← पटलः ७ विष्णुसंहिता
पटलः ८
[[लेखकः :|]]
पटलः ९ →
विष्णुसंहितायाः पटलाः


।। अथ अष्टमः पटलः ।।

अथ वक्ष्यामि संक्षेपादग्निसंस्कारमुत्तमम्।
प्राच्यां कुण्डमुदीच्यां वा स्थण्डिलं वाऽप्यसम्भवे।। 8.1 ।।
द्विहस्तमेकहस्तं वा चतुरश्रं त्रिमेखलम्।
द्विमेखलं वा कुण्डं स्यादेकमेखलमेव वा।। 8.2 ।।
एककुण्डस्य मानार्धं खातमन्यत्र तत्समम्।
द्वादशाष्टचतुर्भिः स्यादङ्गुलैर्मेखलोन्नतिः।। 8.3 ।।
सात्तविकी राजसी चात्र तामसी मेखलाः स्मृताः।
चतुरङ्गुलविस्ताराः सर्वास्ता हस्तमात्रके।। 8.4 ।।
द्विगुणे द्विगुणा ज्ञेया योनिः पश्चिमतो भवेत्।
चतुर्दशाङुला पश्चात् तन्नालं चतुरङ्गुलम्।। 8.5 ।।
अष्टाङ्गुलं भवेद् वृत्तं निर्वाहस्तु षडङ्गुलः।
गजोष्ठसदृशोऽश्वत्थपत्राग्राकार एव वा।। 8.6 ।।
प्राजापत्या गजोष्ठाग्रा योनिरन्या तु वैष्णवी।
कुण्डस्था वैष्णवी शक्तिः प्रकृतिस्त्रिगुणात्मिका।। 8.7 ।।
सा योनिः सर्वभूतानां सिद्धीनां च विशेषतः।
प्राच्यां शिरः समाख्यातं बाहू दक्षिणसौम्ययोः।। 8.8 ।।
उदरं कुण्डमित्युक्तं योनिः पादौ च पश्चिमे।
पदान्येकोनपञ्चाशत् कुण्डे सप्तविभाजिते।। 8.9 ।।
आदिहान्तां क्रमात् तेषु पदेषु परिकल्पयेत्।
प्रणवं पूर्वमुद्दिश्य मेखलात्रितयेंऽशकान्।। 8.10 ।।
व्यापिनं पुरुषं नादं स्मरेद् व्याप्तां च मातृकाम्।
विसर्गं योनिमध्ये च ध्यात्वाऽग्नीषोमबिन्दुकम्।। 8.11 ।।
गर्भरूपा तु सा योनिर्मातृकेयं तदुद्भवा।
पितृमर्त्यसुरांशस्थां प्रादक्षिण्येन पूजयेत्।। 8.12 ।।
हकारं मध्यकोष्ठेऽन्त्यं विष्णुं जीवात्मकं तथा।
गर्त्ताकारोदरा सेयं प्रकृतिर्गर्भभागिनी।। 8.13 ।।
ज्ञातव्या साधकेनैवं परां सिद्धिमभीप्सता।
गायत्री कुण्डरूपेयं चतुर्विंशतिधा स्थिता।। 8.14 ।।
तारात्मकः पुमान् विष्णुरधिष्ठाताऽत्र कीर्तितः।
नाभिगुह्यान्तरं विद्यादग्निस्थानं तु देहिनाम्।। 8.15 ।।
तत्रैवाधीयते गर्भस्तत्र होमश्च सिद्धये।
चतुर्विंशाङ्गुलं कुण्डं गायत्रीसंख्यया स्मृतम्।। 8.16 ।।
चतुर्विंशतितत्त्वानि द्विहस्ते द्व्यङ्गुलानि तु।
स्वराः पञ्चदशाधस्ताद् योनिः पञ्चदशाङ्गुला।। 8.17 ।।
षोडशः सविसर्गोऽत्र नाभ्यन्ते संव्यवस्थितः।
सैव शक्तिः परा विष्णोः परमामृतवाहिनी।। 8.18 ।।
अग्नीषोमात्मिका दिव्या सर्वं ज्ञेयं च तन्मयम्।
साग्निरूपेण संहारं सोमरूपेण चोदयम्।। 8.19 ।।
करोति बिन्दुयुग्मस्था नित्यमेषा मदिच्छया।
ब्रह्मलोकं स्थिता भित्त्वा गता मूर्ध्ना ममालयम्।। 8.20 ।।
पितृयानं च वामे स्याद् देवयानं च दक्षिणे।
मध्यमे ब्रह्मणो मार्गो मुक्तये सैवमीरिता।। 8.21 ।।
