शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ७/ब्राह्मणम् ३

अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः। मैत्रेयी च कात्यायनी च तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञेव कात्यायनी सोऽन्यद्वृत्तमुपाकरिष्यमाणः - १४.७.३.[१]

याज्ञवल्क्यो मैत्रेयीति होवाच। प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति - १४.७.३.[२]

सा होवाच मैत्रेयी। यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्स्यां न्वहं तेनामृताहो३ नेति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति - १४.७.३.[३]

सा होवाच मैत्रेयी। येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति - १४.७.३.[४]

स होवाच याज्ञवल्क्यः। प्रिया खलु नो भवती सती प्रियमवृतद्धन्त खलु भवति तेऽहं तद्वक्ष्यामि व्याख्यास्यामि ते वाचं तु मे व्याचक्षाणस्य निदिध्यासस्वेति ब्रवीतु भगवानिति - १४.७.३.[५]

स होवाच याज्ञवल्क्यो न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति देवाः प्रिया भवन्ति न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति न वा अरे यज्ञानां कामाय यज्ञाः प्रिया भवन्त्यात्मनस्तु कामाय यज्ञाः प्रिया भवन्ति न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियम्भवत्यात्मा न्वरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि वा अरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् - १४.७.३.[६]

ब्रह्म तं परादात्। योऽन्यत्रात्मनो ब्रह्म वेद क्षत्रन्तम्परादाद्यो अन्यत्रात्मनः क्षत्रम्वेद लोकास्तम्परादुर्योन्यत्रात्मनो लोकान्वेद देवास्तम्परादुः योऽन्यत्रात्मनो देवान्वेद वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान्वेद यज्ञास्तं परादुर्योन्यत्रात्मनो यज्ञान्वेद भूतानि तम्परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमे यज्ञा इमानि भूतानीदं सर्वं यदयमात्मा - १४.७.३.[७]

स यथा दुन्दुभेर्हन्यमानस्य।न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः - १४.७.३.[८]

स यथा वीणायै वाद्यमानायै। न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः - १४.७.३.[९]

स यथा शङ्खस्य ध्मायमानस्य। न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः - १४.७.३.[१०]

स यथार्द्रैधाग्नेरभ्याहितस्य। पृथग्धूमा विनिश्चरन्त्येवम्वा अरे अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोथर्वाङ्गिरस इतिहासः पुराणम्विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि दत्तं हुतमाशितम्पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निश्वसितानि - १४.७.३.[११]

स यथा सर्वासामपां समुद्र एकायनम्। एवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषाङ्गन्दानान्नासिके एकायनमेवं सर्वेषां रसानाञ्जिह्वैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां सङ्कल्पानां मन एकायनमेवं सर्वेषां वेदानां हृदयमेकायनमेवं सर्वेषां कर्मणां हस्तावेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषामानन्दानामुपस्थ एकायनमेवं सर्वेषाम्विसर्गाणाम्पायुरेकायनमेवं सर्वासाम्विद्यानाम्वागेकायनम् - १४.७.३.[१२]

स यथा सैन्धवघनो अनन्तरोऽबाह्यः कृत्स्नो रसघन एव स्यादेवं वा अर इदं महद्भूतमनन्तमपारं कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः - १४.७.३.[१३]

सा होवाच मैत्रेयी। अत्रैव मा भगवान्मोहान्तमापीपदन्न वा अहमिदं विजानामि न प्रेत्य संज्ञास्तीति - १४.७.३.[१४]

स होवाच याज्ञवल्क्यो न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवति - १४.७.३.[१५]

यद्वै तन्न पश्यति। पश्यन्वै तद्द्रष्टव्यं न पश्यति। न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् - १४.७.३.[१६]

यद्वै तन्न जिघ्रति। जिघ्रन्वै तद्घ्रातव्यन्न जिघ्रति न हि घ्रातुर्घ्राणाद्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत् - १४.७.३.[१७]

यद्वै तन्न रसयति। विजानन्वै तद्रसन्न रसयति न हि रसयितू रसाद्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तदद्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत् - १४.७.३.[१८]

