← पटलः १५ विष्णुसंहिता
पटलः १६
[[लेखकः :|]]
पटलः १७ →
विष्णुसंहितायाः पटलाः


।। अथ षोडशः पटलः ।।

अथ वक्ष्यामि संक्षेपाद् बिम्बशुद्धिं यथाक्रमम्।
आचार्यं वरयेत् पूर्वं ततः कर्माणि कारयेत्।। 16.1 ।।
देवस्तु द्विविधो ज्ञेयः स्थावरो जङ्गमस्तथा।
प्रतिमा स्थावरो देव आचार्यो जङ्गमस्तथा।। 16.2 ।।
भक्तानुकम्पी भगवान् विधिमन्त्रपुरस्कृताम्।
पूजां तयोः प्रगृह्णाति याज्यो नह्यन्यता हरिः।। 16.3 ।।
आचार्यानुमतादेव क्रिया कार्या विजानता।
तत्पूजयैव देवश्च वरदो नान्यता भवेत्।। 16.4 ।।
दीक्षादिसंस्कृतः शान्तो विद्वानक्रोधनो युवा।
समयाचारकृद् वाग्मी वर्णाश्रमगुणान्वितः।। 16.5 ।।
आचार्यः सर्वथा ग्राह्यः स्थापनादिषु यज्वना।
सर्वरोगोपशान्तेन भद्राकारेण धीमता।। 16.6 ।।
श्रोत्रियेण गृहस्थेन स्थाप्यो देवस्तु सिद्धये।
कुलीनाः शुचयो दक्षा दीक्षितास्तन्त्रपारगाः।। 16.7 ।।
भक्ता दक्षा विनीताश्च विप्रा मूर्तिधराः स्मृताः।
देवागारे गृहे नाद्यास्तीरे गोष्ठे तरुस्थले।। 16.8 ।।
अन्यत्र वा शुभे स्थाने दुर्जनालोकवर्जिते।
गोमयेन समालिप्ते पञ्चगव्यादिशोधिते।। 16.9 ।।
आसने वस्त्रसंवीते सदर्भे प्रार्थितं गुरुम्।
चतुर्भिर्मूर्तिपैः सार्धमष्टद्वादशभिस्तु वा।। 16.10 ।।
उपवेश्य यथान्यायं पाद्यादिभिरथार्चयेत्।
पूर्वोत्तरदिशाभागे प्रागग्रेषु कुशेषु च।। 16.11 ।।
यजमानः शुचिर्भुत्वा पूजाद्रव्याणि सादयेत्।
प्रणवेन सकूर्चानि पात्राणि तु शुभानि च।। 16.12 ।।
वस्त्रकुण्डलयुग्मानि भूषणानि शुभानि च।
कूर्चसंस्कृततोयेन प्रोक्ष्योत्तानानि वै क्रमात्।। 16.13 ।।
कूर्चेषु प्रणवेनैव विन्यस्यार्ध्यादि योजयेत्।
कुशाग्रयवसिद्धार्थतिलमाषफलाक्षतैः।। 16.14 ।।
सक्षीरगन्धपुष्पैश्च योजयित्वाऽर्घ्यमर्चयेत्।
पाद्यमाचमनीयं च पात्रयोरन्ययोस्तथा।। 16.15 ।।
मन्त्रयेत् पुनरेतानि मूलाङ्गैर्मूर्त्तिभिस्तु वा।
दत्त्वा कूर्चान्यथैतेषामासनार्थं तु वाग्यतः।। 16.16 ।।
सपवित्रैर्जलैः पादौ क्षलयेद्धृदयेन तु।
शिरसाऽऽचमनं दद्याच्छिखया चार्घ्यमेव च।। 16.17 ।।
वस्त्रयुग्मानि भूषाश्च शेषाभ्यां तु निवेदयेत्।
पायसं भोजयेत् साज्यं प्रणम्य विधिनाऽर्च्य च।। 16.18 ।।
सोष्णीषं गुरुमाचान्तमभिवाद्य प्रसाद्य च।
यथालाभं सुवर्णादि दद्याद् देवमनुस्मरन्।। 16.19 ।।
