शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ८/ब्राह्मणम् १

६.८.१

वनीवाह्येताग्निं बिभ्रदित्याहुः । देवाश्चासुराश्चोभये प्राजापत्या अस्पर्द्धन्त ते देवाश्चक्रमचरञ्छालमसुरा आसंस्ते देवाश्चक्रेण चरन्त एतत्कर्मापश्यंश्चक्रेण हि वै देवाश्चरन्त एतत्कर्मापश्यंस्तस्मादनस एव पौरोडाशेषु यजूंष्यनसोऽग्नौ - ६.८.१.१

स यो वनीवाह्यते । देवान्कर्मणैति दैवं हास्य कर्म कृतं भवत्यथ यो न वनीवाह्यतेऽसुरान्कर्मणैत्यसुर्यं हास्य कर्म कृतं भवति - ६.८.१.२

तद्धैक आहुः । स्वयं वा एष वनीवाहितो विष्णुक्रमैर्वा एष प्रयाति वात्सप्रेणावस्यतीति न तथा विद्याद्दैवं वा अस्य तत्प्रयाणं यद्विष्णुक्रमा दैवमवसानं यद्वात्सप्रमथास्येदं मानुषं प्रयाणं यदिदं प्रयाति मानुषमवसानं यदवस्यति - ६.८.१.३

प्रजापतिरेषोग्निः । उभयम्वेतत्प्रजापतिर्यच्च देवा यच्चमनुष्यास्तद्यद्विष्णुक्रमवात्सप्रे भवतो यद्वेवास्य दैवं रूपं तदस्य तेन संस्करोत्यथ यद्वनीवाह्यते यदेवास्य मानुषं रूपं तदस्य तेन संस्करोति स ह वा एतं सर्वं कृत्स्नं प्रजापतिं संस्करोति य एवं विद्वान्वनीवाह्यते तस्मादु वनीवाह्येतैव - ६.८.१.४

स यदहः प्रयास्यन्त्स्यात् । तदहरुत्तरतोऽग्नेः प्रागन उपस्थाप्याथास्मिन्त्समिधमादधात्येतद्वा एनं देवा एष्यन्तं पुरस्तादन्नेनाप्रीणन्नेतया समिधा तथैवैनमयमेतदेष्यन्तं पुरस्तादन्नेन प्रीणात्येतया समिधा - ६.८.१.५

समिधाग्निं दुवस्यतेति । समिधाग्निं नमस्यतेत्येतद्घृतैर्बोधयतातिथिमाऽस्मिन्हव्या जुहोतनेति घृतैरह बोधयतातिथिमो ऽअस्मिन्हव्यानि जुहुतेत्येतद्बुद्धवत्येत्यायै ह्येनमेतद्बोधयति - ६.८.१.६

अथैनमुद्यच्छति । उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिरिति विश्वे वा एतमग्रे देवाश्चित्तिभिरुदभरन्नेतद्ध्येषां तदा चित्तमासीत्तथैवैनमयमेतच्चितिभिरुद्भरत्येतद्ध्यस्य तदा चित्तं भवति स नो भव शिवस्त्वं सुप्रतीको विभावसुरिति यथैव यजुस्तथा बन्धुस्तं दक्षिणत उदञ्चमादधाति तस्योक्तो बन्धुः स्थाल्यां गार्हपत्यं समुप्यापरमादधाति स यदि कामयेतोपाधिरोहेत्पार्श्वतो वा व्रजेत् - ६.८.१.७

अथानड्वाहौ युनक्ति । दक्षिणमग्रेऽथ सव्यमेवं देवत्रेतरथा मानुषे स यां कां च दिशं यास्यन्त्स्यात्प्राङेवाग्रे प्रयायात्प्राची हि दिगग्नेः स्वामेव तद्दिशमनु प्रयाति - ६.८.१.८

प्रेदग्ने ज्योतिष्मान्याहि । शिवेभिरर्चिभिष्ट्वामिति प्रेदग्ने त्वं ज्योतिष्मान्याहि शिवेभिरर्चिभिर्दीप्यमानैरित्येतद्बृहद्भिर्भानुभिर्भासन्मा हिंसीस्तन्वा प्रजा इति बृहद्भिरर्चिभिर्दीप्यमानैर्मा हिंसीरात्मना प्रजा इत्येतत् - ६.८.१.९

स यदाऽक्ष उत्सर्जेत् । अथैतद्यजुर्जपेदसुर्या वा एषा वाग्याऽक्षस्य तामेतच्छमयति तामेतद्देवत्रा करोति - ६.८.१.१०
 
यद्वेवैतद्यजुर्जपति । यस्मिन्वै कस्मिंश्चाहितेऽक्ष उत्सर्जति तस्यैव सा वाग्भवति तद्यदग्नावाहितेऽक्ष उत्सर्जत्यग्नेरेव सा वाग्भवत्यग्निमेव तद्देवा उपास्तुवन्नुपामहयंस्तथैवैनमयमेतदुपस्तौत्युपमहयत्यक्रन्ददग्नि स्तनयन्निव द्यौरिति तस्योक्तो बन्धुः - ६.८.१.११

स यदि पुरा वसत्यै विमुञ्चेत । अनस्येवाग्निः स्यादथ यदा वसत्यै विमुञ्चेत प्रागनऽ उपस्थाप्योत्तरत उद्धत्यावोक्षति यत्रैनमुपावहरति तं दक्षिणत उदञ्चमुपावहरति तस्योक्तो बन्धुः - ६.८.१.१२

अथास्मिन्त्समिधमादधाति । एतद्वा एनं देवा ईयिवांसमुपरिष्टादन्नेनाप्रीणन्नेतया समिधा तथैवैनमयमेतदीयिवांसमुपरिष्टादन्नेन प्रीणात्येतया समिधा - ६.८.१.१३

प्र प्रायमग्निर्भरतस्य शृण्व इति । प्रजापतिर्वै भरतः स हीदं सर्वं बिभर्ति वि यत्सूर्यो न रोचते बृहद्भा इति वि यत्सूर्य इव रोचते बृहद्भा इत्येतदभि यः पूरुं पृतनासु तस्थाविति पूरुर्ह नामासुररक्षसमास तमग्निः पृतनास्वभितष्ठौ दीदाय दैव्यो अतिथिः शिवो न इति दीप्यमानो दैवोऽतिथिः शिवो न इत्येतत्स्थितवत्या वसत्यै ह्येनं तत्स्थापयति - ६.८.१.१४

अथातः सम्पदेव । समिधं प्रथमेनादधात्युद्यच्छत्येकेन प्रयात्येकेनाक्षमेकेनानुमन्त्रयते समिधमेव पञ्मेनादधाति तत्पञ्च पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.८.१.१५