← पटलः २७ विष्णुसंहिता
पटलः २८
[[लेखकः :|]]
पटलः २९ →
विष्णुसंहितायाः पटलाः


।। अथ अष्टाविंशः पटलः ।।

अथ वक्ष्यामि संक्षेपात् कर्मशेषानहं तव।
यद्योगाज्जायते सर्वं कर्माविकलमुत्तमम्।। 28.1 ।।
लेपादिदूषिते बिम्बे शुद्धिं कृत्वा यथोदिताम्।
अभिषेकात् पुरा कार्याः शुद्धयोऽन्याश्च युक्तितः।। 28.2 ।।
वैष्णवानलनिर्दग्धब्रह्मत्वग्भस्ममिश्रितम्।
तीर्थतोयं समालोड्य पञ्चपत्ररसं तथा।। 28.3 ।।
गोशृङ्गेणाभिषिच्यार्चां तत्पिष्टैर्लेपयेत् पुनः।
सहादूर्वासदाभद्रासिद्धार्थरजनीयुतम्।। 28.4 ।।
दोषघ्नं क्षीरिणां त्वग्भिर्घर्षणं लेपनं तथा।
दूर्वासिद्धार्थकल्केन सगव्येन च लेपनम्।। 28.5 ।।
चन्दनागरुकर्पूरक्षोदैर्धूपः पुरेण च।
परितो दीपमाला च कपिलाज्याब्जसूत्रजा।। 28.6 ।।
पिप्पलत्वक्‌सहालक्ष्मीगन्धनागाब्जकेसरैः,
क्षीरित्वग्रससम्पिष्टैर्लेपनं पञ्चभिस्तथा।। 28.7 ।।
स्नानप्रकारमालेपं धूपनं च विशेषतः।
सर्वदोषहरं कुर्याद् स्थानवृद्धिकरं परम्।। 28.8 ।।
पूरणं त्रिविधं प्रोक्तमन्नपुष्पजलैः शुभैः।
पुष्टिदं जयदं पुण्यमपमृत्युहरं तथा।। 28.9 ।।
सर्वदोषहरं श्रेष्ठं पायसान्नेन पूरणम्।
कन्दाज्यशर्करापूपकदलीफलसंयुतम्।। 28.10 ।।
शुद्ध्यर्थं पुष्टिदं प्रोक्तं प्रायश्चित्तार्थमेव च।
उत्सवेष्वपि कर्तव्यमात्माभ्युदयकाङ्क्षिभिः।। 28.11 ।।
धान्यतण्डुलवस्त्रस्थान् घटान् पञ्चाम्बुपूरितान्।
हेमरत्नादिसंयुक्तान् सकूर्चान् पल्लवाञ्चितान्।। 28.12 ।।
कमलादिभिराच्छाद्य कुशपुष्पाद्यलङ्कृताम्।
वासोभिरहतैश्छन्नान् गन्धपुष्पैश्च पूजितान्।। 28.13 ।।
सकलेन समालभ्य पञ्चभिः स्नापयेत् क्रमात्।
तथा च गन्धैर्गव्यैश्च पयोदध्याज्यकादिभिः।। 28.14 ।।
सम्पूज्य विधिवद् गन्धैरालिप्याच्छाद्य वाससा।
सुगन्धिनाऽहतेनैव सपीठं कवचेन तु।। 28.15 ।।
शुद्धपायसहारिद्रैस्तिलैः शुद्धविनिर्मितैः।
पेयैर्लेह्यैश्च चोष्यैश्च कन्दमूलफलादिभिः।। 28.16 ।।
सुरसैर्बहुभिर्दिव्यैः सोपदंशैः समन्ततः।
दधिक्षीरगुलाज्यैश्च कालपक्कैश्च पूरयेत्।। 28.17 ।।
शीतेनान्नेन पूरः स्यादन्नसूक्तादिभिः शुभैः।
स्थापयेद् घटिकाः सप्त नादयेत् तूर्यनिस्वनैः।। 28.18 ।।
