← पटलः ५ विष्णुसंहिता
पटलः ६
[[लेखकः :|]]
पटलः ७ →
विष्णुसंहितायाः पटलाः


।। अथ षष्ठः पटलः ।।

अथ वक्ष्यामि संक्षेपात् स्नानाचामादि पूजनम्।
येन सम्यक्कृतेनेह साधकः सिद्धिमाप्नुयात्।। 6.1 ।।
तीर्थे नद्यां तटाके वा सुधीर्गत्वा कुशादिमान्।
मृदमस्त्रेण सङ्गृह्य सर्वदोषविवर्जिताम्।। 6.2 ।।
अस्त्रेण क्षालिते तीर्थे संस्थाप्य विभजेत् त्रिधा।
अस्त्रेण च हृदा प्रोक्ष्य भागांस्तान् कवचेन च।। 6.3 ।।
प्रदक्षिणं परिक्रम्य नमस्कृत्वाऽथ तज्जलम्।
पूर्वांशेन मलस्नानं कृत्वा मज्जेत् त्रिरोमिति।। 6.4 ।।
द्वितीयेनालभेत् पश्चादाचम्य विधिपूर्वकम्।
तृतीयं दिक्षु सर्वासु क्षिपेद् विघ्नोपशान्तये।। 6.5 ।।
प्रतिस्रोतः पुनर्मज्जेत् तीर्थं ध्यात्वा तु वैष्णवम्।
तीर्थं पुनः समासाद्य विधिनाऽऽचम्य वाग्यतः।। 6.6 ।।
मन्त्रन्यासं क्रमात् कृत्वा प्रोक्ष्य मूलादिभिस्तथा।
ततश्चाचम्य कुर्वीत प्राणायामत्रयं क्रमात्।। 6.7 ।।
मूलमन्त्रेण साङ्गेन व्यस्तेन सुसमाहितः।
नाभ्याश्लिष्टेन तोयेन ततस्तेनाधमर्षणम्।। 6.8 ।।
समस्तेन समुद्दिष्टं सर्वपापहरं तथा।
कृत्वाऽभिषेकमुत्तीर्य परिधाय सिताम्बरम्।। 6.9 ।।
आचान्तो न्यस्य सम्प्रोक्ष्य कुशाग्रैः पूर्ववत् क्रमात्।
उपविश्य शुचौ देशे प्राणायामत्रयं चरेत्।। 6.10 ।।
परतत्त्वेन कृत्वैवं नमस्कृत्य च मार्जयेत्।
उपस्थानं ततः कुर्यात् परतत्त्वेन देशिकः।। 6.11 ।।
ध्यात्वा ज्योतिर्मयं विष्णुं मण्डलस्थं जलार्घ्यदः।
स्थित्वाऽष्टोत्तरजप्तेन मूलमन्त्रशतेन तु।। 6.12 ।।
गायत्र्या चैव वैष्णव्या प्रणवाद्यन्तरुद्धया।
उपविश्य शुचौ देशे ततस्तर्पणमारभेत्।। 6.13 ।।
विष्ण्वादिदेवताश्चर्षीन् मनुष्यां पितॄंस्तथा।
तर्पयेत् तानशेषेण पश्चात् तीर्थं तु संहरेत्।। 6.14 ।।
मूलमन्त्रं जपन् गच्छेद् वाग्यतश्चिन्तयन् हरिम्।
आजानु पादौ प्रक्षाल्य हस्तावाकोर्परं पुनः।। 6.15 ।।
त्रिः पिबेदं ब्रह्मतीर्थेन द्विरून्मृज्य मुखं पुनः।
वामहस्तं च पादौ च प्रोक्ष्याङ्गानि पुनः स्पृशेत्।। 6.16 ।।
वेदास्त्रयस्त्रिभिः पानैः पितरश्च पितामहाः।
क्रमशस्तृप्तिमायान्ति तथैव प्रपितामहाः।। 6.17 ।।
मार्जने प्रथमे ब्रह्मा द्वितीये दक्ष एव च।
तत्राथर्वेतिहासाश्च तृप्तिमायान्ति संस्मृताः।। 6.18 ।।
चक्षुषोः स्पृष्टयोस्तृप्तिं चन्द्रादित्यौ प्रयास्यतः।
अङ्गुष्ठेऽनामिकां कृत्वा तर्जनीं पवनो नसोः।। 6.19 ।।
