शुक्लयजुर्वेदः/अध्यायः २५

(शुक्‍लयजुर्वेदः/अध्यायः २५ इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः २४ शुक्लयजुर्वेदः
अध्यायः २५
[[लेखकः :|]]
अध्यायः २६ →

अध्यायः 25
अश्वमेधे अश्वाङ्गेभ्यो होमः

25.1
शादं दद्भिर् अवकां दन्तमूलैर् मृदं बर्स्वैस् तेगान् दꣳष्ट्राभ्याꣳ सरस्वत्या ऽ अग्रजिह्वं जिह्वाया ऽ उत्सादम् अवक्रन्देन तालु वाजꣳ हनुभ्याम् अप ऽ आस्येन वृषणम् आण्डाभ्याम् आदित्याꣳ श्मश्रुभिः पन्थानं भ्रूभ्यां द्यावापृथिवी वर्तोभ्यां विद्युतं कनीनकाभ्याꣳ शुक्लाय स्वाहा कृष्णाय स्वाहा पार्याणि पक्ष्माण्य् अवार्या ऽ इक्षवो वार्याणि पक्ष्माणि पार्या ऽ इक्षवः ॥

25.2
वातं प्राणेनापानेन नासिके ऽ उपयामम् अधरेणौष्ठेन सद् उत्तरेण प्रकाशेनान्तरम् अनूकाशेन बाह्यं निवेष्यं मूर्ध्ना स्तनयित्नुं निर्बाधेनाशनिं मस्तिष्केण विद्युतं कनीनकाभ्यां कर्णाभ्याꣳ श्रोत्रꣳ श्रोत्राभ्यां कर्णौ तेदनीम् अधरकण्ठेनापः शुष्ककण्ठेन चित्तं मन्याभिर् अदितिꣳ शीर्ष्णा निर्ऋतिं निर्जर्जल्पेन शीर्ष्णा संक्रोशैः प्राणान् रेष्माणꣳ स्तुपेन ॥

25.3
मशकान् केशैर् इन्द्रꣳ स्वपसा वहेन बृहस्पतिꣳ शकुनिसादेन कूर्माञ्छफैर् आक्रमणꣳ स्थूराभ्याम् ऋक्षलाभिः कपिञ्जलान् जवं जङ्घाभ्याम् अध्वानं बाहुभ्यां जाम्बीलेनारण्यम् अग्निम् अतिरुग्भ्यां पूषणं दोर्भ्याम् अश्विनाव् अꣳसाभ्याꣳ रुद्रꣳ रोराभ्याम् ॥

25.4
अग्नेः पक्षतिर् वायोर् निपक्षतिर् इन्द्रस्य तृतीया सोमस्य चतुर्थ्य् अदित्यै पञ्चमीन्द्राण्यै षष्ठी मरुताꣳ सप्तमी बृहस्पतेर् अष्टम्य् अर्यम्णो नवमी धातुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रयोदशी ॥

25.5
इन्द्राग्न्योः पक्षतिर् सरस्वत्यै निपक्षतिर् मित्रस्य तृतीयापां चतुर्थी निर्ऋत्यै पञ्चम्य् अग्नीषोमयोः षष्ठी सर्पाणाꣳ सप्तमी विष्णोर् अष्टमी पूष्णो नवमी त्वष्टुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यम्यै त्रयोदशी द्यावापृथिव्योर् दक्षिणं पार्श्वं विश्वेषां देवानाम् उत्तरम् ॥

25.6
मरुताꣳ स्कन्धा विश्वेषां देवानां प्रथमा कीकसा रुद्राणां द्वितीयादित्यानां तृतीया वायोः पुच्छम् अग्नीषोमयोर् भासदौ क्रुञ्चौ श्रोणिभ्याम् इन्द्राबृहस्पती ऽ ऊरुभ्यां मित्रावरुणाव् अल्गाभ्याम् आक्रमणꣳ स्थूराभ्यां बलं कुष्ठाभ्याम् ॥

25.7
पूषणं वनिष्ठुनान्धाहीन्त् स्थूलगुदया सर्पान् गुदाभिर् विह्रुत ऽ आन्त्रैर् अपो वस्तिना वृषणम् आण्डाभ्यां वाजिनꣳ शेपेन प्रजाꣳ रेतसा चाषान् पित्तेन प्रदरान् पायुना कूश्माञ्छकपिण्डैः ॥

25.8
इन्द्रस्य क्रोडो ऽदित्यै पाजस्यं दिशां जत्रवो ऽदित्यै भसज् जीमूतान् हृदयौपशेनान्तरिक्षं पुरीतता नभ ऽ उदर्येण चक्रवाकौ मतस्नाभ्यां दिवं वृक्काभ्यां गिरीन् प्लाशिभिर् उपलान् प्लीह्ना वल्मीकान् क्लोमभिर् ग्लौभिर् गुल्मान् हिराभिः स्रवन्तीर् ह्रदान् कुक्षिभ्याꣳ समुद्रम् उदरेण वैश्वानरं भस्मना ॥

25.9
विधृतिं नाभ्या धृतꣳ रसेनापो यूष्णा मरीचीर् विप्रुड्भिर् नीहारमूष्मणा शीनं वसया प्रुष्वा ऽ अश्रुभिर् ह्रादुनीर् दूषीकाभिर् अस्ना रक्षाꣳसि चित्राण्य् अङ्गैर् नक्षत्राणि रूपेण पृथिवीं त्वचा जुम्बकाय स्वाहा ॥

25.10
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् ।
स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥

25.11
यः प्राणतो निमिषतो महित्वैक ऽ इद् राजा जगतो बभूव ।
य ऽ ईशे ऽ अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥

25.12
यस्येमे हिमवन्तो महित्वा यस्य समुद्रꣳ रसया सहाहुः ।
यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥

25.13
य ऽ आत्मदा बलदा यस्य विश्व ऽ उपासते प्रशिषं यस्य देवाः ।
यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥

25.14
आ नो भद्राः क्रतवो यन्तु विश्वतो दब्धासो ऽ अपरीतास ऽ उद्भिदः ।
देवा नो यथा सदम् इद् वृधे ऽ असन्न् अप्रायुवो रक्षितारो दिवे-दिवे ॥

25.15
देवानां भद्रा सुमतिर् ऋजूयतां देवानाꣳ रातिर् अभि नो नि वर्तताम् ।
देवानाꣳ सख्यम् उप सेदिमा वयं देवा न ऽ आयुः प्र तिरन्तु जीवसे ॥

25.16
तान् पूर्वया निविदा हूमहे वयं भगं मित्रम् अदितिं दक्षम् अस्रिधम् ।
अर्यमणं वरुणꣳ सोमम् अश्विना सरस्वती नः सुभगा मयस् करत् ॥

25.17
तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत् पिता द्यौः ।
तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना शृणुतं धिष्ण्या युवम् ॥

25.18
तम् ईशानं जगतस् तस्थुषस् पतिं धियंजिन्वम् अवसे हूमहे वयम् ।
पूषा नो यथा वेदसाम् असद् वृधे रक्षिता पायुर् अदब्धः स्वस्तये ॥

25.19
स्वस्ति न ऽ इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस् तार्क्ष्यो ऽ अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥

25.20
पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः ।
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा ऽ अवसा गमन्न् इह ॥

25.21
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर् यजत्राः ।
स्थिरैर् अङ्गैस् तुष्टुवाꣳसस् तनूभिर् व्यशेमहि देवहितं यद् आयुः ॥

25.22
शतम् इन् नु शरदो ऽ अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः ॥

25.23
अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः ।
विश्वे देवा ऽ अदितिः पञ्च जना ऽ अदितिर् जातम् अदितिर् जनित्वम् ॥

25.24
मा नो मित्रो वरुणो ऽ अर्यमायुर् इन्द्र ऽ ऋभुक्षा मरुतः परि ख्यन् ।
यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥

25.25
यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति ।
सुप्राङ् अजो मेम्यद् विश्वरूप ऽ इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः ॥

25.26
एष छागः पुरो ऽ अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः ।
अभिप्रियं यत् पुरोडाशम् अर्वता त्वष्टेद् एनꣳ सौश्रवसाय जिन्वति ॥

25.27
यद्धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति ।
अत्रा पूष्णः प्रथमो भाग ऽ एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः ॥

25.28
होताध्वर्युर् आवया ऽ अग्निमिन्धो ग्रावग्राभ ऽ उत शꣳस्ता सुविप्रः ।
तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥

25.29
यूपव्रस्का ऽ उत ये यूपवाहाश् चषालं ये ऽ अश्वयूपाय तक्षति ।
ये चार्वते पचनꣳ सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न ऽ इन्वतु ॥

25.30
उप प्रागात् सुमन् मे धायि मन्म देवानाम् आशा ऽ उप वीतपृष्ठः ।
अन्व् एनं विप्रा ऽ ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥

25.31
यद् वाजिनो दाम संदानम् अर्वतो या शीर्षण्या रशना रज्जुर् अस्य ।
यद् वा घास्य प्रभृतम् आस्ये तृणꣳ सर्वा ता ते ऽ अपि देवेष्व् अस्तु ॥

25.32
यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति ।
यद्धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते ऽ अपि देवेष्व् अस्तु ॥

25.33
यद् ऊवध्यम् उदरस्यापवाति य ऽ आमस्य क्रविषो गन्धो ऽ अस्ति ।
सुकृता तच्छमितारः कृण्वन्तूत मेधꣳ शृतपाकं पचन्तु ॥

25.34
यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति ।
मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ॥

25.35
ये वाजिनं परिपश्यन्ति पक्वं य ऽ ईम् आहुः सुरभिर् निर् हरेति ।
ये चार्वतो माꣳसभिक्षाम् उपासत ऽ उतो तेषाम् अभिगूर्तिर् न ऽ इन्वतु ॥

25.36
यन्नीक्षणं माꣳस्पचन्या उखाया या पात्राणि यूष्ण ऽ आसेचनानि ।
ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम् ॥

25.37
मा त्वाग्निर् ध्वनयीद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः ।
इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्यश्वम् ॥

25.38
निक्रमणं निषदनं विवर्तनं यच् च पड्वीशम् अर्वतः ।
यच् च पपौ यच् च घासिं जघास सर्वा ता ते ऽ अपि देवेष्व् अस्तु ॥

25.39
यद् अश्वाय वास ऽ उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै ।
संदानम् अर्वन्तं पड्वीशं प्रिया देवेष्व् आ यामयन्ति ॥

25.40
यत् ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद ।
स्रुचेव ता हविषो ऽ अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥

25.41
चतुस्त्रिꣳशद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति ।
अच्छिद्रा गात्रा वयुना कृणोत परुष्-परुर् अनुघुष्या वि शस्त ॥

25.42
एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथ ऽ ऋतुः ।
या ते गात्राणाम् ऋतुथा कृणोमि ता-ता पिण्डानां प्र जुहोम्य् अग्नौ ॥

25.43
मा त्वा तपत् प्रिय ऽ आत्मापियन्तं मा स्वधितिस् तन्व ऽआ तिष्ठिपत् ते ।
मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः ॥

25.44
न वा ऽ उ ऽ एतन् म्रियसे न रिष्यसि देवाꣳ२ऽ इद् एषि पथिभिः सुगेभिः ।
हरी ते युञ्जा पृषती ऽ अभूताम् उपास्थाद् वाजी धुरि रासभस्य ॥

25.45
सुगव्यं नो वाजी स्वश्व्यं पुꣳसः पुत्राꣳ२ऽ उत विश्वापुषꣳ रयिम् ।
अनागास्त्वं नो ऽ अदितिः कृणोतु क्षत्रं नो ऽ अश्वो वनताꣳ हविष्मान् ॥

25.46
इमा नु कं भुवना सीषधामेन्द्रश् च विश्वे च देवाः ।
आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्मभ्यं भेषजा करत् ।
यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह सीषधाति ॥

25.47
अग्ने त्वं नो ऽ अन्तम ऽ उत त्राता शिवो भव वरूथ्यः ।
वसुर् अग्निर् वसुश्रवा ऽ अच्छा नक्षि द्युमत्तमꣳ रयिं दाः ।
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥
[स नो बोधि श्रुधी हवमुरुष्या णो ऽ अघायतः समस्मात्]

भाष्यम्(उवट-महीधर)

पञ्चविंशोऽध्यायः ।

तत्र प्रथमा।
शादं॑ द॒द्भिरव॑कां दन्तमूलै॒र्मृदं॒ बर्स्वै॑स्ते॒गान्दᳪं᳭ष्ट्रा॑भ्या॒ᳪं᳭ सर॑स्वत्या अग्रजि॒ह्वं जि॒ह्वाया॑ उत्सा॒दम॑वक्र॒न्देन॒ तालु॒ वाज॒ᳪं᳭ हनु॑भ्याम॒प आ॒स्ये॒न॒ वृष॑णमा॒ण्डाभ्या॑मादि॒त्याँ श्मश्रु॑भि॒: पन्था॑नं भ्रू॒भ्यां द्यावा॑पृथि॒वी वर्तो॑भ्यां वि॒द्युतं॑ क॒नीन॑काभ्याᳪं᳭ शु॒क्लाय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा॒ पार्या॑णि॒ पक्ष्मा॑ण्यवा॒र्या॒ इ॒क्षवो॑ऽवा॒र्या॒णि॒ पक्ष्मा॑णि॒ पार्या॑ इ॒क्षव॑: ।। १ ।।
उ० शादं दद्भिः । इयमपि श्रुतिर्देवताश्वाङ्गयोश्चोदनां विदधाति । शादो देवताविशेषः दन्ता अश्वाङ्गम् । शादं दद्भिः प्रीणाति देवता भोक्त्री द्वितीयया निर्दिश्यते । अश्वाङ्गं भोग्यं तृतीयया करणविभक्त्या निर्दिश्यते । एवं हि विभक्त्योः सामर्थ्यं भवति । युक्तंच होमकाले अङ्गाभिधानं देवतायै होमः । आहच श्रुतिः । 'आज्यमवदानीकृत्वा प्रत्याख्यायम् देवताभ्य आहुतीर्जुहोतीति दद्भिः शादाय स्वाहा । दन्तमूलैरवकाय स्वाहा' इत्येवं प्रयोगाः । क्वचिच्च देवता केवला भवति यथा शुक्लायस्वाहा कृष्णायस्वाहेति । क्वचिच्चान्यया विभक्त्या निर्देशो द्रव्यदैवतयोः यथा अग्नेः पक्षतिर्वायोर्निपक्षतिरिति । एवं द्रव्यदैवतमप्रसिद्धं यज्ञपार्श्वादिभ्योऽवगन्तव्यमिति पृथिवीं त्वचेति यावत् ॥ १॥
प्रणम्य कमलानाथं गणेशं गिरिजां गिरम् ।
पञ्चविंशेऽयमध्याये वेददीपो मयेर्यते ॥
म० 'स्विष्टकृद्वनस्पत्यन्तरे शूल्यᳪं᳭ हुत्वा देवताश्वाङ्गेभ्यो जुहोत्यमुष्यै स्वाहेति प्रतिदेवतᳪं᳭ शादप्रभृतित्वगन्तेभ्योऽविमुखाच्च परेभ्य इति' ( का० २० । ८ । ५। ६) । स्विष्टकृद्वनस्पत्योरन्तरे वनस्पतियागानन्तरं स्विष्टकृद्यागात्पूर्वं शूले श्रपितं मांसं प्राजापत्योऽश्व इति वचनात्प्रजापतये हुत्वा अमुष्मै स्वाहेति प्रतिदेवतं शादादित्वगन्तेभ्यो देवताश्वाङ्गेभ्यो देवताभ्योऽश्वाङ्गेभ्यश्च घृतं जुहुयात् । अनादेशे घृतस्योक्तवात् । तत्र शादं दद्भिरित्यादि पृथिवीं त्वचेत्यन्तः संहिताभागो ब्राह्मणं न मन्त्राः। शादादयो देवाः दन्ताद्यङ्गानि । ततश्चतुर्गृहीतमाज्यं गृहीत्वा शादाय स्वाहा दद्भ्यः स्वाहा अवकाभ्यः स्वाहा दन्तमूलेभ्यः स्वाहेत्यादि पृथिव्यै स्वाहा त्वचे स्वाहेत्यन्तं जुहुयादित्येकः पक्षः शाखान्तरोदितः । स्वपक्षे तु शादं दद्भिः प्रीणामि स्वाहेत्यादिहोममन्त्राः । देवता भोक्त्री द्वितीयया निर्दिश्यते । अश्वाङ्गं भोग्यं तृतीयया करणविभक्त्या निर्दिश्यते । क्वचित्केवला देवतैव यथा शुक्लाय स्वाहा कृष्णाय स्वाहेति । क्वचिदन्यविभक्त्यैव द्रव्यदेवतयोर्निर्देशः यथा अग्नेः पक्षतिर्वायोर्निपक्षतिरिति । तथाच श्रुतिः 'शादं दद्भिरवकां दन्तमूलैरित्याज्यमवदानानि कृला प्रत्याख्यायं देवताभ्य आहुतीर्जुहोति या एव देवता अपिभागास्ता भागधेयेन समर्धयति' (१३।३।५।१) इति । अस्यायमर्थः । शादं नाम देवमश्वस्य दद्भिर्दन्तैः प्रीणामीति शेषः । स्वाहाकारो दानार्थः । ततश्च शादं दद्धिः प्रीणामि स्वाहेति एवमन्यान्यपि योज्यानि । आज्यमवदानानि कृत्वा आज्यमेवाश्वाङ्गत्वेन परिकल्प्य प्रत्याख्यायमवदानमवदानं प्रति शादादिदेवता आख्यायाख्यायाज्याहुतीर्जुहोति संकल्पिताश्वाङ्गभवा घृताहुतीः शादादिभ्यो ददाति । एवं कुर्वन्नपिभागाः कल्पितभागास्ता भागेन समर्धयति प्रीणातीत्यर्थः । अथ संहितार्थः । दद्भिरश्वदन्तैः शादं देवं प्रीणामि । दन्तमूलैरवकां देवतां प्रीणामि । वर्स्वैर्दन्तपीठैर्मृदं देवतां प्रीणामि 'वर्स्व स्याद्दन्तपीठिका' । शादादयो ऽप्रसिद्धा देवाः आदित्यादयः प्रसिद्धाः । दंष्ट्राभ्यां तेगां देवतां प्रीणामि । सरस्वत्यै अग्रजिह्वाम् । अत्र चतुर्थ्या देवतोद्देशः : प्रथमयाङ्गस्य अतो विभक्तिव्यत्ययः । जिह्वाया अग्रमग्रजिह्वं जिह्वाग्रेण सरस्वतीं प्रीणामि । जिह्वायाः उत्सादम् । अत्र षष्ठ्याश्वाङ्गोद्देशः द्वितीयया देवस्य विभक्तिव्यत्ययः । जिह्वयोत्सादं देवं प्रीणामि । अवक्रन्देन तालु अत्र देवे तृतीया अङ्गे प्रथमा व्यत्ययः । तालुना अवक्रन्दं देवं प्रीणामि । वाजं हनुभ्याम् । हनुभ्यां वक्रैकदेशाभ्यां वाजं देवं प्रीणामि । आस्येन मुखेनापो देवताः प्रीणामि । आण्डाभ्यां वृषणाभ्यां वृषणं देवं प्रीणामि । श्मश्रुभिर्मुखकेशैरादित्यान्प्रीणामि । भ्रूभ्यां ललाटगरोमपङ्क्तिभ्यां पन्थानं देवं प्रीणामि । वर्ताः पक्ष्मपङ्क्तिः ताभ्यां ' द्यावापृथिव्यौ देवते प्रीणामि । कनीनकाभ्यां नेत्रमध्यगकृष्णगोलाभ्यां विद्युतं देवतां प्रीणामि । शुक्लाय स्वाहा कृष्णाय स्वाहा देवोद्देश एव न त्वङ्गम् । शुक्लाय कृष्णाय देवाय सुहुतमस्तु । यद्वा चतुर्थ्याश्वाङ्गमेव निर्दिश्यते । प्राजापत्योऽश्व इति ' वचनाद्देवोऽध्याहर्तव्यः । शुक्लेन कृष्णेन चाश्वाङ्गेन प्रजापतिं प्रीणामि । एवं लोमभ्यः स्वाहेत्यादावपि बोध्यम् । पार्याणि पक्ष्माणि । अत्र तद्धितेन देवतोद्देशः । पक्ष्माणि नेत्रोपरिलोमानि पार्याणि पारदेवत्यानि ततः पक्ष्मभिः पारं प्रीणामि । इक्षवो नेत्राधोभागरोमाणि अवारदेवत्याः ततः इक्षुभिरवारं प्रीणामि । विपरीतं वा अवार्याणि अवारदेवत्यानि पक्ष्माणि इक्षवः पार्याः पारदेवत्याः ॥ १ ॥

