प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← तृतीयः समयः समयमातृका
चतुर्थः समयः
क्षेमेन्द्रः
पञ्चमः समयः →

चतुर्थः समयः
पूजाधरोपन्यासः
अस्मिन्नवसरे धूर्तवार्तालीना सुकुट्टनी ।
नापिताख्येन तमसा रजनीव सहाययौ ॥१॥

अस्थियन्त्रशिरातन्त्री लीनान्त्रोदरकृत्तिका ।
शुष्ककायकरङ्काङ्कावृतेव कटपूतना ॥२॥

वहन्ती सुबहुच्छिद्रं शरीरं चर्मबन्धनम् ।
अन्तर्गतजगद्व्याजशिक्षाशकुनिपञ्जरम् ॥३॥

सर्वस्वग्रहणेनापि लम्बमानमुखी सदा ।
तुलेवाङ्कसहस्राङ्का त्रैलोक्यतुलने कलेः ॥४॥

समा समधने पापे सपापाधमगाधमे ।
धात्रा कृत्रिमरागस्य स्वरमालेव निर्मिता ॥५॥

सुस्पष्टदृष्टदीर्घोग्रदशना भीषणाकृतिः ।
प्रसवक्रूरकोपेन संस्थितास्थिरता शुनी ॥६॥

उलूकवदना काकग्रीवा मार्जारलोचना ।
निर्मिता प्राणिनामङ्गैरिव नित्यविरोधिनाम् ॥७॥

वेश्यावनैकपालिन्या यया रागमहाव्रते ।
कृता कामुकलोकस्य खट्वाङ्गशरणा तनुः ॥८॥

सक्ताश्रुपातजननीं तां विलोक्य कलावती ।
अभिचारहुतस्याग्नेः कालीं धूमशिखामिव ॥९॥

ससम्भ्रमोत्थिता तस्याः कृत्वा चरणवन्दनम् ।
दत्त्वा निजासनं चक्रे स्तुतिं पूजापुरःसरान॥१०॥

वेश्योपदेशविषये चतुराननत्वान्
मायाप्रपञ्चनिचयेन जनार्दनत्वात।
रिक्तप्रसक्तकलहैरतिभैरवत्वात्
सर्गस्थितिक्षयविधातृगुणा त्वमेव ॥११॥

उद्भिन्नयौवनमनोहररूपशोभा
सम्भाविताभिनवभोगमनोभवानाम् ।
एणीदृशां त्वदुपदेशविवर्जितानां
मातर्भवन्ति नहि नाम समीहितार्थाः ॥१२॥

तस्माद्भजस्व परिकल्पितपुत्रिकां मां
भक्तामनन्यशरणां शरणं प्रपन्नाम् ।
आत्मार्पणप्रणयिनां नवदर्शनेऽपि
जात्यैव पेशलधियः सदया भवन्ति ॥१३॥

इत्यर्थिता कलावत्या प्रत्यासन्नसुखस्थितिः ।
मनुष्यामिषकङ्काली कङ्काली तामभाषत ॥१४॥

सङ्क्रान्तहृदयस्नेहा निःशूलप्रसवोद्भवा ।
गर्भभारं विना पुत्रि त्वं सुताभिमता मम ॥१५॥

कङ्केन जन्मसुहृदा त्वदर्थमहमर्थिता ।
स्यूतेयं मे विटच्छिन्ना नासा येन पुनः पुनः ॥१६॥

पात्रं मदुपदेशस्य त्वमेव त्रिदशोचिता ।
सद्भित्तिलिखितं चित्रं चित्रतामेति नेत्रयोः ॥१७॥

श्रूयतां प्रथमं पुत्रि भूत्यै यत्कथयाम्यहम् ।
कलाकोषं तु कालेन नित्याभ्यासादवाप्स्यसि ॥१८॥

न कुलेन न शीलेन न रूपेण न विद्यया ।
जीविताभ्यधिकं बुद्धिलभ्यं धनमवाप्यते ॥१९॥

प्रायेण जगति प्रज्ञा नाना _ _ _ स्ति कस्यचित।
इयतीं जगतीं वेद्मि पूर्णामूर्णायिभिर्जडैः ॥२०॥