ऋत्विग्भ्योऽपि तथा दत्त्वा वरयेत् प्रणिपत्य तान्।
कार्यमुक्त्वा विधानेन पूजयेच्च पुनः पृथक्।। 16.20 ।।
सन्तोष्य प्रियवादैश्च प्रणम्य प्रार्थयेत् ततः।
मया सम्पूजितैरत्र दक्षिणाभिश्च तोषितैः।। 16.21 ।।
क्रियतां विष्णुयागो मे प्रार्थयामि प्रसीदतु।
इत्युक्त्वा दक्षिणे पाणावालम्ब्य वरयेत् क्रमात्।। 16.22 ।।
तत्रों तथा करिष्यामीत्याचार्यस्तु समीरयेत्।
एवं वै सर्वयागेषु गुरुं सम्पूज्य यत्नतः।। 16.23 ।।
प्रणिपत्यर्त्विजस्तेभ्यो दत्त्वाऽर्घ्यं वरयेद् बुधः।
पुनरेवं तु तन्त्रज्ञान् दीक्षितान् होमिनस्तथा।। 16.24 ।।
वेदाध्ययनकर्तॄंश्च शुद्धान् वै मन्त्रपाठकान्।
कल्पयेद् यजमानस्तानाचार्यवचने स्थितान्।। 16.25 ।।
वास्तुसङ्ग्रहमारभ्य तीर्थस्नानानावसानिकम्।
कारयेत् सर्वमेतेन भक्त्या हरिमिवार्चयेत्।। 16.26 ।।
शयने सन्निवेश्यादौ बिम्बं तु सुपरीक्षितम्।
गृहीतं धनदानेन पूजयित्वाऽत्र शिल्पिनः।। 16.27 ।।
नयनोन्मीलनं तुष्टैः कारयेच्च यथाविधि।
प्रणवेन तु कर्तव्यः प्रतिमालोकसङ्ग्रहः।। 16.28 ।।
प्लुतं प्रणवमुच्चार्य पादयोस्तां तदा स्पृशेत्।
प्रक्षाल्य वारिभिः पूर्वं दर्भैः संघृष्य सर्वतः।। 16.29 ।।
स्पृष्ट्वा गोवालकैश्चैनां घृताक्तां क्षालयेत् ततः।
शमीपल्लवसंयुक्तानक्षतान् संस्कृतेऽनले।। 16.30 ।।
भूरादिसत्यपर्यन्तैः प्रत्येकं जुहुयाच्छतम्।
स्थूलदेहो यतो विष्णुर्वैराजश्रुतिदर्शनात्।। 16.31 ।।
तस्मादेवं हुते विष्णोः सम्पूर्णा प्रतिमा भवेत्।
ब्राह्मणैः स्वस्ति वाच्याथ शाकुनं सूक्तमुच्चरन्।। 16.32 ।।
दत्त्वा दूर्वाक्षतान् मूर्ध्नि प्रणवेन समाहितः।
नीराजनं ततः कुर्यान्मङ्गलानि च दर्शयेत्।। 16.33 ।।
अपराह्णे तु सम्प्राप्ते मूर्त्तिपैः साहितो गुरुः।
गत्वा नद्यां तटाके वा देवखाते मनोरमे।। 16.34 ।।
तोयपूर्णेऽथवा पात्रे सम्पूज्य वरुणं पुनः।
सपताकं तटं कृत्वा शोधितं सर्वतो वृतम्।। 16.35 ।।
संहृत्याग्निमयं ध्यात्वा बिम्बं संहारमार्गतः।
दर्भैर्वस्त्रैश्च संछाद्य फलकायां निवेश्य च।। 16.36 ।।
शङ्खदुन्दुभिनिर्घोषैर्जयशब्दैश्च संयुतम्।
योगपीठं स्मरञ् ज्योतिर्बिम्बमप्सु निवेशयेत्।। 16.37 ।।
लोकपालान् बहिर्ध्यात्वा पञ्चमन्त्रैश्च रक्षयेत्।
प्राक्‌शिरः शाययित्वैवं बिम्बं तोयेऽधिवासयेत्।। 16.38 ।।
त्रिरात्रमश्मनो लोहमेकरात्रं मणिं निशाम्।
स्नात्वाऽऽचम्य शुचिर्भूत्वा वस्त्रालङ्कारभूषितः।। 16.39 ।।
मूर्त्तिपैः सार्धमागम्य प्रासादं सप्रदक्षिणम्।
न्यासादिकं क्रमात् कृत्वा दक्षइणे प्राङ्मुखः शुचिः।। 16.40 ।।
प्रासादं शोधयेत् सम्यक् मुक्तमात्रं तु तक्षकैः।
सूत्रेण दर्भदाम्ना च वेष्टयित्वा समन्ततः।। 16.41 ।।
अस्त्रदृष्ट्या समालोक्य गर्भागारं पुनस्तथा।
कुशास्त्रमार्जितं तोयैः प्रोक्ष्य गन्धैश्च लेपयेत्।। 16.42 ।।
सर्षपाक्षतदूर्वाभिः समन्ताद् विकिरेत् पुनः।
ततश्चास्त्रेण सम्प्रोक्ष्य कुर्यात् तालत्रयं तथा।। 16.43 ।।
दूर्वाक्षतकुशाग्रैस्तु विकिरेत् पञ्चशक्तिभिः।
सर्जश्रवेष्टलाक्षाब्जश्वेतलोध्रफलादिभिः।। 16.44 ।।
अष्टाक्षरेण सर्वत्र धूपं दत्त्वा सदीपकम्।
पूर्णकुम्भं च धान्यं च न्यस्य पुष्पास्त्रमोचनम्।। 16.45 ।।
कृत्वा राक्षोघ्नसूक्तेन पञ्चगव्येन सर्वतः।
चक्रमन्त्रेण च प्रोक्ष्य गोमयेनोपलेपिते।। 16.46 ।।
आग्नेय्यां स्थण्डिले होममारभेत यथाविधि।
रक्षोहणादिमन्त्राभ्यां पक्वमाज्यं च होमयेत्।। 16.47 ।।
कृणुष्वाष्टादशैर्भूयो येदेवा इति पञ्चभिः।
जातवेदादिभिश्चैव क्रमाद् व्याहृतिभिस्तथा।। 16.48 ।।
अपामार्गसमिद्भिस्तु शतमष्टोत्तरं ततः।
चक्रमन्त्रेण वै हुत्वा हविराज्यं समापयेत्।। 16.49 ।।
वस्त्रेणानीय पात्रे तु होमभस्मसमायुतम्।
आज्यशेषमपां शेषमपामार्गरसैर्युतम्।। 16.50 ।।
मन्त्रयेच्चक्रमन्त्रेण शतमष्टोत्तरं ततः।
पलाशाश्वत्थशाखभिः प्रोक्ष्य सर्वत्र मन्दिरे।। 16.51 ।।
कृणुष्वेत्यादिभिः पश्चात् विकिरेद् यवसर्षपैः।
तालत्रयं पुनः कुर्यादग्निप्राकारमेव च।। 16.52 ।।
पुनरष्टशतं जप्त्वा चक्रं श्वभ्रं च पूजयेत्।
एवं कृत्वाऽथ राक्षोघ्नं निशि विप्रांश्च भोजयेत्।। 16.53 ।।
तमेवैशेऽग्निमाधाय स्थण्डिले व्रीहितण्डुलैः।
तत्पूर्वे स्थण्डिले कलृप्ते वस्रास्तीर्णे घटं न्यसेत्।। 16.54 ।।
कुशदूर्वाशमीपर्णकूर्चस्थं जलपूरितम्।
जातिहेम न्यसेत् तस्मिन् विधिना शान्तिमर्चयेत्।। 16.55 ।।
पाद्यादिभिः क्रमाद् द्रव्यैः शन्नोदेवीत्यृचा ततः।
वास्तोष्पतेतिमन्त्राभ्यां पक्वं हुत्वा घृताहुतीः।। 16.56 ।।
वास्तोष्पतेध्रुवेत्याद्यैः षङ्भिर्जातादिपञ्चभिः।
शन्नवर्गेण जुहुयात् पुनर्व्याहृतिभिस्तथा।। 16.57 ।।
शमीसमिद्घृतान्नाज्यं तयैवर्चा तु होमयेत्।
दूर्वाभिश्चाथ मूलेन सगव्याभिः समापयेत्।। 16.58 ।।
हुतशेषं ततो दद्यादग्रेणाग्निं कुशेषु च।
नमोरुद्रेति तोयाज्यैस्त्वं विप्रयजुषोक्षणम्।। 16.59 ।।
शान्तितोयसमायुक्तं कुर्याच्च स्वस्तिवाचनम्।
पुण्याहं मूर्तिपैः सार्धं शिवं वास्त्विति वाचयेत्।। 16.60 ।।
ब्राह्मणान् भोजयेत् पश्चात् पायसं द्वादशोत्तमान्।
मण्डपे शोधिते स्थाप्य अन्तस्तम्भेष्वृगादयः।। 16.61 ।।
द्वारेषु च समालानि तोरणानि यथाक्रमम्।
सुशोभनाख्यमाश्वत्थं सुभद्राख्यमुदुम्बरम्।। 16.62 ।।
नैयग्रोधं सुकर्माख्यं सुहोत्रं प्लाक्षमेव च।
स्योनापृथिवीमन्त्रेण प्रक्षिपेत् साक्षतांस्तिलान्।। 16.63 ।।
उच्छ्रयस्वेति संस्थाप्य प्रादक्षिण्येन पूजयेत्।
दिक्षु पीतोऽरुणः श्यामः कृष्णोऽच्छः कृष्णपाण्डरः।। 16.64 ।।
पद्मवर्णश्च चित्रोऽष्टौ ध्वजाः स्थाप्या यथाक्रमम्।
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः।। 16.65 ।।
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः।
इत्येते पूजनीयाश्च ध्वजानामधिदेवताः।। 16.66 ।।
अनेककोटिसंघैश्च भूतैः प्रत्येकशो वृताः।
पूर्णकुम्भान् प्रतिद्वारं द्वौ द्वौ विन्यस्य पूजयेत्।। 16.67 ।।
पद्मरागप्रवालाप्सु प्राक् पूज्यौ पूर्णपुष्करौ।
वैडूर्यपुष्यतोयस्थौ ततैवानन्दनन्दनौ।। 16.68 ।।
वीरसेनसुषेणौ च नीले मरतके तथा।
सम्भवप्रभवौ चैव मुक्तास्फटिकतोययोः।। 16.69 ।।
वास्तुपूजां पुरा कृत्वा तोरणध्वजपूजनम्।
भूमेः परिग्रहोऽग्नेश्च संस्कारोऽनन्तरः स्मृतः।। 16.70 ।।
त्रातारं यदुलूकोऽथ इमं मे सन्त? इत्यृचः।
दिक्पालकलशार्चायां तन्मन्त्रा इह कीर्तिताः।। 16.71 ।।
बह्वृचोऽध्वर्यवश्चैव छन्दोगाथर्वणा द्विजाः।
धर्मशास्रार्थतत्त्वज्ञा दिक्षु पारायणे स्मृताः।। 16.72 ।।
ऐतिहासिकवाक्यार्थतत्त्वज्ञा ब्रह्मावित्तमाः।
कोणेषु मूर्तिपा एवं कल्प्या होमेष्वनुक्रमात्।। 16.73 ।।
स्वां स्वां विद्यां पठन्तस्ते तच्चित्ता निशि जागृयुः।
स्वस्तिके मूलविन्यस्तधान्येऽष्टककुशान्विते।। 16.74 ।।
द्वादशाक्षरमन्त्रेण शयनं तत्र कल्पयेत्।
कलशान् स्थापयेदष्टौ पीठस्य परितः क्रमात्।। 16.75 ।।
अद्भिः सम्पूरितान् सर्वान् धान्यराशिगतान् शुभान्।
सपल्लवमुखान् सूत्रवेष्टितान् वस्त्रवेष्टितान्।। 16.76 ।।
व्यस्तैरष्टाक्षरैरेतान् गन्धपुष्पैश्च पूजयेत्।
योगपीठं प्रकल्प्यात्र शक्तिपर्यन्तमर्चयेत्।। 16.77 ।।
सर्वधान्यैश्च पूष्पैश्च निर्वपेत् पीठपर्ययात्।
विद्याधिपतयश्चात्र पूजनीयाः समन्ततः।। 16.78 ।।
विष्णुमैन्द्रे ततस्तत्र दक्षिणे मधुसूदनम्।
त्रिविक्रमं तु वारुण्यां वामनं तु तथोत्तरे।। 16.79 ।।
श्रीधरं तु तथाग्न्य्यां हृषीकेशं तु नैर्ऋते।
पद्मनाभं च वायव्यां दामोदरमथापरे।। 16.80 ।।
ऐशान्यां तस्य पीठस्य स्थापयेज्जलभाजनम्।
सोष्णीषः सोत्तरीयश्च वाग्यतो वारि गालयेत्।। 16.81 ।।
नवेनारोमवस्त्रेण प्रोक्षितेन च मन्त्रतः।
पूरयेत् प्रणवेनैव पात्रं कुसुमवारिणा।। 16.82 ।।
पूजयेत् पूरयित्वा तु द्वादशाक्षरविद्यया।
रक्षितव्यं वितानाद्यैः सम्यगाच्छाद्य सर्वतः।। 16.83 ।।
मङ्गलाङ्कुरपात्राणि मङ्गलानि च विन्यसेत्।
शङ्खं चक्रं पताकां च श्रीवत्सं दर्पणं वृषम्।। 16.84 ।।
मत्स्ययुग्मं च कुम्भं च मङ्गलानि प्रचक्षते।
कुर्यान्मण्डपमैशान्यां चतुरश्रं समन्ततः।। 16.85 ।।
चतुर्हस्तं चतुः स्तम्भं मध्ये पीठसमन्वितम्।
स्नानद्रव्यैश्च संयुक्तं क्रमात् कुम्भेषु पूरितैः।। 16.86 ।।
अष्टोत्तरशतं हुत्वा घृतमष्टाक्षरेण तु।
सम्पाताज्येन संस्पृश्य कलशानभिमन्त्रयेत्।। 16.87 ।।
हिरण्यवर्णां हरिणीमिति सर्वान् यथाक्रमम्।
तत्रार्चां तु समानीय स्नापयेदेकबेरके।। 16.88 ।।
रत्नन्यासं पुरा कृत्वा लेप्यार्चा क्रियते यदा।
प्रतिमाऽन्या तु कर्तव्या लोहजा कर्मकारणात्।। 16.89 ।।
प्रतिष्ठान्यासमुद्रादि मूलार्चायां प्रकल्पयेत्।
स्नानादिशेषकर्माणि कर्मार्चायामिति स्थितिः।। 16.90 ।।
मूलार्चां वाऽपि कर्मार्चां तथा तोयेऽधिवासिताम्।
उद्धृत्य विधृतां यत्नाच्चतुर्भिर्मूर्त्तिधारकैः।। 16.91 ।।
दर्भपाणिः स्थितो विद्वानुपातिष्ठेत संस्थिताम्।
नमस्तेऽर्चे! सुरेशानि! प्रतीके विश्वकर्मणः।। 16.92 ।।
प्रभाविताशेषजगद्धात्रि! तुभ्यं नमो नमः।
त्वयि सम्पूजयामीशं नारायणमनामयम्।। 16.93 ।।
रहिता योनिदोषैस्त्वमृद्धियुक्ता सदा भव।
विज्ञाप्यैवं दुकूलांशुसिद्धार्थकयुतं शुभम्।। 16.94 ।।
उर्णासूत्रेण बध्नीयात् कौतुकं दक्षिणे करे।
अङ्गुष्ठानामिकाभ्यां तु सारयित्वा जितादिना।। 16.95 ।।
अष्टाक्षरेण संजप्तं सप्तधा विघ्नशान्तये।
ततोऽर्चां तु सुवस्त्राढ्यां ब्रह्मयानेन तां नयेत्।। 16.96 ।।
शाकुनेनैव सूक्तेन वितानाद्युपशोभिताम्।
त्रीणीत्यास्थाप्य पीठे तां भद्रं कर्णेति कीर्तयेत्।। 16.97 ।।
तेजोऽसीति समालिप्य गव्येनाज्येन साधकः।
चूर्णैस्तोयैश्च संक्षाल्य स्नापयेत् तैर्यथाक्रमम्।। 16.98 ।।
मृत्कषायौषधीतीर्थैर्गव्यैर्व्यस्तैः समस्तकैः।
नद्यास्तटाभ्यां सङ्गृह्य मृदं वल्मीकजां तथा।। 16.99 ।।
कुलीरवासतः क्षेत्राद् विषाणाग्राच्च वेदितः।
शमीपलाशखदिरबिल्वाश्वत्थविकङ्कताः।। 16.100 ।।
उदुम्बराश्च न्यग्रोधाः कषायाङ्गानि चैव हि।
शङ्खपुष्पीं प्रियङ्गुं च विष्णुक्रान्तीं शतावरीम्।। 16.101 ।।
दूर्वां चैवामृतां चैव गृह्णीयाद् रजनीं वचाम्।
हिरण्यवर्णाः शुचयः समुद्रज्येष्ठेति च क्रमात्।। 16.102 ।।
इदमाप इमं मे च तीर्थं तं विनियोजयेत्।
गायत्र्त्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम्।। 16.103 ।।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि।
तेजोऽसि शुक्रमित्याज्यं देवस्यत्वा कुशोदकम्।। 16.104 ।।
पञ्चगव्यं पयस्वत्या यासां गन्धोदकं तथा।
आपोहिष्ठेति वै दद्यात् स्वच्छतोयं ततः परम्।। 16.105 ।।
परमेश्वरमन्त्रेण स्नापयेत् सकलेन च।
मधुवातेति संयोज्य तैजसे मधुसर्पिषी।। 16.106 ।।
उद्धाट्य नयने चास्य ततो हेमशलाकया।
चित्रं देवत्यृचा चैकाप्यायस्वेत्यृचा परम्।। 16.107 ।।
यजमानश्च गां दद्याद् गोविन्दः प्रीयतामिति।
स्नापयेत् कलशैः पश्चाच्चतुर्भिः कोणगैरपि।। 16.108 ।।
ब्रह्मश्रीचम्पकक्षीरनीपाम्रबलुळार्जुनैः।
साशोकैः पल्लवैर्मन्त्री हंसः शुचिषदित्यृचा।। 16.109 ।।
पद्मकं रोचनां दूर्वां दर्भस्तम्बाच्छसर्षपान्।
चन्दने जातिरावर्त्तं कुन्दं विष्णोरराटया।। 16.110 ।।
यवव्रीहितिला हेम रजतं कूलमृद्द्वयम्।
गोमयं भूम्यसंस्पृष्टं सोमं राजानमित्यृचा।। 16.111 ।।
समीवर्यमृताक्रान्तिसहाभृङ्गमहौषधीः।
स्यामाकं विश्वतश्चक्षुरिति तैः स्नानमाचरेत्।। 16.112 ।।
आवाहयेत्ततो देवं पीताम्बरधरं हरिम्।
एह्येहि भगवन्! विष्णो! लोकानुग्रहकारक!।। 16.113 ।।
यज्ञभागं गृहाणेमं वासुदेव! नमो नमः।
पाद्यमाचमनं चार्ध्यं दद्यान्मूलेन वै ततः।। 16.114 ।।
अहते वाससी दद्यात् पवित्रं चाष्टकेन तु।