द्वितीया।
वातं॑ प्रा॒णेना॑पा॒नेन॒ नासि॑के उपया॒ममध॑रे॒णौष्ठे॑न॒ सदुत्त॑रेण प्रका॒शेनान्त॑रमनूका॒शेन॒ बाह्यं॑ निवे॒ष्यं मू॒र्ध्ना स्त॑नयि॒त्नुं नि॑र्बा॒धेना॒शनिं॑ म॒स्तिष्के॑ण वि॒द्युतं॑ क॒नीन॑काभ्यां॒ कर्णा॑भ्या॒ᳪं᳭ श्रोत्रँ॒ श्रोत्रा॑भ्यां॒ कर्णौ॑ तेद॒नीम॑धरक॒ण्ठेना॒पः शु॑ष्कक॒ण्ठेन॑ चि॒त्तं मन्या॑भि॒रदि॑तिᳪं᳭ शी॒र्ष्णा निरृ॑तिं॒ निर्ज॑ल्पेन शी॒र्ष्णा सं॑क्रोशैः प्रा॒णान् रेष्माण॑ᳪं᳭ स्तु॒पेन॑ ।। २ ।।
उ० अश्वस्य प्राणवायुना वातं प्रीणामि । अपानवायुना नासिकासंज्ञे द्वे देवते प्रीणामि । अधस्तनेन ओष्ठेन उपयामं देवं प्रीणामि । उपरितनेन ओष्ठेन सत्संज्ञं देवं प्रीणामि । प्रकाशेनोपरितनदेहकान्त्या अन्तरं देवं प्रीणामि । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति अनोर्दीर्घः । अनूकाशेनाधस्तनदेहकान्त्या बाह्यं देवं प्रीणामि । मूर्ध्ना मस्तकेन निवेष्यं देवं प्रीणामि । निश्चितं बध्यते निर्बाधः शिरोऽस्थिमध्यसंलग्नो मज्जाभागः तेन स्तनयित्नुं देवं प्रीणामि । मस्तके भवं मस्तिष्कं शिरोमध्यस्थो जर्जरो मांसभागः। मस्तिष्कं गोर्दम्' इत्यमरः । मस्तकमिष्यति गच्छति मस्तिष्कम् 'इष गतौ' मस्तकमज्जेति क्षीरस्वामी । तेन मस्तिष्केणाशनिं देवं प्रीणामि । विद्युतं कनीनकाभ्यां प्रीणामीति पूर्ववत् । कर्णाभ्यां श्रोत्रम् । अत्राश्वाङ्गात्मिका एव देवता । कर्णाभ्यां कर्णशष्कुलीभ्यां श्रोत्रं देवं प्रीणामि । श्रोत्रेन्द्रियाभ्यां कर्णौ देवौ प्रीणामि । कण्ठाधोभागेन तेदनीं देवतां प्रीणामि । शुष्कश्चासौ कण्ठश्च शुष्ककण्ठम् कण्ठस्य यः शुष्को निर्मांसो देशः तेनापोदेवताः प्रीणामि । 'पश्चाद्ग्रीवा शिरा मन्या' इत्यमरः । ग्रीवापश्चाद्भागे कृकाटिकायां शिरा मन्या मन्यत इति मन्या 'संज्ञायां समजनि' इति क्यप् । ग्रीवापश्चान्नाडीभिश्चित्तं प्रीणामि । शीर्ष्णा शिरसा दितिं देवतां प्रीणामि । शीर्षस्य शीर्षन्नादेशः शसादौ । नितरां जर्जरीभूतेन शिरोभागेन निर्ऋतिं देवं प्रीणामि । सम्यक् क्रोशन्ति शब्दायन्ते तानि संक्रोशानि गच्छतोऽश्वस्य यान्यङ्गानि शब्दं कुर्वन्ति तैरङ्गैः प्राणान् देवान् प्रीणामि । 'स्तुप उच्छ्राये' । स्तुपेन उच्छ्रितेन शिखाभूतेनाङ्गेन रेष्माणं देवं प्रीणामि ॥ २ ॥
म० अश्वस्य प्राणवायुना वातं प्रीणामि । अपानवायुना नासिकासंज्ञे द्वे देवते प्रीणामि । अधस्तनेन ओष्ठेन उपयामं देवं प्रीणामि । उपरितनेन ओष्ठेन सत्संज्ञं देवं प्रीणामि । प्रकाशेनोपरितनदेहकान्या अन्तरं देवं प्रीणामि । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' (पा० ६ । ३ । १२२ ) इत्यनोर्दीर्घः । अनूकाशेनाधस्तनदेहकान्त्या बाह्यं देवं प्रीणामि । मूर्ध्ना मस्तकेन निवेष्यं देवं प्रीणामि । निश्चितं बध्यते निर्बाधः शिरोऽस्थिमध्यसंलग्नो मज्जाभागः तेन स्तनयित्नुं देवं प्रीणामि । मस्तके भवं मस्तिष्कं शिरोमध्यस्थो जर्जरो मांसभागः । 'मस्तिष्कं गोर्दम्' इत्यमरः । मस्तकमिष्यति गच्छति मस्तिष्कम् । 'इष गतौ' मस्तकमज्जेति क्षीरस्वामी । तेन मस्तिष्केणाशनिं देवं प्रीणामि । विद्युतं कनीनकाभ्यां प्रीणामीति पूर्ववत् । कर्णाभ्यां श्रोत्रम् । अत्राश्वाङ्गात्मिका एव देवता । कर्णाभ्यां कर्णशष्कुलीभ्यां श्रोत्रं देवं प्रीणामि । श्रोत्रेन्द्रियाभ्यां कर्णौ देवौ प्रीणामि । कण्ठाधोभागेन तेदनीं देवतां प्रीणामि । शुष्कश्चासौ कण्ठश्च शुष्ककण्ठम् । कण्ठस्य यः शुष्को निर्मांसो देशः तेनापो देवताः प्रीणामि । ‘पश्चाद्ग्रीवा शिरा मन्या' इत्यमरः । ग्रीवापश्चाद्भागे कृकाटिकायां शिरा मन्या मन्यत इति मन्या 'संज्ञायां समजनि-' (पा० ३ । ३ । ९९) इति क्यप् । ग्रीवापश्चान्नाडीभिश्चित्तं प्रीणामि । शीर्ष्णा शिरसा दितिं देवतां प्रीणामि । शीर्षस्य शीर्षन्नादेशः शसादौ । नितरां जर्जरीभूतेन शिरोभागेन निर्ऋतिं देवं प्रीणामि । सम्यक् क्रोशन्ति शब्दायन्ते तानि संक्रोशानि गच्छतोऽश्वस्य यान्यङ्गानि शब्दं कुर्वन्ति तैरङ्गैः प्राणान्देवान्प्रीणामि । 'स्तुप उच्छ्राये' स्तुपेन उच्छ्रितेन शिखाभूतेनाङ्गेन रेष्माणं देवं प्रीणामि ॥ २ ॥

तृतीया।
म॒शका॒न् केशै॒रिन्द्र॒ᳪं᳭ स्वप॑सा॒ वहे॑न॒ बृह॒स्पति॑ᳪं᳭ शकुनिसा॒देन॑ कू॒र्माञ्छ॒फैरा॒क्रम॑णᳪं᳭ स्थू॒राभ्या॑मृ॒क्षला॑भिः क॒पिञ्ज॑लाञ्च ज॒वं जङ्घा॑भ्या॒मध्वा॑नं बा॒हुभ्यां॒ जाम्बी॑ले॒नार॑ण्यम॒ग्निम॑ति॒रुग्भ्यां॑ पू॒षणं॑ दो॒र्भ्याम॒श्विना॒वᳪं᳭सा॑भ्याᳪं᳭ रु॒द्रᳪं᳭ रोरा॑भ्याम् ।। ३ ।।
उ० केशैः स्कन्धस्थरोमभिः मशकान् देवान् प्रीणामि । वहः स्कन्धस्तेनेन्द्रं प्रीणामि । कीदृशेन वहेन । स्वपसा अप इति कर्मनाम । शोभनमपः कर्म पर्याणधारणनरवहनादिकं यस्य स स्वपाः तेन । शकुनिः पक्षी तद्वत् सादो गमनम् षद्लृ विशरणगत्यादौ' घञ् । वेगवत् कूर्दनं तेन बृहस्पतिं देवं प्रीणामि । 'शफं क्लीबे खुरः पुमान्' इति कोशः । | खुरैः कूर्मान् देवान् प्रीणामि । रलयोरैक्यम् । स्थूलाभ्यां गुल्फाभ्यामाक्रमणं देवं प्रीणामि । गुल्फाधःस्था नाड्य ऋक्षलास्ताभिः कपिञ्जलान् देवान् प्रीणामि । गुल्फजानुनोर्मध्यभागो जङ्घा ताभ्यां जवं देवं प्रीणामि । अग्रपादयोर्जानूर्ध्वभागौ बाहू ताभ्यां अध्वानं देवं प्रीणामि । | जाम्बीरं जम्बीरतरोः फलं । रलयोरभेदः । तदाकारो जानुमध्यभागो जाम्बीरस्तेनारण्यं देवं प्रीणामि । अत्यन्तं रोचेते तौ अतिरुचौ जानुदेशौ ताभ्यामग्निं देवं प्रीणामि । अग्रपादयोर्जान्वधो दोषौ करौ ताभ्यां पूषणं देवं प्रीणामि । | अंसौ स्कन्धौ ताभ्यामश्विनौ देवौ प्रीणामि । रोरावंसग्रन्थी ताभ्यां रुद्रं प्रीणामि ॥ ३ ॥
म० केशैः स्कन्धस्थरोमभिः मशकान्देवान्प्रीणामि । वहः स्कन्धस्तेनेन्द्रं प्रीणामि । कीदृशेन वहेन । स्वपसा अप इति कर्मनाम । शोभनमपः कर्म पर्याणधारणनरवहनादिकं यस्य स
स्वपाः तेन । शकुनिः पक्षी तद्वत् सादो गमनम् 'षद्लृ विशरणगत्यादौ' घञ् । वेगवत् कूर्दनं तेन बृहस्पतिं देवं प्रीणामि । 'शफं क्लीबे खुरः पुमान्' खुरैः कूर्मान्देवान्प्रीणामि । रलयोरैक्यम् । स्थूलाभ्यां गुल्फाभ्यामाक्रमणं देवं प्रीणामि । गुल्फाधःस्था नाड्यः ऋक्षलास्ताभिः कपिञ्जलान्देवान्प्रीणामि । - गुल्फजानुनोर्मध्यभागो जङ्घा ताभ्यां जवं देवं प्रीणामि । अग्रपादयोर्जानूर्ध्वभागौ बाहू ताभ्यां अध्वानं देवं प्रीणामि । जाम्बीरं जम्बीरतरोः फलं रलयोरभेदः तदाकारो जानुमध्यभागो जाम्बीरस्तेनारण्यं देवं प्रीणामि । अत्यन्तं रोचते तौ अतिरुचौ जानुदेशौ ताभ्यामग्निं देवं प्रीणामि । अग्रपादयोर्जान्वधो दोषौ करौ ताभ्यां पूषणं देवं प्रीणामि । अंसौ स्कन्धौ ताभ्यामश्विनौ देवौ प्रीणामि । रोरावंसग्रन्थी ताभ्यां रुद्रं प्रीणामि ॥ ३ ॥

चतुर्थी ।
अ॒ग्नेः प॑क्ष॒तिर्वा॒योर्निप॑क्षति॒रिन्द्र॑स्य तृ॒तीया॒ सोम॑स्य चतु॒र्थ्यदि॑त्यै पञ्च॒मीन्द्रा॒ण्यै ष॒ष्ठी म॒रुता॑ᳪं᳭ सप्त॒मी बृह॒स्पते॑रष्ट॒म्य॒र्य॒म्णो न॑व॒मी धा॒तुर्द॑श॒मीन्द्र॑स्यैकाद॒शी वरु॑णस्य द्वाद॒शी य॒मस्य॑ त्रयोद॒शी ।। ४ ।।
उ० अत्र षष्ठ्या देवतोद्देशः प्रथमयाङ्गोद्देशः ततोऽस्त्वित्यध्याहारः । अग्नेः देवस्य पक्षतिरस्तु । 'पक्षः साध्यविरोधयोः । बले काले पतत्रे च रुचौ पार्श्वे प्रकल्पितः' इत्यभिधानोक्तेरत्र पक्षः पार्श्ववाची। पक्षस्य मूलं पक्षतिः ‘पक्षात्तिः' इति मूलार्थे तिप्रत्ययः । ततः पक्षस्य पार्श्वस्य मूलभूतान्यस्थीनि वंक्रिशब्दवाच्यानि पक्षतिशब्देनोच्यन्ते । तानि च प्रतिपार्श्वं त्रयोदश भवन्ति । 'षड्विंशतिरश्वस्य वंक्रयः' इति श्रुतेः । तेषां क्रमेण देवतासंबन्धं वक्ति । तत्रादौ दक्षिणपार्श्वास्थ्नां देवता आह । अग्नेः पक्षतिः प्रथमं दक्षिणपार्श्वास्थि अग्नेरस्तु । विभक्तिव्यत्ययो वा । पक्षत्या अग्निं देवं प्रीणामि । वायोर्निपक्षतिः नीचा पक्षतिर्निपक्षतिः द्वितीयं दक्षिणपार्श्वास्थि वायोर्देवस्यास्तु । एवमग्रेऽपि व्याख्येयम् । तृतीया पक्षतिरिन्द्रस्यास्तु । चतुर्थी पक्षतिः सोमस्य । अदित्यै । चतुर्थी षष्ठ्यर्था । पञ्चमी पक्षतिः अदित्याः । षष्ठी पक्षतिः इन्द्राण्याः । सप्तमी पक्षतिः मरुताम् । अष्टमी पक्षतिः बृहस्पतेः । नवमी पक्षतिरर्यम्णो देवस्य । दशमी धातुर्देवस्य । एकादशी पक्षतिः इन्द्रस्य । द्वादशी पक्षतिः वरुणस्य । त्रयोदशी पक्षतिः दक्षिणपार्श्वास्थि यमस्य देवस्यास्तु ॥ ४ ॥
म०. अत्र षष्ठ्या देवतोद्देशः प्रथमयाङ्गोद्देशः ततोऽस्त्वित्यध्याहारः । अग्नेः देवस्य पक्षतिरस्तु । 'पक्षः साध्यविरोधयोः बले काले पतत्रे च रुचौ पार्श्वे प्रकल्पितः' इत्यभिधानोक्तेरत्र पक्षः पार्श्ववाची । पक्षस्य मूलं पक्षतिः ‘पक्षात्तिः' (पा० ५। २। २५) इति मूलार्थे तिप्रत्ययः । ततः पक्षस्य पार्श्वस्य मूलभूतान्यस्थीनि वंक्रिशब्दवाच्यानि पक्षतिशब्देनोच्यन्ते । तानि च प्रतिपार्श्वं त्रयोदश भवन्ति 'षड्विᳪं᳭शतिरश्वस्य वंक्रयः' ( कौषी० ब्रा० १० । ४ ) इति श्रुतेः । तेषां क्रमेण देवतासंबन्धं वक्ति । तत्रादौ दक्षिणपार्श्वास्थ्नां देवता आह । अग्नेः पक्षतिः प्रथमं दक्षिणपार्श्वास्थि अग्नेरस्तु । विभक्तिव्यत्ययो वा । पक्षत्याग्निं देवं प्रीणामि । वायोर्निपक्षतिः नीचा पक्षतिर्निपक्षतिः । द्वितीयं दक्षिणपार्श्वास्थि वायोर्देवस्यास्तु । एवमग्रेऽपि व्याख्येयम् । तृतीया पक्षतिरिन्द्रस्यास्तु । चतुर्थी पक्षतिः सोमस्य । अदित्यै । चतुर्थी षष्ठ्यर्था । पञ्चमी पक्षतिः अदित्याः । षष्ठी पक्षतिः इन्द्राण्याः । सप्तमी पक्षतिः मरुताम् । अष्टमी पक्षतिः बृहस्पतेः । नवमी पक्षतिरर्यम्णो देवस्य । दशमी धातुर्देवस्य । एकादशी पक्षतिः इन्द्रस्य । द्वादशी पक्षतिः वरुणस्य । त्रयोदशी पक्षतिः दक्षिणपार्श्वास्थि यमस्य देवस्यास्तु ॥ ४ ॥

