प्रियसंस्कृतबन्धो,Soorya Hebbar अत्र ते हार्दं स्वागतम् । नमांसि च ।
विकिस्रोतः आधुनिकतन्त्रज्ञानचालितः कश्चित् स्वतन्त्रः पुस्तकालयः । संस्कृतं तु एका प्राचीना समृद्धा च भाषा या सार्वकालिका अपि । अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यं एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीन शब्दान् संस्कृतात् एव ग्रह्णन्ति । भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तनपरम्परया प्रभावितं भवति। अतः समृद्धायाः संवृद्धायाः च संस्कृतभषायाः विस्तारः भारतीय वाङ्मयस्य उन्नतिः भवेत्। अत एव संस्कृतस्य ज्ञानसमुद्रे विहर्तुम् अन्येषां सर्वेषामपि अवकाशः भवतु इति धिया अत्र संस्कृतविकिस्रोतसि अपि संस्कृतं प्रवेशितम् ।
विकिस्रोतसि ग्रन्थानाम् उत्तारणावसरे कार्यनिर्वहणावसरे यदि भवतः/भवत्याः मनसि संस्कृतभाषायाः विषये काचित् समस्या वा कश्चन संशयः वा उद्भवति तदा अन्यैः योजकैः सह परिचर्चां कर्तुं शक्नोति। संभाषणपुटेषु परिचयं सन्देशं प्रश्नं चिन्तनं वा लेखनात् पश्चात् स्वहस्ताक्षरान् अवश्यमेव योजयतु। तदर्थं भवान्/भवती ''~~~~'' इति लिखतु, पृष्ठस्य रक्षणपश्चात् हस्ताक्षरं स्वयमेव उदेति । सङ्गच्छध्वम् । संवदध्वम् । सं वो मनांसि.......
आशास्महे यत् विकिस्रोतसः सान्निध्ये अस्माकं साहचर्ये च भवान्/भवती सानन्दं सेवताम् । Jayantanth (सम्भाषणम्) १७:०७, २८ अक्तूबर २०१८ (UTC)

Indic Wikisource Proofreadthonसम्पाद्यताम्

Sorry for writing this message in English - feel free to help us translating it

भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०सम्पाद्यताम्

नमस्ते,

भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धायां भवान् भागं गृह्णाति इति हर्षस्य विषयः । तत्र भवता केषां पृष्ठानां पाठशुद्धिः करणीया इति विवरणम्, काश्चन विशेषसूचनाः च अधः सन्ति । कृपया पश्यतु ।

विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०/कार्यसूची--Sayant Mahato (सम्भाषणम्) ०७:१५, ३० एप्रिल् २०२० (UTC)

@Sayant Mahato:धन्यवादाः। दृष्ट्वा तदनुगुणं कार्यं करोमि। - Soorya Hebbar (चर्चा) ०७:२९, ३० एप्रिल् २०२० (UTC)

अद्य यद् पाठितवान्, तस्य परीक्षणं कुर्वती अस्मि। तावदेव 😊 -VijayalakshmiR48 (सम्भाषणम्) १४:३४, २२ मे २०२० (UTC)

नमस्ते, पृष्ठम्:2015.281062.The-Manushyalaya.pdf/१ प्रथमम् प्रुष्ठम् OCR क्रुतवान्। किमपि दोषः अस्ति तर्हि क्रुपया सूचयतु। -Sravanonwiki (सम्भाषणम्) १५:५४, २५ मे २०२० (UTC)

Test messageसम्पाद्यताम्

पूर्वं प्रेषिता सूचना प्राप्तवान् किम्? कृपया उच्यताम्। -VijayalakshmiR48 (सम्भाषणम्) १४:४२, २२ मे २०२० (UTC)

@VijayalakshmiR48:प्राप्तम् धन्यवादाः । Soorya Hebbar (चर्चा) ०६:०३, २३ मे २०२० (UTC)


महोदय, नमस्ते । अत्रैव सन्देशः लिखितोऽस्ति । अहं कानिचन पुटानि सृष्टवती । तर्हि कार्यम् एतत् सम्यगस्ति वा न वा? कृपया कथयतु भवान् ।😊 - Bharati Kolekar (सम्भाषणम्) १७:५५, २४ मे २०२० (UTC)

@Bharati Kolekar: भावप्रकाशिका ग्रन्थे कृतं कार्यं सम्यगस्ति । धन्यवादाः Soorya Hebbar (चर्चा) ०३:३१, २५ मे २०२० (UTC)


History & prehistory of Sanskrit -अस्यापि पुस्तकस्य पृष्टानि सृष्टानि सन्ति। तान्यपि सम्यग् वर्तन्ते इति मन्ये । Bharati Kolekar (सम्भाषणम्) १२:३५, २५ मे २०२० (UTC)

@Bharati Kolekar: आम् । सम्यगस्ति ।Soorya Hebbar (चर्चा) ०५:५६, २६ मे २०२० (UTC)
"https://sa.wikisource.org/w/index.php?title=सदस्यसम्भाषणम्:Soorya_Hebbar&oldid=240481" इत्यस्माद् प्रतिप्राप्तम्