अज्ञातकालोचितकर्मयोगा
रोगा इवाहर्निशपच्यमानाः ।
जगत्त्रये देवमनुष्यनागाः
प्रज्ञादरिद्राः खलु सर्व एव ॥२१॥

ज्येष्ठेन तावत्परमेष्ठिनैव
विचारशून्येन कृतं किमेतत।
यत्कामिनीपीनपयोधराणां
विद्युद्विलोला किल यौवनश्रीः ॥२२॥

का नाम बुद्धिहीनस्य विधेरस्ति विदग्धता ।
कूष्माण्डानां न यश्चक्रे तैलमूर्णां च दन्तिनाम् ॥२३॥

रत्नार्थिना जलनिधौ मधुसूदनेन
क्लेशः किलाद्रिवलनप्रभवोऽनुभूतः ।
किं सैव पूर्वमखिलार्थविलुण्ठनाय
कान्ताकृतिः कपटकाममयी न सृष्टा ॥२४॥

निद्रा महीभारपरिग्रहश्च
श्रीसंश्रयत्वं परयाचनं च ।
अत्युन्नतत्वं गुणहीनता च
किं युक्तमेतत्पुरुषोत्तमस्य ॥२५॥

कृशः शशी गुणा नग्ना भार्या वस्त्रार्धहारिनी ।
शम्भोर्धनपतिप्रीतिर्न विद्मः क्वोपयुज्यते ॥२६॥

भस्माङ्गः प्रकटं बिभर्ति ललनां योऽङ्गे स किं युक्तकृन्
निःसङ्गः सततं गुणेषु रमते यः किं स सत्यव्रतः ।
यः सक्तः परमेश्वरोऽपि वृषभृद्वर्गे स किं नीतिमान्
गोप्यां यः कुटिलां कलां स्फुटतया धत्ते स किं धीधनः ॥२७॥

किं कामिनीप्रणयिना दिननायकेन
संशातितं भ्रमकृता कृतिना स्वतेजः ।
अर्थेन किं न विहिताभिमुखा मृगाक्षी
वित्तेन तीक्ष्णतरमप्यबला सहेत ॥२८॥

चन्द्रस्येश्वरसेवया कृशतनोः क्षैण्यं न निर्मूलितं
मानी मूर्ध्नि जडः स्थितः कथमिव प्राप्नोति सम्पूर्णताम् ।
वृद्ध्यर्थी यदि किं करोति चरणोपान्ते न तस्यास्पदं
हन्त्येव स्वसमीहितं गुणमदादुच्चैः स्थितः सेवकः ॥२९॥

यातः प्रतारयितुमीश्वरमङ्गनायां
मारः पुरा किमिति कार्मुकबाणपाणिः ।
नाग्रे ततान वनितागुणवर्णनानां
यत्सौ # तेन नियतं विननाश मूर्खः ॥३०॥

रक्तोऽप्यशोकविटपी परपुष्टबन्धोः
प्राप्नोति यस्य विभवे चरणप्रहारम् ।
तस्मै समृद्दिसचिवैर्मधुपैर्निपत्य
धूतैर्निपीतमधवे मधवे नमोऽस्तु ॥३१॥

स्वाम्यं सर्वजगत्सु दिव्यमुनयस्तत्रोचिता मन्त्रिणो
राष्ट्रं स्वर्गमही महामणिगुरुः कोषः सुधाम्भोनिधिः ।
दुर्गं मेरुशिरः स्वसैन्यममराः श्रीमान्मुरारिः सुहृत्
सा बुद्धिर्विबुधाधिपस्य तु यया व्याप्तं भगाङ्कैर्वपुः ॥३२॥

लुब्धस्याफलकालकूटकटुकक्रोधस्य निस्तेजसः
सर्वाक्रान्तिनिपीडितस्य जलधेर्दातुं प्रवृत्तस्य ते ।
सङ्ख्यातीतसमस्तरत्नवसतेर्मूर्खाः किइमेतावता
मोहादेकगजाश्वपादपसुरामात्रेण तुष्टाः सुराः ॥३३॥

रामेण हेमहरिणाहरणोत्सुकेन
कूटाक्षकेलिसरणेन युधिष्ठिरेण ।
ईर्ष्यारुषा दिव्जरुषा जनमेजयेन
दत्तः परं मनुजवर्त्मनि मौग्ध्यसेतुः ॥३४॥