यद्वै तन्न वदति। वदन्वै तद्वक्तव्यन्न वदति न हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् - १४.७.३.[१९]

यद्वै तन्न शृणोति। शृण्वन्वै तच्छ्रोतव्यन्न शृणोति न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात् - १४.७.३.[२०]

यद्वै तन्न मनुते। मन्वानो वै तत् मन्तव्यं न मनुते न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न त तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत - १४.७.३.[२१]

यद्वै तन्न स्पृशति। स्पृशन्वै तत्स्प्रष्टव्यन्न स्पृशति न हि स्प्रष्टुस्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत् - १४.७.३.[२२]

यद्वै तन्न विजानाति। विजानन्वै तद्विज्ञेयन्न विजानाति न हि विज्ञातुर्विज्ञानाद्विपरिलो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् - १४.७.३.[२३]

यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योऽन्यदभिवदेदन्योऽन्यच्छृणु यादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् - १४.७.३.[२४]

यत्र त्वस्य सर्वमात्मैवाभूत्। तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयाद्येनेदं सर्वं विजानाति तं केन विजानीयाद्विज्ञातारमरे केन विजानीयादित्युक्तानुशासनाऽसि मैत्रय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवव्राज - १४.७.३.[२५]

अथ वंशः। तदिदं वयं शौर्पणाय्याच्छौर्पणाय्यो गौतमाद्गौतमो वात्स्याद्वात्स्यो वात्स्याच्च पाराशर्याच्च पाराशर्यः सांकृत्याच्च भारद्वाजाच्च भारद्वाज औदवाहेश्च शाण्डिल्याच्च शाण्डिल्यो वैजवापाच्च गौतमाच्च गौतमो वैजवापायनाच्च वैष्टपुरेयाच्च वैष्टपुरेयः शाण्डिल्याच्च रौहिणायनाच्च रौहिणायनः शौनाकाच्च जैवन्तायनाच्च रैभ्याच्च रैभ्यः पौतिमाष्यायणाच्च कौण्डिन्यायनाच्च कौण्डिन्यायनः कौण्डिन्याभ्यां कौण्डिन्या और्णवाभेभ्य और्णवाभाः कौण्डिन्यात्कौण्डिन्यः कौण्डिन्यात्कौण्डिन्यः कौण्डिन्याच्चाग्निवेश्याच्च - १४.७.३.[२६]

आग्निवेश्यः सैतवात्। सैतवः पाराशर्यात्पाराशर्यो जातूकर्ण्याज्जातूकर्ण्यो भारद्वाजाद्भारद्वाजो भारद्वाजाच्चासुरायणाच्च गौतमाच्च गौतमो भारद्वाजाद्भारद्वाजो बलाकाकौशिकाद्बलाकाकौशिकः काषायणात्काषायणः सौकरायणात्सौकरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिः सायकायनात्सायकायनः कौशिकायनेः कौशिकायनिर्घृतकौशिकाद्घृतकौशिकः पाराशर्यायणात्पाराशर्यायणः पाराशर्यात्पाराशर्यो जातूकर्ण्याज्जातूकर्ण्यो भारद्वाजाद्भारद्वाजो भारद्वाजाच्चासुरायणाच्च यास्काच्चासुरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरेरासुरिर्भारद्वाजाद्भार्द्वाज आत्रेयात् - १४.७.३.[२७]

आत्रेयो माण्टेः माण्टिर्गौतमाद्गौतमो गौतमाद्गौतमो वात्स्याद्वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात्कैशोर्यः काप्यः कुमारहारितात्कुमारहारितो गालवाद्गालवो विदर्भीकौण्डिन्याद्विदर्भी कौण्डिन्यो वत्सनपातो बाभ्रवाद्वत्सनपाद्बाभ्रवः पथः सौभरात्पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद्दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः प्राध्वंसनान्मृत्युः प्राध्वंसनः प्रध्वंसनात्प्रध्वंसनएकर्षेरेकर्षिर्विप्रजित्तेर्विप्रजित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात्सनातनः सनगात्सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्मस्वयम्भु ब्रह्मणे नमः - १४.७.३.[२८]