संस्काररत्नमाला (भागः १)/अष्टमं प्रकरणम्

               




   

अथाष्टमं प्रकरणम् ।

अथ काण्डव्रतोपाकरणम् ।

 "तत्रेदं[१] सूत्रम्--काण्डोपाकरणे काण्डविसर्गे च सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिष स्वाहेति काण्डर्षिर्दितीय इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयाऽसि प्रजापते यदस्य कर्मणोऽत्यरीरिचमिति चात्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथापुरस्तात्" इति ।

 अस्यार्थः--नव षट्पञ्च चत्वारि वा काण्डानि, तत्र प्राजापत्यं सौम्यमाग्नेयं वैश्वदेवं स्वायंभुवमारुणम् । सांहितीर्देवता उपनिषदो वारुणीर्देवता उपनिषदो याज्ञिकीर्देवता उपनिषद इति नवपक्षे काण्डानि । षट्पक्ष आरुणान्तानि षट्, पञ्चपक्षे स्वायंभुवान्तानि पञ्च, चतुष्पक्षे वैश्वदेवान्तानि चत्वा[२]रीति । तेषामनुक्रमणं काण्डानुक्रमणिकायां द्रष्टव्यम् । तेषां काण्डानामुपाकरणं काण्डोपाकरणं तस्मिन्काडोपाकरणे, काण्डव्रतारम्भ इत्यर्थः । काण्डानां विसर्गः काण्डव्रतविसर्ग इत्यर्थः । तस्मिन्प्रसाधनीदेवीहोमान्तं कृत्वा सदसस्पतये हुत्वा काण्डर्षिभ्यो जुहोति । अमन्त्रास्वमुष्मै स्वाहेति यथादेवतमितिवचनात् । प्रजापतये काण्डर्षये स्वाहा । सोमाय काण्डर्षये स्वाहा । अग्नये काण्डर्षये स्वाहा । विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहा । स्वयंभुवे काण्डर्षये स्वाहेति यथाकाण्डं जुहुयात् । ततो वारुण्यादिस्विष्टकृदन्तं यथोक्तमुपहोमाश्च । यथापुरस्तादित्यनेन स्विष्टकृतः पूर्वत्वं होमविधिश्च प्राप्यते । अथवा सदसस्पतिर्द्वितीयः काण्डर्षिर्भवतीत्यर्थः । अस्मि[३]न्कल्पे काण्डर्षिहोमानन्तरं सदसस्पतिहोमः । अत्र द्वितीयवचनं प्रसिद्धस्य काण्ड[४]र्षेः प्राथम्यार्थम् । पूर्वस्मि[५]न्कल्पे द्वितीयवचनं सदसस्पतिरेव काण्डर्षिर्मा भूदित्येतदर्थम् । वारुण्याद्यनुक्रमणमाघारवन्नियमार्थम् । कुत्रचिद्व्याहृतिहोमविधानमेव तथा । यथापुरस्तादिति वचनं जयहोमे राष्ट्रभृद्धोमे च मन्त्रविषये पक्षान्तरस्यापि सत्त्वादुपनयने यः परिगृहीतः पक्षः स एवात्रेति ज्ञापनार्थं स्विष्टकृतः प्राक्कर्तव्यतार्थं च । ननु समावर्तनादावन्यतरानुवादेनैवाऽऽघारवन्नियमे सिद्ध उभयानुवादो व्यर्थ इति चेन्न । तस्य नियमार्थत्वात् । तथा हि । यत्रोभयानुवादः समावर्तनादौ तत्रोभयसहितमेवाऽऽघारवत्तन्त्रं नियतमिति । तेनोभयानुवादातिरिक्तस्थले यद्यदननूदितं भवति तस्यानियमः सिध्यति । काण्डव्रतोपाकरणोत्सर्गयोर्व्याहृतिहोमानुवादाभावान्न व्याहृतिहोमनियमः । चतुर्थीहोमे संवादाभिनयने शूलगवे मासिश्राद्धाष्टकाश्राद्धादावाग्रहायणीकर्मणि च वारुण्याद्यनुवादाभावान्न वारुण्यादिनियमः । त्रिवृदन्नहोमे शास्त्रान्तरोक्तेषु कर्मसु चाऽऽघारवत्तन्त्रत्वपक्षेऽपि व्याहृतिहोमवारुण्याद्यनियम उभयानुवादाभावात् । अथवा यत्र व्याहृतिहोमवारुण्यादिहोमानुवादो नास्ति तत्रैतयोर्निवृत्तिरेव । तेन पू[६]र्वं तन्त्रं प्रसाधनीदेवीहोमान्तमुत्त[७]रं तन्त्रं स्विष्टकृदादीति द्रष्टव्यम् ।

अथ प्रयोगः ।

 आचार्यो ब्रह्मचारिसहितः कृतनित्यक्रियः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यास्यामुकशर्मणो ब्रह्मचारिणः प्राजापत्यकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्राजापत्यकाण्डव्रतोपाकरणं करिष्ये । तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च करिष्य इति [८]संकल्प्योक्तरीत्या कुर्यात् । अत्र सविता प्रीयतामिति विशेषः । एवं सर्वेषु व्रतेषु ।

 अत्र ब्रह्मचारिण उपाकरणाङ्गत्वेन वपनं स्नानं च कारयित्वा तस्मै नूतनकटिसूत्रकच्छोपवीताजिनोत्तरीयदण्डांस्तूष्णीं दत्त्वा पुराणान्यप्सु निक्षिपेदिति केचित् ।

 तत उल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय समुद्भवनामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा प्राजापत्यकाण्डव्रतोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तं प्रसाधनीदेव्यन्तं वोक्त्वा प्रधानहोमे सदसस्पतिमाज्याहुत्या यक्ष्ये । प्रजापतिं काण्डर्षिमाज्याहुत्या य[९]क्ष्य इति वदेत् । अथवा प्रजापतिं काण्डर्षिमाज्याहुत्या सदसस्पतिमाज्याहुत्येति विपरीतम् ।

