← पटलः २ विष्णुसंहिता
पटलः ३
[[लेखकः :|]]
पटलः ४ →
विष्णुसंहितायाः पटलाः


।। अथ तृतीयः पटलः ।।


अथ वक्ष्यामि संक्षेपाद् विष्णोर्वैभवमुत्तमम्।
येन ज्ञातेन शुद्धात्मा वैष्णवं पदमाप्नुयात्।। 3.1 ।।
देवतेह परं ज्योतिरेक एव परः पुमान्।
स एव बहुधा लोके मायया भिद्यते स्वया।। 3.2 ।।
पुरुषाख्यः स्वयं मायां प्रकृतिं व्यज्य स द्विधा।
स्थितस्त्रिधा च सत्त्वादिगुणभेदात् प्रतीयते।। 3.3 ।।
विष्णुब्रह्मशिवाख्योऽसौ स्थित्युत्पत्त्यन्तकृन्मतः।
मूर्तयो वासुदेवाद्या धर्मज्ञानादिभेदतः।। 3.4 ।।
चतस्रस्तस्य विज्ञेया वेदवर्णयुगाश्रयाः।
परमेष्ठी पुमान् विश्वो निवृत्तिः सर्व इत्यसौ।। 3.5 ।।
पञ्चधोपनिषद्भेदान्महाभूतत्वमागतः।
मनः श्रोत्रादिभिः षङ्‌भिरङ्गैश्च हृदयादिभिः।। 3.6 ।।
षडक्षरात्मको नित्यमृतुभिश्चैष भिद्यते।
सप्तव्याहृतिभिर्लोकैश्छन्दोभिः क्रतुभिस्तथा।। 3.7 ।।
सप्तधा भिद्यमानोऽसौ विज्ञातव्यो विचक्षणैः।
अष्टप्रकृतिभिश्चासावष्टमूर्तिभिरेव च।। 3.8 ।।
अष्टाक्षरमयो नित्यमष्टधा चैष भिद्यते।
नारायणो नृसिंहश्च वराहो वामनस्तथा।। 3.9 ।।
रामब्रह्मेन्द्रसूर्याश्च चन्द्रस्तैर्नवधा स्थितः।
इन्द्रोऽग्निश्च यमश्चैव निर्ऋतिर्वरुणस्तथा।। 3.10 ।।
वायुश्च सोम ईशानो ब्रह्माऽनन्तश्च ते दश।
एकादशेन्द्रियैर्भिन्नस्तथा द्वादशमासपैः।। 3.11 ।।
स त्रयोदशधा चैव विश्वेदेवादिभिः स्मृतः।
स चतुर्दशधा भिन्नो मनुभिश्चाक्षुषादिभिः।। 3.12 ।।
तिथिभिश्चैव विज्ञेयः स पञ्चदशधा स्थितः।
स्वरैः षोडशधा भिन्नो दिक्कोणावान्तरैस्तथा।। 3.13 ।।
मूर्त्यन्तरैश्च विज्ञेयो बहुधा तस्य विस्तरः।
एकद्वित्रिचतुष्पञ्चषडाद्या विश्वतोमुखाः।। 3.14 ।।
मुखभेदाः समाख्यातास्तस्य विश्वात्मनो हरेः।
द्व्यादयो विश्वतः पाणेर्भुजभेदास्तथा स्मृताः।। 3.15 ।।
विविधाभरणा दीर्घा विविधायुधधारिणः।
मूर्धानश्चैव तस्योक्ता लसन्मकुटकुण्डलाः।। 3.16 ।।
सहस्रं पौरुषे सूक्ते पादाश्चाक्षीण्यनेकशः।
हिरण्यगर्भोऽनेकात्मा विमलः श्याम एव च।। 3.17 ।।
नीलः पीतश्च रक्तश्च नानावर्णश्च कीर्तितः।
चन्द्रादित्यौ स्मृतौ तस्य वामदक्षिणलोचने।। 3.18 ।।
ब्रह्माणमाहुर्मुर्धानं केशांश्चास्य वनस्पतीन्।
भ्रुवेर्मध्यं तथा रुद्रं सोमं च मनसि स्थितम्।। 3.19 ।।
एकादशास्य विज्ञेया रुद्राः कण्ठं समाश्रिताः।
नक्षत्रग्रहताराश्च दर्शनास्तस्य कीर्तिताः।। 3.20 ।।
धर्माधर्मौ तथोर्ध्वाधरोष्ठसम्पुटमाश्रितौ।
इद्राग्नी तालुके तस्य जिह्वा चैव सरस्वती।। 3.21 ।।
दिशश्च विदिशश्चैव श्रोत्रयोः संव्यवस्थिताः।
वायुः प्राणेषु विज्ञेयो मरुतोऽङ्गुलयः स्मृताः।। 3.22 ।।
