विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ००१-००५

विष्णुधर्मोत्तरपुराणम्
अध्यायाः १-५
वेदव्यासः
अध्यायाः ६-१० →

ॐ श्रीगणेशाय नमः ।।

।। ॐनमो नारायणाय ।।

।। अथ श्रीविष्णुमहापुराणे विष्णुधर्मोत्तरतृतीयखण्डप्रारम्भः ।।

।। वज्र उवाच ।।
किं कर्तव्यं मनुष्येण किं कुर्वन्सुखमेधते ।।
अस्मिँल्लोके परे चैव केनाप्नोति महत्सुखम् ।। १ ।।
मार्कण्डेय उवाच ।। ।।
अन्तर्वेदि बहिर्वेदि पुरुषेण विजानता ।।
देवतापूजनं कार्यं लोकद्वयमभीप्सता ।। २ ।।
यज्ञेषु देवयजनमन्तर्वेदि प्रकीर्तितम् ।।
बहिर्वेदि तथैवोक्तमुपवासव्रतादिकम् ।।
इष्टापूर्तेन लभ्यन्ते ये लोकास्तान्बुभूषता ।। ३ ।।
देवानामालयः कार्यो द्वयमप्यत्र दृश्यते ।।
विशेषेण कलौ काले कर्तव्यं देवतागृहम् ।। ४ ।।
कृतत्रेताद्वापरेषु नराः पश्यन्ति देवताम् ।।
तिष्यं प्राप्य न पश्यन्ति पूजास्त्वर्चागता यतः ।। ५ ।।
कृतादिष्वपि दृष्ट्वा च देवान्मनुजसत्तम ।।
अर्चागतविशेषेण पूजयन्ति विधानतः ।। ६ ।।
चित्रसूत्रविधानेन देवतार्चां विनिर्मिताम् ।।
सुरूपां पूजयेद्विद्वांस्तत्र संनिहिता भवेत् ।। ७।।
स्वाकारां लक्षणोपेतां यस्तां संपूजयेन्नरः ।।
स सर्वकामानाप्नोति नात्र कार्या विचारणा ।।
अस्मिँल्लोके परे चैव सुखवान्स भवेत्सदा ।। ८ ।।
अथार्चां लक्षणैर्हीनां यस्तु पूजयते नरः ।।
तस्यानर्था विवर्धन्ते तस्मात्तां च विवर्जयेत् ।। ९ ।।
प्रासादकरणं पुण्यं देवार्चाकरणं तथा ।।
सुरार्चापूजनं पुण्यं तत्र पुण्या नमस्क्रिया ।। 3.1.१० ।।
तस्मात्सर्वप्रत्नेन सुरार्चां लक्षणान्विताम् ।।
कारयेत्पूजनं विद्वान्न त्वलक्षणसंयुताम् ।।११ ।।
धर्ममर्थं तथा कामं मोक्षं च यदुनन्दन ।।
प्रयच्छन्ति महाराज नराणामिह देवताः ।। १२ ।।
कामानिष्टान्प्रयच्छन्ति स्वर्गमत्यन्तमेव च ।।
तस्मात्सर्वप्रयत्नेन नृणां पूज्या दिवौकसः ।। १३ ।।
नित्यं नराणां सुरपूजकानां लोका मनोज्ञाः सुलभा भवन्ति ।।
लोके तथास्मिन्धनधान्ययुक्ताः समृद्धिभाजश्च नरा भवन्ति ।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चित्रसूत्रे प्रथमोऽध्यायः ।।१।।
3.2
वज्र उवाच ।।
देवतारूपनिर्माणं कथयस्व ममानघ ।।
यस्मात्सन्निहिता नित्यं शास्त्रवत्साकृतिर्भवेत्।।१।।
मार्कण्डेय उवाच।।
चित्रसूत्रं न जानाति यस्तु सम्यङ् नराधिप ।।
प्रतिमालक्षणं वेत्तुं न शक्यन्तेन कर्हिचित् ।। २ ।।
वज्र उवाच ।।
चित्रसूत्रं समाचक्ष्व भृगुवंश विवर्धन ।।
चित्रसूत्रविदेवाथ वेत्ति वाग्लक्षणं यतः ।।
मार्कण्डेय उवाच।।
विना तु नृत्यशास्त्रेण चित्रसूत्रं सुदुर्विदम्।।३।।
जगतो न क्रिया कार्या द्वयोरपि यतो नृप ।।
वज्र उवाच ।।
नृत्यशास्त्रं समाचक्ष्व चित्रसूत्रं वदिष्यसि।।
नृत्यशास्त्रविधानं च चित्रं वेत्ति यतो द्विज।।४।।
मार्कण्डेय उवाच।।
आतोद्यं यो न जानाति तस्य वृत्तं हि दुर्विदम् ।।
आतोद्येन विना नृत्तं विद्यते न कथंचन ।। ५ ।।
वज्र उवाच ।।
आतोद्यं त्वं हि धर्मज्ञ नृत्यशास्त्रं वदिष्यसि ।।
तस्मिन्सुविदिते वेत्ति नृत्यं भार्गवसत्तम।।६।।
मार्कण्डेय उवाच ।।
न गीतेन विना शक्यं ज्ञातुमातोद्यमप्युत ।।
गीतशास्त्रविधानज्ञः सर्वं वेत्ति यथाविधि ।। ७ ।।
वज्र उवाच ।।
गीतशास्त्रं समाचक्ष्व सर्वधर्मभृतां वर ।।
गीतशास्त्रविदेवाथ सर्वज्ञः पुरुषोत्तमः ।।८ ।।
मार्कण्डेय उवाच ।।
संस्कृतं प्राकृतं चैव गीतं द्विविधमुच्यते ।।
अपभ्रष्टं तृतीयं च तदनन्तं नराधिप ।। ९ ।।
देशभाषाविशेषेण तस्यान्तो नेह विद्यते ।।
गीतं पाठवशाज्ज्ञेयं स च पाठो द्विधा मतः।।3.2.१०।।
गद्यं पद्यं च धर्मज्ञ गद्यं सकथया स्मृतम् ।।
पद्यं छन्दोविशेषेण च्छन्दश्च बहुधा भवेत् ।।११ ।।
गद्यपद्यानुभावेन ज्ञेयौ लक्षणसंयुतौ ।।
पद्यं च द्विविधं तत्र सुवृत्रमतिमुक्तकम्।। १२ ।।
एकविंशतिसंख्याः स्युः सुपः सुप्तिङ्परं स्मृतम् ।।
प्रथमः पुरुषस्त्वेको द्वितीयो मध्यमो मतः ।। १३ ।।
उत्तमाख्यस्तृतीयस्तु तत्क्रियावचनं त्रिकम् ।।
तिङश्च नवकं तत्र परस्मैपदसंज्ञकम् ।। ।। १४ ।।
आत्मनेपदसंज्ञं च नवकं परिकीर्तितम् ।।
युष्मद्युपपदे तत्र मध्यमः पुरुषो भवेत् ।। १५ ।।
अस्मद्युपपदे चैव स्यात्तथोत्तमसंजकः ।।
शेषे प्रथममिच्छन्ति पुरुषं यदुसत्तम ।।१६।।
अर्थे प्रातिपदिकस्य स्वादौ वचनमन्त्रणे ।।
परिमाणे च कथिता विभक्तिः प्रथमा बुधैः ।। १७ ।।
द्वितीया कर्मणि मता तृतीया करणे स्मृता ।।
कारके कमर्णि तथा सैव चान्यैः प्रकीर्तिता ।। १८ ।।
चतुर्थी संप्रदाने स्यादपादाने च पञ्चमी ।।
संबन्धे च तथा षष्ठी सप्तम्याधारभावयोः ।।१९।।
तेषां तु पूर्वमेवोक्तं व्याख्यानं रिपुसूदन।।
द्वितीयं तव धर्मज्ञ मया तत्परिकीर्तितम्।।3.2.२०।।
प्रातिपदिकमिह स्वं प्रकृतिः स्यात्तत्प्रकृतिमपि धातुमिच्छन्ति ।।
वाङ्मयमखिलमनेन निबद्धं गद्यमपि यदथ पद्यसमेतम् ।।२१ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शब्दाध्यायो नाम द्वितीयोऽध्यायः ।। २ ।।
3.3
मार्कण्डेय उवाच ।।
षडक्षरेण पादेन गायत्रं छन्द उच्यते ।।
उष्णिक् सप्ताक्षरं चैव अष्टाक्षरमनुष्टुभम् ।। १।।
नवाक्षरा च बृहती पंक्तिसंज्ञं दशाक्षरम् ।।
एकादशाक्षरं त्रिष्टुब्जगती द्वादशाक्षरम्।।२।।
त्रयोदशाक्षरं ज्ञेयमतिपूर्वं तथैव हि ।।
चतुर्दशाक्षरा चैव शक्वरी यदुनन्दन।।३।।
अतिशक्वरी च कथिता तथा पञ्चदशाक्षरा ।।
षोडशाक्षरमिच्छन्ति च्छन्दोऽष्टिरिति यत्स्मृतम्।।४।।
अत्यष्टिसंज्ञं छन्दश्च तथा सप्तदशाक्षरम्।।
अष्टादशाक्षरं चैव वृत्तिसंज्ञं प्रकीर्तितम् ।। ५ ।।
तथातिवृत्तिसंज्ञं च विंशति स्त्वेकवर्जिता।।
विंशतिश्चाक्षराणि स्युः कृतिसंज्ञं यदूत्तम।।६।।
विंशतिस्त्वेकसंयुक्ता प्रकृतिः परिकीर्तिता।।
द्वाविंशतिश्च कथितं तथैवाकृतिसंज्ञकम ।।७।।
त्रयोविंशतिश्च विकृतिः सा चैकात्संकृतिर्मता ।।
संकृतिश्चैकसंयुक्ता कथिता विकृतिर्नृप ।।८।।
षड्विंशतिश्चातिकृतिश्छन्दश्चोक्तं मनीषिभिः ।।
यथायथं चतुर्भिः स्वैः पादैरेतानि निर्दिशेत् ।। ९ ।।
मात्रकस्तु लघुर्वर्णः स्पष्टलेखाभिचिह्नितः ।।
संस्थाप्यः स्याद्द्विमात्रस्तु गुरुर्वक्रस्तथा भवेत् ।। 3.3.१० ।।
लघुश्चान्त्यश्च यो वर्णः स गुरुश्च भवेन्नृप ।।
दीर्घप्लुतौ च कथितौ तथैव गुरुसंज्ञकौ ।।११ ।।
संयोगाद्याः परे यस्मात्स लघुश्च गुरुः स्मृतः ।।
लघुगुरुविभागेन प्रस्तारोनेन यादव ।। १२ ।।
सर्वे छन्दोविकल्पाश्च भवन्ति बहुशो नृप ।।
स्याद्यथानयनं तेषां तथा वक्ष्यामि तच्छृणु ।। १३ ।।
यावत्संख्याक्षरं च्छंदस्तावन्तो गुरुवो नृप ।।
स्थाप्या अधश्च पूर्वाणां लघु पूर्वस्य विन्यसेत् ।। १४ ।।
अतोऽन्येषु त्ववस्थाप्यं नृपमुख्य यथास्थितम् ।।
एवमेव विधिं कुर्यादादिश्च गुरुभिः पुनः ।। १५ ।।
पूरयेदक्षरैस्तावत्कुर्यादेतं नृपोत्तम ।।
यावदक्षरसंख्या स्युः सर्वे हि लघवो नृप ।। १६ ।।
एतत्स्यादक्षरैच्छन्दो मात्राश्छन्दास्तथैव हि ।।
उक्तवर्णाक्षरं छन्दो भवेदेकविवर्जितः ।। १७ ।।
यदा तदा निवृत्संज्ञो ह्यधिकेन तमत्तथा ।।
वर्णद्वयेन रहितं विराडिति हि शब्दितम् ।। १८ ।।
अधिकं च सुरासंज्ञं कथितं यदुसत्तम ।।
तेभ्यो भवन्ति सर्वाणि मात्राच्छन्दांसि यादव ।। १९ ।।
दिङ्मात्रमेतत्कथितं नरेन्द्र विस्तारजिज्ञासुरतो मनुष्यः ।।
संसाधयेत्तत्स्वधिया यथावत्सुदुस्तरं विस्तरशो हि वक्तुम् ।। 3.3.२० ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे छन्दोविधिर्नाम तृतीयोऽध्यायः ।। ३ ।।
3.4
मार्कण्डेय उवाच ।।
तत्राज्ञायुक्तमद्वैधं दीप्तं गम्भीरशब्दवत् ।।
क्वचिन्निरुक्तसंयुक्तं वाक्यमेतत्स्वयंभुवः ।। १ ।।
यत्किंचिन्मिश्रसंयुक्तं युक्तं नाम विभक्तिभिः ।।
प्रत्यक्षाभिहितं यच्च तादृशीनां वचः स्मृतम् ।। २ ।।
नैगमैर्विविधैः शब्दैर्निपातं बहुलं च यत् ।।
न चापि सुमहद्वाक्यमृचीकानां वचः स्मृतम् ।। ३ ।।
अविस्पष्टपदं ज्ञेयमृषिपुत्रवचो नृप ।।
भूतभव्यभवज्ञानं जन्मदुःखविकुत्सनम् ।। ४ ।।
मित्राणां तद्भवेद्वाक्यं गर्भेषु च प्रवर्तनम् ।।
आज्ञायुक्तं च वचनं तथा हेतुविवर्जितम् ।। ५ ।।
राजर्षीणां तु विज्ञेयं बह्वर्थं बहुविस्तरम् ।।
बह्वभिधानं बह्वर्थे देवतानां प्रकीर्तितम् ।। ६ ।।
बह्वभिधानमल्पार्थं दानवानां प्रकीर्तितम् ।।
अल्पाभिधानमल्पार्थं गन्धर्वाणां तथा भवेत् ।। ७ ।।
दुर्बोधं विषमं चैव राक्षसानां प्रकीर्तितम् ।।
गूढाक्षरं तु यक्षाणां किन्नरैरुक्तवत्तथा ।। ८ ।।
नागानामतिविस्पष्टं पुनरुक्तसमन्वितम् ।।
रागद्वेषसमायुक्तं हेतुमत्पौरुषं भवेत् ।।९।।
मन्त्रा नवविधाः प्रोक्ताः ऋग्यजुःसामलक्षणाः ।।
स्तुतिर्निन्दा प्रशंसा च आक्रोशः प्रेष्य एव च ।। 3.4.१० ।।
प्रश्नोऽनुज्ञा तथाख्यानमाशास्तिर्विषया मताः ।।
एवं ते सर्वविद्यानां विहितं सर्वलक्षणम् ।।।।।।
पौरुषे विद्यते तच्च नान्यत्रेति विनिश्चयः ।।
स्वभावान्न च्यवन्त्येव ये प्रोक्ता नरवर्जिंताः ।। १२ ।।
दृश्यते हि पुमान्कश्चित्कश्चिच्छ्रेष्ठतमो धिया ।।
तस्मात्तत्रैव तस्योक्ता बुद्धिः श्रेष्ठतमा नृप ।। १३ ।।
एतन्मयोक्तं सुपरीक्षणं ते वाक्यस्य भो वाक्यविदां वरिष्ठ ।।
विचक्षणैरत्र च रागतस्तु ज्ञेयं तथा द्वेषसमागमाच्च ।। १४ ।।
दिव्येन तुल्यं यदि वार्षवाक्यं वाक्येन तुल्यं यदि वा परेण।।
वाक्यं नराणां नृपरागतस्तु ज्ञेयं यथाद्वेषसमांगमत्वात्।।१५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वाक्यपरीक्षाध्यायो नाम चतुर्थोऽध्यायः ।। ४ ।।
3.5
अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम ।।
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ।। १ ।।
उत्सर्गेणापवादेन द्विविधं तत्प्रकीर्तितम् ।।
सूत्रं व्युदासश्च तथा तथोदाहरणं नृप ।।२।।
प्रत्युदाहरणं चैव चतुरङ्गं प्रकीर्तितम् ।।
वाक्यं चैवार्थवाक्यार्थं पदार्थः पदमेव च ।। ३ ।।
चतुरङ्गमिदं चेति तथैवान्यत्प्रकीर्तितम ।।
प्रतिज्ञा हेतुदृष्टान्तावुपसंहार एव च ।। ४ ।।
तथा निगमनं चैव पञ्चावयवमिष्यते ।।
आरम्भोऽथापि संबन्धः सूत्रार्थस्तद्विशेषणम् ।। ५ ।।
चोदना परिहारश्च व्याख्या सूत्रस्य षड्विधा ।।
सूत्रेष्वेव हि तत्सर्वं यद्धृतं समुदाहृतम्।।६।।
विस्तरोक्तं मतिं हन्ति समासोक्तं न गृह्यते।।
समासविस्तरौ हित्वा वक्तव्यं यद्विवक्षितम् ।।७।।
अपार्थं व्याहतं चैव पुनरुक्तं तथैव च ।।
तथा विभिन्न संस्थानं युक्तिहीनं विवर्जयेत् ।।८।।
क्रमभेदो विभक्तश्च गुरुसूत्रं तथैव च ।।
अभिधानस्य चान्यत्वं नैतानि स्युरकारणात् ।।९।।
सर्वं कृत्वा पदच्छेदं समासं तदनन्तरम् ।।
समासे तु कृते पश्चादर्थं ब्रूयाद्विचक्षणः ।। 3.5.१० ।।
सूत्रार्थश्च पदार्थश्च हेतुश्च क्रमशस्तथा ।।
निरुक्तमथ विन्यासो व्याख्या योगस्य षड्विधा।। ११ ।।
प्रत्यक्षमनुमानं च तथाप्तवचनं भवेत् ।।
त्रिभिः प्रमाणैः संयुक्तैस्तन्त्री प्रामाण्यमर्हति ।। १२ ।।
प्रत्यक्षाभासमप्युक्तं तथा वै मृगतृष्णिका ।।
आभासमनुमानस्य वाष्परेणुचयौ यथा ।। १३ ।।
धूमशंकाञ्जनयतो न च वह्न्युपलब्धये ।।
आप्तत्वं दर्शयित्वा तु यदनाप्तेन भाषितम् ।। १४।।
तदाप्तवचनाभासं वदन्ति नृपसत्तम ।।
रागद्वेषविनिर्मुक्त आप्त इत्यभिधीयते ।। १५ ।।
नैरुक्तं द्विविधं विद्धि सिद्धमौत्पातिकं तथा ।।
निर्वक्तव्यं तु तत्सिद्धमर्थसिद्धिस्तु सर्वदा।।१६।।
तत्र त्वौत्पत्तिकं सर्वं गौरश्वः पुरुषो यथा ।।
दशधा तु गणोद्गीतं तद्वक्ष्यामि यथागतम् ।।१७।।
गणो नैमित्तिकोभ्यक्तः संवादः कार्त्तिकस्तथा ।।
उपचारश्च सम्बन्धः गौणिको यौगिकस्तथा।।१८।।
गुणात्तु गौणं पश्यामो महदित्येव मादयः ।।
निमित्ततस्तु नैमित्तं खण्डमुण्डादिकं यथा।।१९।।
भक्त्या भक्तं नृसिंहास्यादमातरि च मातृवत् ।।
समं वदन्ति यस्मिँश्च संवादश्चित्वरी यथा ।।3.5.२० ।।
कार्तकः स्यात्तु कृतको देववत्तादिको यथा ।।
उपचारस्तूपचारात्तैलपाशं तुला यथा।।२१।।
संबन्धतस्तु साबन्धश्छत्री मीमांसको यथा ।।
संयोगादपि संयोगः क्रियायाः क्रयिकः स्मृतः।।२२।।
 पटकृल्लगुडच्छेद्यो ज्ञेयः शाकटिकस्तथा ।।
एवं परेषां च परं स्यान्नैगमनिचण्वकम् ।। ।। २३ ।।
सुखार्थो न प्रसिद्धश्चेत्साधनानां विधिं शृणु ।।
यद्विपन्नं तु दृश्येत तत्साध्यं साधनैरिमैः ।। २४ ।।
आत्मेन्द्रियमनोर्थानां संयोग उपदिश्यते ।।
ज्ञानदेशादिसंविष्टं प्रत्यक्षमिति तद्भवेत् ।। २५ ।।
बुद्ध्या शरीरभूतात्मा यश्च युक्तोऽनुमीयते ।।
सोग्निर्धूमाद्यथा विद्यादनुमानं तदिष्यते ।। २६ ।।
वेदविद्याविरुद्धं यत्सा स्मृतिः शिष्टसंमता ।।
अप्रत्यक्षफलं विद्यात्साधनं शास्त्रसंज्ञितम् ।। २७ ।।
द्वयोः सदृशयोरेकं निर्दिष्टं साधयेत्परम् ।।
गवयादिव गोः सिद्धिरुपमानं तदिष्यते ।। २८ ।।
साध्योर्थश्चेदतत्कार्यो वाक्ये यस्मिन्प्रकल्प्यते ।।
सार्थापत्तिर्दिवा भुङ्क्ते देवरात इतीति यत् ।। २९ ।।
निपातनाद्योगविभागदर्शनाद्गुरूपदेशादनुवार्तिकादपि ।।
स्वतन्त्रसिद्धेः परतन्त्रदर्शनात्प्रसाधयेल्लक्षणतश्च षड्विधम् ।।3.5.३० ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तन्त्रगुणदोषवर्णनो नाम पञ्चमोऽध्यायः ।। ५ ।।