निवेदयेच्चतुर्दिक्षु पायसादि यथाक्रमम्।
पञ्चभिर्व्रह्मसूक्तेन समिदाज्यचरून् क्रमात्।। 28.19 ।।
अष्टोत्तरशतं हुत्वा दिक्षु भूतबलिं हरेत्।
ततोऽनुज्ञाप्य तत् सर्वं विसृज्याप्सु विनिक्षिपेत्।। 28.20 ।।
ततश्चाराधयेत् सम्यगन्नाद्यं चोत्सवं पुनः।
स्नपनं कारयेदेवं सर्वसम्पद् भविष्यति।। 28.21 ।।
वर्णसङ्करविप्रैस्तु स्पृष्टेऽष्टशतमादिशेत्।
सवर्णगामिभिश्चैवं ब्रह्मघ्नेऽष्टसहस्रकम्।। 28.22 ।।
जलसंप्रोक्षणं चात्र गुरुतल्पगते तथा।
सुवर्णस्तेयसंसर्गे जलसंप्रोक्षणं तथा।। 28.23 ।।
द्विजानां भोजनं चात्र स्नपनं चैव कारयेत्।
सुरापैरपि संस्पृष्टे जलसंप्रोक्षणादिकम्।। 28.24 ।।
गोदानं बहुविप्राणामन्नाद्यं स्नपनं तथा।
ब्रह्महत्यादिसंसृष्टैर्यादि स्पृष्टो जनार्दनः।। 28.25 ।।
जलसंप्रोक्षणस्नानहोमाध्ययनभोजनैः।
भूहेमकपिलादानपारायणशतं तथा।। 28.26 ।।
एकसंपर्कविप्रेण प्रमादाद् यदि गम्यते।
गेहं वा देवबिम्बं वा जलसंप्रोक्षणं तथा।। 28.27 ।।
बहुसंपर्कविप्रैस्तु स्पृष्टे बहुगुणं तथा।
चण्डालश्वपचैः स्पृष्टे प्रासादे बिम्ब एव वा।। 28.28 ।।
अर्चाद्रव्ये च संस्पृष्टे जलसंप्रोक्षणादिकम्।
पञ्च षट् सप्त वाऽहानि महास्नानं द्विजार्चनम्।। 28.29 ।।
सप्तकारुजनैः स्पृष्टे बिम्बे प्रासाद एव वा।
जलसंप्रोक्षणस्नानगोदानान्नाद्यविस्तरः।। 28.30 ।।
चोररूपेण शूद्रास्तु संस्पृष्टा प्रतिमा यदा।
जलसंप्रोक्षणान्नाद्यस्नपनैः सुद्धिरिष्यते।। 28.31 ।।
चोररूपेण वैश्यैस्तु जलसंप्रोक्षणं क्रमात्।
स्नपनं भोजनं चैव कारयेत् सुसमाहितः।। 28.32 ।।
मोहादथार्थकामाद् वा चोररूपेण चेन्नृपैः।
जलसंप्रोक्षणेनैव शुद्धिः स्यान्नात्र संशयः।। 28.33 ।।
वर्णोत्तमेव चेत् स्पष्टश्चोररूपेण केशवः।
स्नपनं कारयेत् तत्र षोडशैव घटाः स्मृताः।। 28.34 ।।
अस्नात्वा यदि भक्त्या तु मन्त्रसंस्कारवर्जितम्।
द्विजोत्तमेन स्पृश्येत पञ्चगव्येन शोधयेत्।। 28.35 ।।
नृपेण यदि भक्त्या तु स्पृष्टो देवो जनार्दनः।
यथोक्तैर्नवभिः कुम्भैः स्नपनेनैव शुध्यति।। 28.36 ।।
वैश्येन यदि संस्पृष्टो भक्त्या मन्त्रविवर्जितम्।
पञ्चाशत्कलशैरेव स्नपेन विशुध्यति।। 28.37 ।।
स्पृष्टः शूद्रेण भक्त्या तु मन्त्रसंस्कारवर्जितम्।
