प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सुभाषितरत्नकोशः/४९ संकीर्णव्रज्या

← ४८ शान्तिव्रज्या| सुभाषितरत्नकोशः
४९ संकीर्णव्रज्या
विद्याकरः
५० कविस्तुतिव्रज्या| →

ततः संकीर्णव्रज्या|| ४९

तुषारशैलाञ्जनशैलकल्पयोर् अभेदभाग् ईश्वरविश्वरूपयोः /
शरत्पयोदस्थसितार्धतारका- पथप्रतिस्पार्धि वपुर् धिनोतु वः ४९.१ (१६३८)

यद् बद्धोर्ध्वजटं यद् अस्थिमुकुटं यच् चन्द्रमन्दारयोर् धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः /
यत् खट्वाङ्गरथाङ्गसङ्गविकटं श्रीकण्ठवैकुण्ठयोर् वन्दे नन्दिमहोक्षतार्क्ष्यपरिषन्नानाङ्कम् एकं वपुः ४९.२ (१६३९)

मा गर्वम् उद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति /
अन्यापि किं न सखि भाजनम् ईदृशानां वैरी न चेद् भवति वेपथुर् अन्तरायः ४९.३ (१६४०)

चेतः कातरतां विमुञ्च झटिति स्वास्थ्यं समालम्ब्यतां प्राप्तासौ स्मरमार्गणव्रणपरित्राणौषधिः प्रेयसी /
यस्याः श्वाससमीरसौरभपतद्भृङ्गावलीवारण- क्रीडापाणिविधूतिकङ्कणझणत्कारो मुहुर् मूर्छति ४९.४ (१६४१)

कथाभिर् देशानां कथम् अपि च कालेन बहुना समायाते कान्ते सखि रजनिर् अर्धं गतवती /
ततो यावल् लीलाप्रणयकुपितास्मि प्रकुपिता सपत्नीव प्राची दिग् इयम् अभवत् तावद् अरुणा ४९.५ (१६४२)

विततकरे ऽप्य् अनुरागिणि मित्रे कोषं सदैव मुद्रयतः /
उचितानभिज्ञकैरव कैरवहसितं न ते चरितम् ४९.६ (१६४३)

पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव /
विलसत्करेणुगहनं सम्प्रति समम् आवयोर् भवनम् ४९.७ (१६४४)

गुरुर् अपि गलति विवेकः स्खलति च चित्तं विनश्यति प्रज्ञा /
पतति पुरुषस्य धैर्यं विषयविषाघूर्णिते मनसि ४९.८ (१६४५)

राजनि विद्वन्मध्ये वरसुरतसमागमे वरस्त्रीणाम् /
साध्वसदूषितहृदयो वाक्पटुर् अपि कातरीभवति ४९.९ (१६४६)

किंशुके किं शुकः कुर्यात् फलिते ऽपि बुभुक्षितः /
अदातरि समृद्धे ऽपि किं कुर्युर् अनुजीविनः ४९.१० (१६४७)

अहम् इह स्थितवत्य् अपि तावकी त्वम् अपि तत्र वसन्न् अपि मामकः /
हृदयसंगतम् एव सुसंगतं न तनुसंगतम् आर्य सुसंगतम् ४९.११ (१६४८)

द्याम् आलोकयतां कलाः कलयतां छायाः समाचिन्वतां क्लेशः केवलम् अङ्गुलीर् दलयतां मौहूर्तिकानाम् अयम् /
धन्या सा रजनी तद् एव सुदिनं पुण्यः स एव क्षणो यत्राज्ञातचरश् चिरान् नयनयोः सीमानम् एति प्रियः ४९.१२ (१६४९)

तेषां त्वं निधिर् आगसाम् असहना मानोन्नता साप्य् अतो गन्तव्यं भवया न तद् गृहम् इति त्वं वार्यसे यासि चेत् /
गाढं मेखलया बलान् नियमितः कर्णोत्पलैस् ताडितः क्षिप्तः पादतले तदेकशरणो मन्ये चिरं स्थास्यसि ४९.१३ (१६५०)

जाने सासहना स चाहम् अपकृन् मय्य् अङ्गणस्थे पुनस् तस्याः सम्भविता स साध्वसभरः को ऽपि प्रकोपापहः /
यत्रोद्यत्पुलकैः प्रकम्पविकलैर् अङ्गैः क्व कर्णोत्पलं कुत्रात्मा क्व च मेखलेति गलति प्रायः स मानग्रहः ४९.१४ (१६५१)
तुरुष्कराजभोजदेवयोः

