अथ षोडशं प्रकरणम् ।

व्यासेनौषधिरूपा अप्युपाया उक्ताः--

"अङ्कोलमूलकल्कं तु चूर्णयेद्गुडसंयुतम् ।
काकाण्डमितमश्नीयात्पुत्रिणी सहसा भवेत् ॥
क्षीरवृक्षाङ्कुरं गृह्य पेषयित्वा पयः पिबेत् ।
देवोदरकृतो दोषो विनश्यति शुभं लभेत् ॥


उत्तमं कर्णिकामूलं पेषयित्वा पयः पिबेत् ।
सा पायसान्नं नाश्नीयात्पुत्रिणी सहसा भवेत्" इति ॥

क्षीरवृक्षाङ्कुरो वटाङ्कुरः । कर्णिका गोकर्णी ।

"नागकेशरसंयुक्तं जीरकं गोघृतेन च ।
त्रिदिनं या पिबेन्नारी सा गर्भं लभते ध्रुवम्" इति ॥

तीर्थरूपमुपायमाह पराशरः--

"महातीर्थे महायोगे महानद्यां तु संगमे ।
पलाशस्य दलैः स्नानं कुर्यात्पुत्रसुखार्थिनी" इति ॥

देवरातश्च--

"पलाशदलसाहस्रा[१]त्सावि[२]त्रेण दलं प्रति ।
स्नपयेत्सपवित्रेण एकादश्यां प्रजार्थिनी" इति ॥

([३]बौधायनगृह्येऽपि--

"अथ प्रजार्थहोमः पूर्वपक्षे पुण्ये नक्षत्रेऽमावास्यायां विषुवेऽयने वा
नदीतीरेऽश्वत्थस्य च्छायायां वा गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिमिति वाचयित्वा प्राच्यां
दिशि ब्र[४]ह्माणं प्रतिष्ठाप्य पार्श्वयोर्धातारं दक्षिणतो विधातारमुत्तरतस्तत-
स्तानर्चयेत्पूर्वं ब्रह्माणमावाहयामि प्रजापतिमावाहयामि परमेष्ठिनमावा-
हयामि हिरण्यगर्भमावाहयामीत्यावाह्य सावित्र्या पाद्यं ददाति सावित्र्या
निवेदयेत्तैरेव नामधेयैः शुक्लमन्नं ब्रह्मणे मुद्गान्नं धातुः पीतान्नं विधातु-
स्ततः सावित्र्याऽप आ[५]चमय्य प्रणवेनाष्टशतं हुत्वा[६] ब्रह्माणमुपतिष्ठते
नमो वाचे नमो वाचस्पतय इत्यग्निमुपतिष्ठते नमो ब्रह्मणे सप्तवित्सप्तजि-
ह्वश्च सप्तधाऽग्निः प्रतिष्ठितः सप्तैव[७] विश्वभूतानि को ह्यग्निः प्रतितिष्ठति
तत्त्वमसि विश्वमसि योनिरसीत्यथ स्त्रियमाहूय सावित्र्या पलाश[८]पर्णैर-
ष्टसहस्रैः स्नापयित्वा पुरुषसूक्तेन जुहुयात्तत्संपातेन मूर्ध्नि जुहुयात्प्रणवेन
नमस्कुर्यादध्वर्युं च वस्त्रकुण्डलाभ्यामलं करोति ततः सा गर्भिणी भवती-
त्याह भगवान्बौधायनः" इति ।

पार्श्वयोर्ब्रह्मणः । तान्ब्रह्मधातृविधातॄन् । धातारमावाहयामीत्येवं धातृवि धात्रोरावाहनादि । निवेदनं नैवेद्यस्य । अष्टसहस्रैरष्टाधिकसहस्रैः । अन्यत्स्पष्टार्थम् ।)

 नीचमेहनस्य वाजीकरणमुक्तं वडवाचार्येण--

"वाजीवातिबलो येन यात्यप्रतिहतो यतः ।
तद्वाजीकरणं नाम देहस्यौजस्करं परम्" इति ॥

 तत्प्रयोगश्च तेनैवोक्तः--

"भल्लातकबृहतीफलदाडिमकल्कप्रसाधितं कुरुते ।
लिङ्गोन्मर्दनं वि(नवि)धिना कटुतैलं वाजिलिङ्गाभम्" इति ॥

 वैद्यकग्रन्थे--

" सिताश्वगन्धासिन्धूत्थच्छागक्षीरैघृतं पचेत् ।
तल्लेपान्मर्दनाल्लिङ्गवृद्धिः संजायते परा" इति ॥

 सिता शर्करा । अश्वगन्धाऽऽस्कन्दः । सिन्धूत्थं सैन्धवम् । एवमन्येऽप्युपाया वैद्यकग्रन्थपञ्चसायकादौ द्रष्टव्याः । एवमपि फलाप्राप्तौ दत्तकपुत्रस्वीकारं कुर्यात् ।

अथ दत्तपुत्रविधानम् ।

तद्विधिर्बौधायनसूत्रे--

"पुत्रप्रतिग्रहविधिं व्याख्यास्या[९]मः शुक्रशोणितसंभवो मातृ(ता)पितृनिमि-
त्तकस्तस्य प्रदानपरित्यागविक्रयेषु मातापितरौ प्रभवतो न त्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा स हि संतानाय पूर्वेषां न स्त्री पुत्रं
दद्यात्प्रतिगृह्णीयाद्वाऽन्यत्रानुज्ञानाद्भर्तुः प्रतिग्रहीष्यन्नुपकल्पयते द्वे
वाससी द्वे कुण्डले अङ्गुलीयकं चाऽऽचार्यं च वेदपारगं कुशमयं बर्हिः
पर्णमयमिध्ममित्यथ बन्धूनाहूय मध्ये राजनि चाऽऽवेद्य परिषदि[१०] चागा-
रमध्ये ब्राह्मणानन्नेन परिविष्य पुण्याह स्वस्त्यृद्धिमिति वाचयित्वाऽथ
देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा दातुः समक्षं गत्वा पुत्रं मे
देहीति भिक्षेत ददामीतीतर आह तं परिगृह्णाति धर्माय त्वा गृह्णामि
संतत्यै त्वा गृह्णामीत्यथैनं वस्त्राभ्यां कुण्डलाभ्यामङ्गुलीयकेन चालं-
कृत्य परिधानप्रभृत्याऽग्निमुखात्कृत्वा पक्वान्नु(())होति यस्त्वा हृदा
कीरिणा मन्यमान इति पुरोनुवाक्यामनूच्य यस्मै त्व सुकृते जातवेद
इति याज्यया जुहोत्यथ व्याहृतीर्हत्वा स्विष्टकृत्प्रभृति सिद्धमा धेनु-

वरप्रदानाद्दक्षिणां ददात्येते च वाससी एते कुण्डले एतच्चाङ्गुलीयकं
यद्येवं कृत्वौरसः पुत्र उत्पद्यते तुरीयभागे प्रभवतीत्याह भगवान्बौधा-
यनः" इति ।

 मातापितृनिमित्तकः शुक्रशोणितसंभव इत्यन्वयः । मातापितृनिमित्तक इत्यनेन क्षेत्रजादिव्यावृत्तिः । इदं च संभवविशेषणम् । शुक्रशोणितसंभव इत्यनन्तरं यस्येति शेषः । एतेनौरसस्यैव प्रदानपरित्यागविक्रया नान्येषां दत्तकादीनामिति सूच्यते । मातापितरौ प्रभवत इति । मातापित्रोरेव दानाधिकार इत्याशयः । स हि संतानाय पूर्वेषाम् । हि यस्मात्स एकः पुत्रः पूर्वेषां संतानाय भवत्यत एकं पुत्रं नैव दद्यादित्यर्थः । अङ्गुलीयकं चेत्यत्र चकारश्छत्रादिसमुच्चयार्थः । कुशमयं बर्हिरिति प्रतिनिधिर्नैवात्र भवतीति ज्ञापनार्थम् । एवं पर्णमयमिध्ममित्यत्रापि । मध्य इति । बन्धुसमक्षं राजन्यावेदनं कार्यमित्याशयः । अङ्गुलीयकमित्यनन्तरमनुषक्तेन ददातीत्यनेन पुत्रसंबन्धिवस्त्रद्वयकुण्डलाङ्गुलीयकदानं विधीयते । स्त्रिया तु भर्त्रनुज्ञया ग्राह्यः । सा च सधवाया एव दृष्टार्थत्वात् । विधवायास्तु तां विनाऽपि पितुस्तदभावे ज्ञातीनामाज्ञया भवति ।

 अत एव--

"रक्षेत्कन्यां पिता विन्नां पतिपुत्रास्तु वार्धके ।
अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रियाः" ॥

 इति याज्ञवल्क्येनावस्थाविशेष एव भर्तुः पारतन्त्र्यमुक्तम् । तदभावे वार्धकादिना तस्याक्षमतायां वा पुत्रादीनामपि ।

कात्यायनेनापि--

"नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा ।
विफलं तद्भवेत्तस्माद्यत्करोत्यौर्ध्वदेहिकम्" ॥

 इत्यवस्थाविशेष एव पितृभर्त्राद्यनुज्ञोक्ता । और्ध्वदेहिकं पारलौकिकम् । यस्यामवस्थायां भर्तुरनुज्ञा[११] प्राप्ता सैवात्रानूद्यते न त्वपूर्वा विधीयतेऽतो विधवा या भर्तुरनुज्ञां विनाऽप्यधिकार इति नवीनाः । परिणीत उत्पन्नपुत्रोऽपि च दत्तको भवतीति द्वैतनिर्णये । यत्तु दत्तकमीमांसादौ वृद्धगौतमीयं,

"दत्तपुत्रे यथाजाते कदाचित्त्वौरसो भवेत् ।
पितुर्वित्तस्य सर्वस्य भवेतां समभागिनौ" ॥

 इति वचनं तद्दत्तकस्य गुणव[१२]त्त्व औरसस्य च निर्गुणत्वे वेदितव्यम्, यथा- जात इति विशेषणात् । यथा गुणानां जातं समूहो यस्मिन्निति यथाजातो गुणसमूहवानित्यर्थः । यथाशब्दस्य गुणयोगे सादृश्ये शक्तत्वात् ।

अत एव मनुः--

"उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्तिमः ।
स हरेतैव तद्रिक्थं संप्राप्तोऽप्यन्यगोत्रतः"

 इत्यौरसाभावे सर्वरिक्थग्रहणमुक्तवान् । तद्युक्तमेवौरसे सत्यर्धांशहरत्वम् ।

 परिग्रहविध्यभावे विशेषमाह स एव--

"अविधाय विधानं यः परिगृह्णाति पुत्रकम् ।
विवाहविधिभाजं तं कुर्यान्न धनभाजनम्" इति ॥

 परिग्रहविधिं विना परिगृहीतस्य विवाहमात्रं कार्यं न धनदानमित्यर्थः । किंतु तत्र पत्न्यादय एव धनभाजः । विधिं विना तस्य पुत्रत्वानुत्पादात् ।

अत एव वृद्धगौतमः--

"स्वगोत्रेषु कृता ये स्युर्दत्तक्रीतादयः सुताः ।
विधिना गोत्रतां यान्ति न सापिण्ड्यं विधीयते" इति ॥

 विधिनैव गोत्रतां यान्तीति नियमः । दानादिविधीनां दत्तकादिलक्षणान्तर्गतत्वेन स्वरूपनिर्वाहकत्वात् ।

 यथोक्तम्-- "यमद्भिः पुत्रमापदि" इति । आपद्ग्रहणं सकलदानविधेरुपलक्षणं, तेन च प्रतिग्रहविधिरप्याक्षिप्तो भवति । संप्राप्तोऽप्यन्यगोत्रत इति मानवात् । सम्यग्विधिना प्राप्तमि(प्त इ)त्यर्थः । एतदभिप्रेत्यैव[१३] च वसिष्ठेनापि तस्य दानविक्रयपरित्यागेषु मातापितरौ प्रभवत इत्युपक्रम्य परिग्रहविधिरभिहितः । मनुवाक्ये क्रीतादय इत्यादिशब्देन कृत्रिमापविद्धस्वयंदत्तानां ग्रहणम् । तस्मादेषां पञ्चानां पुत्राणां बौधायनाद्युक्तविधिपरिग्रहेणैव पुत्रत्वं नान्यथेति । विस्तरस्त्वन्यत्रानुसंधेयः ।

 तत्र पञ्चवार्षिकस्ततो न्यूनः पितृगोत्रेणाकृतचूडश्च प्रतिग्राह्यः । नाधिकवयस्कः कृतचूडश्च । तत्र पुत्रो भ्रातुर्ग्राह्यः । तदभावे सगोत्रः सपिण्डोऽपि यः कश्चित् । तदभावे त्वसगोत्रः सपिण्डः । तदभावे त्वसपिण्डः सगोत्रः । तदभावे त्वसपिण्डोऽसगोत्रोऽपि । तत्रापि भागिनेयदौहित्र[१४]मातृष्वस्रीयपितृष्वस्रीयवर्जं पुत्रत्वबुद्ध्यनर्हभ्रातृपितृव्यमातुलवर्जं च । त्रयाणां वर्णानां स्वसमानवर्ण एव । तत्रापि देशभेदप्रयुक्तगुर्जर[१५]त्वादिजात्या समानजातीय एव । सर्वोऽपि सभ्रातृक एव ज्येष्ठभिन्नश्चेति । अत्र प्रमाणं प्राचीननवीनग्रन्थेषु द्रष्टव्यम्, विस्तरभीत्या न प्रदर्श्यते ।  ([१६] अत्र नक्षत्रादिकमुक्तं व्यवहारसारे--

"हस्तादिपञ्चकभिषग्वसुपुष्यभेषु सूर्यक्षमाजगुरुभार्गववासरेषु ।
रिक्ताविवर्जिततिथिष्वलिकुम्भसिंहवृषेषु वै भवति दत्तपरिग्रहोऽयम्" इति ॥

 हस्तादिपञ्चकं हस्तचित्रास्वातीविशाखानूराधाः । भिषगश्विनी नक्षत्रम् । वसुः श्रविष्ठाः । क्षमाजो भौमः । अन्यत्स्पष्टम् । )

अथ प्रयोगः ।

 पूर्वेद्युः कृतोपवासो वाससी कुण्डले अङ्गुलीयकं छत्रमुष्णीषमाचार्यं धर्मसंयुक्तं वेदपारगं कुशमयं बर्हिः पालाशमिध्ममन्यां होमसामग्रीं च संपाद्य[१७] शिष्टानिष्टाञ्ज्ञातीन्बन्धूंश्चाऽऽहूय तान्संपूज्य तत्समक्षं राज्ञि सभासत्सु च निवेद्य तैरनुज्ञातः पवित्रपाणिराचम्य प्राणानायम्य देशकालौ संकीर्त्य ममाप्रजत्वप्रयुक्तपैतृकर्णापाकरणसिद्धिपुनंनामनरकत्राणसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुत्रप्रतिग्रहं करिष्य इति संकल्प्य तदङ्गत्वेन गणपतिं संपूज्य बन्धुवर्गेभ्यो ब्राह्मणेभ्यश्चान्नदानं कृत्वा पुण्याहवाचनमातृकापूजननान्दीश्राद्धाचार्यवरणमधुपर्कार्हणानि कुर्यात् । ([१८]स्त्रीकर्तृकप्रतिग्रहे तु मद्भर्तुर्मम चेति संकल्पवाक्ये विशेषः । गणपतिपूजनाद्याचार्यवरणान्तं ब्राह्मणद्वारा कारयेत् । ) पुत्रप्रतिग्रहाङ्गभूतहोमार्थमाचार्यं त्वामहं वृण इत्याचार्यवरणवाक्ये विशेषः ।

 तत आचार्य आचम्य प्राणानायम्योल्लेखनादि[१९]स्थण्डिलसंस्कारं विधाय तत्र बलवर्धननामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा पुत्रप्रतिग्रहाङ्गभूतहोमकर्मणि या यक्ष्यमाणा इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा वैशेषिकप्रधानहोमे-- अग्निं चर्वाहुत्या यक्ष्ये । अग्निं वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निं स्विष्टकृतं चरुशेषाहुत्या यक्ष्य इत्यादि । अङ्गहोमे वरुणं द्वाभ्यामित्यादि वा । पात्रासादने स्रुवं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रं चरुस्थालीं मेक्षणं शूर्पं कृष्णाजिनमुलूखलं मुसलमुपवेषं वासोद्वयं कुण्डले अङ्गुलीयकं छत्रमुष्णीषं संमार्गदर्भानवज्वलनदर्भान्पर्णमयमेवेध्मं कुशमयमेव बर्हिराज्यं च सहै[२०]वाऽऽसादयेत् ।  ततः पवित्रकरणादिप्रणीताप्रणयनान्तं कृत्वा विरमति । ततः प्रतिग्रहीता ब्राह्मणैर्बन्धुवर्गैश्च सह दातुः समक्षं गत्वा तत्समी[२१]पे तिष्ठन्पुत्रं मे देहीति भिक्षेत्(त)।

 ततो दाता ददामीत्युक्त्वाऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं पुत्रदानमहं करिष्य इति संकल्प्य गणपतिं संपूज्य यथाविभवं वस्त्रगन्धादिभिः प्रतिग्रहीतारं संपूज्येमं पुत्रं तव पैतृकर्णापाकरणपुंनामनरकत्राणसि[२२]द्धिद्वाराऽऽत्मनश्च श्रीपरमेश्वरप्रीत्यर्थं तुभ्यमहं संप्रददे न मम प्रतिगृह्णातु पुत्रं भवानित्यन्ते प्रतिग्रहीतृहस्ते साक्षतं सतुलसीपत्रं जलं क्षिपेत् । त्रिरिति केचित् । ( [२३]स्त्रियै दाने त्विमं पुत्रं त्वद्भर्तुस्तव चेति दानवाक्ये दात्रोहः कार्यः । ) ततः प्रतिग्रहीता ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां धर्माय त्वा गृह्णामि संतत्यै त्वा गृह्णामीति हस्तद्वयेन प्रतिगृह्य स्वाङ्क उपवेश्य मूर्ध्न्याजिघ्रेत् ।

 ततो युवं वस्त्राणीत्यस्य विश्वे देवा वसवस्त्रिष्टुप् । वस्त्रपरिधाने विनियोगः । "ॐ युवं वस्त्राणि पीवसा वसाथे० सचेथे" इत्यासादितयोर्वाससोर्मध्य एकं परिधाप्यैतेनैव मन्त्रेण द्वितीयमुत्तरीयं कारयित्वा तूष्णीमुष्णीषं बद्ध्वा कुङ्कुमादिना तिलकं कृत्वा कुण्डलाभ्यामङ्गुलीयकेन चालंकृत्य सति विभवेऽन्यैरपि भूषयित्वा छत्रेणाऽऽच्छादितं बालं नृत्यगीतवाद्यैः स्वस्ति न इन्द्रो वृद्धश्रवा अष्टौ देवा वसवः सोम्यास इति द्वाभ्यां स्वगृहमानीय [२४] हस्तपादान्प्रक्षाल्याऽऽचम्याग्नेः पश्चान्मातुरुत्सङ्ग उपवेशयेत् ।

 तत आचार्यः शूर्प चतुरो मुष्टीनिरू(रु)प्येत्यादिचरुकल्पेन चरुं श्रपयित्वाऽभिघार्योद्वास्य परिषेकाधन्वाधानोत्कीर्तनानुसारेण प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वा कृत्वा प्रधानहोमं कुर्यात् । दव्या वेणोपस्तीर्य चरुमवदानविधिना मेक्षणेनैव द्विरवदायावत्तमभिघार्य शिष्टं हविः प्रत्यज्य यस्त्वा हृदेतिद्वयोर्विश्वे देवा अग्निस्त्रिष्टुप् । पुत्रप्रतिग्रहवैशेषिकप्रधानचरुहोमे विनियोगः । “ॐ यस्त्वा हृदा कीरिणा० मश्याम्" इति पुरोनुवाक्यामनूच्य "ॐ यस्मै त्वर सुकृते जातवे ० ते स्वस्ति स्वाहा" इति याज्यया जुहोति । अग्नय 'इदं० । अथवाऽनिद्वयसंसर्गोक्तेन पुरोनुवाक्यायाज्याधर्मेण होमः ।

 तत आज्येन व्यस्तसमस्तव्याहृतिभिश्चतस्र आज्याहुतीर्जुहुयात् । एतासामृष्यादिकं तु प्रागुक्तमेव । पुत्रप्रतिग्रहवैशेषिकप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये विशेषः ।

 ततः स्विष्टकृदादि, अङ्गहोमादि वा होमशेषं समाप्याऽऽचार्याय धेनुं दद्यात्[२५] । ते एव वाससी कुण्डले अङ्गुलीयकं च[२६] । धेनुदानं न वा ।

 ततो दश त्री[२७]न्वा ब्राह्मणान्भोजयेत् ।

 ततोऽग्निं संपूज्य कर्मणः संपूर्णतां वाचयित्वा कर्मसाद्गुण्याय विष्णुं स्मरेत् ।

 एवं दत्तकपुत्र्या अपि स्वीकार उक्तविधिना कार्यः । दानप्रतिग्रहविधिषूद्देश्यगतपुंस्त्वाविवक्षणात् । इतिहासपुराणेषु कुन्त्या दत्तकत्वोक्तेश्च ।