पञ्चमी।
इ॒न्द्रा॒ग्न्योः प॑क्ष॒ति: सर॑स्वत्यै॒ निप॑क्षतिर्मि॒त्रस्य॑ तृ॒तीया॒पां च॑तु॒र्थी निरृ॑त्यै पञ्च॒म्यग्नीषोम॑योः ष॒ष्ठी स॒र्पाणा॑ᳪं᳭ सप्त॒मी विष्णो॑रष्ट॒मी पू॒ष्णो न॑व॒मी त्वष्टु॑र्दश॒मीन्द्र॑स्यैकाद॒शी वरु॑णस्य द्वाद॒शी य॒म्यै त्र॑योद॒शी द्यावा॑पृथि॒व्योर्दक्षि॑णं पा॒र्श्वं विश्वे॑षां दे॒वाना॒मुत्त॑रम् ।। ५ ।।
उ० अथ वामपार्श्वस्थान् देवानाह । प्रथममुपरिस्थं - वामपार्श्वास्थि इन्द्राग्न्योर्देवयोरस्तु । सरस्वत्यै निपक्षतिः द्वितीया पक्षतिः सरस्वत्याः। तृतीया पक्षतिर्मित्रस्य देवस्य । चतुर्थी अपां देवतानाम् । पञ्चमी निर्ऋत्यै निर्ऋतेः । षष्ठी - अग्नीषोमयोः । सप्तमी सर्पाणां देवानाम् । अष्टमी विष्णोर्देवस्य । नवमी पूष्णो देवस्य । दशमी त्वष्टुः । एकादशी इन्द्रस्य । द्वादशी वरुणस्य । यमस्येयं यमी । त्रयोदशी पक्षतिः यमसंबन्धिनी । चतुर्थी प्रथमार्था । अथ समस्तयोः पार्श्वयोर्देवानाह । दक्षिणं पार्श्वं द्यावापृथिव्योरस्तु । उत्तरं वामं पार्श्वं विश्वेषां देवानामस्तु ॥ ५॥
म० अथ वामपार्श्वस्थ्नां देवानाह । प्रथममुपरिस्थं वामपार्श्वास्थि इन्द्राग्न्योर्दैवयोरस्तु । सरस्वत्यै निपक्षतिः । द्वितीया पक्षतिः सरस्वत्याः । तृतीया पक्षतिर्मित्रस्य देवस्य । चतुर्थी अपां देवतानाम् । पञ्चमी निर्ऋत्यै निर्ऋतेः । षष्ठी अग्नीषोमयोः । सप्तमी सर्पाणां देवानाम् । अष्टमी विष्णोर्देवस्य । नवमी पूष्णो देवस्य । दशमी त्वष्टुः । एकादशी इन्द्रस्य । । द्वादशी वरुणस्य । यमस्येयं यमी त्रयोदशी पक्षतिः यमसंबन्धिनी । चतुर्थी प्रथमार्था । अथ समस्तयोः पार्श्वयोर्देवानाह । दक्षिणं पार्श्वं द्यावापृथिव्योरस्तु । उत्तरं वामं पार्श्वं विश्वेषां देवानामस्तु ॥ ५॥

षष्ठी।
म॒रुता॑ᳪं᳭ स्कन्धा॒ विश्वे॑षां दे॒वानां॑ प्रथ॒मा कीक॑सा रु॒द्राणां॑ द्वि॒तीया॑ऽऽदि॒त्यानां॑ तृ॒तीया॑ वा॒योः पुच्छ॑म॒ग्नीषोम॑यो॒र्भास॑दौ॒ क्रुञ्चौ॒ श्रोणि॑भ्या॒मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्यां॑ मि॒त्रावरु॑णाव॒ल्गाभ्या॑मा॒क्रम॑णᳪं᳭ स्थू॒राभ्यां॒ बलं॒ कुष्ठा॑भ्याम् ।। ६ ।।
उ० अथाङ्गान्तराणां देवता आह । विभक्तिव्यत्ययः । स्कन्धप्रदेशार्मरुतो देवान् प्रीणामि । अश्वपुच्छोपरि तिस्रो ऽस्थिपङ्त्तयः सन्ति तासां देवता आह । 'कीकसं कुल्यमस्थि च' इत्यमरः । कीकसति शब्दं करोतीति कीकसमस्थि । प्रथमा कीकसा प्रथमानि कीकसानि पुच्छोपरिस्थाद्यस्थिपङक्तिर्विश्वेषां देवानां । प्रथमकीकसैर्विश्वान्देवान्प्रीणामि । द्वितीयास्थिपङ्क्तिः रुद्राणां द्वितीयै रुद्रान् प्रीणामि । तृतीयानि कीकसानि आदित्यानां तृतीयैः कीकसैरादित्यान् प्रीणामि । वायोः पुच्छं पुच्छेन वायुं प्रीणामि । भासदौ भासेते तौ
भासदौ नितम्बौ तावग्नीषोमयोः भासद्भ्यामग्नीषोमौ प्रीणामि । क्रुञ्चौ श्रोणिभ्यां पुनः पूर्ववदङ्गात्तृतीया । 'कटिः श्रोणिः ककुद्मती' इत्यमरः । श्रोणिभ्यां दक्षवामाभ्यां कटिप्रदेशाभ्यां क्रुञ्चौ देवौ प्रीणामि । इन्द्राबृहस्पती ऊरुभ्याम् । 'सक्थि क्लीबे पुमानूरुः' इत्यमरः । ऊरुभ्यामिन्द्राबृहस्पती देवौ प्रीणामि । मित्रावरुणौ अल्गाभ्याम् अलमत्यर्थं गच्छतः ऊरुभ्यां संयोगं प्राप्नुतस्तौ अल्गौ वङ्क्षणौ ऊरुसन्धी ताभ्यां मित्रावरुणौ प्रीणामि । स्थूरौ स्थूलौ स्फिचौ नितम्बाधोभागौ ताभ्यामाक्रमणं देवं प्रीणामि । 'कुष निष्कर्षे' कुष्येते तौ कुष्टौ नितम्बस्थौ कूपको आवर्तौ ककुन्दरशब्दवाच्यौ ताभ्यां बलं देवं प्रीणामि ॥ ६ ॥
म० अथाङ्गान्तराणां देवता आह । विभक्तिव्यत्ययः । स्कन्धप्रदेशैर्मरुतो देवान् प्रीणामि । अश्वपुच्छोपरि तिस्रोऽस्थिपङ्क्तयः सन्ति तासां देवता आह । 'कीकसं कुल्यमस्थि च' इत्यमरः । कीकसति शब्दं करोति कीकसमस्थि प्रथमा कीकसा प्रथमानि कीकसानि पुच्छोपरिस्थाद्यास्थिपङ्क्तिर्विश्वेषां देवानां प्रथमकीकसैर्विश्वान्देवान्प्रीणामि । द्वितीयास्थिपङ्क्तिः रुद्राणां द्वितीयै रुद्रान्प्रीणामि । तृतीयानि कीकसानि आदित्यानां तृतीयैः कीकसैरादित्यान्प्रीणामि । वायोः पुच्छं पुच्छेन वायुं प्रीणामि । भासदौ भासेते तौ भासदौ नितम्बौ तावग्नीषोमयोः भासद्भ्यामग्नीषोमौ प्रीणामि । क्रुञ्चौ श्रोणिभ्यां पुनः पूर्ववदङ्गात् तृतीया । 'कटिः श्रोणीः ककुद्मती' इत्यमरः । श्रोणीभ्यां दक्षवामाभ्यां कटिप्रदेशाभ्यां क्रुञ्चौ देवौ प्रीणामि । इन्द्राबृहस्पती ऊरुभ्याम् 'सक्थि क्लीबे पुमानूरुः' इत्यमरः । ऊरुभ्यामिन्द्राबृहस्पति देवौ प्रीणामि । मित्रावरुणौ अल्गाभ्याम् अलमत्यर्थं गच्छत ऊरुभ्यां संयोगं प्राप्नुतस्तौ अल्गौ वङ्क्षणौ ऊरुसन्धी ताभ्यां मित्रावरुणौ प्रीणामि । स्थूरौ स्थूलौ स्फिचौ नितम्बाधोभागौ नाभ्यामाक्रमणं देवं प्रीणामि । 'कुष निष्कर्ष' कुष्येते तौ कुष्ठौ नितम्बस्थौ कूपकौ आवर्तौ ककुन्दरशब्दवाच्यौ ताभ्यां बलं देवं प्रीणामि ॥६॥

सप्तमी।
पू॒षणं॑ वनि॒ष्ठुना॑ऽन्धा॒हीन्त्स्थू॑लगु॒दया॑ स॒र्पान्गुदा॑भिर्वि॒ह्रुत॑ आ॒न्त्रैर॒पो व॒स्तिना॒ वृष॑णमा॒ण्डाभ्यां॒ वाजि॑न॒ᳪं᳭ शेपे॑न प्र॒जाᳪं᳭ रेत॑सा॒ चाषा॑न् पि॒त्तेन॑ प्रद॒रान् पा॒युना॑ कू॒श्माञ्छ॑कपिण्डैः ।। ७ ।।
उ० वनति संभजति वनिष्ठुः स्थूलान्त्रं तेन पूषणं देवं प्रीणामि । 'गुदं त्वपानं पायुर्ना' इत्यमरः । स्त्रीत्वं छान्दसम् । स्थूला चासौ गुदा च स्थूलगुदा तया गुदस्य स्थूलभागेन अन्धाहीन्प्रीणामि । अन्धाश्च ते अहयश्च सर्पास्तान सर्पान् गुदाभिः स्थूलगुदातिरिक्तैर्गुदभागैः सर्पान् प्रीणामि । विह्रुत आन्त्रैः 'अन्त्रं पुरीतत्' इत्यमरः । 'अम् गतौ भजने शब्दे' अमति भजत्यनेनान्नमित्यन्त्रम् अन्त्रे भवा
आन्त्राः अन्त्रसंबन्धिनो मांसभागाः तैर्विह्रुतो देवान्प्रीणामि । अपो बस्तिना 'बस्तिर्नाभेरधो द्वयोः' इत्यमरः । वसति मूत्रं यस्मिन् स वस्तिः नाभेरधो वर्तमानं मूत्रपुटं तेनापो देवताः प्रीणामि । 'मुष्कोऽण्डो वृषणः कोशः' अण्ड एवाण्डः ताभ्यां लिङ्गोभयपार्श्वस्थाभ्यां मांसपिण्डाभ्यां वृषणं देवं प्रीणामि । शेपो लिङ्गं तेन वाजिनं देवं प्रीणामि । 'शिश्नो मेढ्रो मेहनशेफसी' इत्यमरः । 'शि निशाने' शिनोति भगमिति शेपः सान्तोऽदन्तश्च । प्रजां रेतसा 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः । 'रीङ् स्रवणे' रियते स्रवति रेतो वीर्यं तेन प्रजादेवतां प्रीणामि । मायुः पित्तं । पतति स्रंसते पित्तं धातुविशेषस्तेन चाषान् देवान् प्रीणामि। पाति मलोत्सर्गमिति पायुर्गुदमुक्तातिरिक्तं तेन गुदतृतीयभागेन प्रदरान्देवान्प्रीणामि । कूश्मान् शकपिण्डैः । 'शको देशे नृपे विशि' । विशि विष्ठायां शकस्य विष्ठायाः पिण्डैः कूष्मान् देवान् प्रीणामि ॥ ७ ॥
म०. वनति संभजति वनिष्ठुः स्थूलान्त्रं तेन पूषणं देवं प्रीणामि । 'गुदं त्वपानं पायुर्ना' इत्यमरः । स्त्रीत्वं छान्दसम् । ' स्थूला चासौ गुदा च स्थूलगुदा तया गुदस्य स्थूलभागेन अन्धाहीन् प्रीणामि । अन्धाश्च ते अहयश्च सर्पास्तान् सर्पान् | गुदाभिः स्थूलगुदातिरिक्तैर्गुदभागैः सर्पान्प्रीणामि । विह्रुत आन्त्रैः ‘अन्त्रं पुरीतत्' इत्यमरः । 'अम् गतौ भजने शब्दे'। , अमति भजत्यनेनान्नमित्यन्त्रम् । अन्त्रे भवा आन्त्राः अन्त्रसंबन्धिनो मांसभागाः तैर्विह्रुतो देवान्प्रीणामि । अपो बस्तिना 'बस्तिर्नाभेरधो द्वयोः' इत्यमरः । वसति मूत्रं यस्मिन्स वस्तिः नाभेरधो वर्तमानं मूत्रपुटं तेनापो देवताः प्रीणामि । | 'मुष्कोऽण्डो वृषणः कोशः' इत्यमरः । अण्ड एवाण्डः ताभ्यां लिङ्गोभयपार्श्वस्थाभ्यां मांसपिण्डाभ्यां वृषणं देवं प्रीणामि । शेपो लिङ्गं तेन वाजिनं देवं प्रीणामि 'शिश्नो मेढ्रो मेहनशेपसी' इत्यमरः । 'शि निशाने' शिनोति भगमिति शेपः सान्तोऽदन्तश्च । प्रजां रेतसा 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः । 'रीङ् स्रवणे' रियते स्रवति रेतो वीर्यं तेन प्रजां देवतां प्रीणामि । मायुः पित्तं पतति स्रंसते पित्तं धातुविशेषस्तेन चाषान्देवान्प्रीणामि । पाति मलोत्सर्गमिति पायुर्गुदमुक्तातिरिक्तं तेन गुदतृतीयभागेन प्रदरान्देवान्प्रीणामि । कूश्मान् शकपिण्डैः । 'शको देशे नृपे विशि' । विशि विष्ठायां शकस्य विष्ठायाः पिण्डैः कूश्मान् देवान् प्रीणामि ॥ ७ ॥

अष्टमी।
इन्द्र॑स्य क्रो॒डोऽदि॑त्यै पाज॒स्यं॒ दि॒शां ज॒त्रवोऽदि॑त्यै भ॒सज्जी॒मूता॑न् हृदयौप॒शेना॒न्तरि॑क्षं पुरी॒तता॒ नभ॑ उद॒र्ये॒ण चक्रवा॒कौ मत॑स्नाभ्यां॒ दिवं॑ वृ॒क्काभ्यां॑ गि॒रीन् प्ला॒शिभि॒रुप॑लान् प्ली॒ह्ना व॒ल्मीका॑न् क्लो॒मभि॑र्ग्लौ॒भिर्गुल्मा॑न् हि॒राभि॒: स्रव॑न्तीर्ह्र॒दान् कु॒क्षिभ्या॑ᳪं᳭ समु॒द्रमु॒दरे॑ण वैश्वान॒रं भस्म॑ना ।। ८ ।।
उ० पुनर्देवे षष्ठी अङ्गे प्रथमा । 'क्रुड घनत्वे' क्रुडतीति क्रोडः घनो वक्षोमध्यभागः स इन्द्रस्यास्तु । क्रोडेन वा इन्द्रं प्रीणामि । एवमग्रेऽपि । पाजसे बलाय हितं पाजस्यं बलकरमङ्गं तददित्याः देवतायाः । अंसकक्षयोः सन्धिर्जत्रु। जायत इति पुंस्त्वमार्षम् । तानि दिशां देवतानाम् । 'भस भर्त्सनदीप्त्योः' बभस्ति दीप्यते भसत् लिङ्गाग्रं तददित्याः अस्तु । पुनर्देवे द्वितीया अङ्गे तृतीया । हृदये उपशेते हृदयौपशं हृदयस्थं मांसं तेन जीमूतान्प्रीणामि । पूर्यते पुरीतत् हृदयाच्छादकमन्त्रं तेनान्तरिक्षं देवं प्रीणामि । उदरे भवमुदर्यमुदरस्थं मांसं तेन नभोदेवं प्रीणामि । शरीरावयवाद्यत् । ग्रीवाधस्ताद्भागस्थितहृदयोभयपार्श्वस्थे अस्थिनी मतस्ने ताभ्यां चक्रवाकौ देवौ प्रीणामि । 'वृक आदाने' वृक्यते स्वादुतया गृह्यते वृक्का । नान्तः पुंस्ययम् । स्त्रीत्येके इति क्षीरस्वामी । वृक्का मुख्यं मांसं तेन दिवं देवतां प्रीणामि । वृक्कौ कुक्षिस्थौ मांसगोलकावाम्रफलाकृती इति याज्ञिकाः । प्रकर्षेणाश्नन्ति भुञ्जतेऽन्नानीति प्लाशयः शिश्नमूलनाड्यः तन्नाडीद्वारैवान्नस्य देहे संचारात् रलयोरभेदः ताभिर्गिरीन्देवान्प्रीणामि । हृदयवामभागे शिथिलो मांसभागः पुप्पुससंज्ञः 'प्लिह गतौ' प्लेहते प्लीहा नान्तः तेन उपलान्देवान् प्रीणामि । क्लोमति क्लोमा उदर्यो जलाधारः। 'हृदयस्य दक्षिणे यकृत् क्लोमा वामे प्लीहा पुप्पुसश्चेति वैद्य' इति क्षीरस्वामी। क्लोमा गलनाडीति कर्कः । तैर्वल्मीकान् देवान्प्रीणामि । ग्लायन्ति श्राम्यन्ति ग्लावो हृदयनाड्यः ताभिर्गुल्मान्देवान्प्रीणामि । हरन्त्यन्नरसमिति हिरा अन्यवाहिन्यो नाड्यः ताभिः स्रवन्तीः देवताः प्रीणामि । जठरस्य दक्षवामभागौ कुक्षी ताभ्यां हृदान्देवान्प्रीणामि । उदरेण जठरेण समुद्रं प्रीणामि । भस्मनाङ्गोत्थेन वैश्वानरं देवं प्रीणामि ॥८॥
म० पुनर्देवे षष्ठी अङ्गे प्रथमा । 'नना क्रोडं भुजान्तरम्' इत्यमरः । 'क्रुड घनत्वे' क्रुडतीति क्रोड: घनो वक्षोमध्यभागः स इन्द्रस्यास्तु क्रोडेन वा इन्द्रं प्रीणामि एवमग्रेऽपि । पाजसे बलाय हितं पाजस्यं बलकरमङ्गं तददित्याः देवतायाः । 'सन्धी तस्यैव जत्रुणी' इत्यमरः । अंसकक्षयोः सन्धिर्जत्रु । जायत इति पुंस्त्वमार्षम् । तानि दिशां देवतानाम् । 'भस भर्त्सनदीप्त्योः' वभस्ति दीप्यते भसत् लिङ्गाग्रं तददित्याः अस्तु । पुनर्देवे द्वितीया अङ्गे तृतीया । हृदये उपशेते हृदयौपशं हृदयस्थं मांसं तेन जीमूतान्प्रीणामि । पूर्यते पुरीतत् हृदयाच्छादकमन्त्रं तेनान्तरिक्षं देवं प्रीणामि । उदरे भवमुदर्यमुदरस्थं मांसं तेन नभो देवं प्रीणामि । 'शरीरावयवाद्यत्' । ग्रीवाधस्ताद्भागस्थितहृदयोभयपार्श्वस्थे अस्थिनी मतस्ने ताभ्यां चक्रवाकौ देवौ प्रीणामि । 'वृक्काग्रमांसम्' इत्यमरः । 'वृक आदाने' | वृक्यते स्वादुतया गृह्यते वृक्का । नान्तः पुंस्ययं स्त्रीत्येके इति क्षीरस्वामी । वृक्का मुख्यं मांसं तेन दिवं देवतां प्रीणामि । वृक्कौ कुक्षिस्थौ मांसगोलकावाम्रफलाकृती इति याज्ञिकाः । | प्रकर्षेणाश्नन्ति भुञ्जतेऽन्नानीति प्लाशयः शिश्नमूलनाड्यः तन्नाडीद्वारैवान्नस्य देहे संचारात् रलयोरभेदः । ताभिर्गिरीन्देवान्प्रीणामि । 'गुल्मस्तु प्लीहा पुंसि' इत्यमरः । हृदयवामभागे शिथिलो मांसभागः पुप्पुससंज्ञः 'प्लिह गतौ' प्लेहते प्लीहा नान्तः तेन उपलान्देवान्प्रीणामि । 'तिलकं क्लोम' इत्यमरः । क्लोमति क्लोमा उदर्यो जलाधारः । हृदयस्य दक्षिणे यकृत् क्लोमा वामे प्लीहा पुप्पुसश्चेति वैद्या इति क्षीरस्वामी । क्लोमा गलनाडीति कर्कः । तैर्वल्मीकान्देवान्प्रीणामि । ग्लायन्ति श्राम्यन्ति ग्लावो हृदयनाड्यः ताभिर्गुल्मान्देवान्प्रीणामि । हरन्त्यन्नरसमिति हिरा अन्नवाहिन्यो नाड्यः ताभिः स्रवन्तीः देवताः प्रीणामि । 'पिचण्डकुक्षी जठरोदरं तुन्दम्' इत्यमरः । | जठरस्य दक्षवामभागौ कुक्षी ताभ्यां ह्रदान्देवान्प्रीणामि । | उदरेण जठरेण समुद्रं प्रीणामि । भस्मनाङ्गोत्थेन वैश्वानरं देवं प्रीणामि ॥ ८ ॥