जातानन्तरम् एव यस्य मधुरां मूर्तिश्रियं पश्यतः सद्यःपुत्रमहोत्सवागतवधूवर्गस्य शृङ्गारिणः /
उन्नीयान्ययुवास्यकालिमकरीं तारुण्यरम्याम् इमां धन्यं जन्म सहामुनैकसमयं न प्राप्य तप्तं हृदा ४९.१५ (१६५२)
वल्लणस्य

सीत्कारं शिक्षयति व्रणयत्य् अधरं तनोति रोमाञ्चम् /
नागरकः किम् उ मिलितो न हि न हि सखि हैमनः पवनः ४९.१६ (१६५३)

सव्रीडार्धनिरीक्षणं यद् उभयोर् यद् दूतिकाप्रेषणं वाद्य श्वो भविता समागम इति प्रीत्या प्रमोदश् च यः /
प्राप्ते चैव समागमे सरभसं यच् चुम्बनालिङ्गनान्य् एतत् कामफलं तद् एव सुरतं शेषः पशूनाम् इव ४९.१७ (१६५४)

पश्योदञ्चद् अवाञ्चद् अञ्चितवपुः पश्चार्धपूर्वार्धभाक् स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गूलभृत् /
दंष्ट्राकोटिविसंकटास्यकुहरः कुर्वन् सटाम् उत्कटाम् उत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केशरी ४९.१८ (१६५५)

एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः /
लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित- त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः ४९.१९ (१६५६)

वातैः शीकरबन्धुभिः श्रुतिसुखैर् हंसावलीनिस्वनैः प्रोत्फुल्लैः कमलैः पयोभिर् अमलैर् नीत्वा जगन् निर्वृतिम् /
पश्चात् क्षीणधनां बहिर्निजदशां दृष्ट्वा मृणालच्छलाद् अर्थिभ्यः प्रददौ नवेन्दुविशदान्य् अस्थीनि पद्माकरः ४९.२० (१६५७)

विद्यते स न हि कश्चिद् उपायः सर्वलोकपरितोषकरो यः /
सर्वथा स्वहितम् आचरणीयं किं करिष्यति जनो बहुजल्पः ४९.२१ (१६५८)

चापस्यैव परं कोटि- विभवत्वं विराजते /
यस्माल् लभन्ते लक्षाणि निर्गुणा अपि मार्गणाः ४९.२२ (१६५९)

कृत्वापि कोषपानं भ्रमरयुवा पुरत एव कमलिन्याः /
अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ४९.२३ (१६६०)

ग्रामे ऽस्मिन् पथिकाय नैव वसतिः पान्थाधुना दीयते रात्राव् अत्र विवाहमण्डपतले पान्थः प्रसुप्तो युवा /
तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रियां यत् कृतं तेनाद्यापि करङ्कदण्डपतनाशङ्की जनस् तिष्ठति ४९.२४ (१६६१)

आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन /
सेहिरे न किरणा हिमरश्मेर् दुःखिते मनसि सर्वम् असह्यम् ४९.२५ (१६६२)

उन्मुद्रीकृतविश्वविस्मयभरैस् तत् तन् महार्घैर् गुणैर् दुर्गाधे हृदयाम्बुधौ तव भवेन् नः सूक्तिगङ्गा यदि /
विश्वश्वित्रमतङ्गिनीघनरसस्यन्दिन्य् अमन्दध्वनिर् गङ्गासागरसंगमः पुनर् इवापूर्वः समुन्मीलति ४९.२६ (१६६३)

एतन् मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुर- प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते /
तत्फलीपतिपुत्रि कुञ्जरकुलं जीवाभयाभ्यर्थना- दीनं त्वाम् अनुनाथते कुचयुगं पत्रांशुकैर् मा पिधाः ४९.२७ (१६६४)

ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर् दृष्ट्वालापं कलयति कथाम् आत्मविषयाम् /
सखीषु स्मेरासु प्रकटयति वैलक्ष्यम् अधिकं प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा ४९.२८ (१६६५)

गुणवद् अगुणवद् वा कुर्वता कर्मजातं परिणतिर् अवधार्या यत्नतः पण्डितेन /
अतिरभसकृतानां कर्मणाम् आ विपत्तेर् भवति हृदयदाही शल्यतुल्यो विपाकः ४९.२९ (१६६६)

वर्षाः कर्दमहेतवः प्रतिदिनं तापस्य मूलं शरद् धेमन्ते जडता तथैव शिशिरे ऽप्य् आयास्यते वायुना /
चित्तोन्मादकरो वसन्तसमयो ग्रीष्मो ऽपि चण्डातपः कालः काल इति प्रहृष्यति जनः कालस्य का रम्यता ४९.३० (१६६७)

