शतपथब्राह्मणम्/काण्डम् १/अध्यायः ५/ब्राह्मण ४

१.५.४ प्रयाजावृत्

स वै समिधो यजति । प्राणा वै समिधः प्राणानेवैतत्समिन्द्धे प्राणैर्ह्ययम्पुरुषः समिद्धस्तस्मादभिमृषेति ब्रूयाद्यद्युपतापी स्यात्स यद्युष्णः स्यादैव तावच्छंसेत समिद्धो हि स तावद्भवति यद्यु शीतः स्यान्नाशंसेत तत्प्राणानेवास्मिन्नेतद्दधाति तस्मात्समिधो यजति - १.५.४.१

अथ तनूनपातं यजति । रेतो वै तनूनपाद्रेत एवैतत्सिञ्चति तस्मात्तनूनपातं यजति - १.५.४.२

अथेडो यजति । प्रजा वा इडो यदा वै रेतः सिक्तं प्रजायतेऽथ तदीडितमिवान्नमिच्छमानं चरति तत्प्रैवैतज्जनयति तस्मादिडो यजति - १.५.४.३

अथ बर्हिर्यजति । भूमा वै बर्हिर्भूमानमेवैतत्प्रजनयति तस्माद्बर्हिर्यजति - १.५.४.४

अथ स्वाहास्वाहेति यजति । हेमन्तो वा ऋतूनां स्वाहाकारो हेमन्तो हीमाः प्रजाः स्वं वशमुपनयते तस्माद्धेमन्म्लायन्त्योषधयः प्र वनस्पतीनां पलाशानि मुच्यन्ते प्रतितिरामिव वयांसि भवन्त्यधस्तरामिव वयांसि पतन्ति विपतित लोमेव पापः पुरुषो भवति हेमन्तो हीमाः प्रजाः स्वं वशमुपनयते स्वी ह वै तमर्धं कुरुते श्रियेऽन्नाद्याय यस्मिन्नर्धे भवति य एवमेतद्वेद - १.५.४.५

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ते दण्डैर्धनुर्भिर्न व्यजयन्त ते हाविजयमाना ऊचुर्हन्त वाच्येव ब्रह्मन्विजिगीषामहै स यो नो वाचं व्याहृतां मिथुनेन नानुनिक्रामात्स सर्वं पराजयाता अथ सर्वमितरे जयानिति तथेति देवा अब्रुवंस्ते देवा इन्द्रमब्रुवन्व्याहरेति - १.५.४.६

स इन्द्रोऽब्रवीत् । एको ममेत्यथास्माकमेकेतीतरेऽब्रुवंस्तदु तन्मिथुनमेवाविन्दन्मिथुनं ह्येकश्चैका च - १.५.४.७

द्वौ ममेतीन्द्रोऽब्रवीत् । अथास्माकं द्वे इतीतरेऽब्रुवंस्तदु तन्मिथुनमेवाविन्दन्मिथुनं हि द्वौ च द्वे च - १.५.४.८

त्रयो ममेतीन्द्रोऽब्रवीत् । अथास्माकं तिस्र इतीतरेऽब्रुवंस्तदु तन्मिथुनमेवाविन्दन्मिथुनं हि त्रयश्च तिस्रश्च - १.५.४.९

चत्वारो ममेतीन्द्रोऽब्रवीत् । अथास्माकं चतस्र इतीतरेऽब्रुवंस्तदु तन्मिथुनमेवाविन्दन्मिथुनं हि चत्वारश्च चतस्रश्च - १.५.४.१०

पञ्च ममेतीन्द्रोऽब्रवीत् । तत इतरे मिथुनं नाविन्दन्नो ह्यत ऊर्ध्वं मिथुनमस्ति पञ्च पञ्चेति ह्येवैतदुभयम्भवति ततोऽसुराः सर्वं पराजयन्त सर्वस्माद्देवा असुरानजयन्त्सर्वस्मात्सपत्नानसुरान्निरभजन् - १.५.४.११

तस्मात्प्रथमे प्रयाज इष्टे ब्रूयात् । एको ममेत्येका तस्य यमहं द्वेष्मीति यद्यु न द्विष्याद्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति ब्रूयात् - १.५.४.१२

द्वौ ममेति द्वितीये प्रयाजे । द्वे तस्य योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति - १.५.४.१३

त्रयो ममेति तृतीये प्रयाजे । तिस्रस्तस्य योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति - १.५.४.१४

चत्वारो ममेति चतुर्थे प्रयाजे । चतस्रस्तस्य योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति - १.५.४.१५

पञ्च ममेति पञ्चमे प्रयाजे । न तस्य किं चन योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति स पञ्च पञ्चेत्येव भवन्पराभवति तथास्य सर्वं संवृङ्क्ते सर्वस्मात्सपत्नान्निर्भजति य एवमेतद्वेद - १.५.४.१६