संस्काररत्नमाला (भागः १)/एकादशं प्रकरणम्

               




   

अथैकादशं प्रकरणम्

अथ समावृत्तस्य केचन काम्यविधयः ।

 योऽयममात्यमन्तेवासिनं कर्मकरं वा कामयेत नित्योऽनपक्रमणीयो मम स्यादिति स पूर्वाह्णे स्नातः शुद्धवस्त्रः कृत्स्नमहरनश्नन्ब्राह्मणेनैव संभाषमाणो निशायामष्टमे मुहूर्ते प्रदोषान्ते वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममामात्यस्यान्तेवासिनः कर्मकरस्य वाऽनपक्रमणीयत्वसिद्ध्यर्थं गृह्योक्तं कर्म करिष्य इति संकल्प्य यदुद्देश्यकमनपक्रमणीयत्वं तस्याऽऽवासं गत्वा जीवतः पशोः शृङ्गं उदकं गृहीत्वा 'ॐ परि त्वा गिरे इहमिदं परिभ्रातुः परिप्वसुः परि सर्वेभ्यो ज्ञातिभ्यः परिषीदः क्लेष्यसि शश्वत्परिकुपिलेन संक्रामेणाविच्छिदाकुलेन परिमीढोऽसि परिमीढोऽस्थूलेन' इति मन्त्राभ्यां शृङ्गच्छिद्रेणोदकं प्रस्रावयन्नावसथं त्रिः प्रदक्षिणं परिक्रामति । सकृन्मन्त्राभ्यां द्विस्तूष्णीम् । तज्जीवशृङ्गं गृहाद्बहिः केनचिदप्यपरिगृहीते देशे गुप्तं निधापयति स्वयं वा निदधाति ।

 यस्यामात्यादय उच्छिष्टनिमित्तं द्रवेयुः सः--

'अनुपौह्वदनुपह्वयेन्निवर्तो योन्यवीवृधः । ऐन्द्रो वः परिक्रोशः परिक्रोशतु सर्वदा । यदिति मामिति मन्यायध्वं माया देवा अवत्तरम् । इन्द्रः पाशो नवः सिक्त्वा मह्यं पुनरुदाजतु' [ इति ] तान्सर्वत आह्वयेत् ।

 ततः स्वागारं प्रविश्योल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय तत्र पावकनामानं लौकिकाग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वाऽमात्यस्यान्तेवासिनः कर्मकरस्य वाऽनपक्रमणीयत्वसिद्ध्यर्थं होमकर्मणि या यक्ष्यमाणा देवता तां परिग्रहीष्यामि । इन्द्रमाज्याहुत्या यक्ष्ये । एतां देवतां सद्यो यक्ष्य इत्युक्त्वा समिधोऽग्नावभ्याधायाग्निं परिस्तीर्याग्नेरुत्तरतो दर्भान्संस्तीर्य तत्र पात्राण्यासादयेत् । दर्वीं गर्तवत्फलकं वाऽऽज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भान्बहिराज्यं सैध्रकीं प्रादेशमात्रीं समिधं चेत्यासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य दर्वीं निष्टप्य संमृज्य पुनर्निष्टप्य निदधाति । यदि तु फलकमासादितं न तु दर्वी तदा तस्यापि निष्टपनादि ।

 ततः संमार्गदर्भानभ्युक्ष्याग्नावनुप्रहृत्याऽऽज्यविलापनादि पवित्रे अग्नावाधायेत्यन्तं कृत्वाऽदितेऽनुमन्यस्वेत्यादिभिरग्निं परिषिच्याऽऽसादितां सैध्रकीं समिधं तूष्णीमग्नावभ्याधाय, आवर्तन वर्तयेत्यस्य सोम इन्द्रः पङ्क्तिः । अनपक्रमणीयत्वसिद्ध्यर्थं होमे विनियोगः । 'ॐ आवर्तन वर्तय नि निवर्तन वर्तयेन्द्र नर्तबुद । भूम्याश्चतस्रः प्रतिशस्ताभिरावर्तया पुनः स्वाहा' [ इति ] आसादितेन दर्वीफलकान्यतमेनैकामाज्याहुतिं जुहोति । इन्द्रायेदमिति त्यागः ।

 ततः परिस्तरणानि विसृज्य साङ्गतासिद्ध्यर्थं सर्वप्रायश्चित्तं हुत्वाऽदितेऽन्वम स्था इत्याद्यैः परिषिच्य संस्थाजपेनोपस्थायाग्निं संपूज्य विष्णुं संस्मरेत् ।

अथाऽऽघारवत्तन्त्रेण प्रयोगः ।

 उल्लेखनादिप्राणायामान्तं कृत्वाऽनपक्रमणीयत्वसिद्ध्यर्थहोमकर्मणि या यक्ष्यमाणेत्यादि प्रसाधनीदेवीहोमान्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे, इन्द्रमाज्याहुत्या यक्ष्य इत्युक्त्वाऽग्निं स्विष्टकृतं हुतशिष्टाज्याहुत्या यक्ष्य इत्यादि, अङ्गहोमे वरुणमित्यादि वा प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वाऽन्वाधानोत्कीर्तनानुसारेण कृत्वा सैध्रकी(क)समिदभ्याधानान्ते पूर्ववत्प्रधानाहुतिं हुत्वा स्विष्टकृदादि, इमं मे वरुणेत्यादि वा कर्मशेषं समापयेत् । न त्रिवृदन्नहोमः । न वाऽत्राऽऽघारवत्तन्त्रम् ।