 ततोऽङ्गहोमे वरुणमित्यादि स्विष्टकृद्धोमेऽग्निं स्विष्टकृतमित्यादि[१०] वाऽन्वाधानोत्कीर्तितपक्षानुसारेण व्याहृतिहोमान्तं प्रसाधनीदेवीहोमान्तं वा कृत्वा प्रधानहोमं कुर्यात् । सदसस्पति[११]मद्भुतमित्यस्य याज्ञिक्यो देवता उपनिषदः सदसस्पतिर्गायत्री । प्राजापत्यकाण्डव्रतोपाकरणप्रधा[१२]नाज्यहोमे विनियोगः--"ॐ सदसस्पति० सिष स्वाहा । सदसस्पतय इदं० । ॐ प्रजापतये काण्डर्षये स्वाहा । प्रजापतये काण्डर्षय इदं०" विपरीतं वा । इत्यन्वाधानोत्कीर्तितपक्षानुसारेणाऽऽहुतिद्वयं हुत्वेमं मे वरुणेत्यादिहोमशेषं समापयेत् । जयादिहोमा वैकल्पिकाः । अत्रात्रग्रहणमुपाकरणे यदि जयाद्युपहोमोऽनुष्ठितस्तदोत्सर्जने कर्तव्य एव, तत्राभावेऽप्यत्राप्यभाव इत्येतदर्थम् ।

 अथ ब्रह्मचार्यग्ने व्रतपत इत्यादिभिरुपनयनोक्तरीत्या देवतोपस्थानं कृत्वा गुरवे वरं दद्यात् । नात्र त्रिवृदन्नहोमः ।

 तत आचार्यो ब्राह्मणभोजनं कृत्वा भूयसीं दक्षिणां च दत्त्वा कर्मसाद्गुण्याय विष्णुं स्मृत्वा कर्मेश्वरायार्पयेत् । अधीते काण्डे तस्यैवोत्सर्जनम् । उपाकरणवत्सर्वम् । तत्रैतावान्विशेषः । अस्यामुकशर्मणो ब्रह्मचारिणः प्राजापत्यकाण्डाध्ययनार्थं स्वीकृतस्य प्राजापत्यकाण्डव्रतस्योत्सर्जनं करिष्य इति संकल्पवाक्यम् । प्राजापत्यकाण्डव्रतोत्सर्ज[१३]नहोमकर्मणीत्यन्वाधाने, प्राजापत्यकाण्डव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । उपाकरणे यदि जयादिहोमाः कृता भवेयुस्तदाऽत्रापि कार्याः । अचारिषमशकमराधीत्यूह उपस्थानमन्त्रेषु । अन्यत्समानम् ।

इति प्राजापत्यकाण्डव्रतम् ।


अथ सौम्यकाण्डव्रतम् ।

 सौम्यकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं सौम्यकाण्डव्रतोपाकरणं करिष्य इति संकल्पवाक्यम् । सौम्यकाण्डव्रतोपाकरणहोमकर्मणीति सदसस्पतिमाज्याहुत्या सोमं काण्डर्षिमाज्याहुत्येति सोमं काण्डर्षिमाज्याहुत्या सदसस्पतिमाज्याहुत्येति विपरीतं वेति चान्वाधाने सौम्यकाण्डव्रतोपाकरणप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अन्वाधानोत्कीर्तितपक्षानुसारेण सदसस्पतिहोमानन्तरं तत्पूर्वं वा सोमाय काण्डर्षये स्वाहेत्याहुतिः । सोमाय काण्डर्षय इदमिति त्यागः । व्रतग्रहणान्तं प्राजापत्यकाण्डव्रतोपाकरणवत् । सौम्यकाण्डेऽधीत उत्सर्जनम् । सौम्यकाण्डाध्ययनार्थं स्वीकृतस्य[१४] सौम्यकाण्डव्रतस्योत्सर्जनं करिष्य इति संकल्पवाक्ये । सौम्यकाण्डव्रतोत्सर्जनहोमकर्मणीत्यन्वाधाने । सौम्यकाण्डव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अचारिषमशकमराधीत्युपस्थानमन्त्रेषु । अन्यत्सर्वं[१५] सौम्यकाण्डव्रतोपाकरणवत् ।

इति सौम्यकाण्डव्रतम् ।

अथाऽऽग्नेयकाण्डव्रतम् ।

 आग्नेयकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमाग्नेयकाण्डव्रतोपाकरणं करिष्य इति संकल्पवाक्ये । आग्नेयकाण्डव्रतोपाकरणहोमकर्मणीति सदसस्पतिमाज्याहुत्या[१६]ऽग्निं काण्डर्षिमाज्याहु[१७]त्येति, अग्निं काण्डर्षिमाज्याहुत्या सदसस्पतिमाज्याहुत्येति विपरीतं वेत्यन्वाधाने । आग्नेयकाण्डव्रतोपाकरणप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अन्वाधानोत्कीर्तनानुसारेण सदसस्पतिहोमानन्तरं तत्पूर्वं वाऽग्नये काण्डर्षये स्वाहेत्याहुतिः । अग्नये काण्डर्षय इदमिति त्यागः । अन्यत्सर्वं प्राजापत्यका ण्डव्रतोपाकरणवत् । आग्नेयकाण्डेऽधीत उत्सर्जनम् । आग्नेयकाण्डाध्ययनार्थं स्वीकृतस्याऽऽग्नेयकाण्डव्रतस्योत्सर्जनं करिष्य इति संकल्पवाक्ये । आग्नेयकाण्डव्रतोत्सर्जनहोमकर्मणीत्यन्वाधाने । आग्नेयकाण्डव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अचारिषमशकमराधीत्युपस्थानमन्त्रेषु । अन्यत्सर्वमाग्नेयकाण्डव्रतोपाकरणवत् ।

