← अध्यायः १९ विश्वामित्रसंहिता
अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →
विश्वामित्रसंहितायाः अध्यायाः

विंशोऽध्याय:
विश्वामित्र:---
कृत्वा वृत्रस्य निध(हन ?)नं देवेन्द्रो ब्रह्महत्यया ।
अभिभूत: परिभ्रष्ट: पदात् स्वस्मात् सह श्रिया ।। 20.1 ।।
आराध्य जगतामीशं नारायणमनन्यधी: ।
सहस्त्रकलशस्त्रानविधिना स्वपदं पुन: ।। 20.2 ।।
लब्घवाँस्तद्विजश्रेष्ठ विधानं कथयाम्यहम् ।
अन्येऽपि बहवो देवं समाराध्य श्रिय: पतिम् ।। 20.3 ।।
अनेन विधिना कामान् दुर्लभापपि लेभिरे ।
एकार्धिकै: सहस्त्रेस्तु कलशैरभिषेचनम् ।। 20.4 ।।
संप्रीणनं भगवत: सर्वपापानोदनम् ।
जयप्रदं पुष्टिकरं पुत्रसंपत्प्रदायकम् ।। 20.5 ।।
आयासेन चतु:पष्टिहस्तयुक्तं द्विजोत्तम ।
तदर्धेन तु विस्तीर्णं मण्डपं कल्पयेन्मुने ।। 20.6 ।।
द्वारतोरणकुम्भादिप्रक्लृप्ति: पूर्ववद् भवेत् ।
प्रतिष्ठोक्तप्रकारेण मङ्गलाङ्कुररोपणम् ।। 20.7 ।।
बध्वा च कौतुकं शय्यां कृत्वा तत्राधिवासयेत् ।
कलशास्पदभूभागं पञ्चविंशतिभेदत: ।। 20.8 ।।
विभजेत् सूत्रपातेन ब्रह्मसथाने तु मध्यमे ।
एकोत्तराशीतिघटस्थानं संकल्पयेत्तत: ।। 20.9 ।।
तद्ब्राह्यये दैविके भागे दिक्ष्वष्टसु पृथक् पृथक् ।
दशा सप्तोत्तरान् कुम्भान् स्थापयित्वा विचक्षण: ।। 20.10 ।।
बाह्मे तु मानुषे भागे कृते षोडश वा पुन: ।
घटानेकोनपञ्चाशत् प्रतिभागं निवेशयेत् ।। 20.11 ।।
वीथी: प्रकल्पयेदेतदनुकूलं विचक्षण: ।
मध्यमे ब्रह्मभागे तु मध्यमे नवके द्विज ।। 20.12 ।।
घृतोष्णेदकरत्नाम्भ: फललोहाम्बुमार्जनम् ।
गन्धाक्षतयवाम्बूनि विन्यस्य तदनन्तरम् ।। 20.13 ।।
नवकेष्वष्टसु प्राच्यादीशानान्तेषु च क्रमात् ।
पाद्यार्ध्याचमनीरयानि पञ्चगव्यं चतुर्दिशम् ।। 20.14 ।।
मध्यकुम्भेषु विन्यस्य कोणेषु च पयो दधि ।
क्षौद्रं कषायं क्रमशो मध्यकुम्भेषु विन्यसेत् ।। 20.15 ।।
शोषान् कुम्भाँश्चतु: षष्टि शुद्धाम्भोभि: प्रपूरयेत् ।
ऐन्द्रादिसप्तदशके चतुष्के मध्यमे घटे ।। 20.16 ।।
मलयोदभवकाशीरकर्पूरोशीरकर्दमम् ।
कोणस्थसप्तदशके चतुष्के विन्यसेत् क्रमात् ।। 20.17 ।।
तिलामलकसिद्धार्थतैलानि घनसारजम् ।
तैनं च शेषान् कलशानष्टाविंशच्छतं बुध: ।। 20.18 ।।
पूरयेच्छुद्धपयसा चन्दनाद्यविदैवतम् ।
पुरुषं सत्यमौपेन्द्रं नरनारायणावपि ।। 20.19 ।।
अच्युतं चानिरुद्धं च हरिकृष्णौ क्रमाद्यजेत् ।
मानुष्यैकोनपञ्चाशद्घटपुञ्चेषु मध्यमे ।। 20.20 ।।
ऐन्द्रादिषु चतुष्कस्थं गुळ(ड ?)मिक्षुरसं तथा ।
नालिकेरजलं शान्तिवारि कुम्भे तु विन्यसेत् ।। 20.21 ।।
वारहो नारासिंहश्च श्रीघरो हयशीर्षक: ।
गुळा(डा ?)दीनां क्रमादेतानघिदेवान् समभाजयेत् ।। 20.22 ।।
चतुर्षु कोणकुम्भेषु मङ्गलाम्भ: प्रपूरयेत् ।
तत्रैव वासुदेवाद्या मूर्तयस्तेषु देवता: ।। 20.23 ।।
इन्द्रग्रिमध्यभागेषु कुम्भासंघेषु च क्रमात् ।
हिमतोयं तिलाम्भश्च तण्डुलं तिलजं जलम् ।। 20.24 ।।
वृष्ठितोयं कुशाम्भाश्च तुलस्यम्भ: समुद्रजम् ।
क्रमशो विन्यसेन्मध्यकुम्भेषु द्विजसत्तम ।। 20.25 ।।
केशवं माघवं चैव गोविन्दं विष्णुमेव च ।
मधुसूदनं वानं व पह्मनाभमनन्तरम् ।। 20.26 ।।
दामोदरमिमान् देवान् कुम्भेष्वष्टसु पूजयेत् ।
शेषान् सप्तदश(शता?)न् षष्टिकुम्भानष्टाधिकान् द्विज ।। 20.27 ।।
गालितैर्गन्धसंयुक्तै: शुद्धाम्भोभि: प्रपूरयेत् ।
ब्राह्मे मध्यस्थनवके श्रीवत्सं वनमालया(लिकाम्?) ।। 20.28 ।।
शङ्गं चक्रं गदां पह्मं खङ्गं शार्ङ्गं श्रियं तथा ।
द्रर्व्यैर्हेमादिभि: कृत्वा क्रमान्निक्षिप्य तेष्वपि ।। 20.29 ।।
एतानेव यजेत्तेषु कम्भेषु द्विजपुंगव ।
ऐन्द्रादिमध्यमान्तं तु कुम्भानामुद्धृतिभर्पवेत् ।। 20.30 ।।
सहस्त्रकलशस्नाने देशिको वृष्णुयाद्ब्रहून् ।
चतुरो द्विगुणान् वापि ऋत्विजो द्विगुणाँस्तथा ।। 20.31 ।।
पुण्याहवाचनं पूर्वं कृत्वान्वगधिदेवता: ।
इष्टवा पञ्चोपनिषदै: सहस्त्रं सर्पिषाहुती: ।। 20.32 ।।
मूलमन्त्रेण शान्त्यर्थं सभिदाद्यैर्हुने(?)त्तत: ।
पूर्वोक्तेन क्रमेणैव कलशानधिवास्य च ।। 20.33 ।।

( 199 )*b