← अध्यायः १८ विश्वक्सेनासंहिता
अध्यायः १९
[[लेखकः :|]]
अध्यायः २० →
विश्वक्सेनासंहिता अध्यायाः


एकोनविंशोऽध्याय:
विष्वक्सेन:---
अत: परं प्रवक्ष्यामि चाङ्गन्यासादिलक्षणम्।
श्रृणु गुह्यमना भूत्वा साधकानां हिताय वै ।। 1 ।।
अङ्गन्यासक्रमं चैव मुद्राया लक्षणं तथा।
फलानि विविधान्यत्र *सर्वविद्याप्रकाशकम्*(?) ।। 2 ।।
आचार्य: प्रयतो भूत्वा प्राङ्मुखो वाप्युदङ्मुख:।
पङ्कजं वासनं बद्ध्वा स्वस्तिकं वा यथेच्छया ।। 3 ।।
पूजारम्भेऽञ्जलिं कृत्वा नमस्कृत्य यथाविधि।
उत्ताने वामहस्ताग्रे तिर्यग्दक्षिणमञ्जसा ।। 4 ।।
मण्डलाकृति संस्पृश्य(?)वामान्तमितरेण तु।
वामाङ्गुष्ठं ततो बद्ध्वा मुष्ट्योर्ध्वाङ्गुष्ठया मुने ।। 5 ।।
मुष्टिं कृत्वा गतो धाम ध्यात्वा मन्त्रं समाहित:।
संस्पृश्य हृदयं देवं त्रिमात्रे शिरसा तथा ।। 6 ।।
प्रणम्य पाणिव्यत्यासं बद्ध्वा मुद्रां तथा पुन:।
प्रविश्याञ्जलिमुद्रां तु पूजामन्त्रेण मन्त्रवित् ।। 7 ।।
नमोऽन्तं हृदयं मूर्ध्नि शिखायां कवचे तथा।
अस्त्रे नेत्रे ततो ध्यात्वा तच्चिह्नेन न्यसेद्बुध: ।। 8 ।।
मुद्राया लक्षणं चापि निरुक्तं च तत: श्रृणु।
लब्धया तु यया यस्मात् साधको देववैरिणाम् ।। 9 ।।
द्रावयीत मुदं तस्मात् मुद्रा तल्लक्षणं श्रृणु।
बद्धायास्तु बहिर्मुष्ट्या ऋजुमङ्गुष्ठमायतम् ।। 10 ।।
कृत्वातो मध्यमायां तु तन्मूलं हृदये स्पृशेत्।
आहृत्य तर्जनीं सम्यक् बद्ध्वाङ्गुष्ठेन मुष्टिकम् ।। 11 ।।
अथाङ्गुष्ठललाटान्ते *शिखोर्ध्वमहतीं तथा*(?)।
बृहदग्रद्वयेनैव क्षुद्रमुद्रस्य(?) बन्धनम् ।। 12 ।।
हस्ताभ्यामूर्ध्वमायम्य कृत्वा चानाभिमण्डलम्।
कवचस्य धिया न्यस्य कवचस्य तु मुद्रिका ।। 13 ।।
अपराऽस्त्रस्य मुद्रैषा कथ्यते दक्षिणाग्रकम्।
मुष्टिं बद्ध्वा ततस्तर्जन्यग्रमङ्गुष्ठरेखया ।। 14 ।।
स्पृष्ट्वा स्फोटमुदक्षेप: पूर्वादि दशदिक्ष्वपि।
कनिष्ठानामिके बद्ध्वा नहता तलमध्यगे ।। 15 ।।
तर्जनीमध्यमाग्राभ्यां नेत्रयोर्नेत्रमुद्रिका।
मध्यमुत्थापितं कृत्वा हस्तं संकोच्य यत्नत: ।। 16 ।।
कनीयसं तु संहृत्य शेषयोरुभयोरपि।
*अथो वक्त्रमुखां शेषाङ्गुलिना वामकेन तु*(?)।। 17 ।।
करेण दक्षिणं स्पृष्?ट्वा भ्रामयेद्दीपमुद्रिका।
ललाटे हृदि वा सम्यक् संपुटोऽञ्जलिरूर्ध्वग: ।। 18 ।।
नाम्ना मुद्रेयं विज्ञेया प्रणामेऽञ्जलिमुद्रिका।
उक्तानामिह वान्येष्वप्यनुक्तानां प्रयत्नत: ।। 19 ।।
प्रदर्शनेऽप्यशक्त: सन् अञ्जलिं तु प्रदर्शयेत्।
अञ्जलिर्नाम मुद्रेयं सर्वमुद्रामया प्रिया ।। 20 ।।
विष्णो: प्रणाममुद्रैषा सर्वकामान् प्रदापयेत्।
एताभिर्न्यस्तसर्वाङ्गो जपहोमादिकान् मुने ।। 21 ।।
य: करोति स्वरक्षां च दीर्घमायुर्यशस्करम्।
सुखमैश्वर्यबलतां कल्प्यतां च लभेत्‌ पराम् ।। 22 ।।
विद्या हि विविधां श्रेष्ठां भुक्तिमुक्तिस्तथैव च।
राष्ट्रो यस्योदितानां तु विद्यानामेकया मुने ।। 23 ।।
मूर्तिमन्त्रप्रकारेण साधक: सकृदर्चयेत्।
तस्य सर्वमभिप्रायं सिद्ध्यत्येव न संशय: ।। 24 ।।
अनावृष्टिभयं नास्ति अतिवृष्टिभयं तथा।
व्याधिदुर्भिक्षचोरादि पीडाकालमृतिस्तथा ।। 25 ।।
बहुनात्र प्रलापेन किं सर्वान् साधयिष्यति।
यद्यत् कामयते स्वस्य समृद्धं पुरुषो भुवि ।। 26 ।।
तत्तदेव लभेत् सम्यक् हरेस्तस्य निवेदयेत्।
साधकश्चापि वा भक्त्या प्रयत: सम्यगर्चयेत् ।। 27 ।।
तत्तत्सर्वं लभेदेवं मृष्टान्नं नात्र संशय:।
नृपो वा नृपमात्रो वा वेदमन्त्रैस्तथा मुने ।। 28 ।।
मूर्तिमन्त्रैरशक्तो वा स्वद्रव्यैरर्चनादिकान्।
कारयीत मुनिश्रेष्ठ साधकेन यथाविधि ।। 29 ।।
सफलं सुकृतं प्राप्य विष्णुसारूप्यमृच्छति।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [अङ्गन्यासादि-
विधिर्नाम] एकोनविंशोऽध्याय:।