नागैस्तार्क्ष्यसमर्पितं तदमृतं यत्नश्रमैर्दुर्लभं
नो पीतं न विलोकितं न पिहितं मोहात्परं हारितम् ।
तस्मान्नास्ति जगत्त्रयेऽपि विमलः प्रज्ञाकणः कस्यचित्
सर्वः प्राक्तनजन्मकर्म # वशादर्थोद्यमे धावति ॥३५॥

एवं जडेषु लोकेषु स्त्रीषु मुग्धासु का कथा ।
बुद्धिहीनप्रसादेन जीवामः केवलं वयम् ॥३६॥

मुग्धः प्रत्ययमायाति प्रत्यक्षेऽप्यन्यथा कृते ।
मायाप्रपञ्चसारश्च वेश्यानां विभवोद्भवः ॥३७॥

पुरा मठरकाख्यस्य मया पाणौ द्विजन्मनः ।
ताम्बूलकल्ककलितं ष्ठीवितं हास्यलीलया ॥३८॥

मुग्धस्ततोऽवमानेन सोऽभिजातोऽभिमानवान।
जनसंसदि जज्वाल क्रोधादात्मवधोद्यतः ॥३९॥

साधो धातुप्रकोपेन मिथ्या पश्यसि विभ्रमम् ।
न मया ष्ठीवितं किञ्चिद्भित्तौ पाणिः प्रमृज्यताम् ॥४०॥

जात्या चर्ममयं चक्षुस्तस्मिन्कः प्रत्ययस्तव ।
मम सद्भावशीलायाः प्रमाणं वचनं न किम् ॥४१॥

इत्युक्त्वा तीव्रशपथैर्गलहस्तादिवादनैः ।
स मया प्रकृतिं नीतस्तथेति प्रत्ययं ययौ ॥४२॥

पदे पदे जगत्यस्मिन्निधिर्देवेन निर्मितः ।
विटचारणवेश्यानां बुद्धिहीनावलम्बनम् ॥४३॥

नवयौवनकाले मे गृहं विप्रसुतः पुरा ।
विवेश रात्रिभोगाय नाम्ना शङ्करवाहनः ॥४४॥

शाण्ठ्यादिवातिकठिनं पीनं प्रथमयौवनम् ।
तं ब्रह्मचारिणं दृष्ट्वा सोद्वेगाहमचिन्तयम् ॥४५॥

कठिनोऽयं निशा दीर्घा क्षपिता कामुकैरहम् ।
तस्माद्भोगावहारोऽस्य मया कार्यः प्रयत्नतः ॥४६॥

इति सञ्चिन्त्य सुचिरं मया तैस्तैः कथाक्रमैः ।
आसन्नशय्यावसरे यामः पूर्वोऽतिवाहितः ॥४७॥

कथाबन्धेऽथ विरते तत्सङ्गमनिवृत्तये ।
शूलापदेशेन मया कृतः कृतकनिःस्वनः ॥४८॥

सोऽथ मुग्धः प्रकृत्यैव सत्यप्रत्ययमोहितः ।
चक्रे शूलोपशान्त्यै मे चक्रे सर्वाङ्गमर्दनम् ॥४९॥

सादरं मृद्यमानेषु तेनाङ्गेषु शनैः शनैः ।
प्रययौ सोपरोधेव क्षणदा क्षणवन्मम ॥५०॥

ततः प्रभाते तद्भोगवञ्चने चिन्तितं मया ।
पशुबुद्धिर्वराकोऽयं मया शूलेन वाहितः ॥५२॥

अनेन मेषमुग्धेन दत्ता भाटी चतुर्गुणा ।
भोगावहारन्यायेन ध्रुवं तामनुयाचते ॥५३॥
तस्मादेव रतिस्पृष्टीकार्यस्तावद्यथा तथा ।
न्यायाय सुरतोच्छिष्टं कथं समुपसर्पति ॥५४॥

इति ध्यात्वाहमारब्धरतिभोगा क्षपाक्षये ।
प्रीत्येवाकरवं तस्य पण्यानृण्याय चुम्बनम् ॥५५॥