 एवं भर्त्रनुज्ञया स्त्रियाऽपि रथकारवत्समन्त्रकमेव ग्रहणं कार्यमिति केचित् । अन्यत्रानुज्ञानाद्भर्तुरितिप्रतिप्रसवेन प्रधानाधिकारसिद्धावधिकृताधि[२८]कारेण होममन्त्रादिप्राप्तौ स्त्रीशूद्राणाममन्त्रकमिति मन्त्रपर्युदाससिद्धेरमन्त्रकप्रतिग्रहसिद्धिर्वस्त्वन्तरप्रतिग्रहवदित्यन्ये । यद्यपि मेधातिथिना भार्यात्ववददृष्टरूपं दत्तकत्वं होमसाध्यमुक्तं स्त्रियाश्च होमासंभवस्तथाऽपि व्रतादिवद्विप्रद्वारा होमादि कारयेदिति हरिनाथादयः । जीवतो भर्तुरनुज्ञां गृहीत्वा तदभिप्रायं वा ज्ञात्वा विधवयाऽपि ग्राह्य इति कौस्तुभे । दत्तकमीमांसोदाहृते "अथोढक्षेत्रजकृत्रिमपुत्रिकापुत्रस्त्रीद्वारजासुराद्यूढजदक्षिणाजानां पित्रोश्च" इति सत्याषाढसूत्रे स्त्रीद्वारजस्य गोत्रद्वयसंबन्धोऽभिहितः "मातुरुत्तरं पितुः प्रथमम्" इति सूत्रेणेति । पितृगोत्रसंबन्धश्च पुत्रत्वेन । पुत्रत्वं च पित्रनुज्ञानेनैव[२९] न परिग्रहेण, व्रतस्य तत्र स्त्रीकर्तृकत्वात् । ऊढः सहोढः । स्त्रीद्वारजः स्त्रिया याचितः स्त्रीसत्ताकः । यज्ञे दक्षिणात्वेन प्राप्तायां कन्यायां जातो दक्षिणाजः । अन्ये प्रसिद्धाः, इति शबरस्वामिनः ।

 ननु सूत्रकृता " न स्वामित्वस्य भार्यायाः पुत्रस्य देशस्य कालस्याग्नेर्देवतायाः कर्मणः शब्दस्य च प्रतिनिधिर्विद्यते" इति पुत्रप्रतिनिधिनिराकरणाद्दत्तकपुत्रस्वीकरणमनुपपन्नमिति चेन्न । तस्य "तन्तवे ज्योतिष्मतीं तामाशिषमाशासे" इत्यादौ पितापुत्रीयसुब्रह्मण्याह्वानादौ च पुत्रप्रतिनिधिं कृत्वाऽऽशीराशंसनप्रवचननिवृत्त्यर्थत्वात् । अन्यथा "पुत्रप्रतिनिधीनाहुः" इत्यादिबहुस्मृतिविप्लवापत्तेः । "तामाशिषमाशासे तन्तवे ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्रो जातः स्यात्तेजस्व्येवास्य ब्रह्मवर्चसी पुत्रो जायते" इति श्रुतिरप्याशीराशंसनं पुत्रप्रतिनिधिं कृत्वा न कर्तव्यमित्यत्र साधिकेति द्रष्टव्यम् ।

इति पुत्रप्रतिग्रहविधिः ।

अथ पुनःसंधानम् ।

 तत्र गृह्यसूत्रम्--

"द्वादशाहं विच्छिन्नः पुनराधेयः प्रतिसं-
ख्याय वा सर्वान्होमाञ्जुहुयात्" इति ।

 द्वादशाहं विच्छिन्न इत्यत्र होमश्चेदिति शेषः । तथा च द्वादशाहं होमविच्छेदे पुनरग्निराधेय इत्यर्थः । अथवा तावत्संख्यान्सायंप्रातर्होमान्प्रतिसंख्याय गणयित्वा समस्यविधिना जुहुयादित्यर्थः । नात्र पुनरग्निराधेयः । अयं च पक्षः संकटे ।

 अन्यान्यपि निमित्तानि गृह्य उक्तानि--

"यदि पार्वणो विच्छिद्येत तस्मि[३०]न्पाथिकृतेन याजयेद्यदि द्वौ वैश्वानर[३१]पाथिकृतौ यदि बहून्पुनराधेयो यदि नाशो विनाशो वाऽन्यैरग्निभिरग्नौ सं[३२]सृष्टे वा पुनराधेयः" इति ।

 पार्वणः पर्वसु भवः स्थालीपाकः । तस्मिन्निति निमित्तसप्तमी, तन्निमित्तमित्यर्थः । नाश इत्यत्राग्नेरिति शेषः ।

"भार्यायां प्रोषितायां चेदुदेत्यर्कोऽस्तमेति वा ।
तस्य स्यात्पुनराधेयम्"

 इत्यादिवचनप्रोक्तनिमित्तानि विशब्देन ग्राह्याणीति सूच्यते । योऽग्निसत्त्वेपि तस्य नाशः स विनाशशब्देनोच्यते । वस्तुतस्तु--अधिकमेवेदं प्रयोगवैजयन्त्यामधृतत्वात् ।

 शतद्वय्याम्--

"विहारकाले यदि कार्यदोषात्पत्नी तु सीमानमतीत्य गच्छेत् ।
निःसंशयोऽग्निः खलु नाशमेति गृहस्य सीमाऽत्र विवक्षिता स्यात्" इति ॥

 मण्डनः--

"अग्निहोत्रेण रहितः पन्थानं शतयोजनम् ।
आहिताग्निः प्रयायाच्चेदग्निहोत्रं विनश्यति" इति ॥

 अग्निहोत्रेण सहित इत्यपि केषुचित्पुस्तकेषु पाठो दृश्यते ।  तथा--

"अब्दं स्वयमजुह्वन्यो(द्यो) हावयेदृत्विगादिना ।
तस्य स्यात्पुनराधेयं पवित्रेष्टिरथापि वा" इति ॥

 तथा--

"मन्त्रं विना समारूढोऽरण्योरात्मनि वा यदि ।
तत्र ज्वलनशान्तिः स्यादसमारूढशान्तिवत् ॥
आरूढोऽपि यथाशास्त्रमवरूढो न शास्त्रतः ।
तृतीये होमकाले तु संप्राप्ते पुनराहितिः" इति ॥

 अरण्यात्मग्रहणं गृह्यविहितसमारोहणाधिकरणीभूतायाः समिध उपलक्षणम् । ज्वलनोऽग्निः ।

 तथा--

"भार्यायां प्रोषितायां चेदुदेत्यर्कोऽस्तमेति वा ।
तस्य स्यात्पुनराधेयमन्ये त्वाहुरिहान्यथा ॥
ज्येष्ठा चेदग्निसंयुक्ता गच्छ[३३]न्त्यन्या यथारुचि ।
यजमानेन सहिता यद्वा ता एव केवलाः ॥
प्रोषितः स्यादधःशायी त्वस्त्र्युपायी त्वमैथुनः ।
वदन्बौधायनस्त्वित्थमेका चेदग्निसंनिधौ ॥
इतरासां यथाकामं प्रवासमनुमन्यते ।
इत्युक्तं भवभा[३४]ष्येऽपि प्रेतश्लोकेष्वपीरितम् ॥
एकस्यामप्यतिष्ठन्त्यामग्निहोत्रसमीपतः ।
पतिस्तिष्ठति चेदग्निनाशो नेत्यपरे जगुः ॥
संध्यावदन्यदाऽप्यग्नीन्हित्वा चेद्दंपती गतौ ।
ग्रामान्तं वाऽथ सीमान्तं तत्रैकेऽग्नीन्गतान्विदुः ॥
अन्ये ग्रामान्तरं गत्वा न त्वतिक्रममात्रतः ।
सीम्नि त्वतिक्रमादेव केवलान्नाशमब्रुवन् ॥
यदोभावप्यतिक्रम्य सीमां प्रत्यागतौ पुनः ।
उदयास्तमयात्पूर्वं न नाशोऽत्रेति केचन ॥
छन्दोगपरिशिष्टोक्तहोमकालात्ययेऽनलः ।
सीमातिक्रान्तयोर्नश्येन्नोदयास्तमयादिति ॥
विनाऽग्निभिर्यदा पत्नी नदीमम्बुधिगामिनीम् ।
अतिक्रामेत्तदाऽग्नीनां विनाशः स्यादिति श्रुतिः" इति ॥

 छन्दोगपरिशिष्टं कर्मप्रदीपस्तदुक्तो यो नवनाडिकात्मको होमकालस्तदत्यये सत्यनलोऽग्निर्नश्येत् । उदयास्तमयहेतुना नेति । इदमपि पक्षान्तरम् ।  तथा--

"पत्न्यन्तरेऽथवा पत्यौ हुताशनसमीपगे ।
तदा पत्नी यथाकाममतिक्रामेन्नदीमपि" इति ॥

 असमुद्रगामिनीमिति केचित्[३५] । इदं च होमकालेऽनागमने ।

 प्रयाणप्रकरणे त्रिकाण्डमण्डनः--

"ज्येष्ठा चेद्बहुभार्यस्य ह्यतिचारेण गच्छति ।
पुनराधानमत्रैक इच्छन्ति नयकोविदः" इति ॥

 अतिचारेण भर्त्ररण्यसहायेन ।

 पुनराधानप्रकरणे स एव--

"पत्नी सीमामतिक्रामेद्विना भर्त्राऽग्निभिः सह ।
तत्र नाशं परे त्वाहुर्भयाद्याने न दुष्यति ॥
विहायाग्नीन्सभार्यश्चेत्सीमामुल्लङ्घ्य गच्छति ।
होमकालात्यये तस्य पुनराधेयमिष्यते ॥
जलेन हेतुना वह्निरुपशान्तो यदा भवेत् ।
कर्तव्यं पुनराधेयमग्नावनुगते सति ॥
असमाधाय चेत्स्वामी सीमामुल्लङ्घ्य गच्छति ।

 असमाधानमनुगतप्रायश्चित्तविधिनाऽनुत्पादनम् ।

सूकररासभकाकशृगालैः [३६]कुक्कुरकुक्कुटमर्कटशूद्रैः ।
अन्त्यजपातकिभिः कुणपैर्वा सूतकयाऽपि रजस्वलया वा ॥

रेतोमूत्रपुरीषैर्वा पूयाश्रुश्लेष्मशोणितैः ।
विष्ठास्थिमांसमज्जाभिरन्यैर्वाऽपि जुगुप्सितैः ॥
आरोपितारणीस्पर्शे कृतेऽग्नेः स्पर्शनेऽपि वा ।
आत्मारूढेषु मज्जेद्वा[३७] वदेद्वा पतितादिभिः ॥
अथवा योषितं गच्छेदनृतौ काममोहितः ।
वदन्त्येषु निमित्तेषु केचिदग्निविनाशनम् ॥
तत्रारणीगते वह्नौ दुष्टे स्यात्पुनराहितिः ।
इतरेषु निमित्तेषु त्वग्न्याधेयं प्रचक्षते ॥
यद्वा सर्वोपघातेषु पुनस्त्वेति समिन्धनम्" इति ॥

 गार्ह्ये कर्मणि पुनराधेयाभावात्पुनःसंधानमेव ।

 रजस्वलास्पर्शविषये गो[३८]भिलोऽपि--

"अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रकम् ।
इष्टिरष्टाकपालेन कार्या तन्तुमतेऽग्नये ॥
चण्डालपतितोदक्यासूतिकाकुणपादिभिः ।
संसर्गेऽपि विनाशः स्यादादधीतेति केचन" इति ॥