नवमी।
विधृ॑तिं॒ नाभ्या॑ घृ॒तᳪं᳭ रसे॑ना॒पो यू॒ष्णा मरी॑चीर्वि॒प्रुड्भि॑र्नीहा॒रमू॒ष्मणा॑ शी॒नं वस॑या॒ प्रुष्वा॒ अश्रु॑भिर्ह्रा॒दुनी॑र्दू॒षीका॑भिर॒स्ना रक्षा॑ᳪं᳭सि चि॒त्राण्यङ्गै॒र्नक्ष॑त्राणि रू॒पेण॑ पृथि॒वीं त्व॒चा जु॑म्ब॒काय॒ स्वाहा॑ ।। ९ ।।
उ० नाभ्या उदराधःस्थग्रन्थिना विधृतिं देवतां प्रीणामि । 'रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः । शृङ्गारादिरसे वीर्ये देहधात्वम्बुपारदे' इति विश्वः । रसेन वीर्येण धातुविशेषेण वा घृतं देवं प्रीणामि । यूपः क्वथितो रसः 'पद्दन्-'इत्यादिना यूषन्नादेशः । यूष्णा पक्वान्नरसेनापो देवताः प्रीणामि । विप्रुड्भिर्वसाबिन्दुभिर्मरीचीर्देवताः प्रीणामि । 'ऊष्मणस्तु निदाघोष्णग्रीष्मा बाप्पसहा अपि' इति विश्वः । ऊष्मणा शरीरगतेनौष्ण्येन नीहारं देवं प्रीणामि । वस्ते मांसमिति वसा 'शुद्धमांसस्य यः स्नेहः सा वसा' इति वैद्या इति स्वामी । वसया मांसस्नेहेन शीनं देवं प्रीणामि । दूषीकाभिर्नेत्रमलैर्रा' दुनीर्देवताः प्रीणामि । अस्यते सृज्यते इति वा असृक् रुधिरं 'पद्दन्-'इत्यसन्नादेशः। अस्रा रक्षांसि प्रीणामि । अङ्गैः पूर्वानुक्तावयवैः चित्राणि देवतानि प्रीणामि । 'रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः' इति विश्वः । रूपेण सौन्दर्येण नक्षत्राणि देवतानि प्रीणामि । त्वचा चर्मणा पृथिवीं प्रीणामि । स्वाहेति मन्त्रैराज्यं जुहोतीत्यर्थः । अत्र अग्निं हृदयेनाशनिं हृदयाग्रेणेत्यादि द्यावापृथिवीभ्यां स्वाहेत्यन्ता अपि आहुतीर्जुहुयात् आश्वमेधिकत्वात् । अवभृथे अप्सु मग्नस्य पिङ्गलखलतिविक्लिधशुक्लस्य मूर्धनि जुहोति जुम्बकायस्वाहा इति । वारुणी द्विपदा शुण्डिभ औदन्यदृष्टा । 'वरुणो वै जुम्बकः' इति श्रुतिः । एषा चान्तर्जले जप्ता पापनाशिनी । तदुक्तं हारीतेन 'जुम्बुका नाम गायत्री वेदे वाजसनेयके । अन्तर्जले सकृज्जप्ता ब्रह्महत्यां व्यपोहति' इति ॥ ९॥
म० नाभ्या उदराधःस्थग्रन्थिना विधृतिं देवतां प्रीणामि । 'रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः । शृङ्गारादिरसे वीर्ये देहधात्वम्बुपारदे' इति विश्वः । रसेन वीर्येण धातुविशेषेण वा घृतं देवं प्रीणामि । यूषः क्वथितो रसः ‘पद्दन्' ( पा०६। १।६३) इत्यादिना यूषन्नादेशः । यूष्णा पक्वान्नरसेनापो देवताः प्रीणामि । 'पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियः' इत्यमरः । विप्रुड्भिर्वसाबिन्दुभिर्मरीचीर्देवताः प्रीणामि । 'ऊष्माणस्तु निदाघोष्णग्रीष्माः शष्पसहा अपि' इति विश्वः । ऊष्मणा शरीरगतेनौष्ण्येन नीहारं देवं प्रीणामि । 'मेदस्तु वपा वसा' इत्यमरः । वस्ते मांसमिति वसा । 'शुद्धमांसस्य यः स्नेहः सा वसेति वैद्याः' इति स्वामी । वसया मांसस्नेहेन शीनं देवं प्रीणामि । 'अश्रु नेत्राम्बु रोदनम्' इत्यमरः । अश्रुभिर्नेत्राम्बुभिः प्रुष्वाः देवताः प्रीणामि । 'दूषिका नेत्रयोर्मलम्' इत्यमरः । दूषीकाभिर्नेत्रमलैर्राेतदुनीर्देवताः प्रीणामि । 'रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्' इत्यमरः । अस्यते सृज्यते इति वा असृक् रुधिरम् ‘पद्दन्-' (पा० ६ । १ । ६३ ) इत्यसन्नादेशः । अस्ना रक्षांसि प्रीणामि । अङ्गैः पूर्वानुक्तावयवैः चित्राणि देवतानि प्रीणामि । 'रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः' इति विश्वः । रूपेण सौन्दर्येण नक्षत्राणि दैवतानि प्रीणामि । त्वचा चर्मणा पृथिवीं देवीं प्रीणामि । स्वाहेति मन्त्रैराज्यं जुहोतीत्यर्थः । अत्र अग्निं हृदयेनाशनिं हृदयाग्रेणेत्यादि द्यावापृथिवीभ्यां स्वाहेत्यन्ता अपि (३९ । ८-१३) आहुतीर्जुहुयात् आश्वमेधिकत्वात् । 'अवभृथेष्ट्यन्तेऽप्सु मग्नस्याक्षिपिङ्गलस्य खलतिविक्लिधशुक्लस्य मूर्धनि जुहोति जुम्बकाय स्वाहेति' (का० २० । ८ । १८)। अवभृथयागान्ते एवंविधस्य पुंसो मूर्धनि जुम्बकायेति मन्त्रेणाज्यं सकृद्गृहीतं जुहुयात् । कीदृशस्य पुंसः । जले मग्नस्य पिङ्गलाक्षस्य खलतेः खल्वाटस्य । विक्लिधस्य दन्तुरस्य शुक्लस्यातिगौरस्येति सूत्रार्थः । वरुणदेवत्या द्विपदा यजुर्गायत्री उदन्यपुत्रमुण्डिभदृष्टा । जुम्बकाय वरुणाय स्वाहा सुहुतमस्तु । 'वरुणो वै जुम्बः' ( १३ । ३ । ७। ५) इति श्रुतेः । एषा चान्तर्जले जप्ता पापनाशिनी। तदुक्तं हारीतेन 'जुम्बका नाम गायत्री वेदे वाजसनेयके । अन्तर्जले सकृज्जप्ता ब्रह्महत्यां व्यपोहति ॥' इति ॥ ९॥

दशमी।
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। १० ।।

एकादशी।
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हित्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। ११ ।।
उ० चतस्रः कदेवत्याः त्रिष्टुभः प्रजापतिसुतहिरण्यगर्भदृष्टाः प्राजापत्यपशूनामश्वादीनां याज्यानुवाक्याः । द्वे व्याख्याते ॥ १० ॥ ११ ॥
म० चतस्रः कदेवत्याः त्रिष्टुभः प्रजापतिसुतहिरण्यगर्भदृष्टाः प्राजापत्यपशूनामश्वादीनां याज्यानुवाक्याः । द्वे व्याख्याते । (२३ । १ । ३) ॥ १० ॥ ११ ॥

द्वादशी।
यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रᳪं᳭ र॒सया॑ स॒हाहुः ।
यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। १२ ।।
उ० वयं कस्मै प्रजापतये देवाय हविषा विधेम हविर्दद्मः । विभक्तिव्यत्ययः । कशब्दस्य सर्वनामत्वमार्षम् । इमे हिमवन्तः बहुवचनादन्येऽपि हिमाचलप्रभृतयः पर्वताः । प्रथमा द्वितीयार्थे । 'सुपां सुपो भवन्ति' इति वचनात् । इमान्हिमवत्प्रभृत्यद्रीन्यस्य प्रजापतेर्महित्वं महिमानमाहुर्बुधाः । महित्वेति विभक्तेराकारः । रसा नदी 'रसतेः शब्दकर्मण' इति निरुक्ते यास्कः । रसया नद्या सह समुद्रं यस्य महित्वमाहुः । इमाः प्रदिशः पूर्वाद्याः प्रकृष्टा आशा यस्य महित्वमाहुः । यस्य बाहू भुजौ जगद्रक्षणाविति शेषः । सर्वं जगद्यस्य प्रजापतेर्विभूतिरित्यर्थः । कसै देवाय हविषा विधेमेति व्याख्यातम् ॥ १२ ॥
म० वयं कस्मै प्रजापतये देवाय हविषा विधेम हविर्दद्मः । विभक्तिव्यत्ययः । कशब्दस्य सर्वनामत्वमार्षम् । इमे हिमवन्तः बहुवचनादन्येऽपि हिमाचलप्रभृतयः पर्वताः । प्रथमा द्वितीयार्थे । सुपां सुपो भवन्तीति वचनात् । इमान् हिमवत्प्रभृत्यद्रीन् यस्य प्रजापतेर्महित्वं महिमानमाहुर्बुधाः । महित्वेति विभक्तेराकारः । 'रसा नदी रसतेः शब्दकर्मणः' (निरु. ११ । २५) इति यास्कः । रसया नद्या सह समुद्रं यस्य महित्वमाहुः । इमाः प्रदिशः पूर्वाद्याः प्रकृष्टा आशा यस्य महित्वमाहुः । यस्य बाहू भुजौ जगद्रक्षणाविति शेषः । सर्वं जगद्यस्य प्रजापतेर्विभूतिरित्यर्थः ॥ १२ ॥

त्रयोदशी । ।
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। १३ ।।
उ० आत्मानं ददाति आत्मदाः उपासकानां सायुज्यप्रदः । बलं सामर्थ्यं ददाति बलदाः । भुक्तिमुक्तिप्रद इत्यर्थः । विश्वे सर्वे मनुष्याः यस्य प्रशिषं शासनमुपासते । देवाश्च यस्य प्रशिषमुपासते । तदुक्तम् 'यस्य ज्ञेयावधि ज्ञानं शिक्षावधि च शासनम् । कार्यावधि च कर्तृत्वं स स्वयंभूः पुनातु वः' इति । किंच यस्य छाया आश्रयो ज्ञानपूर्वमुपासनम् अमृतं मुक्तिहेतुः यस्य अज्ञानमिति शेषः । मृत्युः संसारहेतुः । तदुक्तम् 'ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति' इति श्वेताश्वतरोपनिषत् ॥ १३॥
म० कस्मै देवाय हविषा विधेमेति व्याख्यातम् । आत्मानं ददाति आत्मदाः उपासकानां सायुज्यप्रदः । बलं सामर्थ्यं ददाति बलदाः । भुक्तिमुक्तिप्रद इत्यर्थः । विश्वे सर्वे मनुष्याः यस्य प्रशिषं शासनमुपासते देवाश्च यस्य प्रशिषमुपासते । तदुक्तम् 'यस्य ज्ञेयावधि ज्ञानं शिक्षावधि च शासनम् । कार्यावधि च कर्तृत्वं स स्वयंभूः पुनातु वः' इति । किंच यस्य छाया आश्रयो ज्ञानपूर्वमुपासनम् अमृतं मुक्तिहेतुः यस्य । अज्ञानमिति शेषः । मृत्युः संसारहेतुः । तदुक्तम् ‘य एतद्विदुरमृस्तास्ते भवन्त्यथेतरे दुःखमेवापियन्ति' (श्वेता० ३ । १०) इति ॥ १३ ॥

चतुर्दशी।
आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिद॑: ।
दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ।। १४ ।।
उ० आ नो भद्राः । वैश्वदेवानां पशूनां याज्यानुवाक्या दश । पञ्चाद्याः सप्तमी च जगत्यः त्रिष्टुभोऽन्याः । आयन्तु आगच्छन्तु नः अस्माकम् । भद्राः भन्दनीयाः स्तुत्याः । ऋतवः यज्ञाः संकल्पा वा । विश्वतः सर्वतः अदब्धासः अनुपहिंसिताः अपरीतासः अपरिज्ञाताः केनचित् । उद्भिदः उद्भेत्तारोऽन्येषां यज्ञक्रतूनां कल्पानां वा । किंच देवाः नः अस्माकम् सदं सदा । इच्छब्द एवार्थे । सदाकाल एव । वृधे वर्धनाय । असन् स्युः भूयासुः । कथंभूताः । अप्रायुवः अप्रमाद्यन्तः रक्षितारश्च । दिवेदिवे अहन्यहनि तथा भूयादिति वाक्यशेषः ॥ १४ ॥
म० वैश्वदेवपशुवपापुरोडाशपशूनां याज्यानुवाक्या दश ऋचो विश्वदेवदेवत्या गोतमदृष्टाः । तत्रादौ पञ्च जगत्यः । क्रतवो यज्ञाः संकल्पा वा नोऽस्मान् प्रति आयन्तु आगच्छन्तु । यज्ञकर्तारो वयं भवेमेत्यर्थः । कीदृशाः क्रतवः । भद्राः भन्दनीयाः ‘भदि कल्याणे' कल्याणकारिणः । तथा विश्वतः अदब्धासः सर्वतोऽनुपहिंसिताः । निर्विघ्ना इत्यर्थः । अपरीतासः न परीता अपरीताः अपरिगता अज्ञाताः । केनचित्फलानुमेया इत्यर्थः । उद्भिदः उद्भिन्दन्ति प्रकटयन्ति उद्भिदः उद्भेत्तारः । यज्ञान्तराणां प्रकटीकर्तार इत्यर्थः । किंच यथा येन प्रकारेण देवा नोऽस्माकं सदमित् सदैव वृधे वृद्ध्यै असन् भवन्ति । तथा क्रतवः आयन्वित्यर्थः । सदमिदित्यव्ययं सदार्थे । कीदृशा देवाः । अप्रायुवः प्रकर्षेणायुवन्ति प्रमाद्यन्ति ते प्रायुवः । यौतेः क्विप् तुगभाव आर्षः । न प्रायुवः अप्रायुवः अनलसा अस्माकं वृद्ध्यै भवन्त्वित्यर्थः । तथा दिवेदिवे अहन्यहनि प्रत्यहं रक्षितारः पालकाः ॥ १४ ॥

पञ्चदशी ।।
दे॒वानां॑ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वाना॑ᳪं᳭ रा॒तिर॒भि नो॒ निव॑र्तताम् ।
दे॒वाना॑ᳪं᳭ स॒ख्यमुप॑सेदिमा व॒यं दे॒वा न॒ आयु॒: प्रति॑रन्तु जी॒वसे॑ ।। १५ ।।
उ० देवानां भद्रा । देवानां भद्रा भन्दनीया सुमतिः कल्याणी मतिः । अभिनो निवर्ततामित्यनुषङ्गः । अस्मान्प्रत्यभिमुखीभवतु । कथंभूतानां देवानाम् । ऋजूयतां ऋजुगामिनाम् । यद्वा ऋजुकामिनाम् । ऋजुं प्रगुणम् यजमानं कर्तुं ये कामयन्ते ते तथोक्ताः । किंच । देवानां रातिः दानम् अभि नः अस्मान्प्रति निवर्तताम् । ततो लब्धदानाः सन्तः । देवानां सख्यं सखिभावम् । यजमानाः सन्तः उपसेदिम प्राप्नुयाम वयम् । ततो देवाः नः अस्माकं भक्तानामायुः प्रतिरन्तु प्रवर्धयन्तु । किमर्थम् । जीवसे चिरं जीवनाय ॥ १५॥
म० भद्रा कल्याणकारिणी देवानां सुमतिः शोभना बुद्धिः नोऽस्मान् प्रति अभिनिवर्ततामस्मदभिमुखीभवतु । कीदृशानां देवानाम् । ऋजूयताम् ऋजु अवक्रं यन्ति गच्छन्ति ऋजुयन्तस्तेषाम् । इणः शतृप्रत्ययः । अवक्रगामिनाम् । यद्वा ऋजुमवक्रं साधु यजमानं कामयन्ते ते ऋजूयन्ति 'सुप आत्मनः क्यच्' ऋजूयन्ति ते ऋजूयन्तस्तेषाम् । क्यजन्ताच्छतृ । साधुं यजमानं कामयमानानामित्यर्थः । किं च देवानां रातिः दानं नोऽस्मानभिनिवर्तताम् । देवा अस्मभ्यं ददत्वित्यर्थः । देवेभ्यो लब्धदाना वयं देवानां सख्यं मैत्रीमुपसेदिम प्राप्नुयाम । सदेर्लिटि उत्तमबहुत्वे रूपम् संहितायां दीर्घः । देवा नोऽस्माकं सखीनामायुः जीवसे जीवितुं प्रतिरन्तु प्रवर्धयन्तु ॥ १५॥

षोडशी।
तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् ।
अ॒र्य॒मणं॒ वरु॑ण॒ᳪं᳭ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ।। १६ ।।
उ० तान् पूर्वया । तान्देवान् पूर्वया अकृत्रिमया स्वयंभुवा । निविदा । निविच्छब्दो वाग्वचनः । हूमहे आह्वयामो वयम् । तान् कानित्यत आह । भगं मित्रम् अदितिम् दक्षम् अस्रिधम् अच्युतसद्भावम् । दक्षस्यैतद्विशेषणम् । अर्यमणम् वरुणम् सोमम् अश्विनौ च । यैः सहिता सरस्वती सुभगा नः अस्माकम् मयः सुखं करत् करोत्विति ॥ १६ ॥
म० पूर्वया प्राचीनया अकृत्रिमया स्वयंभुवा निविदा वाचा वेदरूपया वयं तान्प्रसिद्धान्देवान् हूमहे आह्वयामः । निविच्छब्दो वाग्वाचकः । तान् कान् तत्राह । भगं मित्रमदितिं देवमातरम् दक्षं प्रजापतिम् अर्यमणं वरुणं सोममश्विना अश्विनौ । अस्रिधमिति भगादीनां विशेषणम् । न स्रेधते च्योतते सोऽस्रित् तमच्युतसद्भावम् । किंच शोभनं भगं भाग्यं यस्याः सा सुभगा भजनीया सरस्वती भगादिसहिता नोऽस्माकं मयः करत् सुखं करोतु ॥ १६ ॥