ऋषयो रोमकूपस्थाः समुद्रा बस्तिगोचराः।
नद्यश्च वसुधा चास्य नागाश्च नलके स्थिताः।। 3.23 ।।
जातुस्थावश्विनौ देवौ पर्वताश्चोरुसंस्थिताः।
गुह्येऽस्य गुह्यका ज्ञेया वसवश्चोरसि स्थिताः।। 3.24 ।।
नखाग्रेषु च विज्ञेया दिव्या ओषधयः स्थिताः।
नासिकायाः पुटौ ज्ञेयावयने दक्षिणोत्तरे।। 3.25 ।।
ऋतवो बाहुमूलस्था मासास्तस्य करेषु च।
ललाटाग्रे स्थिताः सिद्धा भ्रुवोर्मेघाः सविद्युतः।। 3.26 ।।
यक्षकिन्नरगन्धर्वा दैतेया दानवास्तथा।
राक्षसाश्चारणाश्चस्य जठरं तु समाश्रिताः।। 3.27 ।।
पितरः प्रेतकूश्माण्डवेतालप्रमथास्तथा।
पातालगोचराश्चास्य पादयुग्मे व्यवस्थिताः।। 3.28 ।।
पार्श्वयोस्तस्य विज्ञेया यज्ञा वेदिकतान्त्रिकाः।
अग्निहोत्रादिकर्माणि वर्णाश्रमगतानि च।। 3.29 ।।
स्वाहास्वधावषट्काराः सर्वेऽस्य हृदये स्थिताः।
ये वै सहस्रनामानो विष्णवः परिकीर्तिताः।। 3.30 ।।
सहस्रमूर्तयस्तेऽत्र यथायोगमवस्थिताः।
यतः सहस्रसंख्याऽपि बहुसंख्या प्रकीर्तिता।। 3.31 ।।
मूर्तयश्चास्य सर्वास्ताः संख्यातीता ह्यनेकशः।
देवादीनां च सर्वेषां मूर्तयोऽत्रैव कीर्तिताः।। 3.32 ।।
तस्मात् सहस्रमूर्तिः सन् विष्णुः सर्वात्मको मतः।
दर्पणानां बहुत्वे तु दृश्यते नैकता यथा।। 3.33 ।।
तद्वद् बहुत्वं मन्यन्ते विष्णोस्तस्याल्पचेतसः।
यथाऽम्भसीन्दुबिम्बानि प्रतिशब्दाश्च नैकधा।। 3.34 ।।
एकोऽप्यात्मा बहुष्वेवमित्याहुस्तत्त्वदर्शिनः।
परमार्थमजानन्तो मूढास्त्वज्ञानमोहिताः।। 3.35 ।।
क्षेत्रज्ञस्य बहुत्वं हि वदन्तीह रमन्ति च।
ब्राह्मणा यस्य मुखतः क्षत्रिया यस्य बाहुतः।। 3.36 ।।
वैश्या यस्योरुतो जातास्तद्विष्णोः परमं पदम्।
ईदृशं तं महाविष्णुमप्रमेयमनामयम्।। 3.37 ।।
तत्प्रसादादृते वक्तुं ज्ञातुं वा नैव शक्यते।
सर्वदेवाश्रयो विष्णुः सर्वे देवास्तदात्मकाः।। 3.38 ।।
अशेषं वाङ्मयं चेदं लोकालोकं चराचरम्।
व्याप्तं विष्णुशरीरेण वायुनेवाम्बरं सदा।। 3.39 ।।
सर्वे विष्णुपरा देवाः सर्वशास्त्रेषु कीर्तिताः।
यतो जाताऽखिला सृष्टिन्ते तल्लयभागिनी।। 3.40 ।।
ततोऽन्यः पुण्डरीकाक्षात् को विश्वं व्याप्य तिष्ठति।
आधाराधेयभावेन द्विधावस्थो जनार्दनः।। 3.41 ।।
सर्वभूतहितायासौ स्थितः सकलनिष्कलः।
एवं चोभयरूपोऽसौ ज्ञेयो विष्णुः परात् परः।। 3.42 ।।
स्थूलसूक्ष्मपरत्वेन त्रिधा च भगवान् स्थितः।
प्रभविष्णुर्महाविष्णुः सदाविष्णुश्च स स्मृतः।। 3.43 ।।
स ह्यात्मा चान्तरात्मा च परमात्मा च स स्मृतः।
वैराजं लैङ्गिकं चैशं वहिरन्तश्च सर्वशः।। 3.44 ।।
शब्दादिश्चिन्मयं रूपं जाग्रत्स्वप्नसुषुप्तिगम्।
मन्त्रानुस्वारनादेषु त्रयमन्वेषयेद् बुधः।। 3.45 ।।
वेदे साङ्ख्ये च योगे च पञ्चरात्रे च केवले।
धर्मशास्त्रे पुराणे च मुनिभिर्देवमानुषैः।। 3.46 ।।
पठ्यते निखिलैर्नित्यं विश्वं विष्णुमयं जगत्।
अतीतानागतं चैव वर्तमानं च किञ्चन।। 3.47 ।।
इन्द्रियाणीन्द्रियार्थाश्च भूतान्तःकरणानि च।
अव्यक्तं त्रिगुणा माया विद्या धर्मादयस्तथा।। 3.48 ।।
नियतिश्च कला कालः सर्वमन्यच्च तन्मयम्।
विष्णुरेव परो देवः सर्वभूतेष्ववस्थितः।। 3.49 ।।
सर्वभूतानि चैवासौ न तदस्तीह यन्न सः।
देवासुरादयो मर्त्याः पशवश्च सरीसृपाः।। 3.50 ।।
तरुवल्लीतृणौषध्यो महाभ्राशनिविद्युतः।
शैलाब्धिसरिदारामनगराणि सरांसि च।। 3.51 ।।
लोकाश्चानन्तकालाग्निप्रेतावासोरगालयाः।
सप्त भूरादयो ब्राह्मशैववैष्णवसंज्ञिताः।। 3.52 ।।
सर्वे च विष्णुनैकेन व्याप्ता इत्यवधारय।
वराहो भार्गवः सिंहो रामश्रीधरवामनाः।। 3.53 ।।
अश्वकृष्णौ च दिक्ष्वेषां लोकैरण्डं सहाखिलम्।
यच्चानुक्तमशेषेण विष्णोरेता विभूतयः।। 3.54 ।।
विश्वव्यापितयैवैष विष्णुत्वं प्राप्तवान् प्रभुः।
वसनात् सर्वभूतेषु वासुदेवत्वमेव च।। 3.55 ।।
आदिमूर्तेः समाकृष्ट इति सङ्कर्षणः स्मृतः।
प्रद्युम्नो द्युम्नपुष्टत्वादनिरुद्धोऽनिरोधनात्।। 3.56 ।।
अच्युतोऽच्यवनाद् योगात् त्रिधामा धामभिस्त्रिभिः।
विलोमेन्द्रियगम्यत्वाज्ज्ञेयोऽन्तर्याम्यधोक्षजः।। 3.57 ।।
वैकुण्ठामलवर्णत्वाद् वैकुण्ठश्चायमुच्यते।
केशौ सर्गान्तयोरस्य स्त इत्येवैष केशवः।। 3.58 ।।
नरनारीप्रकर्तृत्वान्नराणां चायनादयम्।
नारायणो नरोत्थानामयनत्वादपां च सः।। 3.59 ।।
माधवो मधुषूत्पत्त्या धवत्वाद् वा श्रियः स्मृतः।
गां विन्दतीति गोविन्दो दुःखानां हरणद्धरिः।। 3.60 ।।
मध्वाख्यासुरघातित्वादुच्यते मधुसूदनः।
त्रिभिः स्वैर्विक्रमैर्व्याप्त इति ज्ञेयस्त्रिविक्रमः।। 3.61 ।।
वामनो ह्रस्वतायोगाच्छ्रीधरो वहनाच्छ्रियः।
हृषीकाख्येन्द्रियेशत्वाद्धृषीकेशोऽयमीरितः।। 3.62 ।।
पद्मं नाभेरभूद् यस्य पद्मनाभस्ततः स्मृतः।
उदरालम्बि दामास्येत्युक्तो दामोदरश्च सः।। 3.63 ।।
स रुद्रो रोदानाज्जातो ब्रह्मा बृंहणकर्मणा।
इन्द्रश्च परमैश्वर्याद् वहनाद् वह्निरुच्यते।। 3.64 ।।
यमः संयमनात् पुसां वरणाद् वरुमस्तथा।
वायुर्वानात् सवात् सोम ईशश्चेष्टो जनेष्वतः।। 3.65 ।।
आदित्योऽदितिपुत्रत्वाच्चन्द्रश्चन्दयतीति सः।
इत्येवं गुणगृत्त्योह्यैः शब्दैरेकोऽप्यनेकधा।। 3.66 ।।
प्रतीयतेऽम्भसीवेन्दुर्बहुत्वं नास्य तावता।
यथा सर्वगतो वायुरतिसूक्ष्मो न दृश्यते।। 3.67 ।।
तथा सर्वगतो विष्णुरज्ञैस्तज्ज्ञैस्तु दुश्यते।
इच्छाज्ञानक्रियाभेदात् तिस्रो वै तस्य शक्तयः।। 3.68 ।।
