प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सांख्यसप्ततिः (जयमङ्गलाटीका सहिता)

सांख्यसप्ततिटीका जयमङ्गला ॥


कारिका १



अधिगततत्त्वालोकं लोकोत्तरवादिनं प्रणम्य मुनिम्‌ ।
क्रियते सप्ततिकायाष्टीका जयमङ्गला नाम ॥
प्रेक्षावन्तोऽनुक्ते प्रयोजने न क्वचित्प्रवर्तन्त इति प्रयोजनमुच्यते तत्त्वज्ञानान्मोक्षः तत्त्वानि पञ्चविंशतिः । तथा चोक्तम्‌ -
पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ इति ॥
तेषु च षष्टितन्त्रादिख्यातेष्विति । विस्तरत्वात्‌ षष्टितन्त्रस्य संक्षिप्तरुचिसत्त्वानुग्रहार्थं सप्ततिकारम्भः । वक्ष्यति च 'एतदार्याभिः संक्षिप्तम्‌' इति । मोक्षेण किं फलमिति चेद्दुःखनिवृत्तिः । अतत्त्वज्ञो दुःखैरभिहन्यमानस्संसरन्नास्ते । तत्त्वज्ञानात्तु कैवल्यमाप्नोति, न दुःखैरभिहन्यते । हन्यमानेन को हेतुर्जिज्ञासितव्य इत्यत्राह-

दुःखत्रयाभिघाताज्जिज्ञासा तदवघातके हेतौ ।
दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावात्‌ ॥ १ ॥

'दुःखत्रयाभिघाताज्जिज्ञासा' इत्यादि । दुःखानां त्रयं दुःखत्रयम्‌ । आध्यात्मिकम्‌, आधिभौतिकम्‌, आधिदैविकं चेति । आत्मन्यध्यात्मम्‌, तत्र यद्भवति तदाध्यात्मिकम्‌ । शारीरं मानसं चेति । तत्र वातपित्तश्लेष्मणां वैषम्येण ज्वरादिदुःखम्‌, तच्छरीरे भवतीति शारीरम्‌ । यत्कामक्रोधशोकादिभिः मनसि दुःखं तन्मानसम्‌ । यन्मानुषपशुमृगपक्षिसरीसृपस्थावरान्यधिकृत्य भवति तदाधिभौतिकम्‌ । यच्छरीरे ग्रहावेशादीनि दैवान्यधिकृत्य भवति तदाधिदैविकमिति । एतद्दुःखत्रयम्‌ । तेनाभिघातात्पीडनाद्धेतोर्जिज्ञासा ज्ञातुमिच्छा भवति ॥
कस्मिन्‌ विषय इत्याह- 'तदवघातके हेतौ' इति । अवघातयत्यपनयतीत्यवघातकः । तस्य दुःखत्रयस्यावघातकस्तदवघातकः । तृजकाभ्यां षष्ठीसमासप्रतिषेधः, 'तत्प्रयोजको हेतुश्च' इति न भवति । केन खल्विमानि दुःखान्युत्पद्यन्त इति तदवघातको हेतुर्जिज्ञास्यो भवति । दुःखवानहमेतत्प्रतीकारमन्वेषयामीति प्रायोवादः । स च पञ्चविंशतितत्त्वज्ञानान्नान्य इति मनसि वर्तते ॥
'दृष्टे साऽपार्था चेत्‌' इति । स्यादेतत्‌ यदि दृष्टस्तदवघातको हेतुर्न स्यात्‌ । यावदाध्यात्मिकस्य शारीरदुःखस्यापनयने चिकित्साशास्त्रविहित एवोपायोऽस्ति, मानसस्यापि संख्यानबलं रम्याश्च शब्दादयो विषयाः । आधिभौतिकाधिदैविकयोरपि, अवघातहेतुरनुष्ठीयमानो लोक एव दृश्यते, तयोः सत्प्रतिपक्षत्वात्‌ । तत्राधिदैविकस्य सामदामभेददण्डोपायघटितारम्भाः । आधिभौतिकस्यापि निपातप्रतिपातसंवृतप्रदेशाश्रयणादयः ॥
ततश्च दृष्टे हेतौ सति जिज्ञासाऽस्मिन्‌ विषये निरर्थकेत्याशङ्क्याह- 'नैकान्तात्यन्ततोऽभावात्‌' इति । नाऽपार्था, सार्थिकैव । कुतः- एकान्ततः एकान्तात्यन्ततोऽभावादपि । एकान्तेनात्यन्तेन च दुःखाभावस्याभावादित्यर्थः । दृष्टे ह्युपाये क्रियमाणेऽपि केषांचिद्दुःखत्रयं भवत्येवेति नैकान्तेनोपशमः । कथंचिदुपशमे पुनरुत्पादनात्‌ नात्यन्तेनोपशमः । तस्मादैकान्तिकात्यन्तिकदुःखोपशमाय जिज्ञासा युक्तेति ॥ १ ॥