 सर्वाग्निस्पर्श एव पुनराधानमिति व्यङ्कटेशः । ज्ञानाज्ञानकृता व्यवस्थेत्यन्ये ।

उक्तं च महाभारते--

"रजस्वला चेच्छ्रौताग्निमज्ञानात्स्पृशते यदि ।
इष्टिरष्टाकपालेन कर्तव्या शुचयेऽग्नये" इति ॥

 अत्र श्रौतमित्यग्निविशेषणादज्ञानतः स्मार्ते स्पर्शेऽपि पुनःसंधानमेव । साक्षात्परम्पराकृता व्यवस्थैव युक्तेति बहवः । चण्डालस्पर्शे पतितस्पर्शे चाऽऽधानमेवेति केशववरदराजादयः । सूतक्युपस्पर्शे शवस्पर्शे चैवमिति केचित् । मानुषास्थिस्पर्शे पुनराधानमेव । इतरास्थिस्पर्शे तु शुचीष्टिमात्रमिति केचिदिति प्रायश्चित्तसारकारादयः ।

 मण्डनः--

-"रजोदोषे समुत्पन्ने सूतके मृतके तथा ।
प्रवसन्नग्निमान्विप्रः पुनराधानमर्हति ॥
बह्वीनामपि चैकस्यामुदक्यायां न तु व्रजेत् ।
शिक्येनोद्वाहयेदग्नीन्पुनराधानमर्हति" इति ॥
"एकाकिनी यदा पत्नी वह्निमादाय गच्छति ।
अग्निनाशं परे त्वाहुर्भयाद्याने न दुष्यति ॥
न रुच्यैकाकिनी पत्नी प्रयायादग्निभिः सह ।
राष्ट्रभ्रंशादिसंप्राप्तावुदितं यानमीदृशम्[३९]
न क्वाप्यारम्भणं केचिल्लौगाक्ष्याद्यनिबन्धनात् ।
उदक्या चेद्भवेत्पत्नी प्रसूता [४०]प्रसवन्त्यपि ॥
अन्वारम्भविकल्पत्वात्पुनराधिर्न तन्मतात् ।
ज्येष्ठाऽन्वारभते पत्नी बहुभार्यस्य नेतराः ॥
आपद्यग्निषु दीप्यत्सु मासार्धं चेन्न हूयते ।
सर्वहोमानतिक्रान्तापक्षान्ते पक्षहोमवत् ॥

समस्य जुहुयात्पश्चादिष्टिस्तन्तुमती भवेत् ।
न तत्र पुनराधेयमिति कौषीतकी श्रुतिः ॥
वत्सरं वत्सरार्धं वा होमलोपे मतान्तरम् ।
आपत्काले न नश्यन्ति दीप्यन्ते चेद्धुताशनाः" इति ॥

प्रायश्चित्तकुतूहले--

"खरोष्ट्रवृषभं नारी समारुह्याथवा पुमान् ।
योजने योजने कृच्छ्रमग्निश्चापि विनश्यति" इति ॥

 यज्ञपार्श्वे--

"गजोष्ट्रवृषभं नारी समारुह्याथवा पुमान् ।
योजने योजने कृच्छ्रमग्निश्चापि विनश्यति" इति ॥

 अयं च गजारोहणनिषेधो राजव्यतिरिक्तपरः । राज्ञो गजारोहणस्य बहुषु पुराणेषु दर्शनात् ।

"यस्यच्छत्रं हयश्चैव कुञ्जरारोहमृद्धिमत् ।
ऐन्द्रस्थानमुपासीत तस्मात्तं न विचारयेत्"

 इति मार्कण्डेयपुराणाच्च । चकारात्तप्तकृच्छ्रपुनःसंस्कारादिकस्य समुच्चयः ।

 खरोष्ट्रवृषभारोहणनिषेधो निरग्नेरपि ।

"यदि चेद्वै द्विजो गच्छेदारुह्योष्ट्रं खरं वृषम् ।
पुनस्तस्य क्रियाः कार्याः शिखाया वापनेन च ॥
आदौ तु विधिना त्र्यब्दं प्रायश्चित्तं समाचरेत्"

 इति स्वतन्त्रनिषेधस्य सत्त्वात् । गजारोहणनिषेधस्तु तथानिषेधाभावात्तस्य न भवति । एवं च समावर्तनोत्तरमौपासनाग्न्युत्पत्तेः प्राग्गजारोहणे विप्रस्यापि निषेधो नास्तीति सिद्धं भवति । गजारोहणे तप्तकृच्छ्रपुनःसंस्कारादिकस्य समुच्चयो न भवति । यदि चेद्वै द्विजो गच्छेदित्यनन्तरोदाहृतवचने खरोष्ट्रवृषभारोहण एव तप्तकृच्छ्रपुनःसंस्कारादिकस्य विहितत्वात् ।

 यज्ञपार्श्वे--

"नाग्निकार्यस्य वेलायां प्रवसेन्न च पर्वणि ।
न विना च निमित्तेन क्रीडाद्यर्थं तु न व्रजेत् ॥
आहिताग्निस्तु यो लोभात्प्रवासं पर्वसंधिषु ।
करोति पुनराधानं प्रायश्चित्तमृतावृतौ" इति ॥

  [४१]था--

"आहिताग्निस्तु यो मोहादनुगच्छेच्छवं यदि ।
तदाऽग्नीनां विनाशः स्यादिति प्राहुर्मनीषिणः" इति ॥

 इदमन्यगोत्रविषयम् ।

"आहिताग्निः(ग्नेः) प्रमादाद्वा प्रेतानुगमनं यदि ।
अग्निनाशं विजानीयात्सपिण्डे तु न दोषकृत्" ॥

 इति प्रायश्चित्तकेशवीकारोक्तेः ।

"आहिताग्नेः प्रमादाच्चेच्छवानुगमनं तदा ।
अग्निनाशं विजानीयात्सगोत्रेषु न दोषकृत्" ॥

 इति प्रयोगदर्पणे स्मृतिवचनाच्च ।

वाहिनीपतावपि--"असपिण्डशवानुगमने शवस्पर्शे च पुनराधानम्" इति ।

 आहिताग्निग्रहणं साग्निकोपलक्षणमिति केचित् । एवमन्यान्यपि निमित्तानि तत्रैव द्रष्टव्यानि ।

 नदी[४२]शब्दप्रवृत्तिनिमित्तमपि तत्रैवोक्तम्--

"कूलद्वयान्तरालं तु नदीशब्देन[४३] नोच्यते ।
किंतु तद्देशवर्त्येव जलसंघो नदी भवेत् ॥
अष्टौ धनुःसहस्राणि न संस्रवति यज्जलम् ।
नदीशब्दाभिधेयत्वं तस्येच्छन्ति न सूरयः ॥
एकेन नामधेयेन शतयोजनगामि यत् ।
उदकं तन्नदीशब्दवाच्यमित्यपरे जगुः" इति ॥

इति संक्षेपेण पुनराधाननिमित्तानि ।

अथाग्नित्यागप्रायश्चित्तानि ।

तत्र स्मृतिः--

"नास्तिक्याद्वा प्रमादाद्वा आलस्याद्वा कथंचन ।
विच्छेदेऽग्नेः प्रकर्तव्यं प्रायश्चित्तं तु तद्यथा" इति ॥

  मनुः--

" अग्निहोत्र्यपविध्याग्निं ब्राह्मणः कामकारतः ।
चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत्" इति ॥

 अपविध्य त्यक्त्वा । मासमपविध्येत्यन्वयः ।

यत्तु हारीतः--

"संवत्सरोत्सन्नेऽग्निहोत्रे चान्द्रायणं कृत्वा पुनरादध्याद्द्वि-
वर्षोत्सन्ने सोमायनचान्द्रायणे कुर्यात्त्रिवर्षोत्सन्ने संवत्सरं
कृच्छ्रमभ्यस्य पुनरादध्यात्" इति, तदकामतो ज्ञेयम् ।

 शङ्खस्तु--" अग्न्युत्सादी संवत्सरं प्राजापत्यं चरेद्गां च दद्यात् "।  इति त्रिवर्षोत्सादे गोदानमप्यधिकमाह । विष्णुरपि--

"वेदाग्न्युत्सादी त्रिषवणस्नाय्यधःशायी संवत्सरं भैक्षेण वर्तयेत्" इति ।

 व्याघ्रः--

"मासद्वयं तयोर्वह्निं त्यजेदेवं समाचरेत् ।
नास्तिक्यात्कृच्छ्रमेकं तु होमद्रव्यं ददाति च" इति ॥

 तयोः प्रमादालस्ययोः । होमद्रव्यं यावत्कालं होमो न कृतस्तावद्धोमपर्याप्तम् । तथा च भरद्वाजगृह्ये--

"यावत्कालमहोमी स्यात्तावद्द्रव्यमशेषतः ।
तद्दानं चैव विप्रेभ्यो यथा होमस्तथैव तत्" इति ॥

जातूकर्ण्योऽपि--

"अतीतकालं जुहुयादग्नौ विप्राय वा स्वयम् ।
दद्याद्वेदविदे सम्यक्कृत्वाऽऽधानं पुनर्द्विजः" इति ॥

 अत्र होम इति स्थालीपाकोपलक्षणम् । यद्यप्यग्निविच्छेदे सति होमादावधिकाराभावेन दोषाभावाद्धोमलोपप्रायश्चित्तार्थस्य[४४] होमद्रव्यदानस्याप्राप्तिस्तथाऽपि व्याघ्रवचने नास्तिक्यादितिश्रवणान्नास्तिक्यतोऽग्निविच्छेद एव होमलोपप्रायश्चित्तार्थ[४५]होमद्रव्यदानं कार्यं नेतरयोरिति ज्ञेयम् । एतच्च[४६] होमद्रव्यदानं श्रौताग्नित्यागे न भवतीति माधवः । उभयत्यागेऽपि युक्तमिति नवीनाः ।

 मासचतुष्टयत्यागे तु व्याघ्र एवाऽऽह--

"चतुष्टये तु संपूर्णे मासानां तु हुताशनम् ।
त्यक्त्वाऽतिकृच्छ्रं कुर्वीत ततः पापात्प्रमुच्यते" इति ॥

स्मृत्यन्तरेऽपि--

"योऽग्निं त्यजति नास्तिक्यात्प्राजापत्यं चरेद्द्विजः ।
मासद्वये तथा कुर्यादतिकृच्छ्रं चतुष्टये" इति ॥

 मासचतुष्टयेऽतिकृच्छ्रमित्यर्थः । षण्मासत्यागे पराकः । अत ऊर्ध्वमब्दपर्यन्तं पयोव्रतम् ।

तथाऽऽहोशना--

"षण्मासांस्त्यजते यो वै पराकं तु समाचरेत् ।
उर्ध्वं पयोव्रतं कुर्यान्मासमेकं समाहितः ॥
वर्षपर्यन्तमेवाऽऽहुर्मुनयः शंसितव्रताः" इति ॥

 मासषट्कादूर्ध्वं यावत्संवत्सरं याज्ञवल्क्योक्तान्युपपातकसामान्यप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योजनीयानि । संवत्सरादूर्ध्वं तु मनुः--

