प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः।

द्विशालानि द्विपञ्चाशत्स्युः शुभान्यशुभानि च।

लक्षणानि क्रमात्तेषामिदानीं सम्प्रचक्ष्महे ॥१


सिद्धार्थं यमसूर्यं च दण्डाख्यं वातसंज्ञितम्।

चुल्ली काचं च मुख्यानि द्विशालानि षडेव हि ॥२


अनेकभेदभिन्नानि लघुप्रस्तारयोगतः।

मूषाभेदक्रमेण स्युर्भेदाभेदक्रमेण तु ॥३


तथा निलीनकरणाद्वीथिकालिन्दमार्गतः।

प्राग्ग्रीवादिविधानेन द्वैशाल्यादिविपर्ययात् ॥४


यथासम्भवमेतानि कथयामः समासतः।

निर्वाहतश्च मूषाणामनिर्वाहाच्च नामतः ॥५


छन्दतो गुणतो रूपादशुभानि शुभानि च।

हितार्थाय नरेन्द्रा णां वर्णिनां लिङ्गिनामपि ॥६


हस्तिनी महिषी चेति द्वे शाले यत्र वेश्मनि।

तत्सिद्धार्थमिति ज्ञेयं वित्तसम्पत्तिकारकम् ॥७


मृत्युदं महिषीगावीभ्यां भवेद्यमसूर्यकम्।

दण्डं स्याच्छगलीगावीशालाभ्यां दण्डभीतिदम् ॥८


वातं करेणुच्छगलीयुक्तमुद्वेगकारकम्।

महिष्यजाभ्यामुद्वेगकरी चुल्ली धनापहा ॥९


काचं करेणुगावीम्यां सुहृत्प्रीतिविनाशनम्।

एकमूषममूषं च न द्विशालेषु कारयेत् ॥१०


व्यत्यासात्काचचुल्ल्योश्च सर्वाभिस्तिसृभिस्तथा।

चत्वार्याद्यानि भिद्यन्ते लघुप्रस्तारयोगतः ॥११


प्रत्येकमेकादशधा मन्दिराण्यभिधानतः।

अन्ये चतुर्धा भिद्येते प्रत्येकं द्वे निवेशने ॥१२


एषां मूषा भिदाभेदात्तद्वाह्यावाहहेतुकाः।

वसुधारं भवेत्तेषामाद्यं सिद्धार्थकं ततः ॥१३


कल्याणकं शाश्वतं च शिवं कामप्रदं तथा।

स्त्रीदं शान्तं निष्कलङ्कं धनाधीशं कुबेरकम् ॥१४


सिद्धार्थमनुजान्येवमेतान्येकादश क्रमात्।

संहारं यमसूर्यं च कालं वैवस्वतं यमम् ॥१५


करालं विकरालं च कबन्धं मृतकं शवम्।

यमसूर्यस्य भेदाः स्युः सद्मनो महिषं तथा ॥१६


प्रचण्डचण्डे दण्डाख्यमुद्दण्डं काण्डकोटरे।

विग्रहं निग्रहं धूम्रं निर्धूमं दन्तिदारुणं ॥१७


एकादशामी दण्डस्य भेदा दण्डभयप्रदाः।

मरुत्पवनवाताख्यान्यनिलं सप्रभञ्जनम् ॥१८


घनार्यम्बुदविध्वंसि प्रलयं कलहं कलिः।

कलिचुल्ली च वातस्य भेदा उद्वेगदायकाः ॥१९


रोगं चुल्ल्यनलं भस्म चुल्ल्या भेदचतुष्टयम्।

काचस्य तु च्छलं काचं कुलघ्नं च विरोधि च ॥२०


द्वापञ्चाशद्द्विशालानाममी भेदाः प्रकीर्तिताः।

ब्रूमः साम्प्रतमेतेषां लक्षणानि पृथक्पृथक् ॥२१


आद्याद्वितीये वहतो यत्र मूषे धनप्रदे।

वसुधाराभिधानं तद्गृहं सर्वार्थकानुगम् ॥२२


आद्यातृतीये वहतो यत्र सिद्धार्थकं हि तत्।

सर्वोपद्र वनिर्मुक्तं सिद्धिकृच्चिन्तितार्थकृत् ॥२३


द्वितृतीयं वहन्मूषं भवेत् कल्याणमृद्धिकृत्।

वहदाद्यचतुर्थीकं शाश्वतं गृहमुत्तमम् ॥२४


शिवं द्वितीयातुर्याभ्यां वहन्तीभ्यां सुखप्रदम्।

कामदं त्रिचतुर्थीभ्यां भवेच्चिन्तितकामदम् ॥२५


आद्याद्याभिस्तु तिसृभिः स्त्रीप्रदं संप्रदं प्रभोः।

आद्याद्वितीयातुर्याभिः शान्तं शान्तिप्रदायकम् ॥२६


आद्यातृतीयातुर्याभिर्निष्कलङ्कं समृद्धिकृत्।