कनिष्ठां कर्णयोर्दस्रौ बाह्वोरङ्गुष्ठकेन च।
शक्रशैलाश्च तृप्यन्ति नाभौ विष्णुश्च मध्यया।। 6.20 ।।
महाविष्णुः सदा विष्णुश्चतुर्भिर्हृदि केऽखिलैः।
एतदाचमनं प्रोक्तं दीक्षितस्य विसेषतः।। 6.21 ।।
यागस्थानं समासाद्य देवं संस्मृत्य वाग्यतः।
अस्त्रेम गृहमालोक्य वेदिं स्थण्डिलमेव च।। 6.22 ।।
ततः प्रदक्षिणीकृत्य नमस्कृत्य समाहितः।
कृत्वोपवीतवद्वस्त्रमुत्तरं प्राङ्मुखः शुचिः।। 6.23 ।।
नारसिंहेन दिग्बन्धं कृत्वा पद्मासनस्थितः।
परतत्त्वं समुच्चार्य कृत्वा ब्रह्माञ्जलिं शुभम्।। 6.24 ।।
प्राणायामत्रयं कुर्याद् धारणात्रयसंयुतम्।
नाभिमण्डलमध्ये यं धूम्रं चण्डानिलात्मकम्।। 6.25 ।।
विश्लेषयदघं देहात् सर्वगात्रोपशोषकम्।
धारयेद्‌धृदये चाग्निं तारेणार्कादुपाहृतम्।। 6.26 ।।
ज्वालाभिस्तिर्यगूर्ध्वाधो दहन्तं काष्ठवत् तनुम्।
शिखान्ते जीवमायोज्य बीजेन सुसमाहितः।। 6.27 ।।
गत्वा सुषुम्नारन्ध्रेण ततोऽर्कस्योपरिस्थितात्।
चन्द्रादमृतमानीय स्वतनुं भस्मसात्कृताम्।। 6.28 ।।
प्लावयित्वा नवं देहं पार्थिवैः परमाणुभिः।
जलबुद्बुदमध्यस्थं प्राजापत्यं तु कल्पयेत्।। 6.29 ।।
आत्मानं योजयित्वाऽत्र सर्वज्ञं गतकल्मषम्।
अस्त्रशोधितयोर्मूलं करयोर्व्यापकं न्यसेत्।। 6.30 ।।
दक्षिणेऽङ्गुष्ठमारभ्य बीजानि क्रमशो न्यसेत्।
ताराद्यन्तानि वामेऽपि तलान्तमुभयत्र तु।। 6.31 ।।
अङ्गानि च तयोर्न्यस्य सर्वाङ्गे व्यापकं न्यसेत्।
प्रथमं मूर्न्धि विन्यस्य ललाटे च द्वितीयकम्।। 6.32 ।।
तृतीयं हृदये चैव चतुर्थं नाभिमण्डले।
पञ्चमं तु न्यसेदूर्वोः पादावस्थं तु षष्ठकम्।। 6.33 ।।
सृष्टिन्यासोऽयमासीने कर्तव्यः काम्यसिद्धये।
स्थिते कुर्यात् स्थितिन्यासं नाभ्यादि हृदयान्तकम्।। 6.34 ।।
शयिते संहृतिन्यासं पादादि प्रतिलोमतः।
स्थितिन्यासो गृहस्थस्य सृष्ट्याख्यो ब्रह्मचारिणः।। 6.35 ।।
मुमुक्षोः संहृतिन्यास एवं न्यासस्रिधा स्मृतः।
एवं न्यासविधिं कृत्वा ताराद्यन्तैः षडक्षरैः।। 6.36 ।।
हृदयादीनि चाङ्गानि स्वस्थानेषु नियोजयेत्।
जप्त्वा मन्त्रं ततोऽस्त्रेण संविध्य शकलं त्यजेत्।। 6.37 ।।
पुष्पमस्त्रेण च क्षिप्त्वा सम्भारानुपकल्पयेत्।
अस्त्रक्षालितपात्रस्थे गन्धपुष्पान्विते जले।। 6.38 ।।
मन्त्रं न्यस्याष्टकृत्वस्तु प्रणवेनाभिमन्त्रयेत्।
ततस्तु प्रोक्षणं कुर्यादस्त्रमन्त्रेण सर्वतः।। 6.39 ।।
फट्कारान्तेन मेधावी ततः पीठं प्रकल्पयेत्।