कारिका २


यद्येवमैकान्तिकात्यन्तिकदुःखोपशमहेतुर्ववेदविहितोऽस्ति । तथा चाह-
अणम सोमममृता अभूमागन्म ज्योतिरविदाम देवान्‌ ।
किमस्मान्‌ कृणवदरातिः किमु धूर्त्तिरमृतमर्त्यस्य ॥ इति ॥
अस्यायमर्थः- इन्द्रो देवनामपण्डितानाह 'दिव्याः किमन्यत्सुखमस्ति' इति । ते तमाहुः 'नास्ति' इति । सोममपाम, सोमं पीतवन्तो वयम्‌ । ततोऽमृता अभूम, व्यपगतमृत्यवो जाताः । 'अगन्म ज्योतिः' इति । ज्योतिः स्वर्गोऽयम्‌, तं प्राप्ता वयम्‌ । 'अविदाम देवान्‌' इति । इयन्तो देवा अस्मिन् स्वर्ग इति ज्ञातवन्तः ज्ञानमस्माकमुत्पन्नमित्यर्थः । 'किमस्मान् कृणवत्‌' इति । कृणवन्मृत्युरुच्यते । अस्मान्‌ सोमपानान्‌ किं मृत्युः करिष्यते । अरातिः व्याधिः सोऽपि, धूरतिर्जरा सापि चास्माकं किं करिष्यति । 'अमृतमर्त्यस्य' इति । तस्मात् सोमपानाद्दुःखोपशमहेतुरस्तीत्यस्मिन्‌ पूर्वपक्षे -

दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात्‌ ॥ २ ॥

'दृष्टवदानुश्रविकः' इत्यादि । अनुश्रूयते पारम्पर्येणेत्यनुश्रवो वेदः श्रुवः 'ऋदोरप्‌' । तत्र भवो हेतुरानुश्रविकः । अध्यात्मादिः । दृष्टेन तुल्यो दृष्टवत्‌ । तस्यापि दोषदर्शनात्‌ ॥
यदाह - 'स ह्यविशुद्धिक्षयातिशययुक्तः' इति । यस्मादानुश्रविको हेतुरविशुद्ध्यादिभिस्त्रिभिर्दोषैर्युक्तः । तत्राग्निहोत्रादौ पशुव्यापादनात्‌ सोमपानादविशुद्धियुक्तः । कर्मक्षयात्‌ स्वर्गच्युतिरिति क्षययुक्तः । तथा चाहुः - 'बहूनीन्द्रसहस्राणि व्यतीतानि युगे युगे' इति । 'स हि देवेष्वपि देवो दरिद्राति' इति । 'ईश्वरं दृष्ट्वा महद्‌ दुःखमुत्पद्यते' इत्यतिशययुक्तः । तथाहि- यः क्रतुशतेन यजते तस्य महदैश्वर्यम्‌, यो द्वाभ्यां त्रिभिर्वा तस्याल्पमिति । तस्मादानुश्रविकोऽपि दृष्टवत्परित्याज्यः ॥
कस्तर्हि श्रेयानित्याह- 'तद्विपरीतः श्रेयान्‌' इति । दृष्टानुश्रविकद्वारा यो विपरीतः तत्त्वज्ञानाख्यः स श्रेयान्‌ । तस्य अकैवल्यप्रापकत्वात्‌ । तत्रैकान्तात्यन्ततोऽभावाद्दृष्टाच्छ्रेयान् । शरीरहानाद्धि शुद्धफलः, प्रकृतिहानादक्षयफलः, अनुत्तरत्वाच्च निरतिशयफल इत्यानुश्रविकाच्छ्रेयान्‌ ॥
स कथं प्रोच्यत इत्यत्राह 'व्यक्ताव्यक्तज्ञविज्ञानात्‌' इति । राशित्रयेण पञ्चविंशतितत्त्वानि कथ्यन्ते । तत्र महदादिभूतपर्यन्तं त्रयोविंशतिप्रकारं व्यक्तमुच्यते, तेन रूपेण प्रधानस्य व्यक्तत्वात्‌ । अव्यक्तं प्रधानम्‌, केनचिद्रूपेणाव्यक्तत्वात्‌ । जानातीति ज्ञः पुरुषः । तेषु यद्विज्ञानं स्वरूपपरिच्छेदः, तस्मात्‌ प्राप्यत इत्यर्थः । तन्वादि हि परिच्छिद्य तदभ्यासादुत्तरकालं प्रकृतिपुरुषान्तरज्ञानमुत्पद्यते, ततश्च कैवल्यमिति । अस्या आर्याया वक्ष्यमाणा याः, सर्वा एवार्थेन भाष्यस्थानीया द्रष्टव्याः ॥ २ ॥


