान्कृत्वा ब्राह्मणेभ्यः प्रदद्यादेतत्ते पितरासनमसौ ये च त्वात्रानु तेभ्यश्चासनमित्येवं पितामहायैवं प्रपितामहाय हविष्योदकं तिरः पवित्रं गन्धान्सुमनसश्च दद्यादन्नमवत्त्वा घृतेनाभिघार्य दर्भान्परिस्तरणीयानिति तदादायाग्नौ करिष्यामीति ब्राह्मणाननुज्ञाप्य प्राग्दक्षिणामुखोऽग्निं प्रणयित्वा त्रिर्धून्वन्प्रदक्षिणमग्निं परिस्तृणाति प्राचीनावीती त्रिः प्रसव्यं त्रिः पर्युक्षेत्प्रदक्षिणं प्राचीनावीती त्रिः प्रसव्यमौदुम्बर इध्मः परिधयो भवन्ति मेक्षणं च पवित्रं संस्कृत्यान्नमुत्पूयाग्नौ पवित्रं प्रास्य मेक्षणेन जुहोत्यग्नये कव्यवाहनाय स्वधा नमः स्वाहा सोमाय पितृमते स्वधा नमः स्वाहेति यज्ञोपवीती भूत्वाप उपस्पृश्य यमायाङ्गिरस्वते स्वाहेति मेक्षणमग्नावनुप्रहरति नमस्कारान्कृत्वा यथादैवतं त्रिः पर्युक्षेत्प्रदक्षिणं प्राचीनावीती त्रिः प्रसव्यं सव्यञ्जनमन्नं पात्रेषु वर्धयित्वामासु पक्वमिति क्षीरं घृतं वा सिञ्चत्यामासु पक्वममृतं निविष्टं मया प्रत्तं स्वधया मदध्वमिति वर्धितान्यादिशत्येतद्वः पितरो भागधेयं पात्रेषु दत्तममृतं स्वधावत् । अक्षीयमाणमुपजीवतैनन्मया प्रत्तं स्वधया मदध्वममृता वागमृता वाचो अग्ने वाचोऽमृतत्वं त्रिवृतैकधामा । एभिर्मत्प्रत्तैः स्वधया मदध्वमिहास्मभ्यं वसीयोऽस्तु देवाः अयं यज्ञः परमो यः पितॄणां पात्रदेयं पितृदैवत्यमग्ने । वाक्च मनश्च पितरो नः प्रजानीमाश्विभ्यां प्रत्तं स्वधया मदध्वम् । य इह पितरः पार्थिवासो ये अन्तरिक्ष उत ये समुद्रि याः । ये वाचमाप्त्वा अमृता बभूवुस्तेऽस्मिन्सर्वे हविषि मादयन्तामेषा व ऊर्गेषा वः स्वधा चामत्त च पिबत च मा च वः क्षेष्ट । स्वधां वहध्वममृतस्य योनिं यात्र स्वधा पितरस्तां भजध्वम् येह पितर ऊर्ग्देवता च तस्यै जीवेम शरदः शतं वयम् । ज्योतिष्मद्धत्ताजरं म आयुरित्यथैतानि ब्राह्मणेभ्य उपनिक्षिप्य स्वाङ्गुष्ठेनानुदिशत्यमुष्मै स्वधामुष्मै स्वधेति यन्मेऽप्रकामा इति भुञ्जतोऽनुमन्त्रयते यन्मेऽप्रकामा उत वा प्रकामा समृद्धे ब्राह्मणेऽब्राह्मणे वा । य स्कन्दति निरृतिं वात उग्रां येन नः प्रीयन्ते पितरो देवताश्च । वायुष्टत्सर्वं शुन्धतु तेन शुद्धेन देवता मादयन्तां तस्मिञ्छुद्धे पितरो मादयन्तामित्यक्रान्समुद्र इत्याश्वं गीत्वा संपन्नं पृष्ट्वाथाचामयेद्यज्ञोपवीती भूत्वाभिरमन्तां भवन्त इत्युक्त्वा प्रदक्षिणं कृत्वा यन्मे रामेति गच्छतोऽनुमन्त्रयते यन्मे रामा शकुनिः श्वापदश्च यन्मेऽशुचिर्मन्त्रकृतस्य प्राशत् । वैश्वानरः सविता तत्पुनातु तेन पूतेन देवता मादयन्तां तस्मिन्पूते पितरो मादयन्तामिति १
|