द्वितृतीयाचतुर्थीभिर्धनेशं धनवर्द्धनम् ॥२७


आद्याद्याभिश्चतसृभिः कुबेरं वित्तवृद्धिकृत्।

यमसूर्यप्रभेदेषु ब्रूमो लक्ष्म फलानि च ॥२८


आद्याद्वितीयामूषाभ्यां संहारं स्वामिनाशनम् ।

गृहमाद्यातृतीयाभ्यां मृत्युदं यमसूर्यकम् ॥२९


द्वितृतीयं वहन्मूषं कालं योषिद्विनाशनम्।

वैवस्वतं वहत्तुर्यप्रथमं रोगकारकम् ॥३०


यमालयं द्वितुर्याभ्यां स्वामिनो यमदर्शनम्।

करालं त्रिचतुर्थीभ्यां भर्तुः प्राणविनाशनम् ॥३१


आद्याभिस्तिसृभिः स्वामिनाशनं विकरालकम्।

आद्याद्वितीयातुर्याभिः कबन्धं भर्तृनाशनम् ॥३२


आद्यातृतीयातुर्याभिर्भर्तृघ्नं मृतकालयम्।

शबं द्वित्रिचतुर्थीभिः स्वामिनो मरणप्रदम् ॥३३


आद्याद्याभिश्चतसृभिः स्वामिघ्नं महिषं विदुः।

प्रचण्डं दण्डभेदेषु पूर्वया सद्वितीयया ॥३४


गृहमादौ विजानीयाद्भर्तुर्नृपभयप्रदम्।

चण्डमाद्यातृतीयाभ्यां चण्डदण्डभयप्रदम् ॥३५


दण्डं स्याद्द्वितृतीयाभ्यां राजदण्डाय दारुणम्।

उद्दण्डमाद्यातुर्याभ्यां स्वामिनो दण्डभीतिदम् ॥३६


काण्डं द्वितीयातुर्याभ्यां काण्डवद्भेदकारकम्।

कोटरं त्रिचतुर्थीभ्यां स्वामिनो विग्रहावहम् ॥३७


प्रथमाद्वितृतीयाभिर्विग्रहं वधबन्धकृत्।

आद्याद्वितीयातुर्याभिर्निग्रहं विग्रहावहम् ॥३८


आद्यातृतीयातुर्याभिर्धूम्रं सर्वधनापहम्।

द्वितृतीयाचतुर्थीभिर्निर्धूमं धननाशनम् ॥३९


आद्याद्याभिश्चतसृभिर्दन्तिदारुणमर्थहृत्।

आद्याद्वितीयामूषाभ्यां वातभेदेषु मन्दिरम् ॥४०


मरुत्संज्ञं भवेत् तत्र वसतां कलहः सदा।

उद्वेगकारि पवनं तृतीयाद्योपलक्षितम् ॥४१


वाताख्यं द्वितृतीयाभ्यां सदा सन्तापकारकम्।

सन्तापोद्वासकार्याद्यातुर्याभ्यामनिलं भवेत् ॥४२


प्रभञ्जनं द्वितुर्याभ्यां शोकसन्तापकारकम्।

तृतीयया चतुर्थ्या च घनार्युद्वेगकारकम् ॥४३


आद्यया द्वितृतीयाभ्यां रोगं कार्यार्थनाशनम्।

आद्याद्वितीयातुर्याभिः प्रलयं चित्ततापकृत् ॥४४


आद्याद्वितीयातुर्याभिः कलहं कलहावहम्।

द्वितृत्तीयाचतुर्थीभिः कलिः सन्तापकारकम् ॥४५


आद्याद्याभिश्चतसृभिः कलिचुल्ली धनापहा।

रोगमाद्याद्वितीयाभ्यां चुल्लीभेदेषु शोकदम् ॥४६


स्याद्द्वितीयातृतीयाभ्यां चुल्ली वित्तविनाशनी।

वसुघ्नमनलं नाम त्रितुर्याभ्यां निवेशनम् ॥४७


वित्तघ्नमाद्यातुर्याभ्यां भस्माख्यं स्वामिनः सदा।

उदङ्मुखाभ्यां मूषाभ्यां काचभेदेषु मन्दिरम् ॥४८


छलं नाम भवेन्नित्यं बन्धुवर्गापमानकृत्।

दक्षिणोत्तरमूषाणां पौरस्त्ये वहतो यदि ॥४९


काञ्चं नाम तदा वेश्म सज्जनानन्दकारकम्।

मूषाभ्यां दक्षिणाभ्यां स्यात्कुलहं त्रिकुलक्षयम् ॥५०


दक्षिणोत्तरमूषाणां पाश्चात्ये वहतो यदि।

विरोधं नाम तद्वेश्म सर्वलोकविरोधकृत् ॥५१


उक्तान्येवं द्विपञ्चाशद्द्विशालानां समासतः।

एनानि मूषावहनप्रभेदात्फलप्रभेदाच्च निदर्शितनि।

द्विशालवेश्मान्यधुनैकशालान्युदाह्रियन्ते भवनानि सम्यक् ॥५२


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः।