विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २८१-२८५

← अध्यायाः २७६-२८० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २८१-२८५
वेदव्यासः
अध्यायाः २८६-२९० →

3.281
हंस उवाच ।।
विषयेभ्यः प्रवृत्तस्य चेतसो विनिवर्तनम् ।।
प्रत्याहारं विनिर्दिष्टं परमन्तत्तपः स्मृतम् ।।१।।
अत्यन्तचञ्चलं चित्तं तस्य संयमनं द्विजाः ।।
प्रत्याहारेण कर्तव्यं पुरुषेण विपश्चिता ।।२।।
प्रत्याहृत्य नरश्चेतः कामेभ्यो द्विजसत्तमाः ।।
कामानां भाजनं लोके मोक्षस्य च तथा भवेत् ।।३।।
विहाय कामान्यः सर्वान्पुमाँश्चरति निस्पृहः।।
निर्ममो निरहंकारः स शान्तिमधिगच्छति ।।४।।
प्रत्याहारं यथा कुर्यात्कामेभ्यश्चेतसो नरः ।।
यथाकाममवाप्नोति मोक्षोपायं च विन्दति।।५।।
चञ्चलं हि मनो विप्राः प्रमाथि बलवद्दृढम् ।।
तस्य यत्नं समास्थाय कर्तव्यो निग्रहो बुधैः।।६।।
यावन्न चेत आयाति वैराग्यं परमं नरः।।
तावन्न शक्तो भवति प्रत्याहारस्य वै द्विजाः ।।७।।
जन्ममृत्युजराव्याधिदुःखशोकार्दितं जगत् ।।
पश्यन्खिन्नस्तदा विप्रा वैराग्यात्सिद्धिमाप्नुयात् ।। ८ ।।
अनित्यतां तथा पश्यञ्जगतोऽस्य पुनःपुनः।।
वैराग्यभावमास्थाय ततः सिद्धिमवाप्नुयात्।।९।।
देवतानामृषीणां च राज्ञां भूतगणस्य च।।
दृष्ट्वा क्षयं महाभागा विरक्तो विप्रमुच्यते।।3.281.१०।।
गर्भवासे महद्दुःखं नरके च पुनःपुनः।।
तिर्यग्योनौ च मानुष्ये तिर्यक्कामो विमुच्यते ।।११।।
दिवसेदिवसे खिन्नो परान्नेषु च यो द्विजाः ।।
वैराग्यमाप्नोति तथा खिन्नो मूत्रपुरीषयोः।।१२।।
दुःखानां तु प्रतीघाते सुखमित्येव भाविते ।।
दुःखेभ्यः स्वल्पकालेन यः खिन्नः स विरज्यते ।। १३ ।।
विरागमास्थाय ततः प्रत्याहारमतन्द्रितः ।।
कामेभ्यश्चेतसः कुर्यात्तेन सर्वं समश्नुते ।।१४।।
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु प्रत्याहारवर्णनो नामैकाशीत्युत्तरद्विशततमोऽध्यायः ।। २८१।।
3.282
।। हंस उवाच ।। ।।
एकत्र समवस्थानं बाह्ये द्रव्ये तु चेतसः ।।
धारणा सा विनिर्दिष्टा मनसो बन्धकारिका ।। १ ।।
सा कार्या देवतार्चायां यत्रास्य स्यात्स्थिरा मतिः ।।
एकत्र लब्ध्वा लक्ष्यं तु मनसश्चञ्चलस्य तु ।। २ ।।
तुर्यन्निवारणं यत्नान्मनोऽनुग्रहकारणात् ।।
अथ वा लक्ष्यबन्धन्तु भुवि कार्यं विजानता ।। ३ ।।
लब्धलक्षस्तु भूयोगे महीयोगं समुत्सृजेत् ।।
लब्धलक्ष्यो नरः कुर्यान्नरास्तेजसि सत्तमाः ।। ४ ।।
समुत्सृज्य ततो वायौ ततो नभसि कारयेत् ।।
क्रमशस्त्वेवमारुह्य लक्ष्यं लक्ष्यतया नरः ।। ५ ।।
बाह्येषु धारणां कृत्वा मनसः सिद्धिमश्नुते ।।
मनसश्चञ्चलस्यास्य यावद्बन्धनधारणा ।।६ ।।
तावद्ध्यानमथारूढं न शक्यं केनचिद्द्विजाः ।।
धारणां निश्चलां प्राप्य ततो ध्यानमवाप्नुयात् ।। ७ ।।
शरीरं विजहात्येनं यत्र बद्धा तु धारणा ।।
प्राप्नोति तन्मयीभावं नात्र कार्या विचारणा ।। ८ ।।
संप्राप्य धारणां मुक्त्वा शरीरं मनुजोत्तमः ।।
कालान्मोक्षमवाप्नोति ध्यानाच्छीघ्रमिति स्थितिः ।। ९ ।।
प्राप्तस्तु यन्मयीभावं धारणास्थः पुमांस्ततः ।।
स यदा पुरुषं याति तदा स प्रतिपद्यते ।। 3.282.१० ।।
ध्रुवे मोक्षमवाप्नोति धारणां प्राप्य मानवः ।।
किन्तु कालेन महता ध्यानाच्छीघ्रमिति स्थितिः ।। ११ ।।
सर्वलोके तथा ज्ञेया बाह्यद्रव्यविनाशनाः ।।
तेषान्तु धारणा कार्या मनोग्रहणकारणम् ।। १२ ।।
संप्राप्य मनसो बन्धं निश्चलं पुरुषोत्तमः ।।
धारणायोगतस्तस्माद्ध्रुवं मोक्षमुपाश्नुते ।। १३ ।।
यदस्य नित्यं हदि संस्थितं स्यात्तत्स्यात्तदेवास्य हि मृत्युकाले ।।
यद्भावयत्येव हि मृत्युकाले भवत्यवश्यं स हि तन्मयस्तु ।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु धारणावर्णनो नाम द्व्यशीत्युत्तरद्विशततमोऽध्यायः।।२८२।।
3.283
हंस उवाच ।।
द्रव्ये तु धारणा बाह्ये धारणा परिकीर्तिता ।।
सैव चेतसि निर्दिष्टा ध्यानेति मनुजोत्तमाः।। १ ।।
अधोमुखं हृत्कमले कर्णिकायां द्विजोत्तमाः।।
ध्यानं सूर्यस्य कुर्वीत तेजोराशेर्विचक्षणः।।२।।
रविमध्ये स्थितः सोमो सोममध्ये हुताशनः।।
तेजोमध्ये स्थितं सत्त्वं तेजसोप्यतितैजसम्।। ३।।
तन्मध्ये भगवान्विष्णुः परमात्मा सनातनः ।।
अच्युतः पुरुषो नित्यं सर्वव्यापी महेश्वरः।।४।।
सूक्ष्मातिसूक्ष्मन्तं पश्येत्तेजोमूर्तिं दुरासदम्।।
ध्यानयोगेन तं दृष्ट्वा सिद्धिमाप्नोति मानवः ।। ५ ।।
स्वस्तिकं सर्वतोभद्रं पर्यंकं कमलासनम् ।।
तेषामेकतमं बद्ध्वा योगासनमतन्द्रितः ।।६।।
ऊरुमूले तथानीय तिर्यग्गौ च समौ करौ ।।
कृत्वोत्तानौ द्विजश्रेष्ठा वामस्योपरि दक्षिणम् ।।७।।
किञ्चिदाकुञ्चिताङ्गुष्ठौ कर्त्तव्यौ च तथा करौ ।।
तेन चोन्नाम्य वितथं कृत्वा बाहू परिश्लथौ ।। ।। ८ ।।
पृष्ठकां योजयेत्स्कन्धे देहमुन्नामयेत्सुधीः ।।
निष्कम्पां सुदृढां ग्रीवां शिरः कार्यं समं तदा ।। ९ ।।
स पश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ।।
किञ्चिन्निमील्य नयने सर्वं बाह्यं समुत्सृजेत् ।।
बाह्यं सर्वं परित्यज्य परमात्मानमात्मना ।। 3.283.१० ।।
हृत्पद्मं कर्णिकामध्ये तेजस्तेजसि चार्पितम् ।।
दृष्ट्वा पुरुषमीशानं सर्वबन्धैः प्रमुच्यते ।। ११ ।।
प्रत्याहारेण मनसः कृत्वा नियमनं पुरा ।।
धारणाल्लब्धलक्षस्तु ध्यानमारोहते नरः ।। १२ ।।
इन्द्रियाणां जयं कृत्वा मनः संयम्य चाप्यथ।।
विजित्य च तथा वायुं ध्यानमारोहते नरः ।।
ध्यानारूढस्तदाप्नोति यत्र गत्वा न शोचति ।। १३ ।।
निशावसाने च तथा प्रदोषे ध्यानेन यत्नः पुरुषेण कार्यः ।।
ध्यानेन दृष्ट्वा पुरुषं परं तु विमुक्तदेहः सकलत्वमेति ।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ध्यानवर्णनो नाम त्र्यशीत्युत्तरद्विशततमोऽध्यायः ।। २८३ ।।
3.284
।। हंस उवाच ।। ।।
अथ ध्यानमुपारूढो समाधिं मनसो लभेत् ।।
न किञ्चिच्चिन्तयेत्पश्चात्समाधिं प्राप्य मानवः ।। १ ।।
शब्दस्पर्शरसैर्हीनं गन्धरूपविवर्जितम् ।।
तं परं पुरुषं विद्याद्यत्र गत्वा न शोचति ४२ ।।
शून्यं ध्यानपरं विप्राः समाधिरिति कीर्त्यते ।।
तन्तु प्राप्य नरैश्चान्यैर्नाभिभूयेत कर्हिचित् ।। ३ ।।
समाधितः परं नास्ति सुखं किञ्चिज्जगत्त्रये ।।
समाधिस्थश्च दुःखेन गुरुणापि न चाल्यते ।। ४ ।।
शङ्गानि शतशस्त्वस्य वाद्यन्ते यदि कर्णयोः ।।
भेर्यश्च यदि हन्यन्ते शब्दं बाह्यं न विन्दति ।। ५ ।।
तथा प्रहाराभिहतो वह्निदग्धतनुस्तथा ।।
शीते स्थितोऽतिघोरेऽपि स्पर्शं बाह्यं न विन्दति ।। ६ ।।
जये गन्धे रसे बाह्ये तादृशस्य तु का कथा ।।
दृष्ट्वा य आत्मनात्मानं समाधिं लभते पुनः ।। ७ ।।
तृष्णा वाथ बुभुक्षा वा न तं धावति कर्हिचित् ।।
अपि सन्त्यजतस्तृष्णामभुञ्जानस्य पश्यतः ।। ८ ।।
एकमेव स निर्वेदं विजानाति नरोत्तमः ।।
समाधितः समुत्थानं तेन तप्यत्यसौ भृशम् ।। ९ ।।
न स्वर्गे न च पाताले मानुष्ये च न तत्सुखम् ।।
समाधिं निश्चलं प्राप्य यत्सुखं विन्दते नरः ।।3.284.१ ० ।।
समाधिं पुरुषः प्राप्य त्यक्त्वा देहनिबन्धनम् ।।
व्याप्नोति सकलाँल्लोकांस्त्रैलोक्यं सचराचरम् ।। ११ ।।
तच्च व्याप्नोति पुरुषस्त्रैलोक्यादपि यद्बहिः ।।
अनन्तत्वमवाप्नोति समाधिं प्राप्य मानवः ।। १२।।
जन्ममृत्युजराव्याधिशोकदुःखविवर्जितः ।।
सर्वगः सर्वसंहारी सर्वेन्द्रियगुणात्मकः ।।१३।।
सर्वत्र सर्वदा विप्राः स तस्यां नात्र संशयः ।।
पुरुषत्वमथाभ्येति सर्वशक्तित्वमेति च ।। १४ ।।
संयम्य चेतः खलु धारणासु ध्यानं समारुह्य ततस्तु पश्चात् ।।
समाधिमास्थाय परेण पुंसा तुल्यत्वमायाति महानुभावः। १५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु समाधिवर्णनो नाम चतुरशीत्युत्तरद्विशततमोऽध्यायः ।। २८४ ।।
3.285
ऋषय ऊचुः ।।
स्थानस्य महतः प्राप्तौ यन्मूलं द्विजसत्तम ।।
तदस्माकं समाचक्ष्व सर्वं प्रत्यक्षलक्षणम् ।। १ ।।
।। हंस उवाच ।।
प्राप्नुवंति नराः सर्वे व्यवसायपुरःसराः ।।
व्यवसायद्वितीयानां नास्ति लोके सुदुर्लभम् ।। २ ।।
व्यवसायः परो बन्धुः सहायस्तदनंतरम् ।।
तेन युक्तः पुमान्सम्यक्प्राप्नोतीति विनिश्चितम् ।। ३ ।।
धर्मे चार्थे च कामे च मोक्षे च ऋषिसत्तमाः ।।
भाजनन्तु सदा ज्ञेयो नरस्तु व्यवसायवान् ।। ४ ।।
व्यवसायविहीनानां स्वल्पोप्यर्थोऽस्ति दुर्लभः ।।
व्यवसायविहीनानामलसानां दुरात्मनाम् ।। ५ ।।
करप्राप्तोऽपि सहसा क्षिप्रमर्थो विनश्यति ।।
व्यवसायविहीनस्तु स्थाणुना नातिरिच्यते ।। ६।।
तस्मान्नरा ये व्यसनाय युक्तास्ते कामभाजः कथितास्तु लोके ।।
तेषामयं चैव परश्च लोकस्तेषां तथा मोक्षपथो न दूरे ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु व्यवसायवर्णनो नाम पञ्चाशीत्युत्तरद्विशततमोऽध्यायः ।।२८५।।