अथाऽऽग्निहोत्रिकतन्त्रेण प्रयोगः ।

 उल्लेखनादिविधिना केवलेन धर्मसूत्रोक्तेन विधिनैव वा स्थण्डिलसंस्कारं विधाय लौकिकाग्निं तत्र प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वाऽग्निं परिस्तीर्योत्तरेणाग्निं दर्भान्संस्तीर्य तेषु स्रुक्स्रुवौ[१] वा फलकस्रुवौ वाऽऽज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानाज्यं सैध्रकीं प्रादेशमात्रीं समिधं चाऽऽसाद्य पवित्रकरणादि पवित्रे अग्नावाधायेत्यन्तं कृत्वाऽग्निं तूष्णीं परिषिच्य स्रुचि दर्व्यां फलके वा चतुर्वारमाज्यं सूत्रेण गृहीत्वा सैध्रकीं समिधमाधाय, आवर्तन वर्तयेत्यस्य सोम इन्द्रः पङ्क्तिः । अनपक्रमणीयत्वसिद्ध्यर्थहोमे विनियोगः । 'ॐ आवर्तन वर्तय० रावर्तया पुनः स्वाहा' इति जुहोति । पुनः सकृद्गृहीत्वा 'ॐ अग्नये स्विष्टकृते स्वाहा' इति जुहोति । अग्नये स्विष्ट० ।

 ततः स्थालीस्थमाज्यं पात्रान्तरे गृहीत्वाऽग्निहोत्रवत्त्रिः प्राश्य होमसाधनं दर्भैः प्रक्षालयति । ततः परिस्तरणानि विसृज्य विष्णुं संस्मरेत् ।

अथ दारगुप्तिः ।

 जारी[२] दारगुप्तिकर्म करिष्य इति संकल्प्य जारी स्थूला[३](ल)दृढा[४]चूर्णानि कारयित्वा तान्यादाय 'ॐ इन्द्राय यास्यशेफमलिकमन्येभ्यः पुरुषेभ्योऽन्यत्र मत्' इति मन्त्रेण सुप्ताया व्यभिचारिण्या योन्यामुपवपेत् । देशान्तरे जिगमिषुणैतत्कर्तव्यम् । देशान्तरादागत्य बभ्रुमूत्रेण योनिं प्रक्षालयेत् । उपगमनसमर्था योनिर्भवतीत्युपदिशन्त्याचार्याः । जारोऽस्यास्तीति जारी । दारगुप्तिर्दारेषु स्वस्त्रियां परपुरुषसंभवशुक्रासंभवरूपा गुप्तिस्तदर्थम् । दृढा गौलिकाख्यसरीसृपविशेषस्य नाम । या शतचरणा नाम । स्थूला(ल)दृढेत्यत्र स्थूला(ल)ढारिकेत्यापस्तम्बपाठः । सोऽप्येतदर्थक एव । सा च शतचरणा द्विविधा । ग्राम्याऽऽरण्या च । तयोरारण्या स्थूला ग्राम्या तु तन्वी । तन्व्या निवृत्त्यर्थं स्थूलेति विशेषणम् । चूर्णानीति बहुवचनाद्बह्व्यः । तासामश्मादिना महता प्रहारेण मार्यमा णानां चूर्णानि कारयित्वा सुप्ताया योनावुपवपेत् । एवं कृते परपुरुषस्य योनिरुपभोग्या न भवति । पुनरागत्य स्वोपभोगयोग्यत्वार्थं बभ्रुमूत्रेण कपिलागोमूत्रेण प्रक्षालयेत् । अनेनोपभोगयोग्या भवति ।

 स्पष्टं चैतदापस्तम्बेनोक्तम्--

"असंभवेप्सुः परेषां स्थूला(ल)ढारिकाजीवचूर्णानि कारयित्वोत्तरया
सुप्तायाः संबाध उपवपेत्सिद्ध्यर्थे बभ्रुमूत्रेण प्रक्षालयीत" इति ।

 असंभवेप्सुः परपुरुषशुक्रासंभवेप्सुर्जीवचूर्णानि जीवन्तीनां स्थू[५]लढारिकाणां चूर्णान्यन्येन कारयित्वाऽवज्यामिव धन्वनेत्येतया सुप्ताया भार्यायाः संबाधे योनावुपवपेत् । स्वशुक्रसंभवसिद्ध्यर्थे बभ्रुमूत्रेण कपिलागोमूत्रेण प्रक्षालयीतेति व्याख्यातं तद्भाष्ये । अवज्यामित्यापस्तम्बानामेव । स्वसूत्रे मन्त्रस्य सत्त्वात् ।

अथ पण्यसिद्धिः ।

 महर्घविक्रय आशुविक्रयश्च पण्यसिद्धिः । पण्यसिद्ध्यर्थं कर्म करिष्य इति संकल्प्योल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय लौकिकाग्निस्थापनं तत्र कुर्यात् । औपासने होमक्रियापक्षे नोल्लेखनादिस्थापनान्तं कर्म ।