"ऊर्ध्वं संवत्सरादग्निं यस्त्यजेत्स पयोव्रतम् ।
द्वैमासिकं ततः कुर्यात्त्रैमासिकमथापि वा" इति ॥

 अत्र द्वैमासिकत्रैमासिकयोः कालाल्पत्वमहत्त्वापेक्षया विकल्पः । एतानि च सर्वाणि प्रायश्चित्तानि नास्तिक्यादग्निपरित्यागे । यदा तु प्रमादात्त्यजति तदा भरद्वाजगृह्ये विशेषः--

"प्राणायामशतमा त्रिरात्रादुपवासः स्यादा विंशतिरात्रादत ऊर्ध्वमा
षष्टिरात्रात्तिस्रो रात्रीरुपवसेदत ऊर्ध्वमा संवत्सरात्प्राजापत्यं चरेदत
ऊर्ध्वं कालबहुत्वे दोषबहुत्वम्" इति ।

 इदमेवाकामतो गृह्याग्नित्याग इत्यपरार्के ।

अत्रैव विषये स्कान्दे--

"हुताशनं तु यो विप्रः प्रमादात्त्यजति प्रभो ।
प्राणायामशतं कुर्यादुपवासमथापि वा" इति ॥

कूर्मपुराणे--

"षष्टिरात्रिं त्यजेदग्निं प्रमादाच्छृणु मे प्रभो ।
उपवासं ततः कुर्यात्प्राजापत्यं ततः परम्" इति ॥

 तत इत्यनेन त्रिरात्रमुच्यते । मासद्वयमग्नित्यागे त्रिरात्रमुपवासः संवत्सरमग्नित्यागे प्राजापत्यमिति । स्कान्दे तु द्वादशाह्वातिक्रमे त्र्यहमुपवासः । मासातिक्रमे द्वादशाहमुपवासः । संवत्सरातिक्रमे मासमुपवासः पयोभक्षणं वा कुश्माण्डीभिर्होमः क्रमेणोभयं वेत्युक्तम् । इदं च कामतः । उपवासाशक्तौ मासं पयोभक्षणम् । संवत्सरानन्तरमधिककालातिक्रम उभयमिति मदनपारिजा[४७]ते ।

 आलस्यादग्निपरित्यागे स्मृत्यन्तरम्--

"आलस्येन यदा वह्निं द्वादशाहात्परं तदा ।
उपवासत्रयं कुर्यात्पश्चान्मासात्तथैव च ॥
उपवासो द्वादशाहं षण्मासातिक्रमे तथा ।
मासं पयोव्रतं कुर्याद्वत्सरातिक्रमे तथा ॥
मासोपवासः कर्तव्यः पयो वा भक्षयेत्तथा ।
कूश्माण्डहोमः कर्तव्यः क्रमेणोभयमेव वा ॥
द्विमासं वा त्रिमासं वा कालाल्पत्वमहत्त्वतः ।
पयोव्रतं चात ऊर्ध्वं बहुकालात्यये सति ॥
प्रायश्चित्तबहुत्वं स्यादेवमा वत्सरत्रयात् ।

त्रिवर्षे वर्षमेकं तु प्राजापत्यं चरेद्व्रतम् ॥
एवमेवाधिकेऽपि स्यात्काले चैव ततोऽधिकम् " इति ।

अथ प्रसङ्गात्संक्षेपेण कृच्छ्रादीनां लक्षणानि ।

 तत्र कृच्छ्रलक्षणं धर्मसूत्रे--

"त्र्यहमनक्ताश्यदिवाशी ततन्त्र्यहमयाचितव्रतत्र्यहं नाभाति किंचन " इति ।

 कृच्छ्रद्वादशरात्रस्य विधिरयम् ।

[४८]मनुनाऽप्युक्तम्[४९]-

" त्र्यहं प्रातन्त्र्यहं सायं त्र्यहमद्यादयाचितम् ।
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्द्विजः" इति ॥

याज्ञवल्क्येनाप्युक्तम्--

"एकमक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैकेन लघुकृच्छ्र उदाहृतः ॥
यथाकथंचित्रिगुणाः(गः) प्राजापत्यः स उच्यते " इति ।

 लघुकच्छू उदाहृत इत्यत्र पादकृच्छ्रः प्रकीर्तित इति पाठान्तरम् । लघुकच्छूस्यैव शिशुकच्छ इति संज्ञान्तरम् । यथाकथंचिदित्यनेनानुलोमः प्रतिलोमो दण्डकलितवदावृत्तः स्वस्थानविश्रद्धो वेति स्मृत्यन्तरसिद्धं पक्षचतुष्टयं संगृह्यते।

 ग्राससंख्यापरिमाणे आहाऽऽपस्तम्ब:-

" सायं द्वाविंशतिसाः प्रातः षड्विंशतिः स्मृताः ।
चतुर्विशतिरायाच्याः परे निरशनास्त्रयः॥
कुक्कुटाण्डप्रमाणाः स्युर्यथा वाऽऽस्यं विशेत्सुखम् " इति ।

 अनयोः पक्षयोः शक्ताशक्तपरत्वेन व्यवस्था । पाराशरे तु-

" सायं तु द्वादश ग्रासाः प्रातः पञ्चदश स्मृताः" इति पूर्वार्धं पठितम् ।

चतुर्विंशतिमते तु-

"प्रातस्तु द्वादश ग्रासाः सायं पञ्चदशैव तु ।
अयाचिते तु द्वावष्टौ परं वै मारुताशनः" इति ॥

 आसां च संख्यानां शक्ताशक्तपरत्वेन व्यवस्था।

 कृच्छ्रसंवत्सरलक्षणमुक्तं धर्मसूत्रे-

एवमेवाभ्यस्येत्संवत्सरं स कृच्छूसंवत्सरः" इति ।

 पूर्वसूत्रे कृच्छ्रद्वादशरात्रविधेषक्तत्वात्तस्यैवंशब्देन ग्रहणम् । अभोज्यभोजनाभ्यासेऽयम् ।

 अतिकृच्छूलक्षणमाह याज्ञवल्क्यः-

"एष एवातिकृच्छ्रः स्यात्पाणिपूरान्नभोजनः" इति ।

 अत्र येषु नवदिनेषु भोजनं प्राप्तं तत्र पाणिपूरानं [५०]नियम्यते । पाणिपूरमेकग्रासपरिमितमन्नम् ।

“एकैकं ग्रासमश्नीयाच्यहाणि(दहानि ) त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रे चरन्द्विजः" इति मनूक्तेः।

 कच्छ्रलक्षणमपि तेनैवोक्तम्-

“कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिः(म्)" इति ।

 पत्रपुटकादिना ग्रासपरिमाणं कृत्वैकग्रासपर्याप्तं दुग्धमेकविंशतिदिनेष्वश्नीयात् ।

 प्राजापत्योक्तद्वाविंशत्यादिसंख्यया वा यावता प्राणधारणं भवति तावद्वेति मदनपारिजातः । पयोऽत्र जलम् ।

"चरेत्कृच्छ्रातिकृच्छ्रे तु पिबेत्तोयं तु शीतलम् " इति ब्रह्माण्डपुराणात् ।

 अभक्षः कृच्छ्रातिकृच्छ्र इति गौतमोक्तेश्चेति भवदेवः ।

 पराकलक्षणमाह याज्ञवल्क्यः-

“द्वादशाहोपवासेन पराकः परिकीर्तितः" इति ।

 मासोपवासकृच्छ्रमाह जाबालि:-

" अनश्नन्मासमेकं तु महापातकनाशनम् ' इति ।

यविककृच्छ्रमाह शङ्खः-

" गोपुरीपाद्यवानश्नन्मासमेकं समाहितः ।
व्रतं तु यावकं कुर्यात्सर्वपापापनुत्तये " इति ॥

तप्तकृच्छ्रमाह मनु:-

" तप्तकृच्छ् चरन्विप्रो जलक्षीरघृतानिलान् ।
प्रतिव्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः" इति ॥

स्मृत्यन्तरे तु-

" तप्तक्षीरवृताम्बूनामेकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश्च तप्तकृच्छू उदाहृतः” इत्युक्तम् ॥

 क्षीरादीनां परिमाणमुक्तं पराशरेण-

" षट्पलं तु पिबेदम्भस्त्रिपलं तु पयः पिबेत् ।
पलमेकं पिबेत्सर्पिस्तप्तकृच्छ्रो विधीयते " इति ॥

तप्तकृच्छ्रमुक्त्वा शङ्कलिखितौ-" एष एव शीतैः शीतकृच्छ्रः" इति ।

सांतपनमाह शङ्ख:-

"गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च कृच्छ्रे सांतपनं स्मृतम् " इति ।

 यतिसांतपनमाह स एव--

"एतदेव त्र्यहाभ्यस्तं यतिसांतपनं स्मृतम्" इति ।

 यतिसांतपनमिति संज्ञामात्रम् । तेन न यतिमात्रस्यैवाधिकारः किं तु सर्वेषाम् ।

 महासांतपनमाह याज्ञवल्क्यः--

"पृथक्सांतपनद्रव्यैः षडहः सोपवासकः ।
[५१]प्ताहेन तु कृच्छ्रोऽयं महासांतपनः स्मृतः" इति ॥

 यमः--

"एतान्येव च पेयानि एकैकं च द्व्यहं द्व्यहम् ।
अतिसांतपनं नाम श्वपाकमपि शोधयेत्" इति । द्वादशाहोऽयम् ।
"त्र्यहं पिबेत्तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् ।
त्र्यहं दधि त्र्यहं क्षीरं त्र्यहं सर्पिस्ततः शुचिः" [इति] ॥

 ([५२]पञ्चदशाहोऽयम् ।

 जाबालः--

"[५३]षण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् ।
त्र्यहं चोपवसेदन्त्यं महासांतपनं विदुः" ) इति ॥

 एकविंशत्यहोऽयम् ।

तुलापुरुषकृच्छ्रमाह शङ्खः--

" पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् ।
उपवासान्तराभ्यासात्तुलापुरुष उच्यते" इति ॥

 आचाम ओदननिस्रावो मण्ड इति यावत् ।

वज्रकृच्छ्रमाहाङ्गिराः--

"गोमूत्रेण समायुक्तं यावकं[५४] वोपयोजयेत् ।
एकाहेन तु कृच्छ्रोऽयमुक्तस्त्वङ्गिरसा स्वयम् ॥
सर्वपापहरो दिव्यो नाम्ना वज्र इति स्मृतः" इति ।

 पूर्वप्रक्रान्तदधितक्रापेक्षया विकल्पः ।

चान्द्रायणमाह यमः--

"वर्धयेत्पिण्डमेकैकं शुक्ले कृष्णे च ह्रासयेत् ।
एतच्चान्द्रायणं नाम यवमध्यं प्रकीर्तितम् ॥
एकैकं ह्रासयेत्पिडं शुक्ले कृष्णे च वर्धयेत् ।
एतत्पिपीलिकामध्यं चान्द्रायणमुदाहृतम् ॥

त्रींस्त्रीन्पिण्डान्समश्नीयान्नियतात्मा दृढव्रतः ।
हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम् ॥
चतुरः प्रातरश्नीयाच्चतुरः सायमेव च ।
पिण्डानेतद्धि बालानां शिशुचान्द्रायणं स्मृतम् ॥
पिण्डानष्टौ समश्नीयान्मासं मध्यंदिने रवौ ।
यतिचान्द्रायणं ह्येतत्सर्वकल्मषनाशनम्" इति ॥

 शिशुचान्द्रायणमिति संज्ञामात्रम् । एवं यतिचान्द्रायणमित्यपि। यवपिपीलिकामध्ययोस्तिथिवृद्धौ ह्रासे वा ग्रासानामपि ह्रासवृद्धी ।

तथा च विष्णुः--

" ग्रासानास्याविकारमश्नीयात्तांश्चन्द्रकलाभिवृद्धौ क्रमेण
वर्धयेद्धानौ च ह्रासयेदमावास्यायां च नाश्नीयात्" इति ।

 सामान्यचान्द्रायणमाह विष्णुः--

"यथाकथंचित्पिण्डानां तिस्रोऽशीतीरश्नीयात्सामान्यचान्द्रायणे" इति ।

 प्रतिदिनं संख्यानियमादरेण मासेन चत्वारिंशदुत्तरशतद्वयं ग्रासानश्नीयादित्यर्थः । पिपीलिकामध्ययवमध्यभिन्नचान्द्रायणेषु दिनान्तरेऽप्यारम्भो न प्रतिपद्येव ।

 ग्रासपरिमाणमाह याज्ञवल्क्यः--

"तिथिवृद्ध्या चरेपिण्डाञ्छुक्ले शिख्यण्डसंमितान्" इति । शिखी मयूरः ।

चान्द्रायणं प्रकृत्य पराशरस्तु--"कुक्कुटाण्डप्रमाणं तु ग्रासं वै परिकल्पयेत्" इति ।

 शङ्खस्तु--"आर्द्रामलकमात्रास्तु ग्रासा इन्दुव्रते स्मृताः" इति ।

 इन्दुव्रतं चान्द्रायणम् । एतेषां च परिमाणानां शक्ताशक्तपरत्वेन व्यवस्था । एकादश्यादौ नित्यप्राप्त उपवासश्चान्द्रायणविधिना बाध्यते । एतस्य "धर्मार्थं च चरेदेतच्चन्द्रस्येति सलोकताम्" इति काम्यत्वात् । लशुनभक्षणादिनिमित्ते विहितत्वेन नैमित्तिकत्वाच्च । काम्यस्त्वेकादश्याद्युपवासोऽन्यद्वारा कारणीयः । प्रतिनिधिना कृतेऽपि फलप्राप्तेः कात्यायनादिभिरुक्तत्वात् । अयं चैकादश्याद्युपवासबाधो न सामान्यचान्द्रायणे, तत्र प्रतिदिनं ग्रासग्रहणनियमाभावात् ।

अथ संक्षेपेण प्रत्याम्नायाः ।

चतुर्विंशतिमते--

"कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् ।
तिलहोमसहस्रं तु वेदपारायणं तथा ॥
विप्रा द्वादश वा भोज्याः पावकेष्टिस्तथैव च ।
अन्या वा पावमानेष्टिः समान्याहुर्मनीषिणः" इति ॥

 पराशरः--

"कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् ।
पुण्यतीर्थेऽनार्द्रशिरःस्नानं द्वादशसंख्यया" इति ।

 अनार्द्रशिरःस्नानमिति पदच्छेदः ।

अपरार्के स्मृत्यन्तरे--

"समिद्घृतं हविर्धान्यं तिलान्वा मारुताशनः ।
हुत्वा द्वादशसाहस्रं गायत्र्या कृच्छ्रमाप्नुयात् ॥
द्वादशैव सहस्राणि जपेद्देवीमुपोषितः ।
जलान्ते विधिवन्मौनी प्राजापत्योऽयमुच्यते" इति ॥

 द्वादशसाहस्रं द्वादशसंख्यसाहस्रं द्वादशाधिकसाहस्रमिति केचित् । जलान्ते जलसमीपे ।

याज्ञवल्क्योऽपि--

"यत्र यत्र च संकीर्णमात्मानं मन्यते जनः ।
तत्र तत्र तिलैर्होमो गायत्र्या वाचनं तथा" इति ॥

 संकीर्णं पापयुक्तम् ।

 अपरार्केः--

"उपोष्य श्रद्धया युक्तस्तिलपात्राणि धर्मतः ।
द्वादशब्रह्मवादिभ्यः प्राजापत्येन तत्समम् ॥
स्वयमाहृत्य यो मूर्ध्ना तृणभारानुपोषितः ।
दद्याद्गोमण्डले कृच्छ्रे द्वादशैव न संशयः ॥
अन्नदानहिरण्येन द्वादश ब्राह्मणाञ्शुचीन् ।
तर्पयेन्मारुताशी च श्रोत्रियान्कृच्छ्र उच्यते ॥
प्राणायामशतं कृत्वा द्वात्रिंशोत्तरमार्तिषु ।
अहोरात्रोषितस्तिष्ठेत्प्राङ्मुखः कृच्छ्र उच्यते ॥
नमस्कारसहस्राणि द्वादशैव दृढव्रतः ।
गोविप्रपितृदेवेषु कुर्यात्कृच्छ्रत्रयं भवेत्" इति ॥

तिलपात्राण्युक्तानि कौर्मे--

"तिलपात्रं त्रिधा प्रोक्तं कनिष्ठोत्तममध्यमम् ।
ताम्रपात्रं दशपलं जघन्यं परिकीर्तितम् ॥
द्विगुणं मध्यमं प्रोक्तं त्रिगुणं तूत्तमं स्मृतम्" इति ।

 भारो द्विसहस्रपलपरिमितः ।

 वसिष्ठः--

"गोमूत्रेण समायुक्तं यावकं चोपयोजयेत् ।
कृच्छ्रमैकाहिकं प्रोक्तं दृष्टमङ्गिरसा स्वयम् ।
निश्यासीनो दिवा तिष्ठेत्त्रिरात्रं मारुताशनः ।
प्राजापत्यं विजानीयात्कूश्माण्डैर्जुहुयाघृतम्" इति ॥

माधवीये स्मृत्यन्तरे--

"प्राजापत्यं चरन्विप्रो यद्यशक्तः कथंचन ।
अहानि पञ्च विप्राग्र्यान्भोजयेत्सम्यगीप्सितान्" इति ॥

 अत्र कपिञ्जलाधिकरणन्यायेन पञ्चस्वप्यहःसु त्रयस्त्रयो विप्रा भोज्या इति केचित् । पञ्चसंख्याया देहलीदीपन्यायेनोभयत्रान्वयः । तेन पञ्च विप्रा भोजनीया इत्यन्ये ।

स्मृत्यर्थसारे--

"रुद्रैकादशिनी कृ[५५]च्छ्रो द्वादशांशो निवर्तनात् ।
योजनं सिन्धु[५६]गातीरे घृतहोमशतद्वयम्" इति ॥

निवर्तनलक्षणं तु--"दशहस्तेन दण्डेन त्रिंशद्दण्डा निवर्तनम्" इति ।

 निवर्तनद्वादशांशभूमिदानेन कृच्छ्र इत्यर्थः ।

 माधवीये--

" प्राजापत्यक्रियाशक्तौ धेनुं दद्यात्पयस्विनीम् ।
धेनोरभावे दातव्यं[५७] तुल्यं मूल्यं न संशयः" इति ॥

मदनरत्ने ब्राह्मे--"गवामभावे निष्कः स्यात्तदर्धं पादमेव[५८] वा" इति ।

चतुर्विंशतिमते--

"प्राजापत्ये तु गामेकामतिकृच्छ्रे तथा द्वयम् ।
पराके तप्तातिकृच्छ्रे तिस्रस्तिस्रस्तु ताः स्मृताः ॥
अष्टौ चान्द्रायणे[५९] ज्ञेयास्तिस्रो वा शक्त्यपेक्षया" इति ॥

स्मृत्यर्थसारे तु-- "षडुपवासाः प्राजापत्यप्रत्याम्नायः । एकविप्रभोजनमुपवासस्येति च"

 इति । पक्षिवधे नक्तं रूप्यमाषकं वा दद्यादिति हारीतोक्ते रूप्यमाषकदानं नक्तस्येति शूलपाणिः ।

शूलपाणिरेव--"चान्द्रायणं तु कुर्वाणाः कुर्युः कृच्छ्रचतुष्टयम्" इति ।

  तथा--

" चान्द्रायणपराकाभ्यां निष्कृतिं यो न शक्नुयात् ।
स करोत्यात्मशुद्ध्यर्थं प्राजापत्यस्य पञ्चकम्" इति ॥

 कृच्छ्रातिकृच्छ्रे धेनुचतुष्टयमिति भवदेवः । अत्र गुरुलघुपक्षाणां शक्ताशक्तपरत्वेन व्यवस्था । इति प्रत्याम्नायाः ।

अथ पुनःसंधानम् ।

तत्र नक्षत्राणि--

"कृत्तिका रोहिणी मृगशीर्ष पुनर्वसू फल्गुन्यौ हस्तश्चित्रा विशाखे
अनूराधाः श्रोणा प्रोष्ठपदाश्चोत्तरेऽग्न्याधेयनक्षत्राणि" इति ।

 कृत्तिकाबहुवचनान्तेनैकमेव नक्षत्रम् । अनूराधाः, प्रोष्ठपदाः, पुनर्वसू, पुंलिङ्गाः । फल्गुन्यौ विशाखे स्त्रीलिङ्गे । स्पष्टान्यन्यानि । "अमावास्यायां पौर्णमास्यामापूर्यमाणपक्षे वा पुण्ये नक्षत्रे" इति । आपूर्यमाणः पक्षः पूर्वः पक्षः । आपूर्यमाणपक्ष इत्यनेन पूर्णमासग्रहणे पुनरुपादानमतिशयार्थं तत्प्रतिपद्ग्रहणार्थं च । आपूर्यमाणपक्ष इत्यनेन पुण्ये नक्षत्र इति समुच्चीयते । वाशब्दस्यात्रानन्वयात् । आषाढे मासि पुनःसंधानं न कर्तव्यम् ।

"आदधीतानलान्विप्रो नाऽऽषाढे मासि कर्हिचित् ।
भाद्रे मासि न राजन्यो नाऽऽश्विनेऽप्यूरुजः क्वचित्" इति कात्यायनोक्तेः ।

 ऊरुजो वैश्यः । विस्तरस्तु श्रौता[६०]ज्ज्ञेयः । विच्छिन्नसंधानस्य नैमित्तिकत्वान्निमित्तानन्तरमधिमासेऽपि करणमुचितं नातिपन्नस्य जातेष्टिवत् ।

 अमुनैवाऽऽशयेन दीपिकायामुक्तम्--

"यन्नैमित्तिकमग्निनष्ट्यनुगताग्न्याधानमर्चासु वा
संस्कारादिविलोपने सति पुनः प्रोक्तं प्रतिष्ठादिकम् ।
दाहेष्ट्यादि च यत्स्वकालविगमे गौणं विधानात्परं
लुप्येताधिकमासि तद्वितनुयात्" इति ॥

 अथवा विवाहोक्तान्येव नक्षत्रादीनि ग्राह्याणि । अस्मिन्पक्षे विवाहहोमीयप्रधानाज्याहुतिषट्कं लाजाहुतित्रयं चायाश्चेत्याहुत्योपवासेन वा समुच्चितं द्रष्टव्यम् । न्यायतोऽप्येवम् । यदि तु सर्वथा पुत्राद्यभावस्तदा मन्त्रलिङ्गविरोधादाज्याहुतिषट्काभाव एव । लाजाहुतित्रयमात्रं कर्तव्यम् । पूर्ववदाहुत्या उपवासस्य वा समुच्चयोऽत्राप्यस्त्येव । वस्तुतस्तु शुभकर्मानुकूलानि सामान्यनक्षत्रादीन्यत्र ज्ञेयानि । अस्मिन्कल्पे विवाहहोमीयाहुतिषट्कं लाजाहुतित्रयं च न । असंकरात्सर्वत्रेदमेव युक्तम् । सर्वपक्षेषु निमित्तानन्तरकरणपक्षे न नक्षत्राद्यपेक्षेति द्रष्टव्यम् ।

अथ पुनःसंधानप्रयोगः ।

 कर्ताऽऽदौ होमसामग्रीं स्थालीपाकार्थं चरुस्थाल्यादिकम[६१]ग्न्यायतनस्य समन्तात्परिश्रयणार्था[६२]नि च्छदींषि, उदुम्बरशाखाः प्लक्षशाखा वा सिकतोषाखूत्करवल्मीकवपासूदवराहविहतशर्कराहिरण्यशकलरजतशकलपुष्करपर्णाश्वस्थोदुम्बरपलाशशमीविकङ्कतपल्लवानशनिहतवृक्षकाष्ठं चोपकल्पयेत् । सिकताः प्रसिद्धाः । ऊषाः(षः) क्षारमृत् । आखूत्करं वन्याऽऽखूत्कीर्णा मृत् । अभाव उत्कीर्णा ग्राम्या । वल्मीकशब्देन व[६३]रोलम् । तस्य वपा वपाकारा मृदुच्यते । सूदो हृदमृत् । तदभावे कुलीरमृत् । वराहविहत आरण्यवराहोत्कीर्णा मृत् । शर्कराः क्षुद्रपाषाणाः । भाषया काङ्कर इति प्रसिद्धाः । शकलस्वरूपं तु स्मृतौ[६४]--"यवार्धं त्रुटिरित्युक्ता द्वे त्रुटी शकलं स्मृतम्" इति ॥

 पुष्करपर्णं कमलिनीपर्णम् । अश्वत्थादयश्चत्वारः प्रसिद्धाः । विकङ्कतः सकण्टकवृक्षः। भाषया सुतवी इति प्रसिद्धः । अशनिहतो विद्युद्धतः। अभावे वातहतः । एवं सामग्रीं संभारांश्च परिकल्प्य समिन्नाशादिनिमित्तानन्तरं रात्रौ चेत्समिन्नाशादिनिमित्तं तदा द्वितीयदिने प्रातस्तस्यातिक्रमे शुभे दिने कृत्तिकारोहिणीमृर्गशीर्षपुनर्वसू(सु)पूर्वा(र्व)फल्गुन्युत्तरा(र)फल्गुनीहस्तचित्राविशाखानूराधाश्रवणोत्तरा(र)प्रोष्ठपदान्यतम आधानोक्तनक्षत्रे शुभकर्मानुकूलसामान्यनक्षत्रान्यतमनक्षत्रे वा पत्न्या सह प्राणानायम्य देशकालौ संकीर्त्य मम नास्तिक्यादेतावत्कालपर्यन्तं गृह्याग्निविच्छेदजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थमेतावत्प्रायश्चित्तमहमाचरिष्य इति संकल्पं कुर्यात् । प्रमादेन विच्छेदे तु मम प्रमादादेतावत्कालपर्यन्तमिति । ममाऽऽलस्यादेतावत्पर्यन्तमित्यालस्येन विच्छेदे । एवं संकल्प्याग्निविच्छेदकालगणनया प्रायश्चित्तं दंपती सह कुरुतः । अशक्तौ प्रत्याम्नायद्वारा ।

 तत्र नास्तिक्याद्द्वादशाहपर्यन्तं पराकः । ततोऽब्दपर्यन्तं मासं पयोव्रतम् । अब्दे पूर्णे द्वैमासिकं त्रैमासिकं वा व्रतम् । ततः प्रतिवर्षमेतस्यैवाऽऽवृत्तिरिति ।

 प्रमादात्त्रिरात्रमग्निविच्छेदे प्राणायामशतम् । द्वाविंशतिरात्रपर्यन्तमेकदिनमुपवासः । मासद्वयपर्यन्तं त्रिरात्रमुपवासः । अब्दे प्राजापत्य इति ।

 आलस्याद्द्वादशाहं विच्छेदे तु त्र्यहमुपवासः । मासातिक्रमे द्वादशाहमुपवासः । षण्मासातिक्रमे मासं पयोव्रतम् । संवत्सरातिक्रमे मासमुपवासः पयोभक्षणं कूश्माण्डहोमो वा, समुच्चयो वैतेषाम् ।

 प्रयोगपारिजाते त्वत्राधिकमुक्तम्--द्वादशाहपर्यन्तं त्र्यहमुपवासः । मासपर्यन्तं द्वादशाहमुपवासः । अब्दपर्यन्तं[६५] मासं पयोव्र[६६]तम् । द्विवर्षपर्यन्तं मासं पयोव्रतं चान्द्रायणं च । अब्दपर्यन्तं चान्द्रायणं [६७]सोमायनं च । तदूर्ध्वमब्दकृच्छ्रं धनिनो गोदानं चेति ।

 नास्तिक्यादग्निविच्छेदवशेन लुप्तानां सायंप्रातर्होमानां दर्शपूर्णमासस्था लीपाका[६८]नां च पर्याप्तमिदं व्रीह्याद्यन्यतमं होमद्रव्यमाज्यं च तन्निष्क्रयद्रव्यं वाऽमुकेभ्यो ब्राह्मणेभ्यः संप्रदद इति संकल्प्याग्निविच्छेदकालगणनया दद्यात् । आग्रयणकरणपक्षे दर्शपूर्णमासस्थालीपाका[६९]नामित्यनन्तरमाग्रयणस्थालीपाकस्य चेत्यूहः । एतच्च प्रायश्चित्तं विच्छेदोत्तरं कालविलम्बे यद्य[७०]कृताग्निद्वयसंस[७१]र्गो यजमानस्तदाऽग्निद्वयविच्छेदस्यापि तत्तत्कालगणनया प्रायश्चित्तं कार्यम् । नास्तिक्याद्विच्छेदश्चे[७२]द्धोमद्रव्यदानं स्थालीपाकद्रव्यदानं च । अनारब्धस्थालीपाकस्य यजमानस्य विभ्रष्टस्थालीपाकमात्रं न लुप्तस्थालीपाकद्रव्यदानम् । अनारब्धत्वात्तेषाम् । संकल्पवाक्ये दर्शपूर्णमासाग्रयणस्थालीपाकोल्लेखोऽपि न ।

 ततः सपत्नीकः पुनराचमनप्राणायामदेशकालसंकीर्तनानि कृत्वाऽमुकंनिमित्तेन विच्छिन्नस्य गृह्याग्नेः पुनःसंधानं करिष्य इति संकल्प्य गणेशं संपूज्य कृतभस्मोत्सर्गोपलेपनमग्न्यायतनं परिश्रित्य फलाद्यन्यतमेन ताम्र[७३]शकलयुक्तेन पूर्ववदुल्लिख्यावोक्षणोत्सेचनोदकनिधानानि कृत्वाऽभ्यादिनोद्धत्यावोक्ष्य सिकता न्युप्योदुम्बरशाखाभिः प्लक्षशाखाभिर्वा प्रच्छाद्य सिकतोषाखूत्करवल्मीकवपासूदवराहविहतशर्करा इति भौमान्, हिरण्यरजतशकलपुष्करपर्णाश्वत्थोदुम्बरपलाशशमीविकङ्कताशनिहता इति वानस्पत्यान्संभारांस्तूष्णीमग्न्यायतने प्रक्षिपेत् । सर्वेषां भौमानामलाभे सिकताग्रहणं, वानस्पत्यानामलाभे त्वश्वत्थग्रहणम् । एवं संभारांस्तूष्णीं प्रक्षिप्य स्वयोनित उत्पन्नमग्निमाहृत्य भूर्भुवः सुवरोमित्यग्न्यायतने प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा विच्छिन्नगृह्याग्निपुनःसंधानहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा वैशेषिकप्रधानहोमे--मिन्दवन्तमग्निमाज्याहुत्या यक्ष्ये । अग्निमिन्द्रं बृहस्पतिमश्विनौ चाऽऽज्याहुत्या यक्ष्ये । तन्तुमन्तमग्निं तिसृभिराज्याहुतिभिर्यक्ष्ये । अग्निमभ्यावर्तिनमा० । अग्निमङ्गिरसमा० । अग्निं द्वाभ्यामा० । अग्निमा० । वायुमा० । सूर्यमा० । प्रजापतिमा० । अयासमग्निमा० । मनस्वन्तमग्निमा० । प्रजापतिमा० । सप्तवन्तमग्निमा० । वाचस्पतिं ब्रह्माणमाज्याहुत्या यक्ष्ये । अङ्गहोमे वरुणं द्वाभ्यामित्यादिव्याहृतिहोमान्तं कृत्वा वैशेषिकप्रधानहोमं कुर्यात् ।

 यन्म आत्मनः पुनरग्निरिति द्वयोर्मन्त्रयोः सोम ऋषिः । प्रथमस्य मिन्दवान ग्निर्देवता । द्वितीयस्याग्निरिन्द्रो बृहस्पतिरश्विनौ च देवताः । प्रथमस्य गायत्री छन्दः । द्वितीयस्यानुष्टुप्छन्दः । विच्छिन्नगृह्याग्निपुनःसंधानवैशेषिकप्रधानाज्यहोमे विनियोगः । "ॐ यन्म आत्मनो मिन्दा० विचर्षणिः स्वाहा" मिन्दवतेऽग्नय इदं० । "ॐ पुनरग्निश्चक्षु० मक्ष्योः स्वाहा" अग्नय इन्द्राय बृहस्पतयेऽश्विभ्यां चेदं० ।