इत्याग्नेयकाण्डव्रतम् ।

अथ वैश्वदेवकाण्डव्रतम् ।

 वैश्वदेवकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं वैश्वदेवकाण्डव्रतोपाकरणं करिष्य इति संकल्पवाक्ये । वैश्वदेवकाण्डव्रतोपाकरणहोमकर्मणीति सदसस्पतिमाज्याहुत्या[१८] विश्वान्देवान्काण्डर्षीनाज्याहु[१९]त्येति, विश्वान्देवान्काण्डर्षीनाज्याहुत्या सदसस्पतिमाज्याहुत्येति विपरीतं वेत्यन्वाधाने । वैश्वदेवकाण्डव्रतोपाकरणप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अन्वाधानोत्कीर्तनानुसारेण सदसस्पतिहोमानन्तरं तत्पूर्वं वा विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहेत्याहुतिः । विश्वेभ्यो देवेभ्यः काण्डर्षिभ्य इदमिति त्यागः । अन्यत्सर्वं प्राजापत्यकाण्डव्रतोपाकरणवत् । वैश्वेदवकाण्डेऽधीत उत्सर्जनम् । वैश्वदेवकाण्डाध्ययनार्थं स्वीकृतस्य वैश्वदेवकाण्डव्रतस्योत्सर्जनं करिष्य इति संकल्पवाक्ये । वैश्वदेवकाण्डव्रतोत्सर्जनहोमकर्मणीत्यन्वाधाने वैश्वदेवकाण्डव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अचारिषमशकमराधीत्युपस्थानमन्त्रेषु । अन्यत्सर्वं वैश्वदेवकाण्डव्रतोपाकरणवत् ।

इति वैश्वदेवकाण्डव्रतम् ।

अथ स्वायंभुवकाण्डव्रतम् ।

 स्वायंभुवकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं स्वायंभुवकाण्डव्रतोपाकरणं करिष्य इति संकल्पवाक्ये । स्वायंभुवकाण्डव्रतोपाकरणहोमकर्मणीति सदसस्पतिमाज्याहुत्या[२०] स्वयंभुवं काण्डर्षिमाज्याहु[२१]त्येति, स्वयंभुवं काण्डर्षिमाज्याहुत्या सदसस्पतिमाज्याहुत्येति विपरीतं वेत्यन्वा धाने । स्वायंभुवकाण्डव्रतोपाकरणप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अन्वाधानोत्कीर्तनानुसारेण सदसस्पतिहोमानन्तरं तत्पूर्वं वा स्वयंभुवे काण्डर्षये स्वाहेत्याहुतिः । स्वयंभुवे काण्डर्षय इदमिति त्यागः । अन्यत्सर्वं प्राजापत्यकाण्डव्रतोपाकरणवत् । स्वायंभुवे काण्डेऽधीत उत्सर्जनम् । स्वायंभुवकाण्डाध्ययनार्थं स्वीकृतस्य स्वायंभुवकाण्डव्रतस्योत्सर्जनं करिष्य इति संकल्पवा[२२]क्ये । स्वायंभुवकाण्डव्रतोत्सर्जनहोमकर्मणीत्यन्वाधाने । स्वायंभुवकाण्डव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अचारिषमशकमराधीत्युपस्थानमन्त्रेषु । अन्यत्सर्वं स्वायंभुवकाण्डव्रतोपाकरणवत् । एतत्काण्डस्य पाक्षिकत्वं तु प्रागेवोक्तम् ।

 मातृदत्तोऽप्येवमाह-- "स्वायंभुवं काण्डं पञ्चममेके" इति ।

 केषांचिन्मते स्वायंभुवकाण्डं पञ्चमं पृथक् । केषांचिन्मते पृथङ्न भवतीत्यर्थः । अपृथक्त्वपक्षेऽन्त्ये वैश्वदेवकाण्डेऽन्तर्भावो ज्ञेयः ।

अथैतेषां तन्त्रेणोपाकरणप्रयोगः ।

 ब्रह्मचारिणा सहाऽऽचार्यः कृतनित्यक्रियः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यास्यामुकशर्मणो ब्रह्मचारिणो वेदाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्राजापत्यसौम्याग्नेयवैश्वदेवाख्यकाण्डचतुष्टयव्रतोपाकरणं तन्त्रेण करिष्य इति संकल्प्य गणेशपूजनादिनान्दीश्राद्धान्तं कुर्यात् ।

 स्वायंभुवकाण्डस्यानन्तर्भावपक्षे प्राजापत्यसौम्याग्नेयवैश्वदेवस्वायंभुवाख्यकाण्डपञ्चकव्रतोपाकरणं तन्त्रेण करिष्य इत्येवं संकल्पः ।

 नान्दीश्राद्धोत्तरं ब्रह्मचारिणा वपनं स्नानं च कारयित्वा तस्मै नूतनकटिसूत्रकच्छोपवीताजिनोत्तरीयदण्डान्दत्त्वा पुराणान्यप्सु निक्षिपेदिति केचित् ।

 तत उल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय समुद्भवनामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा प्राजापत्यसौम्याग्नेयवैश्वदेवाख्यकाण्डचतुष्टयव्रतोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तं प्रसाधनीदेवी[२३]होमान्तं वोक्त्वा प्रधानहोमे सदसस्पतिं प्रजापतिं काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीश्चैकैकयाऽऽज्याहुत्या यक्ष्य इति प्रजापतिं काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीन्सदस्पतिं चैकयाऽऽज्याहुत्या यक्ष्य इति विपरीतं वा । अङ्गहोमे वरुणं द्वाभ्यामित्यादि ।

 स्वायंभुवकाण्डस्यानन्तर्भावपक्षे प्राजापत्यसौम्याग्नेयवैश्वदेवस्वायंभुवाख्यकाण्डपञ्चकव्रतोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तं प्रसाधनीदेव्यन्तं वोक्त्वा प्रधानहोमे सदसस्पतिं प्रजापतिं[२४] काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीन्स्वयंभुवं काण्डर्षिं चैकैकयाऽऽज्याहुत्या यक्ष्य इति प्रजापतिं[२५] काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीन्स्वयंभुवं काण्डर्षिं सदसस्पतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इति विपरीतं वा । अङ्गहोमे वरु[२६]णं द्वाभ्यामित्यादि । व्याहृतिहोमान्ते प्रसाधनीदेवीहोमान्ते वा प्रधानहोमः ।

 स यथा--सदसस्पतिमित्यस्य याज्ञि[२७]क्य उपनिषदः सदसस्पतिर्गायत्री । काण्डचतुष्टयव्रतोपाकरणप्रधानाज्यहोमे विनियोगः । स्वायंभुवकाण्डस्यानन्तर्भावपक्षे काण्डपञ्चकव्रतोपाकरणप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये विशेषः । "ॐ सदसस्पति० सिष स्वाहा । सदसस्पतय इदं० । ॐ प्रजापतये काण्डर्षये स्वाहा । प्रजापतये काण्डर्षय इदं० । ॐ सोमाय काण्डर्षये स्वाहा । सोमाय काण्डर्षय इदं० । ॐ अग्नये काण्डर्षये स्वाहा । अग्नये काण्डर्षय इदं० । ॐ विश्वेभ्यो देवभ्यः काण्डर्षिभ्यः स्वाहा । विश्वेभ्यो देवेभ्यः काण्डर्षिभ्य इदं०[२८]."

 स्वायंभुवकाण्डस्यानन्तर्भावपक्षे स्वायंभुवे काण्डर्षये स्वाहेति पष्ठ्याहुतिः । स्वयंभुवे काण्डर्षय इदं न ममेति त्यागः ।

 काण्डर्षिहोमानन्तरं वा सदसस्पतिहोमः । इति प्रधानहोमं कृत्वेमं मे वरुणेत्यादि सर्वं होमशेषं समापयेत् । जयादिहोमे विकल्पः । त्रिवृदन्नहोमो नात्र ।

 ततो ब्रह्मचारी, अग्ने व्रतपते व्रतं चरिष्यामीत्यादिभिरुपस्थाय गुरवे वरं दद्यात् ।

 ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं(?) च विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।

इति तन्त्रेणोपाकरणप्रयोगः ।

अथोत्सर्जनम् ।

 आचार्यो नद्यादौ प्रशस्तदेशे ब्रह्मचारिसहितः कृतनित्यक्रियः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यामुकशर्मणा ब्रह्मचारिणा वेदाध्ययनार्थं स्वीकृतस्य प्राजापत्यसौम्याग्नेयवैश्वदेवाख्यकाण्डचतुष्टयव्रतस्योत्सर्जनं तन्त्रेण करिष्य इति संकल्प्य गणेशपूजनादि नान्दीश्राद्धान्तं कुर्यात् । स्वायंभुवकाण्डस्यानन्तर्भावपक्षे स्वीकृतस्य प्राजापत्यसौम्याग्नेयवैश्वदेवस्वायंभुवाख्यकाण्डपञ्चकव्रतस्योत्सर्जनं तन्त्रेण करिष्य इति संकल्पवाक्य ऊहः । नात्र वपनादि ।

 तत उल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय समुद्भवनामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा प्राजापत्यसौम्याग्नेयवैश्वदेवाख्यकाण्डचतुष्टयव्रतोत्सर्जनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तं प्रसाधनीदेव्यन्तं वोक्त्वा प्रधानहोमे सदसस्पतिं प्रजापतिं काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षींश्चैकैकयाऽऽज्याहुत्या यक्ष्य इति । प्रजापतिं काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीन्सदसस्पतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इति विपरीतं वा । अङ्गहोमे वरु[२९]णं द्वाभ्यामित्यादि ।

 स्वायंभुवकाण्डस्यानन्तर्भावपक्षे प्राजापत्यसौम्याग्नेयवैश्वदेवस्वायंभुवाख्यकाण्डपञ्चकव्रतोत्सर्जनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तं प्रसाधनीदे[३०]व्यन्तं वोक्त्वा प्रधानहोमे सदसस्पतिं प्रजापतिं काण्डर्षिं सोमं काण्डर्षिमग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीन्स्वायंभुवं काण्डर्षिं चैकैकयाऽऽज्याहुत्या यक्ष्य इति । प्रजापतिं काण्डर्षिं सोमं काण्डर्षिमाग्निं काण्डर्षिं विश्वान्देवान्काण्डर्षीन्स्वयंभुवं काण्डर्षिं सदसस्पतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इति विपरीतं वा ।

 अङ्गहोमे वरु[३१]णं द्वाभ्यामित्यादि । व्याहृतिहोमान्ते प्रसाधनीदेवीहोमान्ते वा प्रधान होमः ।

 स यथा--सदसस्पतिमित्यस्य याज्ञिक्यो देवता उपनिषदः सदसस्पतिर्गायत्री । काण्डचतुष्टयव्रतोत्सर्जनप्रधानाज्यहोमे विनियोगः ।

 स्वायंभुवकाण्डस्यानन्तर्भावपक्षे काण्डपञ्चकव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये विशेषः । "ॐ सदसस्पति० सिष स्वाहा । सदसस्पतय इदं० । ॐ प्रजापतये काण्डर्षये स्वाहा । प्रजापतये काण्डर्षय इदं० । ॐ सोमाय काण्डर्षये स्वाहा । सोमाय काण्डर्षय इदं० । ॐ अग्नये काण्डर्षये स्वाहा । अग्नये काण्डर्षय इदं० । ॐ विश्वेभ्यो देवेभ्यः काण्डर्पिभ्यः स्वाहा । विश्वेभ्यो देवेभ्यः काण्डर्षिभ्य इदं०"।

 स्वायंभुवकाण्डस्यानन्तर्भावपक्षे स्वयंभुवे काण्डर्षये स्वाहेति षष्ठ्याहुतिः ।

 स्वयंभुवे काण्डर्षय इदं न ममेति त्यागः ।

 काण्डर्षिहोमानन्तरं वा सदसस्पतिहोमः । इति प्रधानहोमं कृत्वा, इमं मे वरुणेत्यादि सर्वं होमशेषं समापयेत् ।

 उपाकरणे यदि जयादिहोमाः कृता भवेयुस्तदाऽत्रापि कार्याः । नात्र त्रिवृदन्नहोमः ।

 ततो ब्रह्मचारी, अग्ने व्रतपते व्रतमचारिषमित्यादिभिर्देवतोपस्थानं कृत्वा व्रतं विसृज्य गुरवे वरं दद्यात् ।

 तत आचार्यो ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।

अथाऽऽरुणकाण्डस्यानन्तर्भावपक्षे प्रयोगः[३२]

 आरुणकाण्डमध्येष्यमाणस्त्रिकालस्नायी भवेत् । एकस्मिन्नह्नि दिवोपोष्य द्वितीयेऽह्नि नक्तं भुञ्जीत । तृतीयेऽहोरात्रमुपोष्य चतुर्थेऽह्नि दिवा भुक्त्वा पञ्चमेऽह्नि नक्तं भुञ्जीत । इत्येवं चतुर्थकालपानभक्तो भवेत् । पानं क्षीरादिविषयम् । भक्तोऽन्नम् । अशक्तावहरहर्वा भैक्षमश्नीयादिति । एतदुभयमपि प्रतिदिनं कालद्वये स्वी क्रियते ।

 "तस्माद्द्विरह्नो मनुष्येभ्य उपह्रियते प्रातश्च सायं च" इत्याम्नातत्वात् । एतत्कर्तुमशक्तौ प्रतिदिनं भिक्षित्वा तदन्नं भुञ्जीत । नद्यादिभ्यः पात्रेणाप उद्धृत्य वस्त्रेण शोधयित्वा ताभिः सर्वमुदककार्यं कुर्वीत न तु नद्यादौ । न चापां संग्रही भवेत् । भिक्षापात्रादन्यत्र [यो] भक्ष्यादिवस्तुसंग्रहस्तद्युक्तो न भवेदिति भाष्यकाराः । संग्रहः संचयः । औदुम्बरीभिः समिद्भिरग्निपरिचर्यां कुर्यात् । अग्न्यादिभ्योऽरुणान्तेभ्यो होमं कुर्यात्[३३] । प्रवर्ग्यकाण्डोक्तान्धर्मानप्यनुतिष्ठेत् । एतादृशं व्रतं भद्रप्रपाठकाध्ययनदिनमारभ्य संवत्सरपर्यन्तं मास द्वयपर्यन्तं वा कुर्यात् । भद्रप्रपाठकाध्ययनसमाप्तावप्युदगयन आपूर्यमाणपक्षस्य पुण्ये नक्षत्र आचार्यं प्राप्याभिवाद्याऽऽरुणकाण्डमधीहि भो इति तं प्रार्थयेत् ।

 तत आचार्यस्तेन सहारण्यं गत्वाऽऽरुणकाण्डव्रतं चरेति तमनुजानीयात् ।

 ततोऽध्येता तमाचार्यमभिवाद्य केशश्मश्रुलोमनखानि वापयित्वा दन्तधावनं कृत्वाऽहते वाससी परिधायाऽऽचम्यारुणाकाण्डर्षीन्स्तर्पयामीति तर्पयेत् । न वा तर्पणम् ।

 तत आचार्यो ब्रह्मचारिसहितः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्या[३४]स्यामुकशर्मणो ब्रह्मचारिण आरुणकाण्डाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमारुणकाण्डव्रतोपाकरणं करिष्ये, तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च करिष्य इति संकल्प्योक्तरीत्या कुर्यात् ।

 अत्र वा वपनं(न) दन्तधावनादितर्पणान्तम् । नूतनकटिसूत्रकच्छोपवीताजिनोत्तरीय[३५]दण्डांस्तूष्णीं ब्रह्मचारिणे दत्त्वा पुराणान्यप्सु निक्षिपेदिति केषांचिन्मतेऽत्रापि भवति ।

 तत उल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय समुद्भवनामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वाऽऽरुणकाण्डव्रतोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे सदसस्पतिमाज्याहुत्या यक्ष्य इति । अरुणान्काण्डर्षीनाज्याहुत्या यक्ष्य इत्युत्कीर्तयेत् । विपरीतं वोत्कीर्तनम् ।

 ततोऽग्निं वायुं सूर्यं ब्रह्माणं प्रजापतिं चन्द्रमसं नक्षत्राणि ऋतून्संवत्सरं वरुणमरुणं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अङ्गहोमे वरुणमित्यादि अन्वाधानोत्कीर्तितपक्षानुसारेण प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वा कृत्वा प्रधानहोमं कुर्यात् । सदसस्पतिमित्यस्य याज्ञिक्यो देवता उपनिषदः सदसस्पतिर्गायत्री । आरुणकाण्डव्रतोपाकरणप्रधानाज्यहोमे विनियोगः--

 "ॐ सदसस्पतिम० सिष स्वाहा । सदसस्पतय इदं० । ॐ अरुणेभ्यः काण्डर्षिभ्यः स्वाहा । अरुणेभ्यः काण्डर्षिभ्य इदं०"  विपरीतं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण हुत्वाऽग्नये स्वाहा वायवे स्वाहा सूर्याय स्वाहा ब्रह्मणे स्वाहा प्रजापतये स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहा, ऋतुभ्यः स्वाहा संवत्सराय स्वाहा वरुणाय स्वाहाऽरुणाय स्वाहा । एकादशव्रतहोमानाज्येन जुहुयाद्यथालिङ्गं त्यागः ।

 पुनर्मामित्यनुवाकस्थमन्त्राणामरुणा ऋषयः सूर्यो देवता प्रथमस्यानुष्टुब्द्वितीयस्य द्विपदा त्रिष्टुप्तृतीयस्य द्विपदा गायत्री चतुर्थस्यानुष्टुप् । उदुम्बरसमिदाधाने विनियोगः--

 "ॐ पुनर्मामैत्वि० मैतु मा" इत्येकां समिधमादधाति । 'ॐ यन्मेऽद्य रेतः० द्यदापः' इति द्वितीयाम् । 'ॐ इदं तत्पुनरा० र्चसे' इति तृतीयाम् । 'ॐ यन्मे रेतः प्र० जसं कुरु" इति चतुर्थीम् ।

 तत इमं म इत्यादिहोमशेषं समापयेत् । जयाद्युपहोमा वैकल्पिकाः । न त्रिवृदन्नहोमः ।

 अथ ब्रह्मचारी अग्ने व्रतपत इत्यादिमन्त्रचतुष्टयस्य सोम ऋषिः । अग्न्यादयः क्रमेण देवताः । यजुः । उपस्थाने विनियोगः--"ॐ अग्ने व्रत० ष्यामि, वायो व्रतपते०, आदि० व्रतानां०" इत्येतैरग्न्यादीनुपतिष्ठते ।

