प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः।


ब्रूमोऽथ मातमङ्गणां परमाण्वादि तद्भवेत् ॥१


परमाणू रजो रोम लिक्षा प्ररिका यवोऽङ्गुलम्।

क्रमशोऽष्टगुणा वृद्धिरेवं मानाङ्गुलं भवेत् ॥२


द्व्यङ्गुलो गोलको ज्ञेयः कलां वा तां प्रचक्षते।

द्वे कले गोलकौ बाहौ भागो मानेन तेन तु ॥३


आयामाद् विस्तृतेश्चित्रमन्यूनाधिकमाचरेत्।

देवादीनां शरीरं स्याद्विस्तारेणाष्टभागिकम् ॥४


त्रिदशद्गायतं चैतद् विदध्याच्चित्रशास्त्रवित्।

असुराणां सरं स्याद्भागान् समार्धसंयुतान् ॥५


विस्तारेण तदायामादेकान्नत्रिंशदिष्यते।

सप्तभागं राक्षसानां विस्तारेणायतं पुनः ॥६


सप्तविंशतिभागं स्याद्यत् पुनर्दिव्यमानुषम्।

सार्धा तु षडंशास्त कुर्यात्याद्वशत्यायतम् ॥७


षड्भागविस्तृतं कार्यं शरीरं मर्त्यजन्मनि।

चतुर्विंशतिभागान् --- सार्धान् कुर्वीत दैर्घ्यतः ॥८


पुरुषस्योत्तमस्यैतन्मानमस्माभिरीरितम्।

मध्यमस्य तु सार्धं स्याद्विस्ताराद्भागपञ्चमम् ॥९


आयामस्तस्य तु प्रोक्तो विंशतिंस्विति रन्विता।

कनीयसानां कुब्जानां विस्तारान् पञ्चभागिका ॥१०


दैर्घ्यमस्य विधातव्यस्तथा शरीरस्य विस्तरा पञ्चभागिका।

दैर्घ्यं द्वाविंशतिर्भागा वपुषोऽस्य प्रशस्यते ॥११


कार्यां शरीरस्य कुब्जानां विस्तारात्पञ्चभागिकम्।

दैर्घ्यमस्य विधातव्यं तथा भागं शुभदश ॥१२


भागपञ्चकविस्तारं वामनानां वपुर्भवेत्।

कुर्वीत सार्धान् सप्तैव भागान् दैर्घ्येण तद्वत्पुनः ॥१३


किंवांराणि प्रोक्तं प्रमाणमिदमेदमेव हि।

प्रथमानं तु विस्तारो वपुषॐऽशचतुष्टयम् ॥१४


दैर्घ्यैदो पुनमूस्ये भागषट्कप्रमाणतः।

उक्तं देहप्रमाणस्य भागसूत्रमिदं पृथक् ॥१५


देवानामसुराणां च राक्षसानां तथैव च।

दिव्यमानुषमर्त्यानां कुब्जवामनयोरपि।

किन्नराणां सभूतानां क्रमेणास्मिन्नुदाहृतम् ॥१६


इत्थमण्डक वेले च वनं क्रमं।

कायमानमपि जातिभेदतः ।।

भावतश्च कथितं विभाजन्मना वयन्।

यलित्याख्या स्तखलु चित्रवित्तमः ॥१७


अथ मानसमुत्पत्तिर्यथावदभिधीयते ॥१८


देवानां त्रीणि रूपाणि सुरजो --- कुम्भकौ।

स्याद्दिव्यमानुषस्यैकं शरीरं दिव्यमानुषम् ॥१९


असुराणां त्रिधा रूपं चक्रमुत्तीर्णकं तथा।

दुर्दरः शकटः कूर्मत्रिदिवौ इति द्वे रक्षसां पुनः ॥२०


पुंसां रूपाणि पञ्च स्युस्तान्युच्यन्ते यथाक्रमम्।

हंसः सामाप्ररूचको भक्तामालाव्य एव च ॥२१


कुयस्वविद्विधौ ज्ञेयो मेषो वृत्तकरस्तथा।

वामनास्त्रिविधा ज्ञेयाः सपिण्डास्थानपद्मकाः ॥२२


कूष्माण्डकर्वटस्तिर्यक्--- प्रथमतः।

मयूरः कुर्वटः काशः किन्नरस्त्रिविधो भवेत् ॥२३


वालकापौरुषी वृत्ता --- दण्डका तथा।

त्रयः पञ्चधा प्रोक्ताः समस्ताश्चित्रवेदिभिः ॥२४


भद्रो मन्दो मृगो मिश्र इति हस्ती चतुर्विधः।

जन्मतस्त्रिविधं प्राहु ग्निधिर्न र्गिरिनद्यूरुखांश्रयम् ॥२५


विविधा वाजिनो रथ्य पारसादुत्तरान्ततः।

सिंहाश्चतुर्धा शिखरबिलद्गमतृणारव्यया ॥२६


व्यालाः षोडश निर्दिष्टा हरिणो गृध्रकः शुकः।

कुक्कुटः सिंहशार्दूलवृकाजागण्डकीगजाः ॥२७


क्रडाश्वमहिषश्वानो मर्कटः खर इत्यमी।

एसामिन्दमासं यं याम्यनैरृतवारुणै ॥२८


वायव्यां सौम्यमित्युक्तं जज्ञिपातमिहव्यधारु।

नतस्तमिहर्भामः शिषद्या सूकरोऽपि च ॥२९


पशुर्गोः सुसुमारुश्च गजमेषश्चतुर्मुख।

तुरङ्गसिंहशार्दूलमेषाश्चेत्यत्र षोडश ॥३०


जातसंस्तृतिः ।।

शुक्लवासाः शुचिर्दक्षः स्त्रीशूद्रा नभिलाषुकः।

स्थाने कर्मारभेतैतद्विभक्ते संवृतेऽपि च ॥३१


आरम्भो देवतार्चानां रोहिण्यामुत्तरेषु च।

साधकं वा भवेत्यस्तु भवारम्भो विधीयते ॥३२


मुखं भागेन कुर्वीत ग्रीवा वक्त्रात् त्रिभागिका।

ओयमतन्मुखं ज्ञेयं केशान्तं द्वादशाङ्गुलम् ॥३३


द्वादशैवाङ्गुलान्येतद्विस्तारेण पुनर्भवेत्।

प्रविमानं त्रिभागेन नासिका च त्रिभागतः ॥३४


त्रिभागेन ललाटं स्यादुत्सेधात्त्रिसमं मुखम्।

अक्षिणी द्व्यङ्गुलायामे तदर्धाध्यपि विस्तृते ॥३५


तारकाक्षित्रिभागेन कर्तव्या सुप्रतिष्ठिता।

तारकायास्ततो मध्ये ज्योतिस्त्र्यंशेन कल्पयेत् ॥३६


भ्रवौ व्यक्षिरामे कुर्यादक्षिमांसयो।

मंकाराणा स्युरुच्चाता सम्यगालिखेत्।

एवं विधानतो योज्यं रूपजातमशेषतः ॥३७


जातीनां वशत इति प्रमाणमुक्तं।

दिवादिष्वखिलमुक्तं देवामिदं स्फुटं विदित्वा।

यश्चित्रं लिखति बहुप्रकारमस्मै।

प्राधान्यं वितरति चित्रकृत्समूहः ॥३८


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः।