← पटलः २५ विष्णुसंहिता
पटलः २६
[[लेखकः :|]]
पटलः २७ →
विष्णुसंहितायाः पटलाः


।। अथ षड्विंशः पटलः ।।

अथ वक्ष्यामि संक्षेपात् स्नपनस्य विधिं परम्।
उत्तमादिविभागेन कर्तव्यं तु विचक्षणैः।। 26.1 ।।
स्थापितस्य चतुर्थेऽह्नि यात्रान्ते ग्रहणादिषु।
उपसर्गेऽन्त्यसंसर्गे प्रधानपुरुषक्षये।। 26.2 ।।
दीक्षाभिषेकयागान्ते मङ्गल्ये मन्त्रसाधने।
क्षुद्रान्यमन्त्रविन्यस्ते चिरलुप्ते च पूजने।। 26.3 ।।
असान्निध्येऽभिषेके च राज्ञां वृद्ध्यर्थमेव च।
अज्ञातदोषशान्त्यर्थं प्रत्यब्दं च यथाविधि।। 26.4 ।।
कर्तव्यं स्नपनं भक्त्या निमित्तार्थानुसारतः।
द्वादश्यां श्रवणे पुण्ये व्यतीपातेऽयनादिषु।। 26.5 ।।
जन्मर्क्षे यजमानस्य पौर्णमास्यां च कारयेत्।
मण्डपं पूर्ववत् कृत्वा तोरणध्वजशोभितम्।। 26.6 ।।
मुक्तादामादिसङ्कीर्णं कुसुमोत्करमण्डितम्।
कर्तव्या वेदिका मध्ये द्वात्रिंशद्यवमुच्छ्रिता।। 26.7 ।।
यावन्तः कलशा ग्राह्यास्तावान् वै वेदिविस्तरः।
कुण्डानि कारयेद् दिक्षु मङ्गलानि च विन्यसेत्।। 26.8 ।।
ऐशान्यां स्थापिते पात्रे धान्यस्थे नववाससा।
नदीतीर्थादिजं तोयं दीक्षितोत्पूतमाहरेत्।। 26.9 ।।
सम्पूज्य विष्णुगायत्र्या सपवित्रेण पाणिना।
शतमष्टोत्तरं विद्वान् सकूर्चमभिमन्त्रयेत्।। 26.10 ।।
इमा आपः शिवाः सन्तु शुभाः शुद्धाश्च निर्मलाः।
पावनाः शीतलाश्चैव पूताः सूर्यस्य रश्मिभिः।। 26.11 ।।
इत्युक्त्वा शोधितां वेदिमापोहिष्ठादिभिस्त्रिभिः।
प्रोक्ष्य गन्धाक्षतैर्गव्यैर्विकिरेच्च समन्ततः।। 26.12 ।।
द्विषट्केनैन्द्रसौम्याग्राण्यथ सूत्राणि पातयेत्।
कोष्ठानि चतुरश्राणि तालमात्राणि कल्पयेत्।। 26.13 ।।
पूरयेदङ्गुलोत्सेधा रेखाः सर्वाः सिताः समाः।
विकिरेन्मध्यतः किञ्चित् तेनैव रजसा समम्।। 26.14 ।।
व्यत्ययात् पञ्चवर्णैर्वा कर्तव्यं पदपूरणम्।
चतस्रो वीथयः कार्याः पूर्वाग्रा इतरास्तथा।। 26.15 ।।
शुद्धोदकान्विते पक्षे द्रव्यस्नाने न वीथयः।
मध्यमं तु पदं ब्राह्मं दैविकं तदनन्तरम्।। 26.16 ।।
परितो मानुषं वाराः षोडशात्राष्ट दैविके।
ब्राह्मे चाष्टदलं पद्मं कल्पयेत् कर्णिकोज्ज्वलम्।। 26.17 ।।
सर्वत्र पीठिकाः कार्याश्चतुरङ्गुलमुच्छ्रिताः।
शालिभिः कूर्चसंयुक्तैर्मध्ये सतिलतण्डुलैः।। 26.18 ।।
गायत्र्याष्टशतं हुत्वा पूर्ववत् संस्कृतेऽनले।
ततोऽधिवासयेच्छद्धान् कलशानुक्तलक्षणान्।। 26.19 ।।
सूत्रेण विष्टितान् सर्वानङ्गुलाङ्गुलमानतः।
तारेणाधोमुखान् न्यस्य पश्चिमे दर्भसंस्तरे।। 26.20 ।।
अग्न्यादीशानपर्यन्तं पङ्क्तीकृत्य विचक्षणः।
दर्भानुपरि विन्यस्य दर्भमुद्रां च दर्शयेत्।। 26.21 ।।
प्रोक्ष्य गन्धोदकैः सर्वान् निकिरेदक्षतैः शुभैः।
उत्तानीकृत्य चोद्‌धृत्य पञ्चभिः क्रमयोगतः।। 26.22 ।।
ब्राह्ममानुषदैवेषु पदेषु विनिवेशयेत्।
अष्टाक्षरेण कुम्भेषु ततः कूर्चानि विन्यसेत्।। 26.23 ।।
शान्तिकेऽधोमुखान्येव पौष्टिके तून्मुखानि च।
मूलेन तान् पुनः प्रोक्ष्य सपवित्रेण पाणिना।। 26.24 ।।
प्रयतः प्राङ्मुखः पूर्वं ब्राह्मे स्नानोदकं न्यसेत्।
मूलेन सर्वमूर्त्यङ्गपरिवारं हरिं स्मरन्।। 26.25 ।।
गन्धपूष्पैस्तमाराध्य वस्त्राभ्यां वेष्टयेत् पुनः।
पाद्यादीनि क्रमाद् द्रव्याण्यावाह्यावह्या दीक्षितैः।। 26.26 ।।
पूरयेद् बहिरन्तश्च दिग्विदिक्षु समाहितः।
पाद्यमैन्द्रे यमे वाऽर्ध्यमाचामं वारुणे न्यसेत्।। 26.27 ।।
पञ्चगव्यं तथा सौम्ये घृतमाग्नेयगोचरे।
नैर्ऋते दधि विन्यस्य वायव्ये क्षीरमेव च।। 26.28 ।।
क्षौद्रमीशानदिग्भागे द्वादशाक्षरविद्यया।
उष्णोदकं भृशे चाथ कषायं वितथे तथा।। 26.29 ।।
मार्जनं भृङ्गराजे तु पुष्पदन्ते फलोदकम्।
शोषे यवोदकं रत्नं मुख्ये लोहं तथाऽदितौ।। 26.30 ।।
कुशोदकं तु पर्जन्ये यथावद् विनिवेशयेत्।
गायत्र्या शेषकुम्भांस्तु पूरचेच्छुद्धवारिभिः।। 26.31 ।।
गन्धाम्भोऽर्यमदेशेऽथ पुष्पतोयं विवस्वति।
तथौपमानिकं मित्रे सुगन्धामलकं धरे।। 26.32 ।।
सावित्रेऽक्षततोयं तु नालिकेरकमिन्द्रके।
ऐक्षवं रुद्रदासे तु तथाऽऽपे तण्डुलोदकम्।। 26.33 ।।
अष्टाक्षरेण सर्वांस्तान् दैविकान् पूरयेत् क्रमात्।
पूरितान् पूरितान् सद्यः पल्लवैरुपशोभितान्।। 26.34 ।।
चक्रमन्त्रेण विन्यस्य चक्रिकाश्च सतण्डुलाः।
वासोबिर्वेष्टयेत् सर्वान् नवैः केशादिवर्जितैः।। 26.35 ।।
दर्भान् न्यस्याक्षतांश्चैव मूलेन विकिरेत् क्रमात्।
अष्टाक्षरेण सम्प्रोक्ष्य स्वमन्त्रैः पूजयेद् गुरुः।। 26.36 ।।
प्रणवेन पुनः प्रोक्ष्य गन्धतोयेन चैव हि।
दीक्षितैर्दिक्षु होमांश्च कारयित्वाऽधिवासयेत्।। 26.37 ।।
शान्तिं च पञ्चभिर्हुत्वा कारयेत् स्वस्तिवाचनम्।
देवसन्निधये चात्र मङ्गलायाघशान्तये।। 26.38 ।।
आशिषो वाचयेद् विद्वान् कर्माविकलमस्त्विति।
शान्तितोयमथानीय सम्पाताज्यसमायुतम्।। 26.39 ।।
प्रोक्षयेत् कलशान् सर्वान् कूर्चाग्रेण पुनर्गुरुः।
शुद्धा भवन्त्विमे कुम्भाः सकुशाः सपिधानकाः।। 26.40 ।।
वातातपपरीताश्च शुभलक्षणसंयुताः।
पञ्चविंशतिधा विष्णोस्तत्त्वभेदेन तिष्ठतः।। 26.41 ।।
द्रव्येयत्ताश्रयाः सर्वाः सङ्गच्छन्तां विभूतयः।
शास्त्रोदितमिदं चास्तु स्नपनं देवनिर्मितम्।। 26.42 ।।
अनेन स्नपनेनास्तु प्रसन्नो भगवान् हरिः।
इत्युक्त्वाऽन्यैः कृतानुज्ञो मूर्तिपैः सहितो गुरुः।। 26.43 ।।
सोष्णीषः सोत्तरीयश्च कृतन्यासः स्वलङ्कृतः।
नीराजनादिसंयुक्तो गच्छेद् गर्भगृहं ततः।। 26.44 ।।
अष्टोत्तरशतं जप्त्वा मूलमन्त्रं पुरःस्थितः।
द्वारं च वायुनोद्धाट्य दत्त्वाऽर्ध्यं वाग्यतः शुचिः।। 26.45 ।।
विश्वेनाच्छादनं हृत्वा प्रक्षाल्य प्रणवेन च।
सृष्टिक्रमेण तत्त्वैस्तु युक्तं ध्यात्वा सुरेश्वरम्।। 26.46 ।।
सकलीकृत्य पाद्यार्ध्ये पुनर्दत्त्वा जितादिना।
गायत्र्या कौतुकं छित्त्वा दद्यादाचमनं पुनः।। 26.47 ।।
मर्ध्न्यक्षतान् सदूर्वाग्रान् पादयोश्चोमिति क्षिपेत्।
नीराजयेत् त्रिरस्त्रेण मङ्गलानि हृदोद्दिशेत्।। 26.48 ।।
शुभे तु तैजसे पात्रे शालितण्डुलपूरिते।
अस्त्रैरश्वत्थपत्रस्थैर्नवगोमयकल्पितैः।। 26.49 ।।
वर्णोज्ज्वलैर्यथाशोभं वर्धमानाज्यवर्तिभिः।
उज्ज्वालाभिर्युतं मध्ये कुर्यान्नीराजनं त्विदम्।। 26.50 ।।
पूजाद्रव्याणि कल्प्यानि शोभनान्यत्र दीक्षितैः।
शालिष्टं निशाचूर्णं हेमरत्नाक्षतानि च।। 26.51 ।।
स्नानोदकस्य चाङ्गानि संयोज्यानि समासतः।
दूर्वास्यामाकपद्मानि विष्णुपर्णीति पाद्यकम्।। 26.52 ।।
सिद्धार्थं गन्धपूष्पं च फलं यवतिलाक्षतम्।
कुशाग्रं चार्घ्यमष्टाङ्गं कल्पयेच्च समासतः।। 26.53 ।।
तक्कोलजातिकर्पूरलवङ्ककुसुमान्वितम्।
चतुरङ्गं तथाचामं कल्पयेत् तत्र साधकः।। 26.54 ।।
अश्वत्थोदुम्बरब्रह्मवटबिल्वविकङ्कतैः।
शमीभिः खदिरैः कुर्यात् कषायं त्वग्भिरेव च।। 26.55 ।।
सहा निशा सदाभद्रा शीरीषं सूर्यवर्तिनी।
कुशाग्रं चषडङ्गानि मार्जने कथितानि तु।। 26.56 ।।
कदलीनालिकेराम्रधात्रीपनसदाडिमैः।
सभव्यबिल्वैरष्टाङ्गं फलतोयं च कल्पयेत्।। 26.57 ।।
वज्रमौक्तिकवैडूर्यपद्मरागप्रवालकैः।