 ततः समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा पण्यसिद्ध्यर्थहोमकर्मणि या यक्ष्यमाणा देवतास्ताः परिग्रहीष्यामि । यद्वो देवाः प्रपणमिति मन्त्रेण देवान्सोममग्निमिन्द्रं बृहस्पतिमीशानं च सर्वहोमार्हपण्यद्रव्यैकदेशद्रव्याहुत्या यक्ष्ये । एता देवताः सद्यो यक्ष्य इत्युक्त्वा समिधोऽभ्याधायाग्निं परिस्तीर्याग्नेरुत्तरतो दर्भानास्तीर्य तेषु दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भान्बर्हिः पालाशीं समिधमाज्यं होमद्रव्यं चाऽऽसाद्य पवित्रकरणाद्याज्यसंस्कारान्तं कुर्यात् । आज्यपर्यग्निकरणकाले होमद्रव्यस्यापि पर्यग्निकरणम् । नात्र सैध्रकी(क)समिदभ्याधानमवचनात् ।

 ततो होमद्रव्यमभिघार्याग्नेः पश्चाद्बर्हिरास्तीर्य तत्र होमद्रव्यमासाद्यादितइत्यादिभिरग्निं परिषिच्य 'ॐ यद्वो देवाः प्रपणं चराम देवा धनेन धनमिच्छमानाः । तस्मिन्सोमो रुचमादधात्वग्निरिन्द्रो बृहस्पतिरीशानश्च स्वाहा' इति दर्व्या होमार्हपण्यद्रव्यैकदेशमुद्धृत्य तेनैकामाहुतिं जुहोति । देवेभ्य सोमायाग्नय इन्द्राय बृहस्पतय ईशानाय चेदं० ।  ततः परिस्तरणानि विसृज्य सर्वप्रायश्चित्तं हुत्वाऽदितेऽन्वम स्था इत्यादिभिरग्निं परिषिच्य तं संपूज्य संस्थाजपेनोपस्थाय कर्मेश्वरायार्पयेत् ।

 अथवा यावद्विक्रेतव्यं तावदपादाय विक्रयार्थं जिगमिषुरेतामाहुतिमाज्येन हुत्वा गच्छेत् । अस्मिन्पक्षेऽन्वाधाने सर्वहोमार्हपण्यद्रव्यैकदेशद्रव्याहुत्येत्येतस्य स्थान आज्याहुत्येति वदेत् । पण्यद्रव्यैकदेशद्रव्यस्य नाऽऽसादनपर्यग्निकरणे आज्यहोमपक्ष इति द्रष्टव्यम् । आपूर्विकतन्त्रेण वा प्रयोगोऽत्र । एतच्च वैश्यकर्म । आपदि पण्येन जीवतां विप्राणां क्षत्रियाणां च ।

अथ क्रोधविनयनम् ।

 तच्च बलवतः क्रुध्यतः क्रोधस्योपशमरूपम् । क्रोधविनयनाख्यं कर्म करिष्य इति संकल्प्य, "ॐ या त एषा रराट्या तनूर्मन्योर्मृद्वस्य नाशिनी । तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः । यत एतन्मुखे मत रराटमुदिव विध्यसि । अव द्यामिव धन्विनो हृदो मन्युं तनोमि ते । अहर्द्यौश्च पृथिवी च विधे क्रोधं नयामसि गर्भमश्वतर्या इव" इति क्रुद्धं बलवन्तं पुरुषमभिमन्त्रयते ।

अथ संवादाभिजयनम् ।

 द्रव्यविषयो ज्ञानविषयो वा विवादः संवादस्तस्याभिजयनम् । अभिभूय प्रतिवादिनमात्मनो जयं य इच्छेत्स एतत्कर्म कुर्यात् । पराजितः पुरुषः प्रत्यासन्ने पराजयकाले कस्यांचिन्निशायां गृहमध्य उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य संवादाभिजयनाख्यं कर्म करिष्य इति संकल्प्योल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय लौकिकाग्निं तत्र प्रतिष्ठापयेत् । औपासने होमक्रियापक्षे नोल्लेखनादि स्थापनान्तम् ।

 ततोऽग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा संवादाभिजयनहोमकर्मणि या यक्ष्यमाणा देवता इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमे, अग्निमवजिह्वेतिमन्त्रेणाऽऽज्याभ्यक्तकरवीरबीजत्रयात्मकद्रव्याहुत्या यक्ष्य इत्युक्त्वाऽङ्गहोमे वरुणमित्यादि अग्निं स्विष्टकृतं हुतशेषाज्याहुत्या यक्ष्य इत्यादि वाऽन्वाधानसमिदभ्याधानान्तं कृत्वाऽग्निं परिस्तीर्य ब्रह्मासनं कल्पयित्वाऽऽत्मन्यग्निं गृहीत्वोत्तरेणाग्निं दर्भान्संस्तीर्य तेषु दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानाज्यमिध्मं बर्हिर्बीजत्रयं चेत्यासाद्य ब्रह्माणं दक्षिणत उपवेश्य पवित्रकरणादि व्याहृतिहोमान्तं कुर्यात् । आज्यपर्यग्निकरणकाले बीजत्रयस्यापि पर्यग्निकरणमिति विशेषः ।