सप्तदशी।
तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौ॑: ।
तद् ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ।। १७ ।।
उ० तन्नः । तत् भेषजं मयोभु सुखस्य भावयितृ नः अस्माकम् वातः वातु अनुगृह्णातु । तच्च भेषजं माता पृथिवी अनुगृह्णातु । तच्च पिता द्यौः अनुगृह्णातु । तच्च ग्रावाणः सोमसुतः सोमाभिषवकारिणः मयोभुवः सुखस्य भावयितारः अनुगृह्णन्तु । तच्च हे अश्विनौ, धिष्ण्या धारयितारौ युवं युवामपि शृणुतम् । श्रुत्वा च अनुगृह्णीतम् ॥ १७ ॥
म० वातः पवनः नोऽस्माकं भेषजमौषधं हितं यथा तथा वातु 'वा गतिगन्धनयोः' लोट् प्रवातु । अनुगृह्णात्वित्यर्थः । ददात्विति यावत् । कीदृशं हितम् । मयोभु मयः सुखं भवति यस्मात् तन्मयोभु सुखोत्पादकं हितं ददातु । माता जगन्निर्मात्री पृथिवी तत् हितं वातु । पिता पालको द्यौः स्वर्गः तत् हितं वातु । सोमं सुन्वन्ति सोमसुतः सोमाभिषवकारिणो ग्रावाणः दृषदः तत् भेषजं वान्तु ददतु । कीदृशा ग्रावाणः । मयोभुवः मयः सुखं भावयन्ति ते मयोभुवः सुखस्य दातारः । हे अश्विना अश्विनौ, युवं युवां तत् वातादिभ्यो भेषजप्रार्थनं शृणुतं युवामपि हितं दत्तमित्यर्थः । कीदृशौ युवाम् । धिष्ण्या धिष्ण्यौ गृहवद्धारयितारौ ॥ १७ ॥

अष्टादशी।
तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियञ्जि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द् वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ।। १८ ।।
उ० तमीशानम् । तम् ईशानं रुद्रम् । कथं भूतम् । जगतः जंगमस्य तस्थुषः स्थावरस्य पतिमिव पतिम् । धियंजिन्वम् धिया बुद्ध्या संकल्पमात्रेण जिन्वति प्रीणाति इति धियंजिन्वम् । यद्वा धिया कर्मणा जिन्वति प्रीणातीति धियंजिन्वम् अवसे अवनाय तर्पणाय । हूमहे आह्वयामः वयम् । किंच पूषा नः अस्माकम् वेदसां धनानाम् असत् भूयात् वृधे वर्धनाय । रक्षिता च वायुः पाता च अदब्धः अनुपहिंसितश्चान्ये केनचित् स्वस्तये अविनाशाय । तथा हूमहे वयमित्यनुषङ्गः ॥ १८॥
म० वयं तं प्रसिद्धमीशानं रुद्रं हूमहे आह्वयामः । कीदृशं तम् । जगतः जंगमस्य तस्थुषः स्थावरस्य च भूतजातस्य पतिं पालकम् । धियंजिन्वं धियं बुद्धिं जिन्वति प्रीणातीति धियंजिन्वस्तम् अलुक् बुद्धिसन्तोषकारकम् । जिन्वतिः प्रीणनार्थः । किमर्थं हूमहे । अवसे अवितुं तर्पयितुम् । तुमर्थे असेप्रत्ययः । यथा येन प्रकारेण पूषा नोऽस्माकं वृधे वृद्ध्यै स्वस्तये कल्याणाय च असत् भवतु तथा हूमहे इत्यर्थः । कीदृशः पूषा । वेदसां धनानां ज्ञानानां वा रक्षिता रक्षकः । पायुः पालकः पुत्रादीनाम् । अदब्धः अनुपहिंसितः ॥ १८ ॥

एकोनविंशी।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ।। १९ ।।
उ० स्वस्ति नः स्वस्ति स्वस्त्ययनम् नः अस्माकम् इन्द्रः दधातु स्थापयतु । कथंभूतः । वृद्धश्रवाः प्रभूतधनः । महाशब्दो महाकीर्तिर्वा स्वस्ति नोऽस्माकं पूषा ददातु । कथंभूतः । विश्ववेदाः सर्वज्ञो वा । स्वस्ति नः तार्क्ष्यो दधातु । कथंभूतः । अरिष्टनेमिः अनुपहिंसितासुः । स्वस्ति नः अस्माकं बृहस्पतिश्च दधातु ॥ १९ ॥
म०. विराट्स्थाना । आद्यौ पादौ नववर्णौ तृतीयो दशकः तुर्यो व्यूहेनैकादशकः 'नवकौ वैराजस्त्रैष्टुभश्च' इति वचनात् । इन्द्रः नोऽस्मभ्यं स्वस्ति अविनाशं शुभं दधातु ददातु । कीदृशः । वृद्धश्रवाः वृद्धं महत् श्रवः कीर्तिर्यस्य सः । पूषा नः स्वस्ति ददातु । कीदृशः । विश्ववेदाः विश्वं सर्व वेदो धनं यस्य विश्वं वेत्तीति वा विश्ववेदाः । तार्क्ष्यो रथो गरुडो वा नः स्वस्ति दधातु । कीदृशः । अरिष्टनेमिः अरिष्टा अनुपहिंसिता नेमिश्चक्रधारा पक्षो वा यस्य सः । बृहस्पतिः देवगुरुर्नोऽस्मभ्यं स्वस्ति ददातु ॥ १९ ॥

विंशी।
पृष॑दश्वा म॒रुत॒: पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः ।
अ॒ग्नि॒जि॒ह्वा मन॑व॒: सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ।। २० ।।
उ० पृषदश्वा मरुतः । पृषन्तः शबला अश्वा येषां ते पृषदश्वाः । पृश्निमातरः । पृश्निः द्यौर्माता येषां त एवमुच्यन्ते । शुभंयावानः शुभं कर्तुं जनान्प्रति ये यान्ति ते शुभंयावानः । 'आतो मनिन्क्वनिप्वनिपश्च' इति वनिप् । विदथेषु यज्ञेषु जग्मयः गमनशीलाः । 'आदृगमहन-' इति किः । य इत्थंभूता मरुतस्ते अवसा अन्नेन हविर्लक्षणेन आहूताः सन्तः आगमन् आगच्छन्तु इहेत्यनुषङ्गः । ये च अग्निजिह्वा अग्निमुखाहुतादा इत्यर्थः । मनवः चतुर्दश ते च अवसा गमन्निह । ये च सूरचक्षसः आदित्यदर्शनाः विश्वदेवाः ते च नः अस्माकम् अवसागमन्निह यज्ञे ॥ २० ॥
म० जगती । मरुतो देवाः अवसान्नेन हविर्लक्षणेन हेतुना इह यज्ञे आगमन्नागच्छन्तु । कीदृशा मरुतः । पृषदश्वा पृषत्यः पृषतीसंज्ञा अश्वा वडवा वाहनं येषां ते पृषदश्वाः । पुंवद्भावः 'पृषत्यो मरुताम्' इति निघण्टुवचनात् । यद्वा पृषन्तः शबलाः अश्वाः येषां ते पृश्निर्द्यौर्गौर्दितिर्वा माता जननी येषां ते पृश्निमातरः । शुभं कल्याणं यान्ति प्राप्नुवन्ति प्रापयन्ति वा शुभंयावानः 'आतो मनिन्' ( पा० ३ । २ । ७४ ) इति वनिप्प्रत्ययः । विदथेषु यज्ञगृहेषु जग्मयः गमनशीलाः 'आदृगमहन-' (पा० ३ । २ । १७१) इति किः । अग्निजिह्वाः अग्निर्जिह्वा भोजनसाधनं येषां ते 'अग्निमुखा वै देवाः' इति श्रुतेः । हुताद इत्यर्थः । मन्यन्ते जानन्ति मनवः सर्वज्ञाः । सूरः सूर्यश्चक्षः चक्षुः येषां ते सूर्यं चक्षते पश्यन्ति वा सूरचक्षसः । किंच न केवलं मरुतः विश्वे सर्वे देवाः च नोऽस्माकं यज्ञे आगमन्नागच्छन्तु ॥ २० ॥

एकविंशी ।
भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः ।
स्थि॒रैरङ्गै॑स्तुष्टु॒वाᳪं᳭स॑स्त॒नूभि॒र्व्य॒शेमहि दे॒वहि॑तं॒ यदायु॑: ।। २१ ।।
उ० भद्रं कर्णेभिः । भद्रमनुकूलं कर्णेभिः कर्णाभ्यां शृणुयाम हे देवाः । भद्रं पश्येम अक्षभिः अक्षिभ्यां । हे यजत्राः यजनीयाः । किंच । स्थिरैरङ्गैः अशिथिलैः अङ्गैः । तुष्टुवांसः देवान्स्तुतवन्तः । तनूभिः भार्यापुत्रपौत्रादिकाभिस्तनूभिः सहिताः व्यशेमहि व्यश्नुवीमहि । देवहितं देवैर्यत्स्थापितं मनुष्याणामायुः तद्व्यश्नुवीमहि ॥ २१ ॥
म० तिस्रस्त्रिष्टुभः । हे देवाः, कर्णेभिः कर्णैः भद्रं कल्याणमनुकूलं वयं शृणुयाम । हे यजत्राः, यजन्तं त्रायन्ते रक्षन्ति यजत्राः यजमानपालकाः अक्षभिः नेत्रैः भद्रं वयं पश्येम 'बहुलं छन्दसि' (पा० ७ । १ । ७६ ) इति हलादौ अक्षिशब्दस्यानङादेशः । किंच देवहितं देवैः स्थापितं देवानां हितं देवोपासनयोग्यं वा यदायुः जीवनं तद्वयं व्यशेमहि व्यश्नुवीमहि प्राप्नुयाम । कीदृशा वयम् । स्थिरैः दृढैरङ्गैः अवयवैः करचरणादिभिः तनूभिः शरीरैश्च पुत्रादिभिर्वा युताः तुष्टुवांसः भवतः स्तुवन्तः सन्तः ॥२१॥

द्वाविंशी।
श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तो॑: ।। २२ ।।
उ० शतमित् । शतमपि शरदः अन्ति अन्तिके समीपे भवथ हे देवाः । आकल्पकालमित्यभिप्रायः । ऋषिभिरुदितमेतत् । यत्र यस्मिन् शरदांशते नः अस्माकं यूयं चक्र कृतवन्तः । जरसं जरां तनूनां जरानिमित्तां शक्तिमित्यभिप्रायः। किंच । पुत्रासो यत्र पितरो भवन्ति पुत्रा अग्नयः यत्र शरदां शते । यजमानस्य पितरो जनितारो भवन्ति । तदुक्तम् 'तत्र वै प्रजापतिः प्रजाः ससृज' इत्युपक्रम्य 'तस्माज्जनयित्वा बिभृही'ति । यत्र पितरो भवन्ति । एतदप्युक्तमेव । ‘स यत्र म्रियते यत्रैनमग्नावभ्यादधाति तदेषोऽग्नेरधिजायते स एष पुत्रः सन्पिता भवति अथवा पुत्रा एव पितॄणामौर्ध्वदेहिकं कुर्वाणाः पितरो यत्र संपद्यन्ते तदपि शरदांशतमन्तिक एव इति । यत एवमतो ब्रूमः । मा नो मध्या रीरिषतायुर्गन्तोः मारीरिषत् माहिंसीष्ट नोऽस्माकं मध्या मध्ये अकाल एव आयुः गन्तोः गन्तृ गमनशीलम् । उक्तंच 'संचिन्त्य संचिन्त्य तमुग्रदण्डं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षासु सिक्ता इव | चर्मबन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति' इति ॥ २२ ॥
म० हे देवाः, शतमित् शतमपि शरदो वर्षाणि शतवर्षपर्यन्तं यूयमन्ति अन्तिके समीपे भवतेति शेषः । यत्र शरच्छते नोऽस्माकं तनूनां शरीराणां यूयं जरसं जरां चक्र कुरुथ। करोतेर्लिटि मध्यमबहुवचनम् । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति चक्रेत्यत्र संहितायां दीर्घः 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति यत्रेत्यत्र दीर्घः । वार्धकावधि यूयं समीपे भवतेत्यर्थः । यत्रास्माकं जरायां पुत्रासोऽस्मत्पुत्राः पितरो भवन्ति पुत्रवन्तो भवन्ति । यावदस्माकं पौत्रा भवन्तीत्यर्थः । तावत् मध्या मध्ये नोऽस्माकमायुर्मा रीरिषत मा हिंसिष्ट । रिषतेर्हिंसार्थस्य णिजन्तस्य चङि रूपम् । कीदृशमायुः । गन्तोः गन्तृ गमनशीलम् । तदुक्तम् 'संचिन्त्य संचिन्त्य तमुग्रदण्डं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षासु सिक्ता इव चर्मबन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति' इति ॥ २२ ॥

त्रयोविंशी।
अदि॑तिर्द्यौ॒रदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
विश्वे॑ दे॒वा अदि॑ति॒: पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ।। २३ ।।
उ० सर्वात्मकत्वेनादितिं मन्त्रदृक्स्तौति । अदितिश्च द्यौः अदितिश्च अन्तरिक्षम् अदितिश्च माता स च पिता स च पुत्रः स इति छान्दसो लिङ्गव्यत्ययः। विश्वे च देवाः पञ्चजनाः मनुष्याश्च अदितिः। किं बहुनोक्तेन अदितिरेव जातं भूतम् । अदितिरे जनित्वं जनिष्यमाणम् । अथवा नैवादितिरनेनोच्यते किंपुनः एतान्येव द्यौःप्रभृतीनि अदानानि महाभाग्ययुक्तानीति ॥ २३ ॥
म० मन्त्रदृक् सर्वात्मकत्वेनादितिं स्तौति । द्यौः स्वर्गोऽदितिः तदधिष्ठातृत्वात् । एवमग्रेऽपि । अन्तरिक्षमदितिः माता पुत्रश्च सः सादितिरेव लिङ्गव्यत्ययः । विश्वे सर्वे देवाः अदितिः। पञ्चजनाः मनुष्या अप्यदितिः । किं बहुना जातमुत्पन्नं प्राणिजातं जनित्वं जनिष्यमाणं च सर्वमदितिरेव । यद्वाऽदितिर्मन्त्रेण नोच्यते द्योरित्यादीनि सर्वाणि जनित्वान्तानि अदितिः अदितीनि अदीनानि महाभाग्ययुक्तानि सन्तु ॥ २३ ॥

चतुर्विंशी।
मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुत॒: परि॑ ख्यन् ।
यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्ते॑: प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॒णि ।। २४ ।।
उ० मा नः । अश्वस्तोमीयं जुहोति । द्वाविंशत्यृग्भिस्त्रिष्टुब्भिः । तृतीयाषष्ठ्यौ जगत्यौ । दीर्घतमा ऋषिः अश्वस्य स्तूयमानत्वात् । या तेनोच्यते सा देवतेति न्यायेन अश्वो देवता । तृतीयः पादः प्रथमं व्याख्यायते यच्छब्दयोगात् । यत् वाजिनः अश्वस्य । देवजातस्य देवैर्जनितस्य 'सूरादश्वं वसवो निरतष्ट' इत्येतदभिप्रायम् । सप्तेः सरणस्य प्रवक्ष्यामः उच्चारयामः । विदथे यज्ञे वीर्याणि चरित्राणि तत् मापरिख्यान् मा गर्हन्तु नः अस्माकं देवाः स्तुत्याः । नत्वश्वप्रभृतयस्तिर्यञ्च इति स्याद्गर्हा । अतो ब्रवीमि मा परिख्यन्निति । यद्यपि गर्होचिता तथापि अश्वादिरूपेण देवानामेव स्तुतत्वादित्याशयः । के ते देवाः । मित्रः वरुणः अर्यमा आयुर्वायुः वकारलोपेन । इन्द्रश्च ऋभुक्षा मरुतश्च ॥ २४ ॥
म० मा नो मित्र इति च प्रत्यृचमनुवाकाभ्याम्' (का० २०। ८ । ७) । मा न इत्यादिषोडशकण्डिकात्मकेनानुवाकद्वयेन पूर्ववच्चतुर्ग्रहीतमाज्यं गृहीत्वा जुहोति । मा नो यदश्वस्याष्टकावित्युक्तेः 'षोडशाश्वस्तोमीया जुहोति' इति श्रुतेश्च । द्वाविंशतिर्ऋचोऽश्वस्तुतिपरत्वादश्वदेवत्यास्त्रिष्टुभो दीर्घतमोदृष्टाः अत्र एष छाग (२६) इति तृतीया यूपव्रस्का ( २९) इति षष्ठी, एते द्वे जगत्यौ । ततः षोडशभिर्होमः षड्भिः स्तुतिः सर्वाभिर्वा होमः 'अश्वस्तोमीयᳪं᳭ हुत्वा द्विपदा जुहोति' इति श्रुतेः । अथ मन्त्रार्थः । विदथे यज्ञे वाजिनोऽश्वस्य वीर्याणि चरित्राणि यत् वयं प्रवक्ष्यामः उच्चारयिष्यामः तत्र मित्रादयो देवा नोऽस्मान्मा परिख्यन् मा निन्दन्तु । परिख्यानं निन्दा 'अस्यतिवक्तिख्यातिभ्योऽङ्' (पा० ३ । १ । ५२) च्लेरङ् 'न माङ्योगे' (पा० ६ । ४ । ७४) इत्यडभावः । अस्माभिर्देवाः स्तुता न त्वश्वादयस्तिर्यञ्च इति यद्यपि निन्दोचिता तथाप्यश्वरूपेण देवानामेव स्तुतिः क्रियते । कीदृशस्य वाजिनः।। देवजातस्य देवात्सूर्याज्जातस्योत्पन्नस्य देवैर्जनितस्य वा 'सूरादश्वं वसवो निरतष्ट' ( २९ । १३ ) इत्युक्तेः । सप्तेः 'सप संबन्धे' सपति देवैः सह युज्यत इति सप्तिस्तस्य । के मा निन्दन्तु तानाह । मित्रः अहरभिमानी देवः । वरुणः रात्र्यभिमानी देवः । अर्यमा आदित्यः । आयुः एति सततं गच्छतीति आयुर्वायुः । इन्द्रः देवराजः । ऋभुक्षाः ऋभवो देवाः क्षियन्ति निवसन्ति यस्मिन् स ऋभुक्षाः देवाधारः प्रजापतिः । यद्वा इयर्ति व्याप्नोति सर्वमिति ऋभुक्षाः अर्तेर्भुक्षिन्प्रत्ययः 'पथिमथ्यृभुक्षामात्' (पा. ७ । १।८५) इति सावाकारः । इन्द्रविशेषणं वा ॥ २४ ॥

