प्रमुखा विकल्पसूचिः उद्घाट्यताम्
सरटः
विद्याकरः

== लिङ्गम् ==
पुं०।
== व्युत्पत्तिः ==
सरतीति। सृ गतौ + शकादित्वादटन्। कृकलासः।
अवलम्बः अमरः। २। ५। १२॥ गिरगिट् इति काँकलास इति च भाषा॥ तत्पतनादिफलं यथा।-
"वल्लयाः प्रपाते च फलं सरटस्य प्ररोहणे।
शीर्षे राजश्रियोऽवाप्तिर्भाले चैश्वर्यमेव च॥
कर्णयोर्भूषणावाप्तिर्नेत्रयोर्बन्धुदर्शनम्।
नासिकायाञ्च सौगन्धं वक्त्ने मिष्टान्नभोजनम्॥
कण्ठे चैव श्रियोऽवाप्तिर्भुजयोर्विभवो भवेत्।
धनलाभो बाहुभूमे करयोर्धनवृद्धयः॥
स्तनमूले च सौभाग्यं हृदि सौख्यविर्द्धनम्।
पृष्ठे नित्यं महीलाभः पार्श्वयोर्बन्धुदर्शनम्॥
कटिद्वये वस्त्रलाभो गुह्ये मृत्युसमागमः।
जङ्घे चार्थक्षयो नित्यं गुदे रोगभयं भवेत्॥
ऊर्वोश्च वाहनावाप्तिर्जानुजङ्घेऽर्थसंक्षयः।
वामदक्षिणयोः पादोर्भ्रमणं नियतं भवेत्॥
वल्ल्याः प्ररोहणे चैव पतने सरटस्य च।
व्यत्यासाच्च फलं चैव तद्वदेवं प्रजायते॥
वल्ल्याः प्ररोहणं रात्रौ सरटस्य प्रपातनम्।
निधनार्थाय भवति व्याधिपीडाविपर्ययौ॥
पतनानन्तरं चैवारोहणं यदि जायते।
पतने फलमुत्कृष्टं रोहणेऽन्यत् फलं भवेत्॥
आरोहणञ्चोर्द्ध्ववक्त्ने अधोवक्त्ने च पातनम्।
भवेदिष्टफलं तस्य तत्फल जायते ध्रुवम्॥
स्पृष्टमात्र्ोण यः सद्यः सचेलं जलमाविशेत्।
पञ्चमात्र्ोण यः सद्यः सचेलं जलमाविशेत्॥
पञ्चगव्यप्राशनञ्च कुर्यादर्कावलोकनम्।
वल्लीरूपं सुवर्णस्य रक्तवस्त्रेण वेष्टयेत्।
पूजयेत् गन्धपुष्पाद्यैस्तदग्रे पूर्णकुम्भके॥
पञ्चगव्यं पञ्चरत्नं पञ्चामृतं सपल्लवम्।
पञ्चवृक्षकषायञ्च निःक्षिप्यावाहयेत्ततः॥
पूजयेद्गन्धपुष्पाद्यैर्लोकपालांस्तथा क्रमात्।
मृत्युञ्चयेन मन्त्र्ोण समिद्भिः खादिरैः शुभैः॥
तिलैर्व्याहृतिभिर्होममष्टोत्तरसहस्रकम्॥"
वल्ली गृहगोधिका। मृत्युञ्जयमन्त्रस्त्र्यम्बकमन्त्रः इति विद्याकरः इति ज्योतिस्तत्त्वम्॥ (वातः।
इत्युणादिटीकायामुज्वलदत्तः। ४। १०५।



== अर्थाः ==
(सरतीति। सृ गतौ + शकादित्वादटन्। कृकलासः।
अवलम्बः अमरः। २। ५। १२॥ गिरगिट् इति काँकलास इति च भाषा॥ तत्पतनादिफलं यथा।-



== उद्धरणम् ==
"वल्लयाः प्रपाते च फलं सरटस्य प्ररोहणे।
शीर्षे राजश्रियोऽवाप्तिर्भाले चैश्वर्यमेव च॥
कर्णयोर्भूषणावाप्तिर्नेत्रयोर्बन्धुदर्शनम्।
नासिकायाञ्च सौगन्धं वक्त्ने मिष्टान्नभोजनम्॥
कण्ठे चैव श्रियोऽवाप्तिर्भुजयोर्विभवो भवेत्।
धनलाभो बाहुभूमे करयोर्धनवृद्धयः॥
स्तनमूले च सौभाग्यं हृदि सौख्यविर्द्धनम्।
पृष्ठे नित्यं महीलाभः पार्श्वयोर्बन्धुदर्शनम्॥
कटिद्वये वस्त्रलाभो गुह्ये मृत्युसमागमः।
जङ्घे चार्थक्षयो नित्यं गुदे रोगभयं भवेत्॥
ऊर्वोश्च वाहनावाप्तिर्जानुजङ्घेऽर्थसंक्षयः।
वामदक्षिणयोः पादोर्भ्रमणं नियतं भवेत्॥
वल्ल्याः प्ररोहणे चैव पतने सरटस्य च।
व्यत्यासाच्च फलं चैव तद्वदेवं प्रजायते॥
वल्ल्याः प्ररोहणं रात्रौ सरटस्य प्रपातनम्।
निधनार्थाय भवति व्याधिपीडाविपर्ययौ॥
पतनानन्तरं चैवारोहणं यदि जायते।
पतने फलमुत्कृष्टं रोहणेऽन्यत् फलं भवेत्॥
आरोहणञ्चोर्द्ध्ववक्त्ने अधोवक्त्ने च पातनम्।
भवेदिष्टफलं तस्य तत्फल जायते ध्रुवम्॥
स्पृष्टमात्र्ोण यः सद्यः सचेलं जलमाविशेत्।
पञ्चमात्र्ोण यः सद्यः सचेलं जलमाविशेत्॥
पञ्चगव्यप्राशनञ्च कुर्यादर्कावलोकनम्।
वल्लीरूपं सुवर्णस्य रक्तवस्त्रेण वेष्टयेत्।
पूजयेत् गन्धपुष्पाद्यैस्तदग्रे पूर्णकुम्भके॥
पञ्चगव्यं पञ्चरत्नं पञ्चामृतं सपल्लवम्।
पञ्चवृक्षकषायञ्च निःक्षिप्यावाहयेत्ततः॥
पूजयेद्गन्धपुष्पाद्यैर्लोकपालांस्तथा क्रमात्।
मृत्युञ्चयेन मन्त्र्ोण समिद्भिः खादिरैः शुभैः॥
तिलैर्व्याहृतिभिर्होममष्टोत्तरसहस्रकम्॥"
वल्ली गृहगोधिका। मृत्युञ्जयमन्त्रस्त्र्यम्बकमन्त्रः इति विद्याकरः इति ज्योतिस्तत्त्वम्॥ (वातः।
इत्युणादिटीकायामुज्वलदत्तः। ४। १०५।

"https://sa.wikisource.org/w/index.php?title=सरटः&oldid=87848" इत्यस्माद् पुनः प्राप्तिः