अष्टोत्तरशतेनैव कर्तव्यं स्नपनं पुनः।। 28.38 ।।
सप्तकारुजनैश्चापि भक्त्या स्पृष्टे जनार्दने।
जलसंप्रोक्षणेनात्र स्नपनेन च शुध्यति।। 28.39 ।।
एतेषां चेत् स्त्रिया स्पृष्टो मोहाद् वा यदि कामतः।
पूर्वोक्ता निष्कृतिः कार्या शेषं ब्राह्मणपूजनम्।। 28.40 ।।
गोदानं च पुनः कुर्याद् गव्यस्नानं च युक्तितः।
ब्राह्मण्या चोरमार्गेण स्पृष्टे तु मधुसूदने।। 28.41 ।।
स्नपनं कारयेच्छक्त्या ब्राह्मणानां च भोजनम्।
राजन्यवैश्ययोः स्पर्शे मोहाद् वा चौर्यकेण वा।। 28.42 ।।
जलसंप्रोक्षणं स्नानं विप्रभोजनसंयुतम्।
शूद्रा यदि स्पृशेच्चौर्याद् गर्भगेहं तु वा विशेत्।। 28.43 ।।
जलसंप्रोक्षणं कुर्यान्महास्नपनसंयुतम्।
अन्त्यजानां शुनां वाऽपि गर्भे कारुस्रियाऽपि वा।। 28.44 ।।
प्रसूते प्रोक्षणं कुर्याद् द्वादशाहं दशैव वा।
महास्नानं च कर्तव्यमुत्सवान्नाद्यसंयुतम्।। 28.45 ।।
वर्णजा यदि सूयेत् प्रमादाद् देवमन्दिरे।
जलसंप्रोक्षणं कृत्वा महास्नानेन शुध्यति।। 28.46 ।।
क्षत्रिया वाऽथ वैश्या वा यद्यज्ञानात् प्रसूयते।
जलसंप्रोक्षणं कुर्यात् त्रिदिनं वा चतुर्दिनम्।। 28.47 ।।
द्विगुणं सूतशावर्तुसूतिकादाहकैः क्रमात्।
एवं मार्गेण वै कुर्याज्जलसंप्रोक्षणं बुधः।। 28.48 ।।
पारायणं चाध्ययनं गोदानं भोजनं तथा।
बलिभ्रमण्वेलायां तत्पात्रं यानमेव वा।। 28.49 ।।
पतेद् यस्मिन् दिशाभागे तन्मन्त्रेणात्र होमयेत्।
घृतेन हविषा चैव पालाशाष्टशतेन च।। 28.50 ।।
तथा नित्यबलिस्पर्शे कृते श्वानद्विकादिभिः।
मूलमन्त्रद्वयेनैव पञ्चोपनिषदा तथा।। 28.51 ।।
विष्णुसूक्तेन चैवात्र होमं कुर्यात् समाहितः।
प्रायश्चित्तेषु सर्वेषु जपहोमेषु शस्यते।। 28.52 ।।
अष्टाक्षरं स्वसंख्यानं द्वादशाक्षरमेव वा।
पात्रं प्रक्षाल्य तु स्नात्वा कृत्वा न्यासं यथाविधि।। 28.53 ।।
सम्यगावृत्य तां भूमिं गोमयेनोपलिप्य च।
पायसं श्रवयेन्मन्त्री घृतमिश्रं सुशोभनम्।। 28.54 ।।
व्रिहिभिः स्थण्डिलं कृत्वा तस्मिन् वासोऽथ तण्डुलान्।
कुशपुष्पाणि विन्यस्य प्रोक्ष्यास्त्रेण समाहितः।। 28.55 ।।
मूलेन विन्यसेत् पात्रं प्रणवेन स्पशेत् पुनः।
ततश्चास्त्रेण संप्रोक्ष्य दक्षिणे शान्तिमर्चयेत्।। 28.56 ।।