पञ्चविंशी।
यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति ।
सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथ॑: ।। २५ ।।
उ० यन्निर्णिजा । यदा निर्णिजा निर्णेजनेनोदकस्नानेन संस्कृतस्य आलम्भनकाले यत्स्नापनमश्वस्य तदेतदुक्तम् । तथा रेक्णसा । रेक्ण इति धननाम । धनेन मणिकाख्येन प्रावृतस्य केसरपुच्छेषूपचितस्य अश्वस्य । सुवर्णान्मणीन्केसरपुच्छेषु पत्न्य आवपन्ति तदभिप्रायमेतत् । रातिं दानम् आज्यसक्तुधानालाजालक्षणं गृभीतां गृहीतां मुखतो नयन्ति । अश्वाय राति हुतशेषं प्रयच्छन्तीत्येतदभिप्रायम् । तत् तदा अश्वस्य सुप्राङ् सुष्ठु प्रागञ्चनः अजः मेम्यत् । मेम्यदिति शब्दानुकरणम् । मेमे इति शब्दं कुर्वाणः । विश्वरूपः नानावर्णः कृष्णग्रीव आग्नेयो रराटे पुरस्तादित्येतदभिप्रायमेतत् । किंच इन्द्रापूष्णोः इन्द्रस्य पूष्णश्च प्रियं पाथः अन्नं पशुलक्षलम् । अप्येति अभ्यागच्छति । यदिह पठ्यते सौमापौष्णः श्यामो नाभ्याम् तदेवान्यस्यां श्रुतौ पठ्यते इन्द्रापौष्णः श्यामो नाभ्यामिति । तदयं मन्त्रोऽभिवदति इन्द्रापूष्णोः प्रियमप्येति पाथ इति ॥ २५ ॥
म० यत् यदा विप्रा अश्वस्य मुखतो मुखाग्रे गृभीतां गृहीतां रातिं दानमाज्यसक्तुधानालक्षणं नयन्ति प्रापयन्ति 'अश्वाय रात्रिहुतशेषं प्रयच्छति' इत्युक्तेः । तदा अजः छागः अप्येति भक्षणायागच्छति । कीदृशोऽजः । सुप्राङ् सुष्ठु प्राञ्चति पूर्व गच्छतीति सुप्राङ् । ललाटे बद्ध इत्यर्थः । 'कृष्णग्रीव आग्नेयो ललाटे पुरस्तात्' ( २४ । १) इत्युक्तेः । तथा मेम्यत् शब्दानुकरणम् । मे मे इति शब्दं कुर्वन् । विश्वरूपः विश्वानि रूपाणि यस्य । नानावर्ण इत्यर्थः । किंच इन्द्रापूष्णोः इन्द्रश्च पूषा च इन्द्रपूषणौ तयोः 'देवताद्वन्द्वे च' (पा० ६ । ३ । २६) इतीन्द्रपदस्य दीर्घः । इन्द्रस्य पूष्णश्च प्रियमिष्टं पाथोऽन्नं पशुलक्षणं तदप्येति भक्षाय नाभिबद्धोऽप्यागच्छति 'सौमापौष्णः श्यामो नाभ्याम्' (२४ । १) इत्युक्तेः । हुतशेषमन्नं यद्यश्वाय दीयते तदा ललाटनाभिबद्धावजौ भक्षायागच्छत इत्यर्थः । कीदृशस्याश्वस्य । निर्णिजा निर्णेजनेन स्नानेन प्रावृतस्य संस्कृतस्य । आलम्भनकाले स्नापितस्य निर्णेजनं निर्णिक् तया । निजतेः संपदादित्वाद्भावे क्विप् । तथा रेक्णसा प्रावृतस्य आच्छादितस्य । रेक्ण इति धननाम । धनेन सौवर्णमणिलक्षणेन प्रावृतस्य अश्वस्य सौवर्णान्मणीन् केसरपुच्छेषु पत्न्य आवपन्तीत्युक्तेः ॥ २५ ॥

षड्विंशी।
ए॒ष छाग॑: पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः ।
अ॒भि॒प्रियं॒ यत्पु॑रो॒डाश॒मर्व॑ता॒ त्वष्टेदे॑नᳪं᳭ सौश्रव॒साय॑ जिन्वति ।। २६ ।।
उ० एष छागः । एष आग्नेयश्छागः पुरः अग्रतोग्रेस्थितः नीयते अश्वेन वाजिना व्यापकेन सहितः । पूष्णश्च पोषकस्याग्नेश्च भागो भजनीयः नीयते अश्वैः सह सोपि पर्यंग्य एव । विश्वेदेव्यः विश्वेभ्यः सर्वेभ्यो देवेभ्यः हितः अग्नेः सर्वदेवात्मकत्वात्सर्वदेवप्रियत्वम् । कस्मात् अभिप्रियम् अभिप्रेतं यत् यच्च पुरोडाशं कर्तुम् अर्वता अश्वेन सहितम् । अश्वस्तस्मिन्काले संज्ञप्यते पशुपुरोडाशः क्रियते तदेतदुक्तम् । त्वष्टा च एनमजम् तदा सौश्रवसाय शोभनान्तःकरणाय जिन्वति प्रीणाति । स हि तस्याधिकार इति ॥ २६ ॥
म० यत् यदा एषः छागोऽजः वाजिना वेगवताश्वेन पुरः पुरस्तात् नीयते प्राप्यते ललाटबद्धत्वात् । कीदृशः छागः । पूष्णो भागः पुष्णाति देवानिति पूषाग्निस्तस्य भागः भजनीयः 'आग्नेयो रराटे' (२४।१) इत्युक्तत्वात्। तथा विश्वदेव्यः विश्वेभ्यो देवेभ्यो हितः सर्वदेवार्हः अग्नेः सर्वदेवात्मकत्वात् । तदा त्वष्टा इत् त्वष्टैव प्रजापतिरेव अर्वता अश्वेन सह एनं छागं जिन्वति प्रीणाति । किमर्थम् । सौश्रवसाय शोभनं श्रवः कीर्तिर्यस्य सः सुश्रवास्तस्य भावः सौश्रवसं तस्मै सुकीर्तये यज्ञे मृतानां स्वर्गाप्तेरुक्तत्वात् । किंभूतमेनम् । अभिप्रियं अभिप्रीणातीति तम् समन्ताद्देवानां प्रीणयितारम् । पुरोडाशं पुरोडाश्यन्ते ददति एनं स पुरोडाशः तं पुरस्ताद्दातव्यम् ॥ २६ ॥

सप्तविंशी।
यद्ध॑वि॒ष्य॒मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒: पर्यश्वं॒ नय॑न्ति ।
अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्य॑: प्रतिवे॒दय॑न्न॒जः ।। २७ ।।
उ० यद्धविष्यम् यदा हविष्यम् ऋतुशः ऋतावृतौ स्वचारिणं देवयानम् देवानां प्रापणीयं देवयानमार्गगामिनं वा आदित्यवदनिवारितगतिं वा । त्रिःसंस्कृतम् स्नापनव्यञ्जनसुवर्णमणिकप्रवारैः । मानुषाः ऋत्विग्यजमानाः परिणयन्ति अश्वम् । अत्र तत्रेत्यर्थः । तस्मिन् काले पूष्णः पोषकस्याग्नेः प्रथमो भागोजाख्यः एति यज्ञम् देवेभ्यः प्रतिवेदयन् अजः स्वकीयेन शब्देन । चरकश्रुतौ पूष्णो ललाट इति पठ्यते तदभिप्रायमेतत् ॥ २७ ॥
म० मानुषा मनुष्या ऋत्विजो यत् यदा अश्वं त्रिः परिणयन्ति वारत्रयं पर्यग्निकुर्वन्ति । कीदृशमश्वम् । हविष्यं हविषे हितं हविर्योग्यम् । ऋतुशः ऋतौ ऋतौ यज्ञकाले देवयानं देवानां प्रापणीयं देवेषु यानं गमनं यस्य तम् , देवयानमार्गगामिनं वा । यद्वा देववदादित्यवद्यानं गतिर्यस्य । अनिवारितगतिमित्यर्थः । अत्रास्मिन्समये पर्यग्निकरणकाले पूष्णः पोषकस्य वृद्धस्य वाग्नेर्भागोऽजः प्रथमः पुरोगामी सन् एति गच्छति । किं कुर्वन् । देवेभ्यः यज्ञं प्रतिवेदयन्प्रख्यापयन् स्वशब्देन ज्ञापयन् । 'पूष वृद्धौ' पूषति वर्धते पूषाग्निः ॥२७॥

अष्टाविंशी।
होता॑ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शᳪं᳭स्ता॒ सुवि॑प्रः ।
तेन॑ य॒ज्ञेन॒ स्व॒रंकृतेन॒ स्वि॒ष्टेन व॒क्षणा॒ आपृ॑णध्वम् ।। २८ ।।
उ० होताध्वर्युः । होता तत्र शंसिता सुविप्र इति संबन्धः । यस्मिन्यज्ञे होता विशसिता। शस्त्राणामपि साधुमेधावी साधुब्राह्मणो वा अध्वर्युश्च यस्मिन्यज्ञे आवयाः आभिमुख्येन वयति कर्मणीत्यावयाः अग्निमिन्धः अग्निदीपकः ग्रावग्राभः ग्रावग्राहः सोमाभिषवाय ग्रावग्रहणशील: उत अपि शंस्ता । तेन यज्ञेन साध्वलंकृतेन स्विष्टेन साधु इष्टेन च । वक्षणाः नदीः देवानां तुष्टिकराः पयोदधिपयस्यापुरोडाशमांसैः । आपृणध्वं आपूरयध्वम् । अकृपणं दातव्यमित्यभिप्रायः ॥ २८ ॥
म० हे होत्रादय ऋत्विजः, तेन प्रसिद्धेन यज्ञेनाश्वमेधेन वक्षणाः नदीः घृतकुल्याद्याः आपृणध्वं घृतपयोदधिपयस्यापुरोडाशमांसैः पूरयत । वहन्तीति वक्षणाः । यज्ञं संपाद्य फलं साधयतेत्यर्थः । कीदृशेन यज्ञेन । स्वलंकृतेन रलयोरैक्यम् । सुष्ठु अलंकृतेन विप्रहविर्दक्षिणादिभिः शोभितेन । स्विष्टेन सुष्ठु इष्टेन । के ऋत्विजस्तानाह । होता आह्वाता देवानां तन्नामक ऋत्विक् । अध्वर्युः अध्वरमिच्छति अध्वर्यति 'सुप आत्मनः क्यच्' 'कव्यध्वरपृतनस्यर्चि लोपः' (पा० ७।४।३९) इति टिलोपः ततः 'क्याच्छन्दसि' (पा० ३।२।१७० ) इत्युप्रत्ययः । आवयाः आभिमुख्येनावयजतीत्यावयाः श्वेतवाहोक्थशासेति उस् । आवयाः प्रतिप्रस्थाता 'अवे यजः' (पा० । ३।२।७२) इति ण्विन् अवाप्योरिति अवस्याल्लोपः । अग्निमिन्धः अग्निमिन्धे दीपयति अग्निमिन्धः अग्नीत् 'भाष्ट्राग्न्योरिन्धे' (पा०।६।३ । ७० ) इति मुम् । ग्रावग्राभः ग्राव्णो | गृह्णाति स्तौति ग्रावग्राभः । कर्मण्यण् हस्य भः ग्रावस्तोता। उतापि शंस्ता शंसति स्तौति शंस्ता प्रशास्ता । सुविप्रः शोभनो विप्रो मेधावी सुविप्रो ब्रह्मा 'ब्रह्मा सर्वविद्यः सर्वं वेदितुमर्हति' इत्युक्तेः । अयमनुक्तर्त्विगुपलक्षकः । एते यज्ञेन वक्षणाः पृणध्वमिति संबन्धः ॥ २८ ॥

एकोनत्रिंशी।
यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति ।
ये चार्व॑ते॒ पच॑नᳪं᳭ स॒म्भर॑न्त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ।। २९ ।।
उ० यूपव्रस्का उत यूपं ये वृश्चन्ति त एवमुच्यन्ते । उत अपिच ये यूपवाहाः यूपं ये वहन्ति । चषालं ये अश्वयूपाय तक्षति ये जनाः अश्वबन्धनयूपाय चषालं यूपाग्रभागं तक्षति । तक्षन्तीति प्राप्ते छान्दसमेकवचनम् । साधुसंपादयन्ते । ये च अर्वते अश्वाय पचनं पच्यतेऽनेनेति पचनं काष्ठादि संभरन्ति । उतो अपिच तेषां जनानां संबन्धिनी अभिगूर्तिः 'गुरी उद्यमने' । आगूरणमभिगूर्तिः स्वकाले सर्वं करणीयमिति बुद्धिः इन्वतु व्याप्नोतु ॥ २९ ॥
म०. तेषामृत्विजामभिगूर्तिः अभिगोरणमभिगूर्तिरुद्यमः नोऽस्मानिन्वतु प्रीणातु व्याप्नोतु वा । अस्माकं यज्ञं सम्यक् साधयत्वित्यर्थः । 'इवि व्याप्तिप्रीणनयोः' लोट् शपि 'इदितो नुम् धातोः' (पा० ७ । १ । ५८ ) इति नुमागमः। तेषां केषाम् । ये यूपव्रस्काः यूपाय वृश्चन्ति तरं छिन्दन्ति ते यूपव्रस्काः । उतापि च ये यूपवाहाः यूपं वहन्ति ते यूपवाहाः । कर्मण्यण् । छिन्नस्य यूपस्य वोढारः । ये च अश्वयूपाय अश्वबन्धनयूपार्थं चषालं तक्षति यूपाग्रभागे स्थाप्यं काष्ठं तक्षन्ति वचनव्यत्ययः । 'चषालो यूपकटकः' इत्यमरः । 'तक्षु तनूकरणे' साधु संपादयन्तीत्यर्थः । उतो अपिच ये नराः अर्वते अश्वाय पचनं पच्यतेऽनेनेति पचनं पाकसाधनं काष्ठभाण्डादिकं संभरन्ति संहरन्ति आनयन्ति तेषामुद्यमोऽस्मान्प्रीणात्वित्यर्थः ॥ २९ ॥

त्रिंशी।
उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः ।
अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बन्धु॑म् ।। ३० ।।
उ० उप प्र । उपप्रागात् उपैतु सुमत् 'सुमत्स्वयमित्यर्थे' इति यास्कः । मे मम अधायि निहितम् यत् मन्म मननम् । किं तदिति चेत् । देवानाम् आशाः शंसनानि साधुसाध्वयं पशुरागच्छेदित्येवमादीनि । उप आगतः वीतपृष्ठः साधुपोषणेन प्राप्तपश्चाद्भागः। कामितपृष्ठो वा । अश्वपृष्ठं हि सर्व एवारोढुं कामयन्ति । यत एवमतो ब्रवीमि । अन्वेनं विप्रा ऋषयो मदन्ति । अनुमदन्ति अनुमोदन्ति एनमश्वं विप्रा ऋषयश्च । स्वयं च देवानां पुष्टे पोषणाय । चकृम कृतवन्तः। सुबन्धुं शोभनबन्धनं शोभनार्थवादं वा ।। ३० ॥
म० मन्म मननीयं फलं सुमत् स्वयमुपप्रागात् उपगच्छतु । सुमदित्यव्ययं स्वयमित्यर्थे । 'सुमत् स्वयमित्यर्थे' (निरु० | ६ । २२ ) इति यास्कोक्तेः । तन्मन्म फलं मे मया अधायि | धृतमित्यर्थः । किंच अयं वीतं पुष्टं पृष्ठं यस्य । यद्वा वीतं कामितं पृष्ठं यस्य अश्वपृष्ठमारोहणाय सर्वे कामयन्ते स वीतपृष्ठोऽश्वो देवानामाशाः मनोरथान् पूरयितुमिति शेषः । उपगच्छतु उपसर्गेण क्रियावृत्तिः । किंच देवानां पुष्टे पोषणं पुष्टम् भावे निष्ठा । निमित्ते सप्तमी । देवपुष्टिनिमित्तं यमश्वं वयं सुबन्धुं चकृम कृतवन्तः । संहितायां दीर्घः । शोभनो बन्धुर्बन्धनं यस्य तम् यमश्वं बद्धवन्तः । एनमश्वं विप्रा मेधाविनः ऋषयो मन्त्रदर्शिन ऋविजोऽनुमदन्ति अनुमोदन्तां तुष्यन्तु ॥ ३० ॥

एकत्रिंशी।
यद्वा॒जिनो॒ दाम॑ स॒न्दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॒ रश॒ना रज्जु॑रस्य ।
यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये तृण॒ᳪं᳭ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ।। ३१ ।।
उ० यद्वाजिनः वेजनवतः दाम ग्रीवाबन्धनरज्जुः संदानं सम्यगवच्छेदकं पादबन्धनम् अर्वतः अश्वस्य । याच शीर्षण्या शिरसि बद्धा नियोजनीया रज्जुः अस्याश्वस्य । यद्वा घः पादपूरणे । अस्याश्वस्य प्रभृतं प्रहृतं निक्षिप्तम् आस्ये मुखे तृणम् सर्वाणि तानि ते तव हे यजमान । अपि देवेषु अपि प्रजापतये अस्तु । सन्त्विति प्राप्ते वचनव्यत्ययः ॥ ३१ ॥
म० वाजिनो वेगवतोऽर्वतोऽश्वस्य यत् दाम ग्रीवाबद्धा रज्जुः यच्च संदानं पादबन्धनरज्जुः । या च शीर्षण्या शीर्षे भवा शीर्षण्या शिरोबद्धास्याश्वस्य रज्जुः । शिरःशब्दात् 'भवे छन्दसि' (पा० ४ । ४ । ११० ) इति यत् । 'ये च तद्धिते' (पा० ६ । १ । ६१) इति शीर्षन्नादेशः । तित् स्वरितम् । कटिस्था रशना रज्जुः अस्यान्यापि या रज्जुः । वाथवा अस्याश्वस्य घ प्रसिद्धम् आस्ये मुखे प्रभृतं प्रहृतं प्रक्षिप्तं यत् तृणं हे अश्व, ते तव सर्वा सर्वाणि ता तानि देवेषु अस्तु देवोपयोगीनि भवन्तु देवत्वं प्राप्नुवन्तु वा । अत्रोपयुक्तानां सर्वेषां देवत्वमाशास्यते ॥ ३१॥