 न नक्तं भुञ्जीत न हरितयवान्प्रेक्षमाण इत्यादयः प्रवर्ग्यधर्मा अत्रापि भवेयुः ।

 तत आचार्यो दूर्वादर्भान्धारयमाणस्तूष्णीं मदन्तीरुपस्पृश्य, भद्रं कर्णेभिरित्यनयोः शान्तिमन्त्रयोररुणा ऋषयो देवा इन्द्रो वृद्धश्रवाः पूषा विश्ववेदास्तार्क्ष्योऽरिष्टनेमिर्बृहस्पतिश्चेति देवताः । त्रिष्टुप्छन्दः ।शान्तिः शान्तिः शान्तिरित्यस्यारुणा ब्रह्म यजुः । शान्त्यर्थं जपे विनियोगः-- "ॐ भद्रं कर्णे० शान्तिः" इति शान्तिं जपित्वा भद्रं कर्णेभिरिति द्वयोर्मन्त्रयोः पूर्ववद्दृष्याद्युक्त्वा जपे विनियोग इति विनियोगं च स्मृत्वा "ॐ भद्रं कर्णेभिः । स्वस्ति न इन्द्रो० दधातु" इति द्वे ऋचौ पठित्वा, आपमापामिति पञ्चानां महानाम्नीसंज्ञकर्चामरुणा ऋषयः । तत्तद्विशेषणविशिष्टा आपो देवताः । अनुष्टुप्छन्दः । मदन्त्युदकस्पर्शने विनियोगः--"ॐ आपमापाम० मुदीषत" इति पञ्चभिर्महानाम्नीभिर्ऋग्भिर्मदन्त्युदकं स्पृशेत् । अन्तेवासि[३६]नाऽपि दूर्वादर्भधारणादि मदन्त्युदकस्पर्शनान्तं कारयेत् ।  ततो भद्रं कर्णेभिरित्यारभ्य कृत्स्नं काण्डमध्यापयीत ।

 ततस्तूष्णीं मदन्तीरुपस्पृश्य पुनर्भद्रं कर्णेभिरिति शान्तिं कृत्वा, शिवा नः शंतमेत्यस्यारुणा ओषधीरेकपदा गायत्री । ओपध्यालम्भने विनियोगः-- "ॐ शिवा नः शंतमा भ[३७]व" इत्योषधीरालभते ।

 सुमृडीकेत्यस्यारुणा भूमिर्द्विपदा गायत्री भूम्यालम्भने विनियोगः-- "ॐ सुमृडीका० शि" इति भूमिमालभते । एतदन्तमन्तेवासिनाऽपि कारयेत् । अत्र वाऽङ्गहोमादितन्त्रसमापनम् ।

 ततोऽन्तेवासिना सह गृहमागत्य तेन भिक्षालब्धेनान्नेन ब्राह्मणभोजनं कारयेत् । एतत्काण्डस्यान्तर्भावपक्षे काण्डर्षिसदसस्पतिहोमौ पृथङ्न स्तः । अग्नये स्वाहेत्याद्या आहुतयः समिदाधानादिकं च वैशेषिकत्वाद्भवत्येव ।

 वस्तुतस्त्वनन्तर्भाव एव युक्तः । "ॐ अरुणाः काण्डऋषयः" इत्येतच्छ्रुतिस्वरसात् ।

 एवमहरहरुल्लेखनादि काण्डर्षिसदसस्पतिहोमवर्जं भूम्यालम्भनान्तं कर्माऽऽसंवत्सराद्वा मासद्वयाद्वा कर्तव्यम् । भद्रप्रपाठकाध्ययने जातेऽपि संवत्सरपर्यन्तं मासद्वयपर्यन्तं वा व्रतं कर्तव्यमेव । स्वीकृतपक्षानुसारेण व्रतं समाप्योत्सर्जनं कुर्यात् ।

 तत्रैतावान्विशेषः । आरुणकाण्डाध्ययनार्थं स्वीकृतस्याऽऽरुणकाण्डव्रतस्योत्सर्जनं करिष्य इति संकल्पवाक्यम् । आरुणकाण्डव्रतोत्सर्जनहोमकर्मणीत्यन्वाधाने । आरुणकाण्डव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । काण्डर्षिसदसस्पतिहोमानन्तरमग्न्यादिदेवताभ्यो होमः । उपाकरणे यदि जयादिहोमाः कृताः स्युस्तदाऽत्रापि कार्या एव । आदित्यव्रत० मचारिषं० राधीत्यादित्यमुपतिष्ठते । वायो व्रतपत इति वायुम् । अग्ने व्रतपत इत्यग्निम् । व्रतानां व्रतपत इति व्रतपतिमग्निम् । एतेषामृष्यादि पूर्ववदेव । आचार्याय शिष्यः कंसं क्षौमं कार्पासजं वा वासो धेनुं च दद्यात् । अशक्तावेतदन्यतममेकं दद्यात् । अत्यशक्तावन्यद्धान्यादि वा । स्वाध्याये कर्मण्यारम्भे समाप्तौ च शान्तिं कुर्यान्मध्येऽवस्येच्चेच्छान्तिं कृत्वाऽवस्येत् । पुनः शान्तिं कृत्वोपक्रमेत् । प्रवर्ग्यवदादेश इत्येतदन्तं व्रतं कर्माङ्गं नाध्ययनाङ्गमिति मते प्राजापत्यकाण्डव्रतोपाकरणोत्सर्जनवदुपाकरणोत्सर्जने । केशश्मश्रुलोमनखवापनादिस्नानान्त आरुणकाण्डाध्ययनाधिकारार्थमारुण काण्डव्रतोपाकरणं करिष्य इति संकल्पवाक्यम् । आरुणकाण्डव्रतोपाकरणहोमकर्मणि० सदसस्पतिमाज्याहुत्याऽरुणाकाण्डर्षीनाज्याहुत्येति । अरुणान्काण्डर्षीनाज्याहुत्या सदसस्पतिमाज्याहुत्येति विपरीतं वेति चान्वाधाने । आरुणकाण्डव्रतोपाकरणप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अन्वाधानोत्कीर्तितपक्षानुसारेण सदसस्पतिहोमानन्तरं तत्पूर्वं वाऽरुणेभ्यः काण्डर्षिभ्यः स्वाहेत्याहुतिः । अरुणेभ्यः काण्डर्षिभ्य इदमिति त्यागः । इति होमे विशेषः । अन्यत्समानम् ।