 ततो व्याहृतिहोमान्त आसादितं करवीरबीजत्रयं संस्कृताज्येनाभ्यक्तं कृत्वा'ॐ अव जिह्व निजिह्विकाव त्वा हविषा यजे यथाऽहमुत्तरो वदाम्यधरोवदसौ [६]वद स्वाहा' इति तेन बीजत्रयेण हस्तेनैकामाहुतिं जुहोति । अग्नय इदं न मम । असावित्यस्य स्थाने प्रथमया विभक्त्या वादिनो नाम्नो ग्रहणम् ।

 ततोऽङ्गहोमादि स्विष्टकृदादि वा होमशेषं समापयेत् । अत्राऽऽज्येनैव स्विष्टकृत् ।

ततः-- 'ॐ आ ते वाचमास्याददे मनस्या हृदयादधि । अङ्गादङ्गात्ते वाचमाददे यत्र यत्र निहिता वाक्तां त आददे । रुद्रनीलशिखण्डवीरकर्मणि कर्मणीमं मे प्रतिसंवादिनं वृक्षमिवाशनिना जहि । अधोवदाधरोवदाधस्ताद्भूम्यावद अधोप्रतिरिव कूटेन निजस्य निहतो मया तत्सत्यं यदहं ब्रवीम्यधरो मत्पद्यस्वामुकशर्मन्'

 इति वादिनमभिवीक्षमाणो जपति । अत्राप्यसौशब्दस्थाने वादिन एव नामग्रहणम् ।

ॐ हिरण्यबाहुः सुभगा जिताक्ष्यलंकृता मध्ये देवानामासीनाऽर्थं मह्यमवोचत्स्वाहा' ।

 इति सभायां संभावितं पुरुषमासीनं क्वचित्प्रदेश उपस्पृशञ्जपति ।

'ॐ मम परे ममापरे ममेयं पृथिवी मही । ममाग्निश्चेन्द्रश्च दिव्यमर्थमसाधयन्निव' ।

 [ इति ] सभ्यान्पुरुषानभिवीक्षते । एवं कुर्वाणः प्रतिवादिनमभिजयत्येव ।


अथ नैमित्तिकानि कर्माणि ।

तत्रेदं गृह्यम्--'दर्शे चन्द्रमसं दृष्ट्वा' इत्यादि ।

 सिनीवाल्याख्याममावास्यायाममावास्यासमीपवर्तिन्यां प्रतिपदि वा चन्द्रमसं दृष्ट्वा कर्मार्थं शुद्धोऽप्यप आचम्याञ्जलिनाऽपो धारयमाणः, आप्यायस्व सन्त इत्यनयोरग्निर्ऋषिः । सोमो देवता । प्रथमस्य गायत्री । द्वितीयस्य त्रिष्टुप् । नवो नवो यमादित्या इत्यनयोर्विश्वे देवा आदित्यास्त्रिष्टुप् । चन्द्रमस उपस्थाने विनियोगः । 'ॐ आप्यायस्व समेतु ते० संगथे' । 'ॐ सन्ते पया सि० धिष्व' । 'ॐ नवो नवो भवति० दीर्घमायुः । 'ॐ यमादित्या अशु० स्य गोपाः' इति चतसृभिश्चन्द्रमसमुपतिष्ठते ।

 मयि दक्षक्रतू इति मन्त्रस्य प्रजापतिर्दशक्रतू यजुः । जपे विनियोगः। 'ॐ मयि दक्षक्रतू' इति जञ्जभ्यमानो जपति । इदं च पुरुषार्थं कर्मार्थं च । सर्वेषामेतद्भवति । श्रौतेऽपीदं कार्यम् ।

"सिगसिनसि वज्रो नमस्ते अस्तु मा मा हि सीः"

 इत्यन्यस्योत्तरीयवाससः प्रान्तेनाधिक्षिप्तो जपति । पुनः पुनर्जपतीतिवचनं कर्मभेदबोधनार्थम् ।

 ततस्तस्य वाससस्तन्तुमाच्छिद्य मुखवातेन तूष्णीमेव प्रध्वंसयेत् ।

"ॐ ये पक्षिणः प्र[७]वदन्ति बिभ्यतो निर्ऋतैः सह ।
ते मा शिवेन शमेन तेजसोन्दन्तु वर्चसा" ।

 इति पक्षिणा तन्मूत्रेण पुरीषेण वोपरिक्षिप्तो जपति । तद्वस्त्रादिना प्रमृज्याद्भिस्तत्स्थानं प्रक्षालयीत ।

"ॐ दिवो नु मा बृहतो अन्तरिक्षादपा स्तोको अभ्यपतच्छिवाय समिन्द्रियेण मनसाऽहमागां ब्रह्मणा गुप्तः सुकृता कृतेन" । इत्यविज्ञातेनोदकबिन्दुनोपरिक्षिप्तो जपति ।
" ॐ यद्वृक्षाग्रादभ्यपतत्फलं यद्वाऽन्तरिक्षात्तदु वायुरेव । यत्रा वृक्षस्तनु वै यत्र वास आपो बाधन्तां निर्ऋतिं पराचैः" । इति यदि फलमविज्ञातमुपरि पतेत्तदा जपति ।