दृष्टिरोधकरं यूनां यौवनप्रभवं तमः /
अरत्नालोकसंहार्यम् अवार्यं सूर्यरश्मिभिः ४९.३१ (१६६८)

आपातमात्ररसिके सरसीरुहस्य किं बीजम् अर्पयितुम् इच्छसि वापिकायाम् /
कालः कलिर् जगद् इदं न कृतज्ञम् अज्ञे स्थित्वा हनिष्यति तवैव मुखस्य शोभाम् ४९.३२ (१६६९)

अप्रियाण्य् अपि कुर्वाणो यः प्रियः प्रिय एव स /
दग्धमन्दिरसारे ऽपि कस्य वह्नाव् अनादरः ४९.३३ (१६७०)

अयं काणः शुक्रो विषमचरणः सूर्यतनयः क्षताङ्गो ऽयं राहुर् विकलमहिमा शीतकिरणः /
अजानानस् तेषाम् अपि नियतकर्म स्वकफलं ग्रहग्रामग्रस्ता वयम् इति जनो ऽयं प्रलपति ४९.३४ (१६७१)

कनकभूषणसंग्रहणोचितो यदि मणिस् त्रपुणि प्रतिबध्यते /
न स विरौति न चापि पलायते भवति योजयितुर् वचनीयता ४९.३५ (१६७२)

नमस्यामो देवान् ननु हतविधेस् ते ऽपि वशगा विधिर् वन्द्यः सो ऽपि प्रतिनियतकर्मैकफलदः /
फलं कर्मायत्तं यदि किम् अपरैः किं च विधिना नमः सत्कर्मभ्यो विधिर् अपि न येभ्यः प्रभवति ४९.३६ (१६७३)

यदा विगृह्णाति तदा हतं यशः करोति मैत्रीम् अथ दूषिता गुणाः /
स्थितः समीक्ष्योभयता परीक्षकः करोत्य् अवज्ञोपहतं पृथग्जनम् ४९.३७ (१६७४)

तृष्णे देवि नमस् तुभ्यं कृतकृत्यासि साम्प्रतम् /
अनन्तनाम यद् रूपं तत् त्वया वामनीकृतम् ४९.३८ (१६७५)

पुरा याताः केचित् तदनु चलिताः केचिद् अपरे विषादः को ऽस्माकं न हि न वयम् अप्य् अत्र गमिनः /
मनःखेदस् त्व् एवं कथम् अकृतसंकेतविधयो महामार्गे ऽस्मिन् नो नयनपथम् एष्यन्ति सुहृदः ४९.३९ (१६७६)

सन्मार्गे तावद् आस्ते प्रभवति पुरुषस् तावद् एवेन्द्रियाणां लज्जां तावद् विधत्ते विनयम् अपि समालम्बते तावद् एव /
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल् लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ४९.४० (१६७७)

अध्वन्यस्य वधूर् वियोगविधुरा भर्तुः स्मरन्ती यदि प्राणान् उज्झति कस्य तन् महद् अहो संजायते किल्बिषम् /
इत्य् एवं पथिकः करोति हृदये यावत् तरोर् मूर्धनि प्रोद्घुष्टं परपुष्टया तव तवेत्य् उच्चैर् वचो ऽनेकशः ४९.४१ (१६७८)

अद्राक्षीद् अपनिद्रकोरकभरव्यानम्रवल्लीस्खलद्- धूलीदुर्दिनसूदिताम्बरम् असाव् उद्यानम् उर्वीपतिः /
आस्थानीभवनं वसन्तनृपतेर् देवस्य चेतोभुवः सत्रागारम् अनुत्तरं मधुलिहाम् एकं प्रपामण्डपम् ४९.४२ (१६७९)

मदनज्वरम् अपनेतुं कुरु सम्प्रति सततम् औषधद्वितयम् /
बालाधरमधुपानं कुचपीडनमुष्टियोगं च ४९.४३ (१६८०)

उपचारविधिज्ञो ऽपि निर्धनः किं करिष्यति /
निरङ्कुश इवारूढो मत्तद्विरदमूर्धनि ४९.४४ (१६८१)

कस्या नाम किम् अत्र नास्ति विदितं यद् वीक्ष्यमाणो ऽप्य् अयं लोको मूक इवास्ति मां प्रति पुनः सर्वो जनस् तप्यते /
शक्यं दर्शयितुं न पूगफलवत् कृत्वा द्विधेदं वपुर् यत् सत्यं सखि वीक्षितः खलु मया नूनं चतुर्थ्याः शशी ४९.४५ (१६८२)