 तन्तुं तन्वन्नुद्बुध्यस्वाग्ने त्रयस्त्रि शत्तन्तव इति मन्त्रत्रयस्याग्निर्ऋषिः । तन्तुमानग्निर्देवता । प्रथमस्य जगती छन्दः । द्वितीयस्य त्रिष्टुप्छन्दः । तृतीयस्य जगती छन्दः । विच्छिन्नगृह्याग्निपुनःसंधानवैशेषिकप्रधानाज्यहोमे विनियोगः । "ॐ तन्तुं तन्वन्रजसो० जन स्वाहा" तन्तुमतेऽग्नय इदं० । "ॐ उद्बुध्यस्वाग्ने० मेत स्वाहा" तन्तुमतेऽग्नय इदं० । "ॐ त्रयस्त्रि शत्तन्त० स्वाहा" तन्तुमतेऽग्नय इदं० ।

 अग्नेऽभ्यावर्तिन्नित्यादीनां चतुर्णां मन्त्राणामग्निर्ऋषिः । प्रथमस्याग्निरभ्यावर्ती देवता । द्वितीयस्याग्निरङ्गिराः । तृतीयचतुर्थयोरग्निः । प्रथमस्य[७४] पञ्चपदोष्णिक् । द्वितीयस्य[७५] पञ्चपदा महाबृहती । तृतीयचतुर्थयोर्गायत्री । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः-- "ॐ अग्नेऽभ्यावर्ति० धनेन स्वाहा" अग्नयेऽभ्यावर्तिन इदं० । "ॐ अग्ने अङ्गिरः० मा कृधि स्वाहा" अग्नयेऽङ्गिरस इदं० । "ॐ पुनरूर्जा० विश्वतः स्वाहा" अग्नय इदं० । "ॐ सह रय्या नि० स्परि स्वाहा" अग्नय इदं ।

 व्यस्तसमस्तव्याहृतीनां पूर्ववदृष्यादि, विच्छिन्नेत्यादि विनियोगवाक्यम् । "ॐ भूः स्वाहा" अग्नय इदं० । "ॐ भुवः स्वाहा" वायव इदं० । "ॐ सुवः स्वाहा" सूर्यायेदं० । "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० । अयाश्चाग्न इत्यस्य वामदेवोऽया अग्निः पङ्क्तिः । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । "ॐ अयाश्चाग्ने० भेषज स्वाहा" अयसेऽग्नय इदं० ।

 मनोज्योतिर्जुषतामित्यस्याग्निर्मनस्वानग्निस्त्रिष्टुप् । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । "ॐ मनोज्योति० घृतेन स्वाहा" मनस्वतेऽग्नय इदं ।

 प्रजापत इत्यस्य विश्वे देवाः प्रजापतिस्त्रिष्टुप् । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । 'ॐ प्रजापते न त्वदे० रयीणा स्वाहा' प्रजापतय इदं० ।  सप्त ते अग्न इत्यस्याग्निः सप्तवानग्निर्जगती । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । 'ॐ सप्त ते अग्ने० घृतेन स्वाहा' सप्तवतेऽग्नय इदं० ।

 चित्तिः स्रुगिति दशहोतृसंज्ञकस्य वाचस्पते विधे नामन्नित्यादिग्रहसंज्ञकभागसहितस्य प्रजापतिर्वाचस्पतिर्ब्रह्मा यजुः । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । ॐ चित्तिः स्रुक्० नृम्णं धात्स्वाहा' वाचस्पतये ब्रह्मण इदं० । इत्यष्टादशाऽऽहुतीर्हुत्वा, इमं मे वरुणेत्यादिसंस्थाजपान्तं कृत्वोक्तरीत्या त्रिवृदन्नहोमं कृत्वा पुण्याहस्वस्त्ययनर्द्धिवाचनं विधायाग्निः प्रीयतामिति वदेत् ।

 ततः पार्वणस्थालीपाकवदाग्नेयस्थालीपाकं सद्य एव कृत्वा वाससी धेनुमनड्वाहं तन्निष्क्रयद्रव्यं वा ब्राह्मणाय दक्षिणां दद्यात् ।

 ततो यथाविभवं ब्राह्मणान्संभोज्य भूयसीं दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।

"प्रातर्होमोऽङ्गभूतत्वादकालेऽपि विधीयते ।
इति केचिद्गृह्यविदो नाङ्गत्वमिति केचन" ॥

 इति प्रातरौपासनहोमस्य पुनःसंधानाङ्गभूतत्वेन विहितकालासत्त्वेऽपि क्रियेति केचिद्गृह्यकारा आहुः ।

 अन्ये तु प्रातरौपासनहोमस्य पुनःसंधानाङ्गभूतत्वे प्रमाणाभावान्नाविहितकाले क्रियेति । येषां मतेऽङ्गत्वं तन्मत आग्नेयस्थालीपाकात्पूर्वमेव कर्तव्यः । येषां मतेऽङ्गत्वं नास्ति तन्मतेऽन्तःपाती प्रथमो होमो नास्त्येव । नित्यस्य कालप्राप्तस्य प्रातर्हो[७६]मस्यानुष्ठाने विकल्पः ।

तत्र कारिकाद्वयम्--

"आधाने पुनराधाने सायंकाल उपक्रमः ।
स्थालीपाकं पौर्णमास्यामारभेत विचक्षणः" इति ॥
"पुनराधानदिवसे हूयेते प्रातराहुती ।
ततस्तु सायमारभ्य होमान्काले तमाचरेत्" इति ॥

 इदानीं प्रचुराचारः सायमुपक्रमविषय एव । यदि संसर्गविधेः प्राग्द्वावप्यग्नी विच्छिन्नौ तदा प्राणानायम्य मम विच्छिन्नस्य प्रथमगृह्याग्नेः पुनःसंधानं करिष्य इति संकल्प्य तदीयविच्छेदप्रायश्चित्तपूर्वकं ज्येष्ठपत्न्या सह तदीयमग्निं संधायैवमेव कनिष्ठया तदीयमग्निं संदध्यात् । तत्र प्रथमगृह्याग्नेरित्यत्र द्वितीयगृह्याग्नेरिति विशेषः । वस्तुतस्तूपवासाहुत्यात्मकमेव प्रायश्चित्तं युक्तं, सूत्रोक्तत्वात् । पाणिग्रहणादिरित्येतत्खण्डं तु क्षेपकमव्याख्यानात् । अनुगते भार्यायाः पत्युर्वेत्येतत्सूत्रस्थभाष्यलिङ्गात् । तस्यौपासनेनाऽऽहिताग्नि[७७]त्वं पार्वणेन चरुणा दर्शपूर्णमासयाजित्वं चेति कश्चिद्वक्ष्यत्याचार्य इत्याधानप्रकरणे कश्चिदिति वैजयन्तीकारोक्तेश्च । स चोपवासो दिवाकर्मत्वादासायं द्रष्टव्यः[७८] । आहुतिस्त्वयाश्चाग्न इति ।

इति संस्काररत्नमालायां पुनःसंधानम् ।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां षोडशं प्रकरणम् ॥ १६ ॥

  1. ड. च. स्ना सावि ।
  2. ङ. वित्र्यै यद । च. वित्र्ययद ।
  3. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।
  4. ङ. च. ब्राह्मणं ।
  5. ङ. आचम्य ।
  6. ग. ङ. त्वा ब्राह्मण ।
  7. ग. ङ. व द्विश्व ।
  8. ग. ङ. शभ्यर्णै ।
  9. क. स्याम एकः शु । ग. स्याम एव शु । च. स्यामः शोणितशुक्रसं ।
  10. च. दि वाऽगा ।
  11. क. ज्ञा प्रमाणैवा ।
  12. च. वत्त्वे वे ।
  13. क. ग. व व ।
  14. क. ख. त्रव ।
  15. क. रत्वजा ।
  16. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।
  17. क. ख. द्य ज्ञाती ।
  18. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।
  19. ख. ग. ङ. च. दिसं ।
  20. ग. ङ. च. हैव सा ।
  21. क. मीपं ति ।
  22. ख. ङ. च. सिद्ध्यर्थमात्म ।
  23. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।
  24. हस्तपादमिति तूचितम् ।
  25. क. ख. त् । कु ।
  26. क. ख. ग. च । त ।
  27. ग. च. त्रीन्ब्राह्म ।
  28. च. धिका ।
  29. क. ग. व.प ।
  30. ख. ग. स्मिन्पथि ।
  31. ग. रपथि ।
  32. ख. ग. संस्पृष्टे ।
  33. ग. च. च्छत्यन्या ।
  34. क. भाष्ये च प्रे ।
  35. ख. ग. ङ. च. त् । प्र ।
  36. अत्र क. पुस्तके कुक्कुभेति पाठः । तदुपरि "कुक्कुभो लावा इति प्रसिद्धः" इति टिप्पणी च ।
  37. क. द्वा वोदक्याप ।
  38. क.ख. गोपालोऽ ।
  39. क. म् । नात्वान्वा ।
  40. क. पुस्तके "प्रवसत्यपि" इति शोधितः पाठः ।
  41. क. प्रायश्चित्तदीपि(धि)तौ ।
  42. च. शब्दे प्र ।
  43. क. न चोच्य ।
  44. क. स्य हौम्यद्र । ख. ङ. च. स्य हौम ।
  45. क. ख. च. र्थहौम्यद्र । ड. र्थहाम ।
  46. क.ख. च. च्च हौम्यद्र । ङ.च हौम ।
  47. क. जातः । आलस्ये ।
  48. क. नुनोक्तः । व्य ।
  49. ङ. च. म्- ए ।
  50. क. ख. ग. नियम्य ।
  51. ख. ग. ङ. च. तप्ताहेन ।
  52. धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तकातिरिक्तपुस्तकेषु नास्ति ।
  53. अत्र क. पुस्तके "षट्त्वं कुशोदकसाहित्येनेति प्रायश्चित्तेन्दुशेखर उक्तम्" इति टिप्पणी ।
  54. ग. ङ. कं चोप ।
  55. च. कृच्छ्रे द्वा ।
  56. क. न्धुमाती ।
  57. क. व्यं मूल्यं तुल्यं न ।
  58. क. व च" इ ।
  59. क. णे देया ।
  60. क. ताग्निनाशे । वि ।
  61. क. मन्यान्याय ।
  62. ग. ङ. च. र्थादीनि ।
  63. क. वारोळम् ।
  64. च. तौ--यावा ।
  65. ग. न्तं चान्द्रायणं सो ।
  66. क. व्रतं चा
  67. अत्र क. पुस्तके टिप्पण्याम् "गोक्षीरं सप्तरात्र तु पिबेत्स्तनचतुष्टयात् । स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात् । स्तनत्तथैव षड्रात्रं त्रिरात्रं वायुभुग्भवेत् । एतत्सोमायनं नाम व्रतं कल्मषनाशनमिति प्रायश्चित्तेन्दुशेखर उक्तम्" इति ।
  68. ग. ङ. च. कादीनां ।
  69. क. कान ।
  70. ड. च. द्यग्निकृ ।
  71. क. ख. सर्गको य ।
  72. क. ख. श्चेद्धौम्यद्र ।
  73. ग. ड. च. म्रकलशयु ।
  74. ख. स्य निचृदनुष्टुप् । द्वि ।
  75. ख. स्य पङ्क्तिः । तृ ।
  76. क. र्होमानु ।
  77. क. त्वं तथा पा ।
  78. क. व्य । अशक्तस्त्व ।