आरूढरतियन्त्रो मे शूलक्लेशकृपाकुलः ।
अलं मत्सङ्गमेनेति सानुरोधोऽवदत्स माम् ॥५६॥

आवर्जनाय तस्याथ निर्व्याजार्जवचेतसः ।
मया मिथ्याप्रियालापैर्विहितो रञ्जनक्रमह॥५७॥

अहो बतामृतस्पर्शस्तवाङ्गेषु विभाव्यते ।
अधुनैव मया दृष्टं यस्य प्रत्यक्षलक्षणम् ॥५८॥

गूढाङ्गेन त्वया स्पृष्टे ममास्मिन्रमणस्थले ।
न जाने क्व गतं शूलं मत्पुण्यैस्त्वमिहागतः ॥५९॥

इति श्रुत्वैव मद्वक्यं सहस साश्रुलोचनह।
रत्यर्धरवितः शोकात्सोऽन्तः सानुशयः परम् ॥६०॥

निजं वक्षो ललाटं च ताडयित्वा स पाणिना ।
हा कष्टं हा हतोऽस्मीति वदन्मामिदमब्रवीत॥६१॥

पूर्वं नैतन्मया ज्ञातं यन्मदङ्गसमागमः ।
शूलं हरति नारीणां मणिमन्त्रौषधादिवत॥६२॥

मन्दपुण्यस्य जननी वात्सल्यजननी मम ।
सुचिरस्थायिना भद्रे शूलेन निधनं गता ॥६३॥

विदितोऽयं प्रकारश्चेदभविष्यदसंशयः ।
तज्जनन्या वियोगो मे नाभविष्यद्विचेतसः ॥६४॥

इत्युक्त्वा वञ्चितोऽस्मीति स रुदित्वा विनिर्ययौ ।
पुरुषाकारसन्दिग्धनिर्विषाणवृषोपमः ॥६५॥

नित्यं भोजनमैथुनप्रणयिनस्त्यक्तान्यकार्याः परम्
लोकेऽस्मिन्गलगर्तमात्रसुखिनः सन्त्येव शून्याशयाः ।
ये मेषप्रतिमाः क्षयोद्यतमतेः सर्वस्वहर्तुः क्षणाद्
आप्तस्येव विनिक्षिपन्ति नितरां निःशङ्कमङ्के शिरः ॥६६॥

इत्यबुद्धिधनाधाननिधानैर्विविधोदयैः ।
कूटपुण्यैरसामान्यैस्तारुण्यमतिवाह्यते ॥६७॥

असत्येनैव जीवन्ति वेश्याः सत्यविवर्जिताः ।
एताः सत्येन नश्यन्ति मद्येनैव कुलाङ्गनाः ॥६८॥

सत्यं विनाशाय पराङ्गनानां
असत्यसारा गणिकागणश्रीः ।
सत्येन वेश्या किल दृष्टसारा
दरिद्रशाला इव कस्य सेव्याः ॥६९॥

दानेन नश्यति वणिङ्नश्यति सत्येन सर्वथा वेश्या ।
नश्यति विनयेन गुरुर्नश्यति कृपया च कायस्थः ॥७०॥

वेश्याजनस्य कितवस्येव वञ्चनमायया ।
अहो वैदग्ध्यमित्युक्त्वा परोऽपि परितुष्यति ॥७१॥

पुराथ पृथिवीमेतां भ्रान्त्वा जलधिमेखलाम् ।
प्राप्ता वेश्यास्पदं लोभात्पुरं पाटलिपुत्रकम् ॥७२॥

कुट्टन्यस्तत्र सर्वज्ञा दृष्ट्वा मामल्पकौशलाम् ।
जहसुः सस्वनं येन ह्रीताहं क्ष्मामिवाविशम् ॥७३॥

ततस्तेनावमानेन गणेशायतनाग्रतः ।
स्थिता कृतोपवासाहमहङ्कारविवर्जिता ॥७४॥

अथ स्वप्ने गणेनाहं पृष्टा शङ्करसूनुना ।
उपवासाः कियन्तस्ते प्राप्ता इति पुनः पुनः ॥७५॥

स मयाभिहितः कूटकृतप्राणान्तचेष्टया ।
मासद्वयमतिक्रान्तं व्रतादनशनस्य मे ॥७६॥

तच्छ्रुत्वा स स्मितमुखः सर्वज्ञः प्राह मां गणः ।
अहो व्रतेऽपि स्वप्नेऽपि नासत्यादस्ति ते च्युतिः ॥७७॥