पञ्चाङ्गं रत्नतोयं स्याल्लोहं हेमादिपञ्चकम्।। 26.58 ।।
सेव्यार्त्यम्बुजटास्रायोमुरशीतैस्तु गन्धकम्।
जातिस्त्रीमल्लिकाकुन्दनन्द्यावर्ताब्जचम्पकैः।। 26.59 ।।
यूथिकाबकुलाभ्यां तु कर्तव्यं कुसुमोदकम्।
शङ्खारितार्क्ष्यकूर्मैश्च लोहजैरौपमानिकम्।। 26.60 ।।
आद्याङ्गमितरालाभे पाद्यादीनां प्रशस्तते।
पितरः श्रीसरस्वत्यौ दक्षविष्णूशनेन्दवः।। 26.61 ।।
इन्द्रार्कयमविश्वाख्याः कुबेरो वायुरप्यजः।
वसवश्चैव सावित्री पाद्यादिद्रव्यदेवताः।। 26.62 ।।
गन्धर्वो वरुमस्तार्क्ष्यो भूमिर्निर्ऋतिरेव च।
श्रीधरश्च नृसिंहोऽश्वमुखो मध्ये परः पुमान्।। 26.63 ।।
इदं विष्णुर्हिरण्यवर्णा आपोहिष्ठा प्रजापते।
तेजोऽसि च दधिक्राव्ण आप्यायस्व तथा मधु।। 26.64 ।।
अथाकृष्णेन चाश्वत्थे भद्रं कर्णेभिरेव च।
गणानां वायवायाहि ब्रह्मजज्ञानमेव च।। 26.65 ।।
उपत्वाग्ने देवस्यात्वा बहिर्मन्त्राः प्रकीर्तिताः।
विष्णेरराटं तत्त्वा च सुवर्मं स्योनापृथिव्यपि।। 26.66 ।।
शन्नो यादिव्या यासां च परोमात्रेति दैविके।
मध्येऽतोदेवसूक्तं च सर्वत्रान्ते स्वपूरणम्।। 26.67 ।।
पाद्यादिमध्यपर्यन्तं स्नानमत्र प्रकीर्तितम्।
प्रतिद्रव्यं समभ्यर्च्य धूपयित्वा निवेदयेत्।। 26.68 ।।
सकलीकृत्य मूलाङ्गैर्मुद्राः सम्यक् प्रदर्श्य च।
नीराज्यार्ध्यादिभिः साङ्गं यथान्यायं प्रपूजयेत्।। 26.69 ।।
एभिरेवाखिलद्रव्यैः स्नापयेदङ्गदेवताः।
चतुर्विधं निवेद्यान्नं सोपदंशं घृताप्लुतम्।। 26.70 ।।
बलिं च सर्वतो दद्याद् भूतेभ्यः सार्वकामिकम्।
सार्ववर्णिकमन्नाद्यं कुर्याच्चैवानिवारितम्।। 26.71 ।।
आचार्यं पूजयेत् कर्ता दक्षिणाभिः समूर्तिपम्।
होमाध्ययनकर्तॄंश्च सदस्यान् वैष्णवांस्तथा।। 26.72 ।।
ब्राह्मणान् वैष्णवाञ् शान्तान् सम्पूज्य द्वादशावरान्।
शक्त्या च दक्षिणां दद्यात् कुर्यात् तैः स्वस्तिवाचनम्।। 26.73 ।।
व्यत्यस्तोनातिरिक्तादिदोषशान्तिस्ततो भवेत्।
द्रव्यैरूनशतार्धेन सैकाशीत्या शताष्टभिः।। 26.74 ।।
षडध्यर्धशतैः सप्तदशाढ्यद्विशतेन च।
सद्विपञ्चाशता तेन त्रिभिर्वा पञ्चभिः शतैः।। 26.75 ।।
कुम्भोत्तरसहस्रान्तं स्नानमेवं प्रकल्पयेत्।
इति सम्यक् समाख्यातं विष्णोः स्नपनमुत्तमम्।। 26.76 ।।
ऐहिकामुत्रिकान् कामान् सग्यक्कृत्वा यदाप्नुयात्।। 26.77 ।।

।। इति विष्णुसंहितायां षड्विंशः पटलः ।।