हुत्वाऽन्नं मूलमन्त्रेण प्रणवेनाज्यमेव च।
अष्टोत्तरशतं वाऽपि सहस्रं वा यथाक्रमम्।। 28.57 ।।
हविःशेषं ततः पश्चाद् बलिपात्रे विनिक्षिपेत्।
तत् कृत्वा लिङ्गवत् प्रोक्ष्य मूलेनावाह्य पूर्ववत्।। 28.58 ।।
कर्मार्चां शोधयित्वा वा तस्यामावाह्य पूजयेत्।
पाद्यार्घ्याचमनं दत्त्वा गम्धपूष्पैरथर्चयेत्।। 28.59 ।।
नमस्कृत्य ततः स्तुत्वा सोत्तरीयः समाहितः।
उद्‌धृत्य व्याहृतीर्जप्त्या मूर्ध्रि तारेण विन्यसेत्।। 28.60 ।।
शङ्खतूर्यादिसंयुक्तं शनैर्गत्वा प्रदक्षिणम्,
अन्तः प्रविश्य तत् पात्रमैशान्यां स्थापयेद् बुधः।। 28.61 ।।
उद्वास्य क्षालितं त्यक्त्वा पात्रमन्यत् समाहरेत्।
अनुयागे नवं बिम्बं शोधयित्वाऽधिवासयेत्।। 26.62 ।।
वैष्णवाग्नौ तु जुहुयात् प्रायश्चित्तं विशेषतः।
पञ्चोपनिषदैर्मन्त्रैराचार्यः सुसमाहितः।। 28.63 ।।
पूर्णाहुतिं ततो दद्याद् द्वादशाक्षरविद्यया।
अष्टाक्षरेण जुहुयात् समिदाज्यचरून् क्रमात्।। 28.64 ।।
सहस्रं वा शतं वाऽपि पञ्चविंशतिमेव वा।
लोहकुम्भं तु संगृह्य सुदुढं सूत्रवेष्टितम्।। 28.65 ।।
पूरयित्वा तु विधना सरत्नं हेमसंयुतम्।
बीजैः सर्वैः समायुक्तं स्थापयेत् तत्र सुस्थितम्।। 28.66 ।।
तत्रावाह्य हरिं पश्चात् पूजयेच्च विधानतः।
पूर्वोक्तेनैव मार्गेण शेषं कर्म समाचरेत्।। 28.67 ।।
स्नपनं चोत्सवं कुर्याद् विधिदृष्टेन कर्मणा।
संवत्सरं नरो भक्त्या समभ्यर्च्य जनार्दनम्।। 28.68 ।।
यत् फलं समवाप्नोति पवित्रारोहणेन तत्।
न करोति विधानेन पवित्रारोहणं तु यः।। 28.69 ।।
तस्य सांवत्सरी पूजा निष्फला कथिता बुधैः।
तस्मात् कर्तव्यमब्देऽब्दे पवित्रारोहणं हरेः।। 28.70 ।।
श्रवणस्य सिते पक्षे द्वादश्यां तु यथाविधि।
सिंहस्थे वा रवौ कार्यं कन्यायां तु स्थितेऽथवा।। 28.71 ।।
कन्यया कर्तितं सूत्रं कार्पासं पद्मजं तु वा।
क्षौमसूत्रं तु वा कुर्यादलाभे दर्भसम्भवम्।। 28.72 ।।
नोपयुक्तं क्रियायां स्यादन्यभक्तादिदूषितम्।
त्रिगुणेन त कर्तव्यं हीनमद्योत्तमं त्रिधा।। 28.73 ।।
तत् सप्तविंशकं कुर्याच्चतुष्पञ्चाशकं तथा।
अष्टोत्तरशतं वा स्याद् वनमाला सहस्रिका।। 28.74 ।।
फलं च मानुषं दिव्यं सालोक्यं मुक्तिरेव च।
नाभ्यूरुजानुमात्रं स्यात् परं बिम्बप्रमाणतः।। 28.75 ।।
ग्रन्थयो द्वादश प्रोक्ता द्विगुणास्रिगुणास्तथा।
कर्तव्यं वनमालायां शतमष्टोत्तरं सदा।। 28.76 ।।
अधिवासनसूत्रे तु ग्रन्थयो द्वादशैव तु।
मन्त्रो द्विजोष्विदंविष्णुरन्येषु द्वादशाक्षरम्।। 28.77 ।।
तावदावर्तयेन्मन्त्रं यावन्तो ग्रन्थयः कृताः।
एकधा च द्विधा चैव त्रिधा चापि पवित्रके।। 28.78 ।।
कुङ्कुमोशीरकर्पूरचन्दनादिविलेपनैः।
ग्रन्थिमध्ये विलिप्याथ तत्त्वन्यासं तु योजयेत्।। 28.79 ।।
अधिवास्य पवित्राणि चैकादश्यामुपोषितः।
गन्धपुष्पैः सम्भ्यर्च्य न्यसेद् देवाग्रतो निशि।। 28.80 ।।
तत्त्वज्ञानपरैः कार्यं पवित्रारोहणं हरेः।
एकादश्यां तदभ्यर्च्य मूलमन्त्रेण भक्तिमान्।। 28.81 ।।
भूषादामनिवेद्यैश्च संपूज्य गरुडध्वजम्।
नृत्तगीतादिसंयुक्तं जागरं तत्र कारयेत्।। 28.82 ।।
सोपवासः शुचिर्भूत्वा कृतजप्यो जितेन्द्रियः।
दद्यात् दानं द्विजाग्रेभ्यो भक्त्याऽभ्यर्च्य हरिं स्मरन्।। 28.83 ।।
तत्राधिवासितं प्रातस्तदादाय पवित्रकम्।
अतोदेवेति सूक्तेन विष्णोर्मूर्ध्नि निवेशयेत्।। 28.84 ।।
शूद्रस्तु मूलमन्त्रेण येन वा पूजयेद्धरिम्।
वेदघोषैर्जयस्तोत्रगीतमङ्गलनिस्वनैः।। 28.85 ।।
पवित्रारोहणं कुर्याद् देवं विज्ञापयेत् ततः।
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः।। 28.86 ।।
इयं सांवत्सरी पूजा तवास्तु गरुडध्वज!।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन!।। 28.87 ।।
यत् पूजितं मया देव! परिपूर्णं तदस्तुते।
वनमालां यथा देव! कौस्तुभं सततं हृदि।। 28.88 ।।
तद्वत् पवित्रतन्तूंश्च पूजां चेमां हृदा वह।
इति विज्ञाप्य देवेशं भक्त्याऽऽनम्य क्षमापयेत्।। 28.89 ।।
ततश्च दद्याद् विप्रेभ्यो हरिमुद्दिश्य दक्षिणाम्।
ततोऽनुपूजयेद् भक्त्या गुरुमन्यांश्च भक्तितः।। 28.90 ।।
मूलमन्त्रेण जुहुयाद् वह्नौ सघृतयावकम्।
ततश्च पूजयेत् भक्त्या विप्रान् दद्याच्च दक्षिणाम्।। 28.91 ।।
सर्वांश्चैवार्थिनः शक्त्या पूजयेदोदनादिभिः।
यावत्तत्त्वयुता पूजा तावत्योऽङ्गुलयोऽत्र वा।। 28.92 ।।
यावन्तो ग्रन्थयश्चोक्तास्तत्त्वैस्तैरनुमन्त्रयेत्।
सांवत्