 ततो दूर्वादर्भधारणादिमहानाम्नीभिरुदकस्पर्शनान्तं कृत्वा भद्रप्रपाठकमध्यापयेत् ।

 ततस्तूष्णीं मदन्त्युपस्पर्शनादि भूम्यालम्भनान्तं दूर्वादर्भधारणादि भूम्यालम्भनान्तं यावदध्ययनमहरहः कर्तव्यम् । न प्रत्यहं होमः । अ[३८]धीतेऽस्मिन्काण्ड उत्सर्जनम् । आरुणकाण्डाध्ययनार्थं स्वीकृतस्याऽऽरुणकाण्डव्रतस्योत्सर्जनं करिष्य इति संकल्पवाक्ये । आरुणकाण्डव्रतोत्सर्जनहोमकर्मणीत्यन्वाधाने । आरुणकाण्डव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । उपस्थानमन्त्रेषु अग्ने व्रतपत इत्येष एव प्रथमो मन्त्रः । नाऽऽदित्य व्रतपत इति । अन्ते कंसादिदक्षिणादानमिति प्रयोगः । यद्यालस्याद्विद्याकाले व्रतमकृतं चेत्तदाऽष्टोत्तरसहस्रमष्टोत्तरशतं वा गायत्र्याऽऽज्याहुतीर्हुत्वा कृच्छ्रं प्रायश्चित्तं कृत्वाऽऽरुणकेतुकस्य प्रथमाहारे व्रतं चरित्वा नियमपूर्वकमाचार्यसकाशात्सकृत्प्रपाठकमधीत्याग्निं प्रयुञ्ज्यात् । आरुणकेतुकस्याकर्तव्यतायामपि प्रायश्चित्तपूर्वकमुक्तनियमपूर्वकमाचार्यसकाशात्सकृत्प्रपाठकाध्ययनमावश्यकम् ।

इत्यारुणकाण्डव्रतप्रयोगः ।

 ततः सांहितीदेवतोपनिषदादीनामनन्तर्भावपक्ष एतान्यपि पृथक्पृथगुपाकृत्योत्सृजेत् । एतदध्ययने शान्त्युत्तरं "यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात्" इत्यारभ्य "श्रुतं मे गोपाय" इत्यन्तं पठित्वा शि[३९]ष्यमपि पाठयित्वाऽध्यापनं कुर्यात् । अन्ते पुनः पठित्वा पाठयित्वा शान्तिः ।  एतेषु व्रतेषु वक्ष्यमाणचौलकालनिर्णयवत्कालनिर्णयो द्रष्टव्यः,

"ग्रहनक्षत्रवारांशवर्गोदयनिरीक्षणम् ।
चौलवत्तु समाख्यातं सगोदानव्रतेषु च" इति श्रीधरोक्तेः ।

 व्रतेषु च व्रतेष्वपीत्यर्थः ।

 स्वकाले व्रतलोपे प्रायश्चित्तमाहात्रिः, व्रतलोपं प्रकृत्य--

"पिता भ्राताऽपरो वाऽपि प्राजापत्यत्रयं चरेत् " इति ।

 बटोरशक्तौ पित्रादीनामनुष्ठानं शक्तौ तु तेनैव कार्यम् ।

इति काण्डव्रतोत्सर्जनम् ।


अथ गोदानम् ।

 तच्च गृह्ये चौलातिदेशसौकर्यार्थमग्र उक्तमपि समावर्तनात्प्राक्कर्तव्यत्वादत्रैवोच्यते । न च गोदानातिदेश एव चौले कुतो न कृत इति तु न शङ्कनीयम् । गोदानसंस्कारस्य चौलोत्तरभावितयोत्तरसंस्कारस्य पूर्वसंस्कारे चौलेऽतिदेशासंभवात् ।

 तच्च गोदानं गृह्ये--

"एवं विहित षोडशे वर्षे गोदानकर्म सशिखं वापयति शिखामात्रावशिनष्टीत्येकेषामग्निगोदानो वा भवति गुरवे गां ददाति" इति ।

 यथा चूडाकर्मैवं विहितमुपनीतस्य षोडशे वर्षे गोदानकर्म स्यात् । तत्रैतावान्विशेषः । सशिखं शिखाभिः सह यथा स्यात्तथा शिरःस्थितान्केशान्वापयति मध्यमामपि शिखां नावशिनष्टीत्यर्थः । मध्यमां शिखामत्रावशिनष्टीत्येकेषां मतम् । अग्निकार्यमेव गोदानं यस्य सोऽग्निगोदानः । अग्निगोदानो वा कुमारो भवति । उपसमाधानादि पुण्याहवाचनान्तमग्निकार्यमेव वा भवतीत्यर्थः । गुरव आचार्याय गामुभयकल्पेऽप्यन्ते ददाति । न चाग्निगोदानो वा भवतीत्येतत्समीपे विहितत्वात्तत्कल्प एवैतद्दानमिति वाच्यम् । गोदानस्योभयकल्पेऽपि प्रवृत्तौ बाधकाभावेन समीपविधानरूपहेतुनैतत्कल्पाङ्गत्वनियमसाधनस्याप्रयोजकत्वात् । न चैवमग्निगोदानो वा भवतीत्येतस्मात्पूर्वमेव गुरवे गां ददातीति पठितव्यम् । उत्तरकल्पे त्वनुवृत्त्यैवैतत्प्राप्नोतीति वाच्यम् । अग्निगोदानो वा भवतीत्यनेन वपनस्येव गोदानस्यापि पूर्वं बाध एव प्रापित उत्तरकल्पेऽनुवृत्तेरेवासंभवात् । एतच्चोपनयनादूर्ध्वं षोडशे वर्षे कार्यम् । चौलवदस्मिन्नेव काल उपाकृत्य चरितव्यमिति ।  मनुरपि--

"केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः" इति ॥

 राजन्यबन्धुः क्षत्रियः । द्व्यधिके चतुर्विंश इत्यर्थः ।

 याज्ञवल्क्योऽपि--"केशान्तश्चैव षोडशे" इति ।

 केशान्तो गोदानाख्यं कर्म गर्भादारभ्य षोडशे वर्षे ब्राह्मणस्य भवति । एतच्च द्वादशवार्षिके वेदव्रते बोद्धव्यम् । इतरस्मिन्पक्षे यथासंभवं द्रष्टव्यम् । राजन्यवैश्ययोस्तूपनयनकालवद्द्वाविंशे चतुर्विंशे वा द्रष्टव्यमिति विज्ञानेश्वरः । गोदानमिति कर्मनामधेयं तत्प्रख्यन्यायात् । एतच्च यथाशक्तिब्रह्मचर्यपक्षेऽपकृष्य समावर्तनात्प्रागेव कर्तव्यं न तु षोडशवर्षप्रतीक्षेति बोध्यम् ।

अथ प्रयोगः ।

 आचार्यो ब्रह्मचारिसहितः कृतनित्यक्रियो वक्ष्यमाणचौलोक्ततिथ्यादिकाले प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यास्यामुकशर्मणो ब्रह्मचारिण आयुर्वर्चोभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं गोदानसंस्काराख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनादिनान्दीश्राद्धा[४०]न्तयुक्तरीत्या कुर्यात् । अत्र केशिनः प्रीय[४१]न्तामिति विशेषः, चौलधर्मत्वादेतस्य ।

 तत उल्लेखनादिविधिना स्थण्डिलसंस्कारादि विधाय तत्र सूर्यनामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा गोदानहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वाऽङ्गहोमे वरुणमित्यादि । नात्र वैशेषिकहोमः । जयादिहोमा वैकल्पिकाः । व्याहृतिहोमवारुण्यादिहोमा अत्र नियताः । एवमिति चौलातिदेशात्संस्थाजपान्तं समानम् ।

 ततस्त्रिवृदन्नहोमं पुण्याहादिवाचनान्तं विधाय प्रजापतिः प्रीयतामिति वदेत् ।

 ततोऽग्नेः पश्चात्स्वस्थाने ब्रह्मचारिणमुपवेश्य स्वयं तद्दक्षिणत उपविश्याग्नेर्ब्रह्मचारिणो वोत्तरतो धृतानडुहगोमयं ब्रह्मचारिमातरं धृतानडुहगोमयं[४२] यं कंचन ब्रह्मचारिणं वोपवेश्योष्णशीताभिरद्भिरुन्दनादिवपनान्तं वक्ष्यमाणचौलोक्तरीत्या कुर्यात् ।

 अत्रैतावान्विशेषः । चौले यथाचारं धृताभिः शिखाभिः सह मध्यमशिखाया अपि वापनम् । अथवा मध्यमशिखामवशेषयेत् । सशिखं वापयतीत्यशिखानां भृग्वादीनां शिखाधारणं विधातुमनुवादः । न तु सर्वेषां सशिखवप नविधिः । तथा च भृग्वादिगोत्रिव्यतिरिक्तानां सर्वेषां मध्यमशिखामवशेष्यैव वपनम् । भृग्वादिगोत्रिणां तु मध्यमशिखाया वपने विकल्प इति ज्ञेयम् ।

 ततः केशसंयमनादिकं वक्ष्यमाणचौलोक्तरीत्या कृत्वा सर्पिष्मन्तमोदनं नापिताय दत्त्वाऽऽचार्याय वरं दद्यात् ।

 ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।

 अग्निगोदानो वा भवतीत्यस्मिन्पक्षे पूर्ववत्संकल्पप्रभृति त्रिवृदन्नहोमं पुण्याहादिवाचनान्तं कृत्वा वरदानब्राह्मणभोजनाद्येव कार्यं न तु वपनम् । एतस्य कालात्यये चौलवत्प्रायश्चित्तं कृत्वा कर्तव्य[त्व]मेव न तु चौलवत्प्रायश्चित्तेन चरितार्थता । एतस्योपनयनोत्तरभावित्वात् ।

इति संस्काररत्नमालायां काण्डव्रतोपाकरणोत्सर्जनगोदानप्रयोगः।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिगणेशदीक्षि-
ततनूजभट्टगोपीनाथदीक्षितविरचितायां सत्याषाढ-
हिरण्यकेशिस्मार्तसंस्काररत्नमालायामष्टमं
प्रकरणम् ॥ ८॥

  1. दं धर्मस् ।
  2. ङ. त्वारि । ते ।
  3. ङ. स्मिन्पक्षे का ।
  4. ग. घ. ङ. ण्डर्षेयः प्रा ।
  5. ग. घ. ङ. स्मिन्नपि कल्पे ।
  6. क. ख. ग. घ. पूर्वत ।
  7. क. त्तरत ।
  8. ग. घ. कल्पोक्त ।
  9. क. ग. यक्ष्ये । अ ।
  10. क. दिनाऽन्वा ।
  11. क. तिमि ।
  12. घ. धानहो ।
  13. क. र्जने हो ।
  14. क. स्य का ।
  15. घ. ङ. र्वे. प्राजापत्यका ।
  16. क. त्या यक्ष्येऽग्निं ।
  17. क. हुत्या यक्ष्य इति ।
  18. क. त्या यक्ष्ये वि ।
  19. क. हुत्या यक्ष्य इति ।
  20. क. त्या यक्ष्ये स्व ।
  21. क. हुत्या यक्ष्य इति ।
  22. क. वाक्यम् । स्वा ।
  23. घ. ङ. देव्यन्तं वो ।
  24. क. ति सो ।
  25. क. ति सो ।
  26. घ. ङ. रुणमि ।
  27. घ. ङ. ज्ञिक्यो देवता उ ।
  28. घ. ङ. दं० । स्वयंभुवे काण्डर्षये स्वाहा । स्वयंभुवे काण्डर्षय इदं० । स्वा ।
  29. घ. ङ. रुणमि ।
  30. क. देवीत्यन्तं ।
  31. घ. ङ. रुणमि ।
  32. क. ग. गः । अरु ।
  33. घ. त् । भद्रप्रपाठकान्ध ।
  34. क. र्त्यामु ।
  35. घ. दण्डं च तूष्णी ।
  36. घ. ङ. सिनमपि ।
  37. घ. ङ. भवन्तु ।
  38. ङ. धीते तस्मि ।
  39. ख. ङ. शिष्येणापि ।
  40. घ. द्धान्तं कृत्वोक्त ।
  41. ग. घ. यतामि ।
  42. क. यं क ।