परितुष्टोऽस्मि ते भद्रे निश्चलासत्यनिश्चयात।
महामायामयकला लब्धभोगा भविष्यसि ॥७८॥

गणेशानुचरः पूर्वमिति मह्यं वरं ददौ ।
असत्येनैव वेश्यानां भवन्ति धनसम्पदः ॥७९॥

धनप्रधानं जनजीवभूतं
लोकेषु तत्रापि विशेषयोगात।
जनाभिसारप्रतिपत्तिभाजां
महीभुजां वेशमृगीदृशां च ॥८०॥

धनेन लभ्यते प्रज्ञा प्रज्ञया लभ्यते धनम् ।
प्रज्ञार्थौ जीवलोकेऽस्मिन्परस्परनिबन्धनौ ॥८१॥

ईश्वरः स जगत्पूज्यः स वाग्मी चतुराननः ।
यस्यास्ति द्रविणं लोके स एव पुरुषोत्तमः ॥८२॥

स एवाहृदयो राहुरलसः स शनैश्चरः ।
वक्रः कुजन्मा सततं वित्तं यस्य न विद्यते ॥८३॥

सुजातस्य प्रयातस्य माङ्गल्यस्पृहणीयताम् ।
धनिकस्य विकारोऽपि क्षीबस्येव जनप्रियः ॥८४॥

धनिनश्चन्दनस्येव सच्छायस्य मनोमुषः ।
निष्फलस्यापि लोकोऽयं सम्पर्कं बहु मन्यते ॥८५॥

निस्त्रिंशा अपि सस्नेहा भवन्ति श्रीमतः परम् ।
स्वकेशा अपि निःस्वानां निःस्नेहा यान्ति रूक्षताम् ॥८६॥

सेव्यः कविबुधादीनां गुरुः शूरकलावताम् ।
गतिप्रदोऽर्थवानेव व्योममार्ग इवोन्नतः ॥८७॥

विक्रीय स्वगुणं निःस्वः स्वयं मांसमिव द्विजः ।
सद्यः पतति निःसत्त्वः पतितः केन पूज्यते ॥८८॥

गुणिनां चित्तवैकल्याद्गुणा निर्गुणवाञ्छया ।
हृदयेष्वेव सीदन्ति विधवानामिव स्तनाः ॥८९॥

विद्वद्भिः परिवारिताः सगुणतामायान्ति वित्तैर्नराः
शूरत्वं सुभतैः कुलोन्नततरैः प्रख्यातसद्वंशताम् ।
तस्माद्वित्तसमाश्रये गुणगणे वित्ते च नान्याश्रये
वित्तं वित्तमनन्यचित्तनियताः सम्पन्निमित्तं नुमः ॥९०॥

अम्लानमाल्याभरणाम्बरस्य
वराङ्गनानन्दनमन्दिरस्य ।
नित्यप्रकाशोत्सवसेवितस्य
स्वर्गस्य वित्तस्य च को विशेषः ॥९१॥

अशेषदोषापगमप्रकाश
मित्रागमोत्साहमहोत्सवार्हम् ।
विकासशोभां जनयत्यजस्रं
धनं जनानां दिनमम्बुजानाम् ॥९२॥

वित्तेनाभिजनी गुणी परिजनी मानी प्रमाणीकृतः
सद्भिर्जन्तुरुपैति साधुपदवीं किं वा बहु ब्रूमहे ।
वित्तेन व्रततीर्थसार्थसरणक्लेशाभियोगं विना
तीर्यन्ते ततपातकव्यतिकरास्ते ब्रह्महत्यादयः ॥९३॥

श्रूयतां यत्पुरा वृत्तं वाराणस्यां स्वयं मया
श्रुतं विश्रुतसत्त्वस्य चरितं गृहमेधिनः ॥९४॥

तत्राभवद्ग्र्हपतिर्धरातलधनाधिपः ।
द्विजन्मा श्रीधरो नाम महाब्धिरिव रत्नवान॥९५॥

अर्थिकल्पतरोस्तस्य राजार्हवरभोजनैः ।
अवारितमभूद्गेहे भोज्यसत्त्रं सदार्थिनाम् ॥९६॥