साऽग्निरूपा व्रजत्यूर्ध्वं सोमरूपा व्रजत्यधः।
वामदक्षिणतो हित्वा स्थिता व्याप्य जगत्त्रयम्।। 8.22 ।।
इडा च पिङ्गला नाड्यौ वामदक्षिणपार्श्वयोः।
सुषुम्नोर्ध्वगता नाडी मोक्षमार्गस्तु स स्मृतः।। 8.23 ।।
तत्र चित्तं समाधाय धर्मधर्मविवर्जितम्।
सर्वरोगविनिर्मुक्तो लयमायात्यसंशयम्।। 8.24 ।।
एवं कुण्डशरीरं तु ज्ञातव्यं मातृकामयम्।
लीयते विश्वमत्रेति कुण्डं तद्विश्वकुण्डनात्।। 8.25 ।।
तस्मात् कुण्डेऽत्र होतव्यं विधिदृष्टेन वर्त्मना।
सुसंस्कृते यथा क्षेत्रे फलं प्राप्नोति कर्षकः।। 8.26 ।।
हुतभुक् च तथा ज्ञेयः संस्कृतः फलदो नृणाम्।
यथैवाज्यस्य संस्कारः कर्तव्योऽग्नेस्तथैव च।। 8.27 ।।
होतव्यं संस्कृते तस्मादग्नौ नासंस्कृते बुधैः।
शिष्यस्यैव तु संस्कारो वह्नेराज्यस्य वाऽत्र यः।। 8.28 ।।
नाग्न्यर्थस्तत्त्वतस्तस्मादिष्टो यागेषु सर्वथा।
मथितं मणिजं वाऽथ श्रोत्रियागारजं तु वा।। 8.29 ।।
शरावेणाग्निमानीय तमस्त्रेण तु शोधयेत्।
संहारमुद्रया तस्य जीवमात्मनि योजयेत्।। 8.30 ।।
शय्यां तु चिन्तयित्वाऽऽदौ धर्माधर्मादिसंयुताम्।
वरास्तरणसंछन्नां धूपामोदाधिवासिताम्।। 8.31 ।।
सुगन्धकुसुमाकीर्णां नानाद्रव्यैश्च शोभिताम्।
ध्यायेल्लक्ष्मीं च वाग्रूपां भूषितां नवयौवनाम्।। 8.32 ।।
साभिलाषामृतुस्नातां फुल्लपङ्गजधारिणीम्।
एवं च चिन्तयेत् सौम्यं सदा प्रहसिताननम्।। 8.33 ।।
रत्यर्थिनं समासक्तदृष्टिं देवीमुखाम्बुजे।
एवंरूपावुभौ ध्यात्वा गन्धपुष्पैः प्रपूजयेत्।। 8.34 ।।
देवस्य सुक्लमध्यस्थमग्निबीजं तु चिन्तयेत्।
गर्भाशयप्रविष्टं तु तद्रक्तेन समन्वितम्।। 8.35 ।।
देवं विसर्जयेत् पश्चात् गर्भाधाने कृते तथा।
कुण्डभूतां ततो देवीं वह्निभूतं च तं स्मरेत्।। 8.36 ।।
तत्पुंसवनसीमन्तजातनामाशनक्रियाः।
हृदयादिभिरंष्टाष्ट हुत्वाऽऽज्यं कल्पयेत् क्रमात्।। 8.37 ।।
वैषडन्तेन मन्त्रेण प्लुतान्तेन यथाविधि।
पृथक् पूर्णाहुतिं दद्याद् गन्धपुष्पैश्च पूजयेत्।। 8.38 ।।
प्रणवस्तु स्रुवो ज्ञेयो मातृका स्रुगिति द्वयम्।
पुरुषप्रकृतित्वेन विज्ञातव्यं विचक्षणैः।। 8.39 ।।
रत्निमात्रं स्रुवं कुर्याद् वर्तुलं द्व्यङ्गुलं मुखम्।
गोष्पदं तु यथा मग्नमल्पपङ्के तथा भवेत्।। 8.40 ।।
वर्तुलानन्तरग्रन्थिविष्कम्भेणाङ्गुलो भवेत्।
दण्डस्तु वर्तुलाकारो ग्रन्थिवक्रादिवर्जितः।। 8.41 ।।
क्रमात् तनूकृताग्रोऽधो नाडी स्याच्चतुरङ्गुला।
स्वयं निपतितः शुष्को दग्धो भग्नश्च दन्तिना।। 8.42 ।।
दुष्टदेशभवो वक्रः स्फुटितश्च सकोटरः।
सक्षतः कृमिजुष्टोऽन्यवृक्षजश्चान्यतोमुखः।। 8.43 ।।
स्रुवः स्यादभिचाराय स्रुग्वा तस्मान्न कारयेत्।
