शतपथब्राह्मणम्/काण्डम् २/अध्यायः ३/ब्राह्मण २


२.३.२.

एता ह वै देवता योऽस्ति । तस्मिन्वसन्तीन्द्रो यमो राजा नडो नैषिधोऽनश्नन्त्सांगमनोऽसन्पांसवः - २.३.२.१

तद्वा एष एवेन्द्रः । यदाहवनीयोऽथैष एव गार्हपत्यो यमो राजाथैष एव नडो नैषिधो यदन्वाहार्यपचनस्तद्यदेतमहरहर्दक्षिणत आहरन्ति तस्मादाहुरहरहर्वै नडो नैषिधो यमं राजानं दक्षिणत उपनयतीति - २.३.२.२

अथ य एष सभायामग्निः । एष एवानश्नन्त्सांगमनस्तद्यदेतमनशित्वेवोपसंगच्छन्ते तस्मादेषोऽनश्नन्नथ यदेतद्भस्मोद्धृत्य परावपन्त्येष एवासन्पांसवः स यो हैवमेतद्वेदैवम्मय्येता देवता वसन्तीति सर्वान्हैवैतांल्लोकाञ्जयति सर्वांल्लोकाननुसंचरति - २.३.२.३

तेषामुपस्थानम् । यदेव सायं प्रातराहवनीयमुप च तिष्ठत उप चास्ते तदेव तस्योपस्थानमथ यदेव प्रतिपरेत्य गार्हपत्यमास्ते वा शेते वा तदेव तस्योपस्थानमथ यत्रैव संव्रजन्नन्वाहार्यपचनमुपस्मरेत्तदेव तम्मनसोपतिष्ठेत तदेव तस्योपस्थानम् - २.३.२.४

अथ प्रातः । अनशित्वा मुहूर्तं सभायामासित्वापि कामं पल्ययेत तदेव तस्योपस्थानमथ यत्रैव भस्मोद्धृतमुपनिगच्छेत्तदेव तस्योपस्थानमेवमु हास्यैता देवता उपस्थिता भवन्ति - २.३.२.५

यजमानदेवत्यो वै गार्हपत्यः । अथैष भ्रातृव्यदेवत्यो यदन्वाहार्यपचनस्तस्मादेतं नाहरहराहरेयुर्न ह वा अस्य सपत्ना भवन्ति यस्यैवं विदुष एतं नाहरहराहरन्त्यन्वाहार्यपचनो वा एषः - २.३.२.६

उपवसथ एवैनमाहरेयुः । यत्रैवास्मिन्यक्ष्यन्तो भवन्ति तथो हास्यैषोऽमोघायाहृतो भवति - २.३.२.७

नवावसिते वैनमाहरेयुः । तस्मिन्पचेयुस्तद्ब्राह्मणा अश्नीयुर्यद्यु तन्न विन्देद्यत्पचेदपि गोरेव दुग्धमधिश्रयितवै ब्रूयात्तस्मिन्ब्राह्मणान्पाययितवै ब्रूयात्पापीयांसो ह वा अस्य सपत्ना भवन्ति यस्यैवं विदुष एवं कुर्वन्ति तस्मादेवमेव चिकीर्षेत् - २.३.२.८

तद्यत्रैतत्प्रथमं समिद्धो भवति । धूप्यत इव तर्हि हैष भवति रुद्रः स यः कामयेत यथेमा रुद्रः प्रजा अश्रद्धयेव त्वत्सहसेव त्वन्निघातमिवत्वत्सचत एवमन्नमद्यामिति तर्हि ह स जुहुयात्प्राप्नोति हैवैतदन्नाद्यं य एवं विद्वांस्तर्हि जुहोति - २.३.२.९

अथ यत्रैतत्प्रदीप्ततरो भवति । तर्हि हैष भवति वरुणः स यः कामयेत यथेमा वरुणः प्रजा गृह्णन्निव त्वत्सहसेव त्वन्निघातमिव त्वत्सचत एवमन्नमद्यामिति तर्हि ह स जुहुयात्प्राप्नोति हैवैतदन्नाद्यं य एवं विद्वांस्तर्हि जुहोति - २.३.२.१०

अथ यत्रैतत्प्रदीप्तो भवति । उच्चैर्धूमः परमया जूत्या बल्बलीति तर्हि हैष भवतीन्द्रः स यः कामयेतेन्द्रैव श्रिया यशसा स्यामिति तर्हि ह स जुहुयात्प्राप्नोति हैवैतदन्नाद्यं य एवं विद्वांस्तर्हि जुहोति - २.३.२.११

अथ यत्रैतत्प्रतितरामिव । तिरश्चीवार्चिः संशाम्यतो भवति तर्हि हैष भवति मित्रः स यः कामयेत मैत्रेणेदमन्नमद्यामिति यमाहुः सर्वस्य वा अयम्ब्राह्मणो मित्रं न वा अयं कं चन हिनस्तीति तर्हि ह स जुहुयात्प्राप्नोति हैवैतदन्नाद्यं य एवं विद्वांस्तर्हि जुहोति - २.३.२.१२

अथ यत्रैतदङ्गाराश्चाकश्यन्त इव । तर्हि हैष भवति ब्रह्म स यः कामयेत ब्रह्मवर्चसी स्यामिति तर्हि ह स जुहुयात्प्राप्नोति हैवैतदन्नाद्यं य एवं विद्वांस्तर्हि जुहोति - २.३.२.१३

एतेषामेकं संवत्सरमुपेर्त्सेत् । स्वयं जुह्वद्यदि वास्यान्यो जुहुयादथ योऽन्यथान्यथा जुहोति यथापो वाभिखनन्नन्यद्वान्नाद्यं स सामि निवर्तेतैवं तदथ यः सार्धं जुहोति यथापो वाभिखनन्नन्यद्वान्नाद्यं तत्क्षिप्रेऽभितृन्द्यादेवं तत् - २.३.२.१४

अभ्रयो ह वा एता अन्नाद्यस्य यदाहुतयः । अभि हैवैतदन्नाद्यं तृणत्ति य एवं विद्वानग्निहोत्रं जुहोति - २.३.२.१५

सा या पूर्वाहुतिः । ते देवा अथ योत्तरा ते मनुष्या अथ यत्स्रुचि परिशिनष्टि ते पशवः - २.३.२.१६

स वै कनीय इव पूर्वामाहुतिं जुहोति । भूय इवोत्तरां भूय इव स्रुचि परिशिनष्टि - २.३.२.१७

स यत्कनीय इव पूर्वामाहुतिं जुहोति । कनीयांसो हि देवा मनुष्येभ्योऽथ यद्भूय इवोत्तरां भूयांसो हि मनुष्या देवेभ्योऽथ यद्भूय इव स्रुचि परिशिनष्टि भूयांसो हि पशवो मनुष्येभ्यः कनीयांसो ह वा अस्य भार्या भवन्ति भूयांसः पशवो य एवं विद्वानग्निहोत्रं जुहोति तद्वै समृद्धं यस्य कनीयांसो भार्या असन्भूयांसः पशवः - २.३.२.१८