तस्य विप्रसहस्रेषु भुञ्जानेषु सदा गृहे ।
लोके युधिष्ठिरकथा श्लथादरकथां ययौ ॥९७॥

ततः कदाचिदाचारनिधेस्तस्य समाययौ ।
नियतात्मा यतिर्गेहं ज्ञानात्मा नाम दिव्यधीः ॥९८॥

स पूज्यः पूजितस्तेन श्रद्धयोपनिमन्त्रितः ।
पाकशालां ययौ द्रष्टुं भक्ष्यराशिशतान्विताम् ॥९९॥

तत्रापश्यत्स सर्वान्नव्यञ्जनादिगणोपरि ।
सितयज्ञोपवीताङ्कं लम्बमानतनुं शवम् ॥१००॥

स्रवद्भिस्तस्य गात्रेभ्यः सूक्ष्मशोणितबिन्दुभिः ।
अन्नं सर्वजनादृष्टैः सिच्यमानं ददर्श सः ॥१०१॥

दृष्ट्वा तदतिबीभत्सं घृणासङ्कुचिताशयः ।
संस्पृष्टकर्णः स ययौ ततस्तूर्णमलक्षितः ॥१०२॥

अथ संवत्सरे याते पुनरभ्येत्य कौतुकात।
सोऽपश्यन्मांसहीनं तत्स्नायुबद्धं कलेवरम् ॥१०३॥

शिरामुखशतैस्तस्य क्लिन्नस्नेहकणैश्चितम् ।
स दृष्ट्वा भोज्यमगमज्जुगुप्सामीलितेक्षणः ॥१०४॥

वर्षेण पुनरायातः सोऽस्थिशेषशवस्रुतैः ।
अन्नव्यञ्जनमद्राक्षीद्व्याप्तं द्वित्रैर्वसाकणैः ॥१०५॥

कौतुकाद्वत्सरे याते सोऽपश्यत्पुनरागतः ।
कपालशेषकलनादन्नोपरि रजश्च्युतम् ॥१०६॥

षड्भिर्मासैरथायातः शुद्धं शवविवर्जितम् ।
रम्यं महानसं दृष्ट्वा पुरोहितमुवाच सः ॥१०७॥

अहो गृहपतेरस्य महासत्रेण पातकम् ।
क्षीनमल्पेन कालेन लीढं याचककोटिभिः ॥१०८॥

बभूव पूर्वपुरुषोपार्जितास्य गृहाश्रया ।
ब्रह्महत्या शतवती सात्र दानात्क्षयं गता ॥१०९॥

यैस्तस्य भवने भुक्तं तैस्तत्पापं समाहृतम् ।
पापमनाश्रयं पुंसां होक्तारमुपसर्पति ॥११०॥

ब्रह्महत्या भवस्यापि या बभूव भयप्रदा ।
धनेन क्षपिता सेयमहो धनमहो धनम् ॥१११॥

इत्युक्त्वा स शिलापट्टे लिखित्वा श्लोकमादरात।
पुरोहितेनार्च्यमानः प्रययौ ज्ञानलोचनः ॥११२॥

वाच्यमानः स विद्वद्भिः कस्तवाद्भुतवादिभिः ।
श्लोकार्थगौरवरसान्मया तत्र स्वयं श्रुतः ॥११३॥

शमयति चितं पापं शापं विलुम्पति दुःसहं
कलयति कुलं कल्याणानां कलङ्ककणोज्झितम् ।
धनमकलुषं तीर्थं पुंसां तदेव महत्तपः
सुकृतनिधये श्रद्धाधाम्ने धनाय नमो नमः ॥११४॥

एतदाकर्ण्य युक्तार्थमर्थस्तुतिमयं मया ।
नीतं दशापदेशानां समये सारतन्त्रताम् ॥११५॥

कुरु चित्तार्जनं तूर्णं # भवति योषिता ।
न यौवनसहायोऽयं तनये कायविक्रमः ॥११६॥

तनुवल्लीवसन्तश्रीर्वदनेन्दुशरन्निशा ।
पयोधरोद्गमप्रावृट्चपला यौवनद्युतिः ॥११७॥

तारुण्ये तरले सुभ्रूर्भ्रमद्भ्रूभङ्गविभ्रमे ।
स्त्रीणां पीनस्तनाभोगा भोगा द्वित्रिदिनोत्सवः ॥११८॥