"ॐ नमः प[८]थिपदे वातेषवे रुद्राय नमो रुद्राय प[९]थिषदे" ।

 इति चतुष्पथमवक्रम्य जपति ।

"ॐ नमः पशुपदे वातेषवे रुद्राय नमो रुद्राय पशुषदे" |

 इति शकृद्धताववक्रम्य जपति ।

"नमः सर्पसृते वातेषवे रुद्राय नमो रुद्राय सर्पसृते"

 इति सर्वाधिष्ठानलङ्घने जपति ।

"ॐ नमोऽन्तरिक्षसदे वातेषवे रुद्राय नमो रुद्रायान्तरिक्षसदे"।

 इति यदि मण्डलीभूतो वात आगच्छेत्तदा जपति ।

"ॐ नमोऽप्सुषदे वातेषवे रुद्राय नमो रुद्रायाप्सुषदे" ।

 इति नदीमुदकवतीमवगाह्य जपति ।

"ॐ नमस्तत्सदे वातेषवे रुद्राय नमो रुद्राय तत्सदे" ।

 इति पूजनीयं संनिहितदेवताकं देशं यज्ञभूमिं वृक्षं पुराणं वाभिलक्षितमाक्रम्य जपति ।

 यदि सूर्योदयकाले स्वापं कुर्यात्तदा संपूर्णं तं दिवसमनश्नन्वाग्यतस्तिष्ठेत् । इदमेव प्रायश्चित्तम् । श्रान्तस्य व्याधितस्य च नेदं भवति ।

  यद्यस्तमयकाले स्वापं कुर्यात्तदा तां संपूर्णां रात्रिमनश्नन्वाग्यतस्तिष्ठेत् । अशक्तस्योभयत्रानशनमात्रं प्राणायामो वा । समाप्ते यज्ञे यूपं नोपस्पृशेत् । अनूबन्ध्याया अकरणेऽवभृथादारभ्य नोपस्पृशेत् । यदि स्पृशेदेष ते वायो, इति पठेत् । एतच्चैकयूपस्पर्शे । द्वयोर्यूपयोः स्पर्शे तु--एतौ ते वायू इति पठेत् । बहूनां यूपानां स्पर्शे तु-- एते ते वायव इति पठेत् ।

"चैत्यवृक्षश्चितिर्यूपश्चण्डालः सोमविक्रयी ।
एतांस्तु ब्राह्मणः स्पृष्ट्वा सवासा जलमाविशेत्" इति पराशरोक्तेः ।

 स्नानमादौ कृत्वाऽनन्तरं पाठः कार्यः । ब्राह्मणग्रहणं क्षत्रि[१०]यादीनामुपलक्षणम् ।

"अनिहूतं परिहूतं परिष्टुत शकुनैरुदितं च यत् ।
मृगस्य शतमक्ष्णया तद्द्विपद्भ्यो [११]भयामसि" ॥

 इतीष्टं देशं प्रत्यध्वानं गन्तुमारभमाणो जपति ।

"ॐ उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु श ससि ।
स्वस्ति नः शकुने अस्तु शिवो नः सुमना भव" ॥

 इत्यनिष्टं शकुनमुपलभ्य तद्दोषशमनार्थं जपति । साम गायसीतिलिङ्गाद्वाक्श्रवण एवेदमित्येके । अस्य स्तुत्यर्थत्वात्सर्वत्रेत्यन्ये ।

 यदेतद्भूतानीत्यस्य सोम एकसृको भूरिगनुष्टुप् जपे विनियोगः । "ॐ यदेतद्भूतान्यन्वाविश्य देवीं वाचं वदसि । द्विषतो नः परा वद तान्मृत्यो मृत्यवे नय"

 इत्येकसृकं वाश्यमानं प्रति जपति । सृगालो मृगशब्दं कुर्वाण एकसृगित्युच्यते ।

 ततोऽग्रे अग्निना संवदस्वेत्यस्य सोमोऽग्निरेकपदा भूरिग्गायत्री भूरिगनुष्टुब्वा यजुर्वा । उल्मुकनिरसने विनियोगः "ॐ अग्ने अग्निना संवदस्व मृत्यो मृत्युना संवदस्व" । इत्यधस्तादुपरिष्टाच्चाऽऽदीप्तमुल्मुकं यत्र शब्दं करोति तां दिशं प्रतिनिरस्याप उपस्पृश्य, विभूरसीत्यनुवाकमन्त्राणां सोमो मन्त्रोक्ता देवता यजूंषि । एकसृकोपस्थाने विनियोगः ।