मण्डले स्थण्डिलेऽर्चायां पूजयेद्‌धृदि वा बुधः।। 6.40 ।।
स्थण्डिलाद्यर्चनात् सिद्धो हृत्पद्मे मनसाऽर्चयेत्।
धर्माधर्मादिपादेषमनन्तमयमासनभ्।। 6.41 ।।
त्रिगुणाकलितं मायाविद्यासितसितास्तरम्।
विपुलं स्थण्डिलेभ्यर्च्य गन्धपुष्पैर्यथाक्रमम्।। 6.42 ।।
तस्योपरि तथा पद्मं प्रणवेन समाहितः।
तदंशैः सूर्यसोमाग्निमण्डलात्मत्रयं पुनः।। 6.43 ।।
उपर्युपरि सङ्कल्प्य पत्रकेसरकर्णिकाः।
विमलोत्कर्षिणी ज्ञाना क्रिया योगा यथाक्रमम्।। 6.44 ।।
प्रह्वी सत्या तथेशा च केसरेष्वष्ट शक्तयः।
मध्यतोऽनुग्रहा चान्ते पूज्याः सर्वार्थसिद्धये।। 6.45 ।।
हृद्येवं योगपीठस्थं ध्यात्वा विष्णुमतन्द्रितः।
क्षालिते तैजसे पात्रे गन्धपुष्पयुतोदके।। 6.46 ।।
प्रणवेन स्मरेद् विष्णुमव्यक्तस्योपरिस्थितम्।
विष्णुमूर्तिं ततो ध्यात्वा सर्वतेजोमयं विभुम्।। 6.47 ।।
कर्णिकोपरि सञचिन्त्य निरुध्य सकलीकृतम्।
पूजयेत् साङ्गमव्यग्रे भक्त्याऽर्घ्यादिभिरच्युतम्।। 6.48 ।।
पूर्वेण हृदयं न्यस्य दक्षिणेन शिरस्तथा।
पश्चिमेन शिखां चैव कवचं चोत्तरेण तु।। 6.49 ।।
आग्नेयादिषु काणेषु पूजयेदस्त्रमुत्तमम्।
वासुदेवादिकान् न्यस्य दिक्षु शक्तीश्च कोणतः।। 6.50 ।।
तद्बहिः शङ्खचक्राब्जगदा दिक्षु निवेशयेत्।
कोणेषु च ततः शार्ङ्गखेटखङ्गशरान् न्यसेत्।। 6.51 ।।
इन्द्रमग्निं यमं चैव निर्ऋतिं वरुणं तथा।
वायुं सोमं तथेशानं स्वासु दिक्षु क्रमान्न्यसेत्।। 6.52 ।।
वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा।
गदां त्रिशूलं च बहिस्तेषामस्त्राणि कल्पयेत्।। 6.53 ।।
अग्रतो वैनतेयं तु तृतीयावरणाद् बहिः।
विष्वक्सेनं तथैशान्यां द्वितीयावरणाद् बहिः।। 6.54 ।।
सर्वेषामपि चैतेषां प्रत्येकम पद्ममासनम्।
नामभिः कल्पयेद् विद्वानर्ध्यं देवाय भक्तितः।। 6.55 ।।
पाद्यमाचमनीयं च स्रानमालेपनं तथा।
वस्त्रालङ्कारपुष्पाणि धूपदीपनिवेद्यकम्।। 6.56 ।।
तत्सर्वं विष्णुगायत्र्या दातव्यं तु यथाक्रमम्।
दत्त्वा देवाय भूषान्तं स्नानाद्यङ्गेषु कल्पयेत्।। 6.57 ।।
गायत्र्या च ततः पुष्पं देवायान्येभ्य एव च।
व्यस्तेन मूलमन्त्रेण समस्तेन च तैः सह।। 6.58 ।।
यागोऽयं तस्य विज्ञेयः सदाऽन्येऽर्च्याः स्वनामभिः।
परतत्त्वेन व्याप्यान्ते पूजयेत् तं सनातनम्।। 6.59 ।।
धूपं दीपं निवेद्यं च दत्त्वाऽस्मै विधिपूर्वकम्।
यथासम्भवतोऽन्येषां निवेद्यमुपकल्पयेत्।। 6.60 ।।