द्वात्रिंशी।
यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ ।
यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ।। ३२ ।।
उ० यदश्वस्य । यत् अश्वस्य क्रविषः अश्वाङ्गभूतस्य क्रव्यस्य मांसस्य 'क्रव्यं विकृन्ताज्जायत' इति नैरुक्ताः । अङ्गम् । मक्षिका आश अशितवती । यद्वा । स्वरौ स्वधितौ रिप्तमस्ति । यच्च स्वरौ पश्वञ्जनकाले स्वधितौ शासे छेदनकाले लिप्तं लग्नमस्ति । यच्च हस्तयोः शमितुः रिप्तम् । यच्च नखेषु रिप्तम् सर्वा ता ते अपि देवेष्वस्तु इति व्याख्यातम् ॥३२॥
म० मक्षिका अश्वस्य क्रविषः क्रविः यदाश भक्षितवती । अश्नातेर्लिट् क्रविषः इति कर्मणि षष्ठी । वाथवा यत् मांसं स्वरौ पश्वञ्जनकाले रिप्तं लिप्तमस्ति 'स्वरुणा पशुमनक्ति' इति श्रुतेः । यत् स्वधितौ शासे लिप्तमस्ति छेदनकालेऽवदानकाले च । यच्च शमितुर्हस्तयोः लिप्तं यच्च शमितुर्नखेषु लिप्तम् हे अश्व, सर्वा ता सर्वाणि तानि अपि देवेषु अस्तु भवन्तु । वचनव्यत्ययः । सर्व त्वदीयं देवभोग्यं भवतु ॥ ३२ ॥

त्रयस्त्रिंशी।
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ ।
सु॒कृ॒ता तच्छ॑मि॒तार॑: कृण्वन्तू॒त मेध॑ᳪं᳭ शृत॒पाकं॑ पचन्तु ।। ३३ ।।
उ० यदूवध्यम् यत् ऊवध्यम् । भक्षितमपरिणतमामाशयस्थमूवध्यमुच्यते । उदरस्य अयुतं पृथग्भूतम् अपवाति गन्धायते । यश्च आमस्य अपक्वस्य क्रविषः मांसस्य गन्धः अस्ति विद्यते । सुकृता तच्छमितारः कृण्वन्तु । तत्सर्वं शमितारः विशसनकर्तारः सुकृतानि सुसंस्कृतानि दोषरहितानि कुर्वन्तु । उत अपिच मेधं मेध्यं यज्ञार्हम् । शृतपाकं देवयोग्यपाकं पचतु । अतिपक्वमीषत्पक्वं च मा कुर्वन्त्वित्यर्थः ॥ ३३ ॥
म० उदरस्य ऊवध्यमीषज्जीर्णतृणपुरीषं यत् अपवाति अपगच्छति । भक्षितमपक्वमामाशयस्थमूवध्यमुच्यते । आमस्यापक्वस्य क्रविषो मांसस्य यो गन्धो लेशोऽस्ति शमितारः विशसितारः तत्सर्वं सुकृता सुकृतं सुसंस्कृतं कृण्वन्तु कुर्वन्तु । उतापि च मेधं मेध्यमश्वं शृतपाकं यथा पचन्तु शृतो देवयोग्यो जातः पाको यस्मिन् कर्मणि तथा पचन्तु । अतिपक्वमीषत्पक्वं च मा कुर्वन्त्वित्यर्थः ॥ ३३ ॥

चतुस्त्रिंशी।
यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति ।
मा तद्भूम्या॒माश्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ।। ३४ ।।
उ० यत्ते । शूले सशेषश्रपणम् तदभिवदत्ययं मन्त्रः । यच्च ते तव गात्रादवयवात् अग्निना पच्यमानात् ऊष्मरूपं रसो वा अवधावति गच्छति तथा निहतस्य निःशेषेण हृतस्य यदङ्गरसरूपम् अभिशूलं शूलमभिलक्ष्य मांसादुत्कृष्टं धावति गच्छति । माश्रिषत् माश्लिषत् तदङ्गं भूम्याम् माच तृणेषु । किंतु देवेभ्यः तत् उशद्भ्यः 'वश कान्तौ' कामयमानेभ्यः रातं दानम् अस्तु ॥ ३४ ॥
म०. हे अश्व, अग्निना पच्यमानात्ते तव गात्रात् शरीरात यत् ऊष्मा रसो वा अवधावति अधस्ताद्गच्छति तथा निहतस्य निःशेषेण हतस्य यत् अङ्गं शूलमभि अवधावति शूलेन पाके क्रियमाणे यन्निर्गच्छति तन्निर्गतमूष्माङ्गादिकं भूम्यां मा आश्रिषत् भूम्याश्लिष्टं मा भूत् । श्रिषेः पुषादित्वात् च्लेरङ् । तथा तृणेषु माश्रिषत् विशसनसमये तृणलग्नं मास्तु । किं तर्हि तत्पतितं तृणलग्नं सर्वं देवेभ्यो रातं दत्तमस्तु ‘रा दाने' । कीदृशेभ्यो देवेभ्यः । उशन्ति कामयन्ते ते उशन्तः तेभ्यः हविःकामयमानेभ्यः । 'वश कान्तौ' लटः शत्रादेशः ॥ ३४ ॥

पञ्चत्रिंशी।
ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ ।
ये चार्व॑तो माᳪं᳭सभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ।। ३५ ।।
उ० ये वाजिनम् । ये जनाः वाजिनमश्वं परिपश्यन्ति पक्वं सन्तम् । ये च एनमश्वम् आहुः । किमाहुः । सुरभिरयमश्वः अतो निर्हर किंचिदस्मभ्यं देहीति । इतिशब्दः प्रकारवचनः । ये च अर्वतोऽश्वस्य संबन्धिनीं मांसभिक्षाम् उपासते हुतशिष्टमांसयाञ्चां काङ्क्षते । उतो तेषाम् अपिच तेषां संबन्धिनी या अभिगूर्तिः सा नः अस्मान् इन्वतु व्याप्नोतु । यद्वा देवपरोयं मन्त्रो व्याख्येयः। ये देवाः वाजिनं परिपश्यन्ति पक्वम् कदा होष्यतीति । विलम्बं दृष्ट्वा ये च सुरभिरयमश्वोतनिर्हर निःशेषेणास्मभ्यं देहीत्याहुः । ये चार्वन्तो मांसभिक्षामुपासते लिप्सते उतो तेषामभिगूर्तिं न इन्वतु । वयं तु देवानामन्यभूता इत्यभिप्रायः ॥ ३५ ॥
म० ये जनाः पक्वं वाजिनमश्वं परिपश्यन्ति अयं पक्व इति जानन्ति । य ईम् ईमित्यव्ययं चार्थे । ये च इत्याहुः । एवं कथयन्ति । किम् । सुरभिः सुगन्धः पाको जातः अतो निर्हर अग्नेः सकाशादुत्तारयेति । ये च जनाः अर्वतोऽश्वस्य मांसभिक्षामुपासते हुतशिष्टमांसयाचनां कुर्वते । उतो अपिच तेषां पाकद्रष्ट्रादिजनानामभिगूर्तिः उद्यमो नोऽस्मानिन्वतु प्रीणातु । यद्वायं मन्त्रो देवपरो व्याख्येयः । ये देवाः पक्वं वाजिनं परिपश्यन्ति कदा होष्यतीति । ये च विलम्बं दृष्ट्वा सुरभिः पाको जातोऽस्मभ्यं निर्हर देहीत्याहुः । ये चार्वतो मांसभिक्षामुपासते मांसं याचन्ते तेषामभिगूर्तिः संकल्पोऽस्मान्प्रीणातु । सफलो भवत्वित्यर्थः ॥ ३५ ॥

षट्त्रिंशी।
यन्नीक्ष॑णं माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि ।
ऊ॒ष्म॒ण्या॒पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म् ।। ३६ ।।
उ० यन्नीक्षणम् । यत् नीक्षणम् नितरामीक्ष्यते शृताश्च तव संबन्धिनोऽर्था इति येन दध्यादिना तत् नीक्षणम् । मांस्पचन्याः । 'मांसस्य पचि युड्धञोः' इत्यकारलोपः। उखायाः यानि च पात्राणि यूष्णः वसायाः । यूपशब्दस्य यूषन्नादेशः षष्ठ्येकवचने उपधालोपश्च । आसेचनानि आसिच्यते येष्वित्यासेचनानि । ऊष्मण्या । ऊष्मशब्दस्य धारणार्थे यत् प्रत्ययः । यानि च ऊष्मण्यानि पिधाना पिधानानि च चरूणां स्थालीनाम् । ये च अङ्काः अङ्कोपलक्षकाः । शरीरवचनोऽङ्कशब्दः । याश्च सूनाः अश्वविशसनाधिकरणभूताः वेतसमय्यः तानि सर्वाणि परिभूषन्ति 'भूष अलंकारे' । अलंकुर्वन्ति परिरक्षन्ति वा अश्वम् ॥ ३६ ॥
म० एते पदार्था अश्वं परिभूषन्ति अलंकुर्वन्ति। स्वव्यापारेण साधयन्तीत्यर्थः । 'भूष अलंकारे' भौवादिकः । एते के तानाह। यत् उखायाः स्थाल्याः नीक्षणं नितरामीक्षणं पाकपरीक्षार्थं दर्शनम् । कीदृश्या उखायाः । मांस्पचन्याः मांसं पच्यते यस्यां सा मांस्पचनी तस्याः मांसपाकाधिकरणभूतायाः । 'करणाधिकरणयोश्च' (पा. ३ । ३ । ११७) सुट् । 'मांसस्य पचि युड्घञोः' इति मांसस्याकारलोपः 'टिड्ढाणञ्-' (पा० ४ । १ । १५) इति ङीप् । तथा यूष्णः पक्वरसस्य आसेचनानि आसिच्यन्ते येषु तानि आसेचनसाधनानि या यानि पात्राणि । 'पद्दन्' इति यूपशब्दस्य यूषन्नादेशः । यानि च चरूणां मांसपूर्णपात्राणामपिधाना अपिधानानि आच्छादनपात्राणि । कीदृशानि तानि । ऊष्मण्या ऊष्माणं धारयन्ति तानि ऊष्मण्यानि । ऊष्मन्शब्दाद्धारणार्थे यप्रत्ययः । आच्छादने ऊष्मा बहिर्न यातीत्यर्थः । तथा अङ्काः चिह्नसाधनानि हृदयाद्यवयवज्ञापकानि वेतसमयानि । सूनाः विशसनकरणभूताः स्वधित्यादयः । एतेऽश्वं परिभूषयन्ति ॥ ३६ ॥

सप्तत्रिंशी।
मा त्वा॒ऽग्निर्ध्व॑नयीद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रि॑: ।
इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वास॒: प्रति॑ गृभ्ण॒न्त्यश्व॑म् ।। ३७ ।।
उ० मा त्वाग्निः हे अश्व, मा त्वा अग्निः ध्वनयीत् । ध्वनिः शब्दकर्मा । शब्दं कारयेत् । कथंभूतः । धूमगन्धिः अल्पधूमावरणः। मांसं हि पचन्नग्निर्दहन्नप्यल्पधूमावरणो भवति । तच्च दह्यमानं सिमसिमाशब्दं करोत्यत एवमुच्यते । मा च उखा भ्राजन्ती संदीपिता अत्यन्ताग्निसंयोगेन । अभिविक्त 'ओविजी भयचलनयोः' अभिविनक्तु अभिनष्टा विदीर्येत वा । उद्भावा वृद्धा मांसरसं तदिहोच्यते । जघ्रिः गन्धग्रहणशीला उखा। नन्वचेतनोखा कथं गन्धं जिघ्रति । उच्यते । अधिष्ठात्र्योऽत्र देवताः सन्तीति पुरस्तात्प्रतिपादितं तञ्चात्र पुनः स्मार्यते । इष्टं योगेन सङ्गतीकृतम् वीतं कामितम् अभिगूर्तम् अभ्युद्यतम् वषट्कृतं चादानकाले । यद्वा इष्टं प्रयाजैः वीतमाप्रीभिः पर्यग्निकृतम् अभिगूर्तं येयजामह इत्यागूर्त्योक्तम् षट्कृतं वषट्कारेण संस्कृतम् तं तादृशम् देवा एव देवासः प्रतिगृभ्णन्ति प्रतिगृह्णन्ति अश्वम् ॥३७॥
म० हे अश्व पच्यमानाश्वावयव, अग्निः त्वा त्वां मा ध्वनयीत् ध्वनिं मा कारयतु । ध्वनौ सति भाण्डभङ्गः स्यात् । दह्यमानं मांसं सिमसिमेति शब्दं करोति तन्मास्तु 'नोनयतिध्वनयति-' (पा० ३।१।५१) इत्यादिना ण्यन्ताच्चङ्प्रतिषेधः 'ह्रयन्तक्षण-' (पा० ७ । २ । ५) इति वृद्ध्यभावः । | कीदृशोऽग्निः । धूमगन्धिः धूमस्य गन्धो लेशो यत्र सः अल्पधूमवानित्यर्थः । 'अल्पाख्यायाम्-' (पा० ५। ४ । १३६) | इति धूमादिकारः । किंच भ्राजन्ती अतितापेन दीप्यमाना उखा स्थाली मा अभिविक्त मा चलतु 'ओविजी भयचलनयोः' लुङि तङि 'झलो झलि' (पा० ८ । २ । २६) इति सिलोपे रूपम् । 'न माङयोगे' (पा०६ । ४ । ७४) इत्यडभावः । कीदृशी उखा । जघ्रिः जिघ्रति गन्धं गृह्णातीति जघ्रिः ‘आदृगम-' (पा० ६।२। १७१) इति किन्प्रत्ययः । अधिष्ठात्र्या देवताया घ्राणम् । तमेवंविधमश्वं देवासः देवाः प्रतिगृभ्णन्ति प्रतिगृह्णन्तु । कीदृशमश्वम् । इष्टं प्रयाजैः । वीतमाप्रीभिः पर्यग्निकृतम् । अभिगूर्तं ये यजामह इत्यागूर्त्योक्तम् । । वषट्कृतं वषट्कारेण संस्कृतम् ॥ ३७ ॥

अष्टत्रिंशी।
नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्वी॑श॒मर्व॑तः ।
यच्च॑ पपौ॒ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ।। ३८ ।।
उ० निक्रमणं निषदनम् निक्रमणं गमनं वसतिस्थानात् । निषदनं तत्रैव स्थितिः । विवर्तनं भ्रमणम् । | यान्येतानि चेष्टितानि । यच्च पड्वीशम् । पादेषु विशतीति पड्विशं पादबन्धनमुच्यते अर्वतः अश्वस्य । यच्च पपौ पीतवानुदकम् । यच्च घासिं यवसं जघास । 'घस्लृ अदने' भक्षितवान् । सर्वाणि तानि निक्रमणादीनि ते तव हे अश्व, अपि देवेषु अपि प्रजापतये अस्तु सन्तु । तान्यपि निरर्थकानि मा भूवन्नित्याशयः ॥ ३८ ॥
म० यत् निक्रमणं नितरां क्रमते यत्र तत् निष्क्रमणस्थानम् । निषदनं नितरां सीदत्यस्मिन्निति निषदनमुपवेशनस्थानम् । विवर्तनं विविधं वर्तते यत्र तत् इतस्ततो लुण्ठनस्थानम् । सर्वत्राधिकरणे ल्युट् । यच्चार्वतोऽश्वस्य पड्वीशम् पदेषु विशति पड्वीशं पादबन्धनम् । क्रियापरा वा निक्रमणादयः शब्दाः । आलम्भसमये यानि अश्वस्य निक्रमणादीनि चेष्टितानि । किंच यच्च पपौ यज्जलं पीतवान् यच्च घासिमदनीयं । तृणादिकं जघास भक्षितवान् 'घस्लृ अदने' लिट् । हे अश्व, ता तानि सर्वाणि ते तव निक्रमणादीनि देवेषु अस्तु सन्तु । । देवार्थस्याश्वस्य रोमादीनामपि निरर्थकत्वं मास्त्वित्यर्थः ॥ ३८॥

एकोनचत्वारिंशी।
यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै ।
स॒न्दान॒मर्व॑न्तं॒ पड्वी॑शं प्रि॒या दे॒वेष्वाया॑मयन्ति ।। ३९ ।।
उ० यदश्वाय । यत् अश्वाय संज्ञप्यमानाय वासः उपस्तृणन्ति सर्वत आच्छादयन्ति । यच्च अधीवासम् उपर्याच्छादनयोग्यं वास उपस्तृणन्ति । यानि च हिरण्यानि उपस्तृणन्ति अस्मै अश्वाय । यच्च संदानं संदीयतेऽनेनेति संदानं शिरोबन्धनम् अर्वन्तम् अर्वते इति विभक्तिव्यत्ययः। अश्वायेति सामानाधिकरण्यात् । यच्च पड्वीशं पादवासः एतानि प्रियाणि देवेषु आयामयन्ति गमयन्ति ॥ ३९ ॥
म० प्रिया प्रियाणि एतानि वस्तूनि देवेषु आयामयन्ति आगमयन्ति । ऋत्विजोऽश्वस्यैतानि देवेष्वेव प्रापयन्तीत्यर्थः । कानीत्यत आह । अश्वाय यत् अधीवासमाच्छादकं वासो वस्त्रमुपस्तृणन्ति 'स्तृञ् आच्छादने' क्र्यादिकः । तथा या यानि हिरण्यानि सौवर्णशकलानि अस्मै अश्वाय उपस्तृणन्ति । तथा अर्वन्तम् षष्ठ्यर्थे द्वितीया । अर्वतोऽश्वस्य संदानं शिरोबन्धनं पड्वीशं पादबन्धनम् । एतानि देवेषु प्रापयन्ति। कीदृशानि । प्रिया प्रियाणि देवानामिष्टानि ॥ ३९ ॥

चत्वारिंशी।
यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑ ।
स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ।। ४० ।।
उ० यत्ते सादे । हे अश्व, यत् ते तव सादे । सीदन्त्यश्ववारा अस्मिन्निति सादोऽश्वपृष्ठम् तस्मिन्सादे अवस्थितोऽश्ववारः महसा महत्वेनान्वितः सन् । कथंभूतस्य । शूकृतस्य शब्दानुकरणमेतत् । शूत्कारं कुर्वतः । अनन्तरम् पार्ष्ण्या वा कशया वा तुतोद । 'तुद व्यथने' । तुदति व्यथयति स्रुचा इव ता तानि यथा स्रुचा हविषः हविरिति विभक्तिव्यत्ययः । अध्वरेषु यज्ञेषु जुह्वति एवं सर्वाणि ते तव ब्रह्मणा त्रयीलक्षणेन सूदयामि क्षारयामि । आहुतित्वेन कल्पयामीत्यर्थः ॥ ४० ॥
म० हे अश्व, अश्ववारः सादे गमने यत्ते तव त्वां पार्ष्यार् पादाधोभागेन कशया वा तुतोद पीडितवान् 'तुद व्यथने' लिट् । सदनं सादः घञ् । कीदृशस्य तव । महसा बलेन शूकृतस्य शूकृतमस्यास्ति शूकृतः तस्य । शब्दानुकरणमेतत् । शूकारं कुर्वतः । अध्वरेषु ता सर्वा तानि सर्वाणि ते तव पार्ष्णिकशाताडनानि ब्रह्मणा मन्त्रेणाहं सूदयामि 'षूद क्षरणे' चुरादिः क्षारयामि । यज्ञे आहुतित्वेन कल्पयामीत्यर्थः । तत्र दृष्टान्तः । हविषः स्रुचेव हविराज्यादिकं यथा स्रुचा जुह्वा सूदयामि तद्वत् । एकं तापदं पादपूरणाय ॥ ४० ॥