सौवर्णं दापयेत् सूत्रं विष्णुगायत्रिया पुनः।। 16.115 ।।
भूषणानि ततो दद्याद् द्वादशाक्षरविद्यया।
नीराजनं ततः कुर्याद् गन्धपुष्पाक्षतादिभिः।। 16.116 ।।
स्रग्भिश्च धूपदीपैश्च फलगोरोचनाञ्जनैः।
पादुकाव्यजनच्छत्रमधुपर्कैश्च पूजयेत्।। 16.117 ।।
वारिधारां च मूलेन पातयेद् देवपादयोः।
आचामं च पुनर्धूपं मुखवासं च दर्पणम्।। 16.118 ।।
अङ्गरागं च मालां च दद्यात् पुष्पाञ्जलिं ततः।
सामभिश्च ततः स्तुत्वा पवित्रं स्तोत्रमीरयेत्।। 16.119 ।।
पुण्याहं चात्र कुर्वीत वैष्णवैः सह मन्त्रवित्।
तिलाश्च दक्षिणा देया वैष्णवेभ्यो यथाविधि।। 16.120 ।।
समाहितः स्मरेत् पश्चाद् भक्त्या तु पुरुषोत्तमम्।
एवं कृत्वा तु तामर्चामानयेच्छयनं प्रति।। 16.121 ।।
पौरुषेण तु सूक्तेन शङ्खभेर्यादिनिस्वनैः।
द्वादशाक्षरमन्त्रेण शयने सन्नवेशयेत्।। 16.122 ।।
अयं स इति चोक्त्वाऽन्ते सर्वयोगेश्वरोमिति।
जपेदष्टाक्षरं मन्त्रं मङ्गलानि च विन्यसेत्।। 16.123 ।।
हेमपात्रे घृतं पूर्णं शिरः स्थानेऽस्य विन्यसेत्।
राजतं मधुपूर्णं च पादस्थाने विचक्षणः।। 16.124 ।।
सक्षीरं ताम्रपात्रं च दक्षिणेन प्रकल्पयेत्।
लोहपात्रगतं वामे शान्तितोयं च विन्यसेत्।। 16.125 ।।
मृत्पात्रे पञ्चगव्यं च पञ्चमं तु तदग्रतः।
तेषामालभनं कुर्यात् परमेष्ठ्यादिभिः क्रमात्।। 16.126 ।।
चतुरश्रं धनुर्वृत्तं त्रिकोणं च यथाक्रमम्।
कारयेद् दिक्षु चत्वारि कुण्डानि कुशलो गुरुः।। 16.127 ।।
अरत्निमात्रे पीठस्य समन्ताद्धस्तमानतः।
त्रिमेखलानि सर्वाणि कार्याण्यर्धावटानि च।। 16.128 ।।
आचार्यकुण्डादुद्धृत्य पश्चादन्येषु निक्षिपेत्।
कुण्डेषु संस्कृतं वह्निं कृत्वोल्लोखादिकं क्रमात्।। 16.129 ।।
जननादिविहीनं तु प्रकृतिन्यासपूर्वकम्।
स्वसाखाग्निमुखान्तेऽन्नं गायत्र्या जुहुयुः क्रमात्।। 16.130 ।।
हृदयं पूर्वकुण्डे तु दक्षिणे तु शिरस्तथा।
पश्चिमे तु शिखां कुर्यादुत्तरे कवचं तथा।। 16.131 ।।
नेत्रास्त्रयोर्न कार्योऽत्र होमः स्यान्मूर्तिभिस्तु वा।
समिदाज्यचरुन् लाजान् सर्षपांश्च यवास्तिलान्।। 16.132 ।।
व्रीहीनाज्यं पुनश्चैवं सर्वकुण्डेषु होमयेत्।
मूलेनाष्टसहस्रं तु तदाचार्यस्तु होमयेत्।। 16.133 ।।
शतमष्टोत्तरं चात्र पूर्णा दद्यात् शते शते।। 16.134 ।।

।। इति विष्णुसंहितायां षोडशः पटलः ।।