खुराघातैः शृङ्गैः प्रतिदिनम् अलं हन्ति पथिकान् भृशं शस्योत्सादैः सकलनगराख्यातपटिमा /
युगं नैव स्कन्धे वहति नितरां याति धरणीं वरं शून्या शाला न च पुनर् अयं दुष्टवृषभः ४९.४६ (१६८३)

पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया /
शोकक्षोभे च हृदयं प्रलापैर् अवधार्यते ४९.४७ (१६८४)

धिक् चन्दनं कैव सुधा वराकी किम् इन्दुना हारितम् अब्जकन्दैः /
न वेद्मि तद् वस्तु यद् अत्र लोके सुताङ्गधूलेर् उपमानपात्रम् ४९.४८ (१६८५)

यौवनं चलम् अपायि शरीरं गत्वरं वसु विमृश्य विशिष्टः /
नान्यजन्मगततिक्तविपाकं दृष्टसौख्यम् अपि कर्म विधत्ते ४९.४९ (१६८६)

अधो ऽधः पश्यतः कस्य महिमा नोपजायते /
उपर्य् उपरि पश्यन्तः सर्व एव दरिद्रति ४९.५० (१६८७)

तिमिरम् इदम् इन्दुबिम्बात् पूतिर् गन्धो ऽयम् अम्बुरहकोषात् /
निन्दितम् अभिजातमुखाद् यद् अलीकं वचनम् उच्चरति ४९.५१ (१६८८)

यो नीवारतृणाग्रमुष्टिकबलैः संवर्धितः शैशवे पीतं येन सरोजिनीदलपुटे होमावशिष्टं पयः /
तद्दानासवपानमत्तमधुपव्यालोलगण्डं गजं सोत्कण्ठं सभयं च पश्यति शनैर् दूरे स्थितस् तापसः ४९.५२ (१६८९)

पाणिप्रेङ्खणतो विशीर्णशिरसः स्वेदावरुग्णश्रियस् ता इत्य् आकृतिलेशतो मनसि नः किंचित् प्रतीतिं गताः /
वैचित्र्यात् पुनर् उक्तलाञ्छनभृतः खण्डेन वाक्येन वा व्याक्षेपं कथयन्ति पक्ष्मलदृशो लेखाक्षरश्रेणयः ४९.५३ (१६९०)

ताडीदलं यद् अकठोरम् इदं यद् अत्र मुद्रा स्तनाङ्कघनचन्दनपङ्कमूर्तिः /
यद् बन्धनं बिसलतातनुतन्तवश् च कस्याश्चिद् एषा गलितस् तदनङ्गलेखः ४९.५४ (१६९१)

मृणालम् एतद् वलयीकृतं तया तदीय एवैष वतंसपल्लवः /
इदं च तस्याः कदलीदलांशुकं यद् अत्र संक्रान्त इव स्मरज्वरः ४९.५५ (१६९२)
राजशेखरस्यामी

मधुर् मासो रम्यो विपिनम् अजनं त्वं च तरुणी स्फुरत्कामावेशे वयसि वयम् अप्य् आहितभराः /
व्रजत्व् अम्बा मुग्धे क्षणम् इह विलम्बस्व यदि वा स्फुटस् तावज् जातः पिशुनवचसाम् एष विषयः ४९.५६ (१६९३)
वल्लणस्य

मुनीन्दोर् वाग्बिन्दुः प्रविततसुधापूरपरमो न चेच् चिन्तापात्रे मिलति कथम् अप्य् अस्य मनसः /
कुतः प्राप्य प्रीतिं तुहिनगिरिगर्भस्थितिजुषो ऽप्य् असह्यः सह्येत प्रियविरहदाहव्यतिकरः ४९.५७ (१६९४)
धर्मकीर्तेः

सर्वस्यैव हि लोकस्य बहुमानं यद् आत्मनि /
विष्णोर् मायासहस्रस्य इयम् एका गरीयसी ४९.५८ (१६९५)

कृशः काणः खञ्जः श्रवणविकलः पुच्छरहितः क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः /
व्रणैः पूयक्लिन्नैः क्रिमिकुलचितैर् आचिततनुः शुनीम् अभ्येति श्वा हतम् अपि निहन्त्य् एव मदनः ४९.५९ (१६९६)

तरन्तो दृश्यन्ते बहव इह गम्भीरसरसि स्वसाराभ्याम् आभ्यां हृदि विदधतः कौतुकशतम् /
प्रविश्यान्तर्लीनं किम् अपि सुविवेच्योद्धरति यश् चिरं रुद्धश्वासः स खलु पुनर् एतेषु विरलः ४९.६० (१६९७)
पण्डितज्ञानश्रियः

इति संकीर्णव्रज्या