प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः।

अथाभिधीयते वास्तुः कनीयान् षोडशास्पदः।

पदैः षोडशभिः स स्यात् तत्र देवान् प्रचक्ष्महे ॥१


भुङ्क्ते मध्ये स्थितो मुख्यः पदमेकं सुरोत्तमः।

कॢप्तं पदचतुर्भागैश्चतुर्भिश्चतुराननः ॥२


पदार्धभागभोक्तारश्चत्वारोऽमी सुरोत्तमाः।

अर्यमा च विवस्वांश्च मित्रश्च क्ष्माधरोऽपि च ॥३


सवित्राद्यापवत्सान्ता येऽष्टौ कोणेषु वेधसः।

चतुर्भागभुजस्ते स्युस्त्रिदशास्तपनत्विषः ॥४


चतुर्थी शादिकोणेषु ये स्थिताः क्रमशः सुराः।

अष्टभागभुजस्तेऽष्टौ विनिर्दिष्टा मनीषिभिः ॥५


ये तथादितिपर्यन्ताः पर्जन्याद्याः सुरोत्तमाः।

तेऽष्टौ चतुर्भागभुजो विद्वद्भिरिह कीर्तिताः ॥६


चरकान्ता जयन्ताद्या ये बाह्यस्थितयोऽमराः।

भोगोऽर्धपदिकस्तेषां षोडशानामपि स्मृतः ॥७


चतुरश्रीकृते क्षेत्रे त्रयस्त्रिंशद्विभाजिते।

अन्त्यपङ्क्तिद्वयं साधं चरक्याद्यर्थमुत्सृजेत् ॥८


अन्तरे वीथिकामर्धपदिकामुत्सृजेत्ततः।

मध्ये तु सप्तविंशत्या भोगैर्वास्तु विभाजयेत् ॥९


एकोनत्रिंशता युक्तं पदानां शतसप्तकम्।

यद्भवेत् तत्र गर्भे स्यादेकाशीतिपदः स्वभूः ॥१०


अष्टादशपदाश्चाष्टौ चपप्रभृतयः पृथक्।

अर्यमाद्यं चतुःपञ्चाशत्पदं स्याच्चतुष्टयम् ॥११


ईशादयस्त्वदित्यन्ता बाह्या नवपदाः सुराः।

देशानां सन्निवेशेऽसौ साहस्रो वास्तुरुच्यते ॥१२


अथोच्यते वृत्तवास्तुर्वृत्तप्रासादहेतवे।

एकश्चतुःषष्टिपदभागः शतपदोऽपरः ॥१३


अष्टधा भाजिते वृत्तविष्कम्भे भागिकान्तरान्।

चतुरः परिधीन्कुर्यान्मध्यवृत्तं द्विभागिकम् ॥१४


स्याद्बहिर्वृत्तवलयमष्टाविंशतिभागिकम्।

तदन्तर्वृत्तवलयमष्टाष्टांशोज्झितं क्रमात् ॥१५


एवं कृते भवेन्मध्ये ब्रह्मणस्तच्चतुष्पदम्।

इत्थं चतुःषष्टिपदो वृत्तवास्तुरुदाहृतः ॥१६


दशधा भाजिते वृत्तविष्कम्भे भागिकान्तराः।

कार्याः परिधयः पञ्च मध्ये वृत्तं द्विभागिकम् ॥१७


बहिस्थं वलयं तस्य भजेत् षट्त्रिंशता ततः।

शेषं चतुःषष्टिपदस्थित्या स्याच्छतवास्तुनि ॥१८


देवतापदसङ्क्षिप्तिरनयोश्चतुरश्रवत्।

एवं कार्यवशात्कार्या वास्तवोऽन्येऽपि धीमता ॥१९


त्र्यश्रे षडश्रे चाष्टाश्रे षोडशाश्रे च वृत्तवत्।

वृत्तायतेऽर्धचन्द्रे च वास्तौ पदविभाजनम् ॥२०


एक एव पुमानेषु बहुधा परिकल्पितः।

सर्वस्मिन्नपि संस्थाने विभक्ते लक्षयेत्ततः ॥२१


शरीरं वास्तुपुंसोऽस्य गुणदोषा भवन्ति यत्।

मुखं मूर्धा ततः श्रोत्रे दृक्ताल्वोष्ठरदाः क्रमात् ॥२२


वक्षः कण्ठः स्तनौ नाभिर्मेढ्रमुष्कावथो गुदम्।

बाहू प्रबाहू पाणी स्फिगूरुजङ्घं पदद्वयम् ॥२३


कल्पयेदेवमेतेन स भवेत् पुरुषाकृतिः।

सिरावंशानुवंशाश्च सन्धयः सानुसन्धयः ॥२४


मर्माण्यथ महावंशा लक्ष्या वास्तुशरीरगाः।

सिराः कर्णगता याः स्युस्ता नाड्यः परिकीर्तिताः ॥२५


पदस्य षोडशो भागस्तत्प्रमाणं प्रकीर्तितम्।

महावंशौ प्राक्प्रतीच्यौ याम्योदीच्यौ च मध्यगौ ॥२६


प्रमाणं पञ्चमो भागः पदस्योदाहृतं तयोः।

वंशास्तेऽस्मिन् समुद्दिष्टा रेखा याः स्युर्मुखायताः ॥२७


यास्तिर्यगायता रेखास्तेऽनुवंशाः प्रकीर्तिताः।

सम्पाता ये स्युरेतेषाम् मर्म तत्संप्रचक्षते ॥२८


उपमर्माणि तान्याहुः पदमध्यानि यानि हि।

भागोऽष्टमोऽथ दशमो द्वादशः षोडशोऽपि च ॥२९


पदतो मानमिष्टं स्याद्वंशादीनामनुक्रमात्।

वंशाष्टकस्य यः सन्धिः स सन्धिरिति कीर्तितः ॥३०


ये पुनः स्युस्तदङ्गानां प्रोक्तास्ते चानुसन्धयः।

वालाग्रतुल्यं सन्धीनां प्रमाणं परिचक्षते ॥३१


तदर्धमनुसन्धीनां प्रमाणं समुदीरितम्।

यत्नेनैतानि सन्त्यज्य वास्तुविद्याविशारदः ॥३२


द्र व्याणि प्रयतो नित्यं स्थपतिर्विनिवेशयेत्।

महावंशस्य नाक्रान्तिं कुर्याद्द्रव्येण केनचित् ॥३३


इतरेषु पुनर्द्र व्यं मध्यवंशेषु सन्त्यजेत्।

महावंशसमाक्रान्तौ भवेत्स्वामिवधो ध्रुवम् ॥३४


वर्षेण तपनाद्भीतिं वंशानां पीडनाद्विदुः।

उपमर्माणि रोगाय मर्माणि कुलहानये ॥३५


उद्वेगायार्थनाशाय सिराश्च स्युः प्रपीडिताः।

कलिः स्यात्सन्धिविद्धेषु पीडितेष्वनुसन्धिषु ॥३६


तस्मादेतानि सर्वाणि पीडितान्युपलक्षयेत्।

ज्ञात्वा सिराः सानुसिराश्च नाडीर्वंशानुवंशानपि वास्तुदेहे।

यत्नेन मर्माणि फलानि चैषां वेधं त्यजेद्यस्तमुपैति नापत् ॥३७


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे नाडीवंशानुवंशानां सिरानुसिरामर्मानुमर्मवेधविकल्पो नाम द्वादशोऽध्यायः।