एकचत्वारिंशी।
चतु॑स्त्रिᳪं᳭शद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑ति॒: समे॑ति ।
अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ विश॑स्त ।। ४१ ।।
उ० चतुस्त्रिंशत् । चतुस्त्रिंशत् वंक्रयः । वाजिनः वेजनवतोऽश्वस्य देवबन्धोः देवानां प्रियस्य । देवा बन्धवोऽस्य इति वा भावी देवबन्धुः । देवो ह्यसौ भविष्यति एवंभूतस्याश्वस्य वंक्रीः वंक्रयः उभयपार्श्वस्थास्थीनि स्वधितिः छेदनसाधनोऽसिः समेति एकमकृत्वा सङ्गच्छति यतः अतो ब्रवीमि । अच्छिद्रा गात्रा अच्छिद्राणि अनवखण्डितानि गात्रा गात्राणि वयुना प्रज्ञानेन कृणोत कुरुत हे शमितारः । किंच परुष्परुः पर्वपर्व हृदयाद्यङ्गम् अनुघुष्य इदमिदमिति संशब्द्य विशस्त विशसनं कुरुत । उत्तरार्धस्यैव मन्त्ररूपसंबन्धः॥४१॥
म० स्वधितिः पशुच्छेदनसाधनोऽसिः अश्वस्य चतुस्त्रिंशत् वंक्रीः चतुस्त्रिंशत्संख्याकान्युभयपार्श्वास्थीनि समेति सम्यगागच्छति छेदनाय । कीदृशस्याश्वस्य । वाजिनः वजति गच्छतीति वाजी तस्य । वेगवत इत्यर्थः । देवबन्धोः देवानां बन्धुः प्रियस्तस्य, देवा बन्धवो यस्येति वा भावी निर्देशः । अश्वस्य चतुस्त्रिंशद्वंक्रयः अजादीनां षड्विंशतिः । अतो हे ऋत्विजः, वयुना वयुनेन ज्ञानेनाश्वस्य गात्रा गात्राणि अच्छिद्रा अच्छिद्राणि छिद्रहीनानि यूयं कृणोत कुरुत । स्वधितिना छिन्नानि सच्छिद्राणि वर्तन्ते तान्यच्छिद्राणि कुरुत । किंच परुः परुः 'ग्रन्थिर्ना पर्वपरुषी' इत्यमरः । 'नित्यवीप्सयोः' इति (पा० ८ । १ । ४) द्वित्वम् । प्रतिपर्व प्रत्यवयवम् अनुघुष्य इदमिति नाम्ना संशब्द्य यूयं विशस्त विशसनं छेदं कुरुत । 'शसु हिंसायाम्' छान्दसः शपो लुक् । कृणोत ‘कॄ करणे' स्वादिः 'तप्तनब्-' (पा० ७ । १ । ४५) इति मध्यमबहुवचनस्य तबादेशः ततो गुणः । अनुघुष्य, 'घुषिर् विशब्दे' क्त्वो ल्यप् ॥ ४१ ॥

द्विचत्वारिंशी।
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॑ ऋ॒तुः ।
या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ता-ता॒ पिण्डा॑नां॒ प्र जु॑होम्यग्नौ ।। ४२ ।।
उ० एकस्त्वष्टुः । एकः अश्वस्य विशस्ता विशसिता संवत्सरः । तदुक्तम् 'संवत्सरस्य तेजसेति' । त्वष्टुः आदित्यादुत्पन्नस्याश्वस्य । तदुक्तम् 'सूरादश्वं वसवो निरतष्टत' इति । द्वा यन्तारा द्वौ नियन्तारौ अहोरात्रौ द्यावापृथिव्यौ वा भवतः । तथा ऋतुः द्वितीयो मासानां नियन्तेति शेषः । एवमश्वस्य विशसितॄन् उक्त्वा अथेदानीं स्वकीयं कर्माध्वर्युराह । या ते यानि तव हे अश्व गात्राणामङ्गानाम् ऋतुथा ऋतावृतौ काले काले बन्धनानि कृणोमि करोमि ता ता तानि तानि पिण्डानां मांसपिण्डानां मध्ये प्रजुहोमि प्रज्ञानानुरोधेन जुहोमि अग्नौ ॥ ४२ ॥
म० अश्वस्य विशस्ता विशसनकर्ता एकः ऋतुः । कीदृशस्याश्वस्य । त्वष्टुः दीप्तस्य । ऋतूपलक्षितः कालात्मा प्रजापतिरेवाश्वस्य शस्तेत्यर्थः । शसेस्तृच् । तथा यन्तारा यन्तारौ नियमनकर्तारौ द्वा द्वौ द्यावापृथिव्यभिमानिदेवौ भवतः । तयोरेव सर्वेषां नियन्तृत्वादिति भावः । तथ ऋतुः अत्र 'ऋत्यकः' । (पा० ६।१ । १२८ ) इति ह्रस्वप्रकृतिभावौ । एवमश्वस्य विशसितृयन्तॄनुक्त्वाध्वर्युः स्वकर्माह । हे अश्व, ते तव गात्राणां पिण्डानां गात्रसंबन्धिनां मांसपिण्डानां या यानि अङ्गानि अहं कृणोमि हन्मि छिनद्मि । 'कृञ् बन्धे' स्वादिः । ऋतुथा ऋतौ ऋतूपलक्षिते वसन्तादियज्ञकाले ता ता तानि तान्यङ्गानि अग्नौ प्रजुहोमि प्रकर्षेण हुतानि करोमि ॥ ४२ ॥

त्रिचत्वारिंशी।
मा त्वा॑ तपत्प्रि॒य आ॒त्माऽपि॒यन्तं॒ मा स्वधि॑तिस्त॒न्व आ ति॑ष्ठिपत्ते ।
मा ते॑ गृ॒ध्नुर॑विश॒स्ताऽति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ।। ४३ ।।
उ० मा त्वा तपत् । मा त्वां तपत् । त्वाशब्देनात्र विज्ञानात्मोच्यते । सुखदुःखयोर्भोक्ता प्रिय आत्मा प्राण उक्तः । स हि श्रुतौ प्रियमित्येतदुपासीतेत्युक्तः । देवानाम् पियन्तम् देवलोकगमनप्रवृत्तं सन्तम् । मा च स्वधितिः शस्त्रं तन्वः शरीरस्य अतिष्ठिपत् अस्थापयत् एकादशमवदानभूतम् ते तव । माच ते तव गृध्नुः मांसग्रहणे गर्धालुर्लुब्धः। अविशस्ता विशसने अकुशलः अतिहाय अतिक्रम्य । छिद्रा छिद्राणि गात्राणि असिना मिथूकः मिथ्या अकार्षीत् ॥ ४३ ॥
म० हे अश्व, प्रियः वल्लभो भोगायतनत्वात् तवात्मा देहः त्वा त्वां मा तपत् तप्तं दुःखितं मा कार्षीत् । तव देहवियोगजनिता व्यथा मा भूदिति विज्ञानात्मानं प्रत्युच्यते । किंभूतं त्वाम् । अपियन्तम् । अप्येतीत्यपियन् तम् देवलोकं गच्छन्तम् । अपिपूर्वादेतेः शतृप्रत्ययः । किंच स्वधितिः शस्त्रं ते तव तन्वः तनूः अङ्गानि मा आतिष्ठिपत् मा स्थापयतु । सर्वाणि छित्त्वा देवेभ्यो ददत्वित्यर्थः । तिष्ठतेर्ण्यन्तस्य लुङि चङि ‘तिष्ठतेरित्' (पा. ७ । ४ । ५) इतीकारे कृते द्वित्वादि । किंच शमिता ते तव गात्राणि अङ्गानि अतिहाय त्यक्त्वा शास्त्रोक्तक्रमं त्यक्त्वा असिना शासेन मिथु मिथ्या छिद्रा छिद्राणि अयथाच्छिन्नानि मा कः मा कार्षीत् । करोतेर्लुङि 'मन्त्रे घसह्वर-' (पा० २ । ४ । ८०) इत्यादिना च्लेर्लुक् गुणे 'हल्ड्याब् ' (पा० ६ । १ । ६८) इति तिपो लोपे विसर्गः । मिथु इति मिथ्यार्थेऽव्ययम् । संहितायां दीर्घः । कीदृशः शमिता । गृध्नुः गृध्यतीति गृध्नुः लुब्धः केवलं मांसग्रहणेच्छुः। अतएवाविशस्ता न विशेषेण शसति हिनस्ति अविशस्ता विशसने अकुशलः । अतएवान्यथा मा छिदत् । सम्यगवदानानि | करोत्वित्यर्थः ॥ ४३ ॥

चतुश्चत्वारिंशी।
न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ इदे॑षि प॒थिभि॑: सु॒गेभि॑: ।
हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ।। ४४ ।।
उ० न वै । न वा उ एतदिति व्याख्यातम् । अन्यच्च | हरीन्द्राश्वौ ते तव । युञ्जा योजनार्हौ वोढारौ प्रतिधुरौ | अभूताम् । पृषती च मरुतां संबन्धिनावश्वौ प्रतिधुरावभूताम् । तदुक्तमश्वरथयाने 'युञ्जन्त्यस्य काम्या हरी' इति । | एभिर्दिव्यैस्त्वं समानं लोकं संज्ञप्त इत्यभिप्रायः । एनमुपश्रुत्य स्वयमेव उपास्थात् उपस्थितः वाजी । धुरि रासभस्य अश्विसंबन्धिनः । रासभावश्विनोरित्यादिष्टं प्रयोजनम् ॥४४॥
म० वै एवार्थे उ अवधारणे । हे अश्व, त्वमेतन्नैव म्रियसे इतराश्ववत् मृतो न भवसि देवत्वप्राप्तेर्वक्ष्यमाणत्वात् । अतएव न रिष्यसि हिंस्यसे व्यर्थहिंसाया अभावात् । रिषतेर्यकि परस्मैपदमार्षम् । ननु प्रत्यक्षत्वे मरणमङ्गनाशश्च दृश्यते तर्हि कथमेवमुच्यते तत्राह सुष्ठु गम्यते यत्र ते सुगाः तैः सुगेभिः सुगैः साधुगमनैः पथिभिर्मार्गैः देवयानरूपैः देवान् इत् एषि देवानेव गच्छसि । अथो युक्ता मदुक्तिः । कथं देवान् प्रति गमनं तत्राह । हे अश्व, ते तव हरी इन्द्राश्वौ युञ्जा युञ्जौ रथे युक्तौ अभूतां भविष्यतः । 'आशंसायां भूतवच्च' (पा० ३। ३ । १३२ ) इति भूतकालप्रयोगो भविष्यदर्थे । हरी इन्द्रस्येति यास्कः । तथा पृषती मरुतां वाहनभूते तव युञ्जौ अभूताम् । पृषत्यो मरुतामिति च । युङ्क्तस्ते युञ्जौ 'ऋत्विग्दधृग्-' (पा० ३ । २ । ५९) इत्यादिना क्विन् 'क्विन्प्रत्ययस्य कुः' (पा० ८ । २ । ६२ ) इति कुत्वम् 'युजेरसमासे' (पा० ७ । १। ७१) इति नुम् ‘सुपां सुलुक्' (पा० ७ । १ । ३९ ) इति विभक्तेरात्वम् । किंच रासभस्याश्विवाहनस्य धुरि अश्विवाहनस्थाने वाजी कश्चिदश्वः उपास्थात् उपस्थास्यति । देवत्वं प्राप्तस्य तव वहनाय इन्द्रादयो निजवाहनानि प्रेषयिष्यन्तीति भावः । यद्वा तत्तद्देवभावं प्राप्तं त्वां तानि तानि वाहनानि वक्ष्यन्तीत्यर्थः ॥ ४४ ॥

पञ्चचत्वारिंशी। ।
सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पु॒ᳪं᳭सः पु॒त्राँ२ उ॒त वि॑श्वा॒पुष॑ᳪं᳭ र॒यिम् ।
अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनताᳪं᳭ ह॒विष्मा॑न् ।। ४५ ।।
उ० इदानीं याञ्चा । सुगव्यं नः। शोभनगव्यं नोऽस्माकं वाजी कृणोतु करोतु । स्वश्व्यं शोभनाश्वं च करोतु पुंसः पुत्रान्करोतु । दुहितरः पुत्राश्च पुत्रशब्देनोच्यन्ते इत्यतो विशेषणं पुंस इति । उत अपिच विश्वापुषम् सर्वस्य पोषकं रयिं धनं करोतु । किंच अनागाः अनपराधम् त्वं च । नोऽस्माकम् अदितिर्देवमाता च करोतु । नघंटुको वा अदितिशब्दः । अनागास्त्वं नः अदितिः अदीनोऽश्वः करोतु । किंच । क्षत्रं नोऽस्माकं वनताम् । करोत्यर्थे वनतिः । करोतु हविष्मान् अश्वः सर्वे अश्वावयवाः हवींषि ॥ ४५ ॥
म० इदानीं याञ्चा क्रियते । वाजी देवत्वं प्राप्तोऽश्वः नोऽस्माकं सुगव्यं शोभनं गोसमूहं कृणोतु । गवां समूहो गव्यम्। 'खलगोरथात्' (पा० ४ । २ । ५० ) इति यत्प्रत्ययः । शोभनं गव्यं सुगव्यम् । तथा स्वश्व्यं कृणोतु अश्वानां समूहः अश्व्यम् 'केशाश्व-' ( पा० ४ । २ । ४८ ) इति विकल्पात्पक्षे यत् । शोभनमश्व्यं स्वश्यम् । तथा पुंसः पुत्रान्करोतु । पुत्रशब्दोऽपत्यवाचक इति पुंस इति विशेषणम् । यद्वा पुंसः पुरुषार्थसाधकान्पुत्रान् करोतु । उतापि च रयिं धनं करोतु । कीदृशं रयिम् । विश्वपुषम् पुष्णातीति पुषः 'इगुपध-' (पा० ३ । १ । १३५) इति कप्रत्ययः । विश्वस्य सर्वस्य पुषस्तम् सर्वजनपोषणसमर्थं धनं करोत्वित्यर्थः । संहितायां विश्वशब्दस्य दीर्घः । किंच नोऽस्माकमनागास्त्वं करोतु नास्ति आगः अपराधः पापरूपो यस्य सोऽनागाः तस्य भावोऽनागस्वम् दीर्घइछान्दसः। निष्पापलं करोतु पापसद्भावे उक्तफलाप्राप्तेः । किंच अश्वो नोऽस्माकं क्षत्रं क्षतत्राणं परवालंभनाद्रक्षणं वा करोतु । कीदृशोऽश्वः । अदितिः नास्ति दितिः खण्डनं देन्यं वा यस्य सः । हविष्मान् हविरस्यास्तीति हविष्मान 'तदस्यास्ति-' (पा० ५। २ । ९४) इति मतुप् । हविर्भूतावयवः । यद्वा देवत्वाप्त्या हविष्मान् । ईदृशोऽश्वो नः क्षत्रं वनतां करोतु । वनतिः करोत्यर्थः ॥ ४५ ॥

षट्चत्वारिंशी।
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ।
आ॒दि॒त्यैरिन्द्र॒: सग॑णो म॒रुद्भि॑र॒स्मभ्यं॑ भेष॒जा क॑रत् ।
य॒ज्ञं च॑ नस्त॒न्वं॒ च प्र॒जां चा॑दित्यै॒रिन्द्र॑: स॒ह सी॑षधाति ।। ४६ ।।
उ० इमा नु । षड् द्विपदाः विराजः तिस्रो वैश्वदेव्यः । स्तिस्त्र आग्नेय्यः। द्विपदा उत्तमा जुहोति' इति श्रुतिः । नुकम् इतिनिपातावनर्थकौ । इमानि भुवनानि भूतजातानि सीषधाम साधयाम वयम् । ततोऽनन्तरम् इन्द्रः ऐश्वर्यवान् विश्वे च देवाः आदित्यैः सहितः इन्द्रः सगणः मरुद्भिश्च सहितः अस्मभ्यमस्माकं भेषजा भेषजानि करत्करोतु । किंच यज्ञं च नोऽस्माकं तन्वं च शरीरं च आदित्यैः सह इन्द्रः सीषधाति साधयतु वश्यं करोतु ॥ ४६॥
म० 'इमा नु कमिति च द्विपदाः' ( का० २० । ८ । १२)। अयस्मयपात्रेणाश्वलोहितहोमानन्तरमिमा नु कमित्याद्याः षट् द्विपदाः जुहोति । कण्डिकाद्वयस्य षडर्धानि सन्ति तैः षडाहुतीर्जुहोतीति सूत्रार्थः । द्विपदाच्छन्दस्का विश्वदेवदेवत्या आस्यपुत्रभुवनदृष्टास्तिस्र ऋचः । नु कम् एतौ निपातौ पादपूरणौ । इमा इमानि भुवना भुवनानि भूतजातानि वयं सीषधाम साधयामः । वशीकुर्म इत्यर्थः । साधयतेर्लुङि उत्तमबहुवचने रूपम् अडभाव आर्षः । किंच इन्द्रः 'इदि परमैश्वर्ये' ऐश्वर्यवान् सगणो निजगणैः परिवारैः सहित इन्द्रो देवेशो विश्वे देवाश्च आदित्यैः द्वादशभिः मरुद्भिः एकोनपञ्चाशत्संख्यैश्च सहिताः अस्मभ्यं भेषजा भेषजानि औषधानि हितानि करत् कुर्वन्नु । सर्वे देवा अस्माकं हितकारिणो भवन्त्वित्यर्थः । किंच इन्द्रः आदित्यैः सह नोऽस्माकं यज्ञमश्वमेधं तन्वं शरीरं प्रजां पुत्रादिकां च सीषधाति साधयतु । वशीकरोत्वित्यर्थः । नीरोगाः सपुत्रा वयं यज्ञं सम्यक् कुर्म इति भावः ॥ ४६ ॥

सप्तचत्वारिंशी।
अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्य॒: ।
वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मᳪं᳭ र॒यिं दा॑: ।
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ।। ४७ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां पञ्चविंशोऽध्यायः ॥ २५ ॥
उ० अग्ने त्वं न इति व्याख्यातम् ॥ ४७ ॥
इति उवटकृतौ मन्त्रभाष्ये पञ्चविंशोऽध्यायः ॥ २५ ॥
म० तिस्रो द्विपदा व्याख्याताः (अ० ३।क० २५–२६)। समिद्धो अञ्जन् ( अ० २९ । क. १) आश्वमेधिकोऽध्याय इति वचनात्तत्र हौत्रै तन्मन्त्राणां विनियोगः । समाप्तोऽश्वमेधः सप्तविंशत्युत्तरवर्षसाध्यः ॥ ४७ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
अध्यायः पञ्चविंशोऽयमश्वमेधगतोऽगमत् ॥ २५ ॥