व्य्ग्ननिक सस्य नामानि (तक्षोनोप्म्य् )

Flower haibuscus

तक्षोनोम्य् सस्यस्य क्रमबद्द नामकरण पद्दतिहि .नियमानुसारेण सस्यस्य अध्ययनं कृत्वा सर्व वैशिष्ट्यं अन्वेषणम् करोतु इति तक्षोनोम्य् |भूमे अनेक सस्य प्रभेदनि सन्ति | तस्य सस्यस्य अद्ययनं करोतु तक्षोनोम्य् बहु अनुकॊलितह .तक्षोमोम्य् क्षेत्रे बेन्थं अन्द् हूकेर यो०गदननि बहु स्मरनॆयह |सस्यस्य मूलानि ,स्तंबनि,खण्डानि ,पत्राणि, दलानि ,उपदलानि ,अधरिथेन विभगह सन्ति |कर्णाटकराज्यं निसर्गरमणीयः प्रकृतिसमृद्धं च अस्ति । अत्र पर्वताः नद्यः शद्वलाः वनानि च अधिकानि सन्ति । अतः सस्यसङ्कुलस्य सङ्ख्या अपि अधिका अस्ति । नास्ति मूलमनौषधम् इति वचनानुगुणम् ओषधयः वनस्पतयः चापि अधिकाः सन्ति । तेषु केषाञ्चन सस्यानां आवली दत्ता याः अनुबन्धान्विताः । अभिगम्यताम् ।

अयं कश्चित् भारतीयवृक्षविशेषः । एताः वृक्षप्रजातयः कर्णाटकस्य पश्चिमाद्रिभागे अधिकतया प्ररोहन्ति । अस्य सस्यशास्त्रीयं नाम अडिना कार्डिफोलिया रोक्सब् (Adina cordifolia Roxb) इति । रूबियेसी कुटुम्बसम्बद्धं सस्य एतत् । । विविधाभाषासु अस्य नामानि एवं भवन्ति ।हरिद्रकवृक्षस्य औन्नत्यं ३३मी.पर्यन्तमपि भवति । अस्य वल्कलस्य वर्णः भास्मवर्णः । अश्वत्थस्य पर्णानि इव भवन्ति । पत्राणि इव दृश्यमानानि अनुपर्णानि कलिकाः आच्छादयन्ति । पत्राणां व्यासः १०-२५ सें.मी. भवति । पुष्पाणि पीतवर्णीयानि भवन्ति । वर्तुलाकारस्य पुष्पगुच्छस्य व्यासः १.९-२.५सें.मी. भवति । हरिद्रकवृक्षेषु जून् जुलै मासयोः पुष्पाणि विकसन्ति । अस्य कुलाभिवृद्धिः बीजैः भवति ।हरिद्रकवृक्षस्य दारु मार्जनेन चकास्ति । अतः अस्य दारूणि भावनस्य द्वाराणां गवाक्षाणां पीठोपकरणानां च निर्मार्थम् उपयुज्यन्ते । अस्य वृक्षस्य उत्कीर्णचित्रकलासु च उपयोगाय उत्तमं दारु भवति । चर्मणः उदमोषु चर्मपरिष्कारार्थम् अपि अस्य वलकलस्य उपयोगः भवति । रक्तसम्बद्धानां त्वक्सम्बन्धीनां च रोगनिवारणौषधेषु वृक्षवल्कलस्य उपयोगः भवति । वृणक्रिमीनां नाशार्थमपि वल्कलरसस्य उपयोगः भवति । शिरोवेदननिवारणार्थम् अस्य वृक्षस्य कलिकानाम् उपयोगः भवति ।

एतत् कलिङ्गफलम् अपि भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् कलिङ्गफलम् अपि सस्य जन्यः आहारपदार्थः । एतत् कलिङ्गफलम् आङ्ग्लभाषायां इति उच्यते । एतत् कलिङ्गफलम् अकृष्टपच्यम् अपि । कलिङ्गफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् कलिङ्गफलम् अपि बहुविधं भवति ।अयं कश्चन ग्रन्थः । अस्य लेखकः थियोफ्रास्टस् । सः थियोफ्रास्टस् सस्यविज्ञानस्य अध्वर्युः इत्येव प्रसिद्धः अस्ति ।

अयं थियोफ्रास्टस् (THEOPHRASTUS) सस्यविज्ञानस्य जनकः । अयं ग्रीस्-देशस्य लेस्बास्-प्रदेशे क्रि.पू.३७२ तमे वर्षे जन्म प्राप्नोत् । ततः बाल्ये एव अथेन्स्-नगरं गत्वा प्लेटो-अकादमीं (लैसियम्) प्राविशत् । थियोफ्रास्टस् प्रथमवारम् अरिस्टाटलेन लेस्बास्-नगरे एव अमिलत् । तदनन्तरम् आजीवनं तयोः महान् स्नेहः आसीत् । थियोफ्रास्टस्य वास्तविकं नाम “टैर्टमस्” इति । अरिस्टाटल् एव तस्य नाम “थियोफ्रास्टस्” इति परिवर्तनम् अकरोत् । “थियोफ्रास्टस्” इत्यस्य शब्दस्य अर्थः “अद्भुतः वक्ता” इति ।अरिस्टाटलस्य निवृत्तेः अनन्तरं थियोफ्रास्टस् एव (मरणपर्यन्तम् अपि) ३५ वर्षाणि यावत् अरिस्टाटलस्य ग्रन्थालयस्य साहाय्येन सर्वाः शालाः (लैसियम्) सञ्चालितवान् । अयं थियोफ्रास्टस् सस्यशास्त्रं गभीरतया अधीतवान् । ५०० सस्यप्रभेदान् सविवरणम् उल्लिखितवान् अस्ति । अरिस्टाटल् यथा “प्राणिविज्ञानस्य अध्वर्युः” इति प्रसिद्धः तथैव थियोफ्रास्टस् “सस्यविज्ञानस्य अध्वर्युः” इति प्रसिद्धः अस्ति । तेन थियोफ्रास्टसेन लिखितः “सस्यानां परीक्षा” इत्याख्यः ग्रन्थः अद्यापि कश्चन अविस्मरणीयः विक्रमः एव । अयं थियोफ्रास्टस् क्रि.पू.२८७ तमे वर्षे मरणम् अवाप्नोत् । [१]

  1. https://en.wikipedia.org/wiki/Plant_taxonomy
"https://sa.wikisource.org/w/index.php?title=सदस्यः:Suhas_shivanna&oldid=225713" इत्यस्माद् प्रतिप्राप्तम्