याभिर्द्वादशधा भिन्नाश्चतस्रस्तस्य मूर्तयः।
सा तु शक्तिः परा सूक्ष्मा येच्छाख्या कामरूपिणी।। 3.69 ।।
ओतं प्रोतं यया सर्वं दृश्यते सचराचरम्।
द्विधा विभज्य साऽऽत्मानं क्रियाज्ञानप्रवर्तनम्।। 3.70 ।।
प्रकरोति जगत् कृत्स्नं स्वतन्त्रमिव तद्वशात्।
क्रियाशक्त्यापरो विष्णुः ज्ञानशक्त्या खगेश्वरः।। 3.71 ।।
तं यज्ञपुरुषं प्राहुस्तपश्छन्दोमयं खगम्।
इच्छाशक्त्या तु विज्ञेयः पुरुषोः यः परोऽव्ययः।। 3.72 ।।
ज्ञानपूर्वं प्रवर्तेत क्रिया कर्ता ततः पुनः।
ज्ञानाधारा क्रिया ज्ञेया न चैका संप्रवर्तते।। 3.73 ।।
क्रियाज्ञानप्रभेदेन शक्तिरेका परस्य नुः।
द्विधा व्याप्य जगत् कृत्स्नं चराचरमवस्थिता।। 3.74 ।।
शक्तिशक्तिमतोर्यस्मान्न भेदोऽस्ति परस्परम्।
अभिन्नं तेन बोद्धव्यं क्रियाज्ञानद्वयं बुधैः।। 3.75 ।।
एक एव त्रिधारूपो भेदेनानेन संस्थितः।
क्रिया ज्ञान तथेच्छा च त्रितयं चैकमेव हि।। 3.76 ।।
उपचारः स्मृतो भेद एकस्यैव महात्मनः।
खगोपेन्द्रशिवाश्चैवमभिन्नास्तेन किर्तिताः।। 3.77 ।।
इन्द्रियाणीन्द्रियार्थाश्च बुद्धेरेव विभूतयः।
अहङ्कारविकाराश्च जलबुद्बुदवन्मताः।। 3.78 ।।
गोष्वप्यनेकवर्णासु यथा क्षीरैकवर्णता।
तथाऽऽश्रयेषु भिन्नेष्वप्येकरूपमवेक्ष्यताम्।। 3.79 ।।
क्षणभङ्गि जगत् सर्वं विद्ध्येतत् सचराचरम्।
तदभङ्ग्येकमेवेह यद् विष्णोः परमं पदम्।। 3.80 ।।
तस्येश्वरस्य चैश्वर्यात् सर्वमेतत् प्रवर्तते।
सेश्वरं हि जगत् कृत्स्नं नानीश्वरमिदं भवेत्।। 3.81 ।।
क्षेत्रज्ञस्य बहुत्वं च वदन्त्यज्ञानमोहिताः।
न क्षेत्रज्ञबहुत्वं तु तत्त्वज्ञानां तु सम्मतम्।। 3.82 ।।
उपाधिभेदाद् ये त्वाहुर्बहुत्वं परमात्मनः।
संसरन्त्येव ते मूढा नाप्नुवन्ति परं पदम्।। 3.83 ।।
येषां विश्वसृजोऽप्यस्य सर्वज्ञत्वमनीप्सितम्।
तैः प्रमाणप्रमेयानां सम्बन्धो नोऽवधारितः।। 3.84 ।।
संस्थानिनां समुत्पत्त्या जगतो जन्म यन्मतम्।
तदीशकृतमन्योऽलं प्रकृतेर्न हि चोदने।। 3.85 ।।
तस्मादीशकृतं विश्वं तदूढं तन्मयं तथा।
तत्पालितं तदर्थं च तदीयं चेति गृह्यताम्।। 3.86 ।।
तस्येदृशस्य देवस्य प्रभावो नन्वदुर्गमः।
स्वयमेव स तं वेद यदि वा न तथा श्रुतेः।। 3.87 ।।
यतो जाताऽखिला सृष्टिरियं को वेद तत् परम्।
अर्वाग्देवा हि तत्सृष्टा ब्रह्माद्या अपि मूर्तयः।। 3.88 ।।
तथाऽपि महिमोद्देशस्तस्योक्तोऽचिन्त्यरूपिणः।
वक्ति यन्महिमानन्त्यं न ते विष्णाविति श्रुतिः।। 3.89 ।।

।। इति विष्णुसंहितायां तृतीयः पटलः ।।

"https://sa.wikisource.org/w/index.php?title=विष्णुसंहिता/पटलः_३&oldid=207293" इत्यस्माद् पुनः प्राप्तिः