प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ८ श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →


कुरुरादि सप्तगुरूणां वर्णनम्, अवधूतोपाख्यानसमाप्तिश्च -

श्रीब्राह्मण उवाच -
( अनुष्टुप् )
परिग्रहो हि दुःखाय यद् यत् प्रियतमं नृणाम् ।
 अनन्तं सुखमाप्नोति तद् विद्वान् यस्त्वकिञ्चनः ॥ १ ॥
 सामिषं कुररं जघ्नुः बलिनो ये निरामिषाः ।
 तदामिषं परित्यज्य स सुखं समविन्दत ॥ २ ॥
 न मे मानापमानौ स्तो न चिन्ता गेहपुत्रिणाम् ।
 आत्मक्रीड आत्मरतिः विचरामीह बालवत् ॥ ३ ॥
 द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ ।
 यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ॥ ४ ॥
 क्वचित् कुमारी त्वात्मानं वृणानान् गृहमागतान् ।
 स्वयं तान् अर्हयामास क्वापि यातेषु बन्धुषु ॥ ५ ॥
 तेषम् अभ्यवहारार्थं शालीन् रहसि पार्थिव ।
 अवघ्नन्त्याः प्रकोष्ठस्थाः चक्रुः शङ्खाः स्वनं महत् ॥ ६ ॥
 सा तत् जुगुप्सितं मत्वा महती व्रीडिता ततः ।
 बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योरशेषयत् ॥ ७ ॥
 उभयोरप्यभूद् घोषो ह्यवघ्नन्त्याः स्म शंखयोः ।
 तत्राप्येकं निरभिदद् एकस्मात् नाभवद् ध्वनिः ॥ ८ ॥
 अन्वशिक्षमिमं तस्या उपदेशमरिन्दम ।
 लोकान् अनुचरन् एतान् लोकतत्त्वविवित्सया ॥ ९ ॥
 वासे बहूनां कलहो भवेत् वार्ता द्वयोरपि ।
 एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः ॥ १० ॥
 मन एकत्र संयुञ्ज्यात् जितश्वासो जितासनः ।
 वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः ॥ ११ ॥
( मिश्र )
यस्मिन्मनो लब्धपदं यदेतत्
     शनैः शनैः मुञ्चति कर्मरेणून् ।
 सत्त्वेन वृद्धेन रजस्तमश्च
     विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥
( उपेंद्रवज्रा )
तदैवमात्मन्यवरुद्धचित्तो
     न वेद किञ्चिद् बहिरन्तरं वा ।
 यथेषुकारो नृपतिं व्रजन्तं
     इषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥
( अनुष्टुप् )
एकचार्यनिकेतः स्याद् , अप्रमत्तो गुहाशयः ।
 अलक्ष्यमाण आचारैः मुनिरेकोऽल्पभाषणः ॥ १४ ॥
 गृहारम्भोऽतिदुःखाय विफलश्चाध्रुवात्मनः ।
 सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ १५ ॥
 एको नारायणो देवः पूर्वसृष्टं स्वमायया ।
 संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६ ॥
 एक एवाद्वितीयोऽभूत् आत्माधारोऽखिलाश्रयः ।
 कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।
 सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ॥ १७ ॥
 परावराणां परम, आस्ते कैवल्यसंज्ञितः ।
 केवलानुभवानन्द सन्दोहो निरुपाधिकः ॥ १८ ॥
 केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् ।
 सङ्क्षोभयन् सृजत्यादौ तया सूत्रमरिन्दम ॥ १९ ॥
 तामाहुः त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् ।
 यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् ॥ २० ॥
 यथोर्णनाभिः हृदयाद् ऊर्णां सन्तत्य वक्त्रतः ।
 तया विहृत्य भूयस्तां ग्रसत्येवं महेश्वरः ॥ २१ ॥
 यत्र यत्र मनो देही धारयेत् सकलं धिया ।
 स्नेहाद् द्वेषाद् भयाद् वापि याति तत् तत्स्वरूपताम् ॥ २२ ॥
 कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।
 याति तत्सात्मतां राजन् पूर्वरूपमसन्त्यजन् ॥ २३ ॥
 एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः ।
 स्वात्मोपशिक्षितां बुद्धिं श्रृणु मे वदतः प्रभो ॥ २४ ॥
( वसंततिलका )
देहो गुरुर्मम विरक्तिविवेकहेतुः
     बिभ्रत् स्म सत्त्वनिधनं सततार्त्युदर्कम् ।
 तत्त्वान्यनेन विमृशामि यथा तथापि
     पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥
 जायात्मजार्थपशुभृत्यगृहाप्तवर्गान्
     पुष्णाति यत्प्रियचिकीर्षुतया वितन्वन् ।
 स्वान्ते सकृच्छ्रमवरुद्धधनः स देहः
     सृष्ट्वास्य बीजमवसीदति वृक्षधर्मा ॥ २६ ॥
 जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा
     शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।
 घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिः
     बह्व्यः सपत्‍न्य इव गेहपतिं लुनन्ति ॥ २७ ॥
 सृष्ट्वा पुराणि विविधान्यजयाऽऽत्मशक्त्या
     वृक्षान् सरीसृप पशून् खगदंशमत्स्यान् ।
 तैस्तैरतुष्टहृदयः पुरुषं विधाय ।
     ब्रह्मावलोकधिषणं मुदमाप देवः ॥ २८ ॥
 लब्ध्वा सुदुर्लभमिदं बहुसंभवान्ते
     मानुष्यमर्थदमनित्यमपीह धीरः ।
 तूर्णं यतेत न पतेदनुमृत्यु यावन्
     निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ २९ ॥
( अनुष्टुप् )
एवं सञ्जातवैराग्यो विज्ञानालोक आत्मनि ।
 विचरामि महीमेतां मुक्तसङ्गोऽनहङ्कृतिः ॥ ३० ॥
 न ह्येकस्मात् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।
 ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ ३१ ॥
 श्रीभगवानुवाच -
इत्युक्त्वा स यदुं विप्रः तमामन्त्र्य गभीरधीः ।
 वन्दितोऽभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम् ॥ ३२ ॥
 अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः ।
 सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ॥ ३३ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे नवमोऽध्यायः ॥ ९ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