ॐकारबिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः।
कामदं मोक्षदं चैव ॐकाराय नमो नमः॥

नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः ।
नरा नमन्ति देवेशं नकाराय नमो नमः॥

महादेवं महात्मानं महाध्यानपरायणम्।
महापापहरं देवं मकराय नमो नमः॥

शिवं शान्तं जगन्नाथं लोकनुग्रहकारकम् ।
शिवमेकपदम् नित्यं शिकाराय नमो नमः॥

वाहनं वृषभो यस्य वासुकी कण्ठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमो नमः ॥

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
यो गुरुः सर्वदेवानां यकाराय नमो नमः॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

नमः शिवाय नमो नमः। ॐ नमः शिवाय नमो नमः।
ॐ नमः शिवाय नमो नमः॥

"https://sa.wikisource.org/w/index.php?title=शिवषडाक्षरस्तोत्रम्&oldid=339213" इत्यस्माद् प्रतिप्राप्तम्