अग्नौ च कल्पयेत् साङ्गं योगपीठस्थमुज्ज्वलम्।
परिस्तरणपर्युक्षापवित्रकरणादि यत्।। 6.61 ।।
प्रणवेनैव सर्वं तत् कृत्वाऽथाज्येन होमयेत्।
दशांशमङ्गमूर्त्तीनामन्येषामेकशः क्रमात्।। 6.62 ।।
नमः परिषदेभ्यश्चेत्यष्टदिक्षु बलिं हरेत्।
आचम्य सकलीकृत्य जप्त्वा स्तुत्वा प्रणम्य च।। 6.63 ।।
अर्घ्यं दत्त्वा क्षमस्वेति संहृत्य हृदि योजयेत्।
ध्यायेज्ज्योतिर्मयं देवं शङ्खचक्रगदाधरम्।। 6.64 ।।
पीतवस्त्रमुदाराङ्गं सर्वाभरणभूषितम्।
शुद्धस्फटिकसङ्काशं वासुदेवं चतुर्भुजम्।। 6.65 ।।
शङ्खचक्रगदापाणिं धृतश्रीवत्सकौस्तुभम्।
तथा सङ्कर्षणं ध्यायेज्जातरूपसमप्रभम्।। 6.66 ।।
दूर्वामरकतप्रख्यं प्रद्युम्नं च तथा स्मरेत्।
नीलाम्बुदप्रतीकाशमनिरुद्धं तथैव च।। 6.67 ।।
शान्तस्फटिकसङ्काशां श्रियं पद्मरजःप्रभाम्।
सरस्वतीं तथारूपां रतिं श्यामां तु चिन्तयेत्।। 6.68 ।।
शुक्लवर्णं तथा शङ्खं चक्रमग्निसमप्रभम्।
गदां चैव हरिद्राभां सुवर्णाभं तु पङ्कजम्।। 6.69 ।।
गदां स्त्रीलक्षणैर्युक्तां सर्वसंहारकारिणीम्।
खड्गमाकाशसंकाशं ध्यायेच्चक्रसमाकृतिम्।। 6.70 ।।
शार्ङ्गं च तत्समं पीतमधोभागे गदासमम्।
शरं च धनुराकारं खेटकं खङ्गसन्निभम्।। 6.71 ।।
चक्रमुग्रं प्रभूताक्षं नाभ्यरप्रथिनेमिकम्।
लेलिहानं दुरालोकं भ्रमद्वह्निस्फुलिङ्गमुक्।। 6.72 ।।
चतुर्बाहुं द्विबाहुं वा दंष्ट्रिणं पिङ्गमूर्धजम्।
लम्बोदरं तथा शङ्खं ह्रस्वकुञ्चितमूर्धजम्।। 6.73 ।।
इन्द्रः श्यामो यमः पीतो वरुणः श्याम एव च।
शङ्खामलरुचिः सोमो वह्निः शोणस्तु कीर्तितः।। 6.74 ।।
सदंष्ट्रो निर्ऋतिः श्यामो वायुर्धूम्रः प्रशस्यते।
ईशानस्तु भवेद् रक्त एवं ध्यायेत् क्रमादिमान्।। 6.75 ।।
इन्द्रकारं भवेद् वज्रं चित्रशास्त्रोदितं तु वा।
एवमस्त्राणि दिक्पानामन्येषां च प्रकल्पयेत्।। 6.76 ।।
अग्निवर्मश्चतुर्बाहुस्तार्क्ष्यो लूनाग्रनासिकः।
ग्रसन्निव दृशा ध्येयो महापक्षो महाबलः।। 6.77 ।।
विष्वक्सेनोऽभ्रवर्णस्तु शङ्खचक्रगदाधरः।
पञ्चमूर्धा चतुर्बाहुरनन्तः पृष्ठतो हरेः।। 6.78 ।।
ध्येयोऽन्ये पार्षदास्तस्य ज्ञातव्याश्चागमान्तरे।
योऽनेन विधिना विष्णुं पूजयेद् भक्तिमान् नरः।। 6.79 ।।
तस्य हस्तगताः कामा इहामुत्र च योगिनः।। 6.80 ।।

।। इति विष्णुसंहितायां षष्ठः पटलः ।।


"https://sa.wikisource.org/w/index.php?title=विष्णुसंहिता/पटलः_६&oldid=207296" इत्यस्माद् पुनः प्राप्तिः