क्षीरवृक्षोद्भवः शान्त्यै खादिरः सर्वकामदः।। 8.44 ।।
ब्रह्मवर्चसकृद् ब्राह्मो जुहूर्ब्राह्मी सदा भवेत्।
ऋग्वेदाद्यास्त्रयो वेदा ब्रह्माद्याश्चैव देवताः।। 8.45 ।।
भूरादयोऽग्नयोऽवस्थाः सवनान्यक्षराणि च।
प्रणवांशक्रमाद्दण्डग्रन्थिवृत्तेषु कल्पयेत्।। 8.46 ।।
बाहुमात्रां स्रुचं सप्तषट्पञ्चाङ्गुलविस्तराम्।
कारयेन्मध्यतो वृत्तं त्रिभागेन च खातयेत्।। 8.47 ।।
तिर्यगूर्ध्वं समं तस्य बहिरर्धं तु शोधयेत्।
अङ्गुलस्य चतुर्थाशं शैषार्धेऽर्धं तथाऽन्ततः।। 8.48 ।।
खातस्य मेखलां रम्यां शेषार्धेन तु कारयेत्।
कलाध्यर्धाङ्गुलायामं कण्ठं त्र्यंशैकविस्तृतम्।। 8.49 ।।
चतुरङ्गुलविस्तारं मुखं पञ्चाङ्गुलं तथा।
समायामं तु कर्तव्यं शुभं हंसमुखाकृति।। 8.50 ।।
धाराकुल्या च तन्मध्ये वृत्तगर्तप्रवेशिनी।
कण्ठे कनीयसी नाहं सुषिरं तस्य कल्पयेत्।। 8.51 ।।
धारा स्यात्तदधोभागे दण्डमूले च युक्तितः।
शेषं दण्डं सुवृत्तं च क्रमेणाग्रं तनूकृतम्।। 8.52 ।।
प्रादक्षिण्याद् बिलस्यान्तर्न्यस्तव्याः षोडश स्वराः।
दण्डेऽन्ये कोणतोऽन्तःस्था बिलपार्श्वाग्रगाः परे।। 8.53 ।।
तया पूर्णाऽत्र दातव्या स्रुवसम्पुटगुप्तया।
स्रुवेण केवलेनापि होमस्तत्सहितेन च।। 8.54 ।।
स्रुचा नो स्रुवया? तारः केवलोऽपि हि सिद्धिदः।
सृष्ट्यर्थोऽयं स्रुवस्तस्मात् तेनासीनस्तु होमयेत्।। 8.55 ।।
स्थित्यर्थं स्रुक् तया पूर्णां तिष्ठन्नेव तु दापयेत्।
गायत्री तु जुहूर्ब्राह्मी स्याच्चतुर्विशद्ङ्गुला।। 8.56 ।।
दण्डाग्रेऽस्यां मुखाग्रेऽन्तर्गण्डयोराज्यवर्त्मनि।
हृदयादीनि नेत्रान्तान्यङ्गानि परिकल्पयेत्।। 8.57 ।।
तारोपस्तीर्णया नित्यं तया पक्वं तु होमयेत्।
प्राणापानस्वरूपौ च स्रुक्स्रुवौ कथितावुभौ।। 8.58 ।।
कर्तव्यौ नाभिसंलग्नौ प्राणस्थानं तु तद्विदुः।
धूमस्तु नासिका ज्ञेया पार्श्वयोः कर्णचक्षुषी।। 8.59 ।।
पूर्वापरं ललाटास्यं वह्निस्थानमिदं भवेत्।
कृत्वोल्लेखादि गायत्र्या परिधायार्चितेऽनले।। 8.60 ।।
पूर्ववत् पङ्कजं ध्यात्वा सर्वतत्त्वान्यनुक्रमात्।
मध्ये जनार्दनं ध्यायेत् सूर्यकोटिसमप्रभम्।। 8.61 ।।
आहुतीनां सहस्रेण तर्पयेत् तं शतेन वा।
दश पूर्णाहुतीस्तत्र मूलमन्त्रेण होमयेत्।। 8.62 ।।
दशांशेनेतरांश्चैव तर्पयेच्चरूणैव वा।
नैत्यके तु विधिर्ह्येष कर्तव्यो दीक्षितैर्द्विजैः।। 8.63 ।।
शोषदाहामृतप्लावकाठिन्यपरिकल्पनैः।
तत्तद्बीजकृतैः शोध्यं वह्नेरायतनं सदा।। 8.64 ।।
यत्परिस्तीर्यते दर्भैर्यत्प्रणीता निधीयते।
यद्ब्रह्मा कल्प्यते चात्र सर्वं तद्विघ्नशान्तये।। 8.65 ।।
स्निग्धे प्रदक्षिणवर्ते सुसमिद्धे हुताशने।
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये।। 8.66 ।।
अल्पतेजाश्च रूक्षश्च शुक्लः कृष्णश्च योऽनलः।
भूलेही विष्फुलिङ्गी च दुर्गन्धश्च न शस्यते।। 8.67 ।।
रूपादिभेदतः काळी कराळी च मनोजवा।
लोहिता चार्धधूम्रा च ज्वाला चाथ स्फुलिङगिनी।। 8.68 ।।
विश्वरूपेति सप्तैता जिह्वा ज्ञेया हविर्भुजः।
ताभिरस्य मुखं पूर्णं विदीर्ण सप्तजिह्वकम्।। 8.69 ।।
लेलिह्यमानमुज्ज्वालं सदा ध्येयं जुहूषता।
कर्षार्धं जुहुयादाज्यमन्नं ग्रासार्धमात्रकम्।। 8.70 ।।
शुक्तिमात्राहुतीर्दध्नः क्षीरस्य मधुनस्तथा।
यवतण्डुलशालीनां प्रसृतिः पृथुकस्य च।। 8.71 ।।
लाजानां मुष्टिमात्रं तु फलानां स्वप्रमामतः।
भक्ष्याणामभयामात्रं मूलानां खण्डनत्रयम्।। 8.72 ।।
दूर्वाणां च त्रयं साग्रं सक्तूनां कर्षमात्रकम्।
तिलानां सर्षपाणां च मुद्गानां चैव पञ्चकम्।। 8.73 ।।
एकैकं चैव होतव्यं पुष्पाणां समिधां तथा।
चतुर्गृहीतमापूर्य स्रुवेणाज्यं महास्रुचा।। 8.74 ।।
पुर्णाहुतिस्तु दातव्या नित्यमच्छिन्नधारया।
अरत्निमात्रमिध्माख्यं समित्पूगं घृताप्लुतम्।। 8.75 ।।
पालाशं युगपन्नित्यं होतव्यमविकम्पितम्।
स्रुवेणाज्यमुपस्तीर्य जुह्वां पिण्डद्वयं चरोः।। 8.76 ।।
घृताभिघारितं पक्वं यत् साद्यन्तस्रुवाहुति।
एवमेकैकपिण्डं तु पुनर्द्विरभिघारितम्।। 8.77 ।।
प्रधानाहुतिहोमान्ते होतव्यं स्विष्टकृद् भवेत्।
अन्यत् सर्वं घृताभ्यक्तं दक्षिणस्य करस्य तु।। 8.78 ।।
जुहुयाद्देवतीर्थेन कनिष्ठामूलवर्तिना।
स्रुवेणैव द्रवद्रव्यं दधिक्षीरादि सर्वदा।। 8.79 ।।
होतव्यं विधिना सर्वमन्यथा दोषमाप्नुयात्।
पूर्वं त्रिः क्षालितैः शालितण्डुलैरमलैश्चरुम्।। 8.80 ।।
यन्त्रेणाग्नावदिश्रित्य श्रपयेद् व्यजनानिलैः।
संस्कृत्य विधिना चाज्यं दर्भैः सम्मृज्य च स्रुवम्।। 8.81 ।।
निधाय परिधीनद्भिः परिषिच्याग्निमर्चयेत्।
इध्माघाराज्यभागेषु हुतेष्वाहूय देवताम्।। 8.82 ।।
पक्वमन्यच्च होतव्यं समिदादि यथाक्रमम्।
आघारवत् क्रमो ह्येष कर्तव्यः सिद्धिमीप्सता।। 8.83 ।।
आधायाग्निं परिस्तीर्य संस्कृत्याभ्यर्च्य च क्रमात्।
होतव्यमखिलैर्द्रव्यैरयमापूर्विको विधिः।। 8.84 ।।
होमशेषं समाप्याथ विधिनोद्वास्य देवताम्।
स्वशक्त्या दक्षिणां दद्यादेवं सिद्ध्यन्ति सिद्धयः।। 8.85 ।।
सामान्येन समाख्यातमग्निकार्यमिदं मया।
विसेषतस्तु कर्तव्यं तत्र तत्रैव वक्ष्यते।। 8.86 ।।

।। इति विष्णुसंहितायामग्निकार्योऽष्टमः पटलः ।।


"https://sa.wikisource.org/w/index.php?title=विष्णुसंहिता/पटलः_८&oldid=207324" इत्यस्माद् पुनः प्राप्तिः