"ॐ विभूरसि प्रवाहणो रौद्रेणानीकेन पाहि माऽग्ने पिपृहि मा मा मा हि सीः १ । ॐ वह्निरसि हव्यवाहनो रौ० २ । ॐ श्वात्रोऽसि प्रचेता रौ० ३ । ॐ तुथोऽसि विश्ववेदा रौ० ४ । ॐ उशिगसि कवी रौ० ५ । ॐ अङ्घारिरसि बंभारी रौ० ६ । ॐ अवस्युरसि दुवस्वान्रौ० ७ । ॐ शुन्ध्यूरसि मार्जालीयो रौ० ८ । ॐ सम्राडसि कृशानू रौ० ९ । ॐ परिषद्योऽसि पवमानो रौ० १० । ॐ प्रतक्वाऽसि नभस्वान्रौ० ११ । ॐ असंमृष्टोऽसि हव्यसूदो रौ० १२ । ॐ ऋतधामाऽसि सुवर्ज्योती रौ० १३ । ॐ ब्रह्मज्योतिरसि सुवर्धामा रौ० १४ । ॐ अजोऽस्येकपाद्रौ० १५ । ॐ अहिरसि बुध्नियो रौ० १६ ।"

 एतैः षोडशभिर्मन्त्रैरेकसृकमुपतिष्ठते । उल्मुकाभावे लुप्यत एतत् ।

 यदीषित इत्यस्य सोम इन्द्राग्नी निचृत्रिष्टुप् । जपे विनियोगः-- "ॐ यदीषितो यदि वा स्वकामी । भयेडको वदति वाचमेकाम् । तामिन्द्राग्नी ब्रह्मणा संविदानौ । शि[१२]वां नो रात्रिं कृणुतं गृहेषु" । इति सालावृकीं शब्दं कुर्वाणां प्रति जपति ।

 आरण्यशुनी सालावृकी । जातिमात्रं विवक्षितं न स्त्रीत्वमित्येके ।

 प्रसार्य सक्थ्यावित्यस्य सोमः शकुनिर्गायत्री । जपे विनियोगः--"ॐ प्रसार्य सक्थ्यौ पतसि सव्यमक्षि निपेपि च । मेह कस्य च नाम मत्" इत्यनभिप्रेते शकुनिशब्दे जपति । शकुनिर्वाङ्क्षः ।

 "ॐ हिरण्यपक्षः शकुनिर्देवानां वसतिंगमः । ग्रामं प्रदक्षिणं कृत्वा स्वस्ति नो वद कौशिक" इत्यनभिप्रेते पिङ्गलशब्दे जपति ।

अथाशुभस्वप्नदर्शननिमित्तको होमः ।

 अशुभस्वप्नदर्शननिमित्तं होमं करिष्य इति संकल्प्योल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय तत्र पावकनामानं लौकिकाग्निं प्रतिष्ठापयेत् । औपासने होमक्रियापक्षे नोल्लेखनादिस्थापनान्तं कर्म ।

 ततोऽग्निं प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वाऽशुभस्वप्नदर्शननिमित्तहोमकर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । अग्निमग्नीन्वैश्वानरं दिवं चैकैकयाऽऽज्यमिश्रिततिलाहुत्या यक्ष्ये । एता देवता सद्यो यक्ष्य इत्युक्त्वा समिधोऽभ्याधायाग्निं परिस्तीर्याग्नेरुत्तरतो दर्भान्संस्तीर्य तेषु दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भान्बर्हिरेकां समिधमाज्यं तिलांश्चाऽऽसादयेत् । हस्तेन होमपक्षे न दार्व्यासादनम् ।

 ततः पवित्रकरणादि पवित्रे अग्नावाधायेत्यन्तं कुर्यात् । आज्यपर्यग्निकरणकाले तिलानामपि पर्यग्निकरणम् । हस्तेन होमपक्षे दर्वीस्थाने दक्षिणं हस्तं सव्येनाऽऽज्यस्थालीं च सहैव निधाय प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भान्बर्हिरेकां समिधमाज्यं तिलांश्च दक्षिणहस्तेनैवाऽऽसादयेत् । सव्यहस्तेन कर्तुमशक्यत्वात् । पवित्रकरणादि पात्रप्रोक्षणान्तं कर्म दक्षिणहस्तेनैव । तत्राऽऽदौ दर्वीस्थले दक्षिणहस्तमुत्तानं निधाय सपवित्रेण सव्यहस्तेनान्येनाऽऽनीताभिः प्रोक्षणीपात्रस्थाभिरद्भिर्दक्षिणं हस्तं त्रिः प्रोक्ष्य सपवित्रेण दक्षिणहस्तेनाऽऽज्यस्थाल्यादिप्रोक्षणम् ।

 ततः सव्यहस्ते संमार्गदर्भान्गृहीत्वा दक्षिणं हस्तं संमार्गदर्भांश्च सहैव निष्टप्य सव्यहस्तेन जुहूवद्दर्भैर्दक्षिणं हस्तं संमृज्य पुनर्निष्टप्याग्नेः पश्चाद्दक्षिणं हस्तं संस्थाप्यैतेनैव संमार्गदर्भानग्नौ प्रहरति ।

 तत आज्यविलापनादि पवित्रे अग्नावाधायेत्यन्तं दक्षिणहस्तेनैव कृत्वा तिलान्संस्कृताज्येनाभ्यज्याग्नेः पश्चाद्बर्हिरास्तीर्य तत्र तिलान्निधायाग्निं परिषिच्य तूष्णीमेकां समिधमभ्याधाय दर्व्या घृताक्तांस्तिलान्सकृदुपहत्य,

 पुनर्मामैत्विन्द्रियमित्यस्यारुणा अग्निरनुष्टुप् । अशुभस्वप्नदर्शननिमित्तकहोमे विनियोगः । "ॐ पुनर्मामैत्विन्द्रियं पुनरायुः पुनर्भगः । पुनर्ब्राह्मणमैतु मा पुनर्द्रविणमैतु मा स्वाहा" अग्नय इदं० । "ॐ अथैते धिष्णियासो अग्नयो यथास्थानं कल्पन्तामिहैव स्वाहा" । अग्निभ्य इदं न मम । "ॐ पुनर्म आत्मा पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरो रश्मिभिर्वावृधानोऽन्तस्तिष्ठतु मे मनोऽमृतस्य केतुः स्वाहा" वैश्वानरायेदं न मम । "ॐ यदन्नमद्यते सायं न प्रातरवति क्षुधः । सर्वं तदस्मान्मा हि सीर्न हि तद्ददृशे दिवा स्वाहा" दिव इदं न मम । इत्येतैर्मन्त्रैस्तिलैश्चतस्र आहुतीर्जुहुयात् । हस्तेन वा होमः ।

 ततः परिस्तरणानि विसृज्योत्तरपरिषेकं कृत्वा विष्णुं संस्मरेत् । आघारवत्तन्त्रेण वा होमोऽयम् । अत्र व्याहृतिहोमवारुणीहोमादि वैकल्पिकम् । न त्रिवृदन्नहोमः । अन्यत्समानम् ।

 अद्या नो देव सवितर्विश्वानि देव सवितरितिद्वाभ्यां सूर्योपस्थानमपि कार्यं बौधायनोक्तेः । अनयोर्विश्वे देवा ऋषयः । सूर्यो देवता । गायत्री छन्दः । सूर्योपस्थाने विनियोगः । इत्यृष्यादि द्रष्टव्यम् ।

अथाद्भुतप्रायश्चित्तानि ।

तत्र सूत्रम्--
"कुप्त्वा कपोत उपाविक्षन्मध्वगार उपाविक्षद्गौर्गां धयेत्स्थूणा व्यरौक्षीद्वल्मीक उदैक्षीदित्येवंरूपाणि" इति ।

 कुप्त्वा कोपं कृत्वा । कपोत आरण्यपारावतः। उपाविक्षदध्यासितवानगार इति शेषः । मधुकरीभिर्मक्षिकाभिः क्रियमाणं मधु अगार उपाविक्षदुपविष्टमभवत् । गौर्वत्सादन्या गामधैषीत्पीतवती । स्थूणा व्यरौक्षीगृहोपरि रूढवती । वल्मीक उदैक्षीद्गृह उद्भूतमभवत् । इत्येवंरूपाणि, एवंप्रकाराण्यद्भुतानि । एतान्यन्यानि च यस्य गृहे भवन्ति स वक्ष्यमाणं कर्म कुर्यादित्यर्थः ।

 कर्ता पूर्वाह्णे स्नातः शुद्धवस्त्रोहः क्षान्तो ब्राह्मणेनैव संभाषमाणो गृहमध्य उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममागारे कपोतप्रवेशसूचिता[१३]रिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं गृह्योक्तं कर्म करिष्य इति संकल्प्य गृहमध्य एवोल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय तत्र वरदनामानं लौकिकाग्निं प्रतिष्ठापयेत् । औपासने होमक्रियापक्षे नोल्लेखनादिप्रतिष्ठापनान्तम् ।

 ततोऽग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा कपोतप्रवेशसूचितारिष्टपरिहारार्थे होमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वाऽङ्गहोमे वरुणमित्यादि व्याहृतिहोमान्तं कृत्वा वारुणीहोमादि पूर्णपात्रदानान्तं कुर्यात् । अत्रैके जयाभ्यातानानित्यस्मिन्सूत्रेऽत्रेतिवचनमेवंरूपेषु महत्स्वद्भुतेष्वेव यथा स्युर्नाद्भुतेष्वल्पेष्वित्येतदर्थम् ।

 ततस्त्रिदन्नहोमं पुण्याहवाचनान्तं कुर्यात् । ममागारे मधूपवेशनसूचितारिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं गृह्योक्तं कर्म करिष्ये । वत्सव्यतिरिक्तगोकृतगोस्तनपानसूचितारिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं गृह्योक्तं कर्म करिष्ये । मम गृहे वल्मीकोद्भूतिसूचितारिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं गृह्योक्तं कर्म करिष्य इति तत्तन्निमित्तानुसारेण संकल्पाः कार्याः ।

 गौर्गां धयेदित्येतस्मिन्नद्भुते विशेषः । "ॐ इद्राग्नी वः प्रस्थापयतामश्विनावभिरक्षताम् । बृहस्पतिर्वो गोपालः पूषा वः पुनरुदाजतु" इति गाः प्रतिष्ठमाना अनुमन्त्रयते ।

 पूषा गा इत्यस्य विश्वे देवाः पूषा गायत्री । गवानुमन्त्रणे विनियोगः । “ॐ पूषा गा अन्वेतु नः० नोतु नः" इत्यनेन मन्त्रेण वा प्रतिष्ठमानानां गवामनुमन्त्रणम् ।

 "ॐ इमा या गाव आगमन्नयक्ष्मा बहुसूवरीः । नद्य इव स्रवन्तु समुद्र इव निषिञ्चतु" इति गा आयतीः प्रतीक्षते ।