अयं मुखसरोरुहभ्रमरविभ्रमः सुभ्रुवां
कुचस्थलकुरङ्गकः पृथुनितम्बलीलाशिखी ।
न यौवनमदोदयश्चरति चारुकान्तिच्छटा
कुलत्रिवलिकूलिनीपुलिनराजहंसश्चिरम् ॥११९॥

आलानमुन्मूल्य सुखाभिधानं
तारुण्यनागे गमनोद्यतेऽस्मिन।
पलायते कामिगणेऽङ्गनानां
विमर्दभीत्येव कुचाः पतन्ति ॥१२०॥

युवतितटिनीप्रावृट्कालः सपीनपयोधरः
कृतमदभरारम्भः कामी विलासशिखण्डिनाम् ।
मदनपवनालोल …
… ॥१२१॥

क्रीडावल्लीकुसुमसमये रागपद्माकरार्के
दर्पोद्याने वदनशशभृत्कौमुदीकार्तिकेऽस्मिन।
याते मुग्धद्रविणतुलया यौवने कामिमित्रे
पण्यस्त्रीणां व्रजति सहसा दुर्दशाशेषतां श्रीः ॥१२२॥

न तु यौवनमात्रेण लभन्ते ललनाः श्रियम् ।
भोगार्हा वृद्धकरिणी तरुणी हरिणी वने ॥१२३॥

रूपवत्यद्भुतास्मीति कान्ते त्याज्यस्त्वया मदः ।
वने मयूराः शुष्यन्ति बलिमश्नन्ति वायसाः ॥१२४॥

पूर्णां वक्रचलां # # # # # # # ते जनाः ।
क्षीणोऽपि वृद्धिमायाति कुटिलैककलः शशी ॥१२५॥

भ्रूयुग्मं कुसुमेषुकार्मुकलतालावण्यलीलाहरं
वक्त्रं न्यक्कृतचन्द्रबिम्बमधरो बिम्बप्रभातस्करः ।
रूपं नेत्ररसायनं किमपरं सुश्रोणि तत्रापि ते
शिक्षाहीनतया मदद्विरदवत्प्राप्नोति नार्थाक्रियाम् ॥१२६॥

तवेयं यौवनतरोश्छाया विस्मयकारिणी ।
यया कामुकलोकस्य स्मरतापः प्रवर्तते ॥१२७॥

रागसागरसञ्जातविद्रुमद्रुमपल्लवैः ।
तवाधरे स्मितरुचिः करोति कुसुमभ्रमम् ॥१२८॥

भाति सुचन्दनतिलकं
कालागुरुकुटिलपल्लवाभरणम् ।
वदनं नन्दनमेतद्
भ्रूलतिकालास्यललितं ते ॥१२९॥

यातः सुन्दरि सुतरां स्तनभारपरिश्रमः शनकैः ।
प्रोषितशैशवशोकादिव मध्यः कृशतरत्वं ते ॥१३०॥

तथाप्युपायशून्येन रूपेणानेन सुन्दरि ।
न प्राप्यन्ते प्रकृष्टेन प्रयत्नेनेव सम्पदः ॥१३१॥

गुणवती ललितापि न शोभते
तनुतरार्थकदर्थनयान्विता ।
सुकविसूक्तिरिवार्थवती
परं व्रजति वेशवधूः स्पृहणीयताम् ॥१३२॥

संसक्तेषु सुरामयी धनगुणाधानेषु लक्ष्मीमयी
स्फीतार्थेषु सुधामयी विषमयी निष्क्रान्तवित्तेषु च ।
वेश्या शङ्खमयी नितान्तकुटिला सद्भावलीनेषु या
देवानामपि सुभ्रु मोहजननी क्षीरोदवेलेव सा ॥१३३॥

इति तया वचनामृतमर्पितं
श्रवणपेयमवाप्य कलावती ।
जननि मे द्रविणाधिगमोचितं
परिचयं कथयेति जगाद ताम् ॥१३४॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रनिर्मितायां समयमातृकायां
पूजाधरोपन्यासो नाम चतुर्थः समयः ॥४॥