 "ॐ स स्थाः स्थ संस्था वो भूयास्थाच्युताः स्थ मा मा च्योढ्वं माऽहं भगवतीभ्यश्चयौषीः" इत्यागत्यैकत्रावस्थिता गा अनुमन्त्रयते ।

 ऊर्जा वः पश्यामि सहस्रपोषमित्यनयोरग्निर्गा यजुः । गोष्ठगतगोप्रतीक्षणे विनियोगः । "ॐ ऊर्जा वः पश्याम्यू० रामदः" "ॐ सहस्रपोषं० यः श्रयन्ताम्" इति द्वाभ्यां गोष्ठगता गाः प्रतीक्षते ।

 अथवा सहस्रपोषं वः पुष्यासमित्येतावानेव मन्त्रो न तु श्रयन्तामित्येतदन्तः ।

 ततो गवां मध्य उल्लेखनादिविधिना संस्कृत आयतने पावकनामानं लौकिकाग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यायेत् । औपासने होमक्रियापक्षे नोल्लेखनादि प्रतिष्ठापनान्तम् ।

 ततः समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा वत्सव्यतिरिक्तगोकृतगोस्तनपानसूचितगवारिष्टपरिहारार्थहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमे, जातवेदसं द्वाभ्यां पयआहुतिभ्यां यक्ष्ये । पावकं द्वाभ्यां पयआहुतिभ्यां यक्ष्ये । अङ्ग होमे वरुणमित्यादि पवित्राभ्याधानान्तं कर्म कुर्यात् । तत्राऽऽज्यपर्यग्निकरणकाले पयसोऽपि पर्यग्निकरणमिति विशेषः ।

 ततः परिधिपरिधानादिव्याहृतिहोमान्तं कर्म कुर्यात् । ततः प्रधानहोमः ।

 उद्दीप्यस्व मा नो हिं सीदित्यनयोर्याज्ञिक्यो देवता उपनिषदो जातवेदा अनुष्टुप् । गोकृतगोस्तनपानसूचितगवारिष्टपरिहारार्थकर्मप्रधानपयोहोमे विनियोगः । "ॐ उद्दीप्यस्व जात० शो दिश स्वाहा" जातवेदस इदं न मम । "ॐ मा नो हि सीज्जात० पातय स्वाहा" जातवेदस इदं न मम ।

 अपामिदं न्ययनं नमस्ते हरस इत्यनयोरग्निः पावको बृहती । गोकृतगोस्तनपानसूचितगवारिष्टपरिहारार्थकर्मप्रधानपयोहोमे विनियोगः । "ॐ अपामिदं न्य० वो भव स्वाहा" पावकायेदं न मम । "ॐ नमस्ते ह० भव स्वाहा" पावकायेदं न मम ।  तत इमं मे वरुणेत्यादि । आज्येनैव स्विष्टकृत् । अथ(आज्य)शब्दाभावात्पयसेति केचित् । पूर्णपात्रदानान्तं समानम् । नात्र त्रिवृदन्नहोमः ।

 ततोऽग्निं संपूज्य ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् । पूर्वं कर्म गौर्गां धयेदित्येतदद्भुतसूचितस्य गोस्वामिनोऽरिष्टस्य परिहाराय । इदं तु तत्सूचितगवानिष्टपरिहाराय विधीयते ।

 यदि द्वावेव गावौ तदा मन्त्रेषूहः । इन्द्राग्नी वां बृहस्पतिर्वां गोपालः पूषा वां पुनरुदाजतु । पूषा गावौ । इमे ये गावावगमतामयक्ष्मे बहुसूवर्यौ स स्थे स्थः स स्थे वां भूयास्थोऽच्युते स्थो मा मा च्योषाथां माऽहं भगवतीभ्यां च्यौषीः । ऊर्जा वां पश्याम्षूर्जा मा पश्यतं० सहस्रपोषं वां पुष्यासमित्येवमूहः ।

 अथवा बहुवचनान्ता एव मन्त्राः पूजार्थत्वात् । अत्रात्रग्रहणं बहूनां गवामनिष्टपरिहारार्थे होम एव जयादयः स्युर्न गोद्वयानिष्टपरिहारार्थ इत्येतदर्थम् ।

इति संस्काररत्नमालायां काम्यविध्यादि ।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायामेकादशं प्रकरणम् ॥ ११ ॥

  1. क. ख. वौ दर्वीस्रुवौ वा ।
  2. ग. घ. ङ. री, आचम्य प्राणानायम्य दा ।
  3. क. ख. लाढारिकाचू । ग. लादृढचू ।
  4. ङ. ढाश्चूर्णा ।
  5. क.ख. स्थलाढा ।
  6. 'वदा' इति क. पुस्तकशोधितपाठः ।
  7. क. पतयन्ति ।
  8. ख. ग. घ. ङ. पृथिविषदे ।
  9. ख. ग. घ. ङ. पृथिविषदे ।
  10. ग. घ. ङ. त्रियवैश्ययोरुप ।
  11. ख. ग. घ. ङ. भवाम ।
  12. ङ. शिवामस्मभ्यं कृ ।
  13. क. तानिष्ट ।