कारिका ३



तत्रैषां व्यक्तादीनामुत्पादाभ्यां स्वरूपमाह-
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः ॥ ३ ॥

'मूलप्रकृतिः' इत्यादि । प्रकृतिः प्रधानम्‌ । प्रक्रियत उत्पद्यते प्रधानात्‌ अस्या इति प्रकृतिः । मूलं च तत्प्रकृतिश्चेति मूलप्रकृतिः । सप्तानां प्रकृतीनां मूलमाद्यं कारणमित्यर्थः ॥
'अविकृतिः' इति । न विक्रियत इत्यविकृतिः । न कुतश्चिदुत्पाद्यत इत्यर्थः । एतत्प्रथमं तत्त्वम्‌ ॥
'महदाद्याः प्रकृतिविकृतयः सप्त' इति । महान्‌ बुद्धिस्स आद्यो यासां प्रकृतीनां तास्तथोक्ताः । प्रकृतयश्च विकृतयश्चेति प्रकृतिविकृतयः । तत्र महानहङ्कारं जनयन्‌ प्रकृतिः, महत उत्पद्यमानो विकृतिः । तन्मात्राणि शब्दस्पर्शरूपरसगन्धाः पञ्च यथाक्रममाकाशवाय्वग्न्युदकपृथिव्याख्यानि भूतानि जनयन्तः प्रकृतयः, अहङ्कारादुत्पद्यमाना विकृतयः । इत्येतानि सप्त तत्त्वानि ॥
'षोडशकश्च विकारः' इति । षोडश परिमाणमस्येति षोडशकः । पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनश्चेत्येकादशेन्द्रियाणि, पञ्च महाभूतानीत्ययं षोडशको गणः । चकार एवकारार्थः । विकारो विकृतिरेव । (नास्मात्‌ किञ्चिदुत्पद्यत इत्यर्थः । एतानि षोडश तत्त्वानि) ।
'न प्रकृतिर्न विकृतिः पुरुषः' इति । पुरं शरीरं तस्मिन्‌ वसतीति पुरुषः । नैरुक्तोऽत्रविधिः । तस्मान्न किञ्चिदुत्पद्यत इति न प्रकृतिः, निष्क्रियत्वात्‌ । नाप्ययं कुतश्चिदुत्पद्यत इति न विकृतिः, अनादित्वात्‌ ॥ ३ ॥


कारिका ४



एषां व्यक्तादीनां सिद्धौ प्रमाणान्याह-
दृष्टमनुमानमाप्तवचनं च, सर्वप्रमाणसिद्धत्वात्‌ ।
त्रिविधं प्रमाणमिष्टं, प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४ ॥

'दृष्टम्‌' इत्यादि । दृष्टं प्रत्यक्षम्‌ । अनुमीयते येन तदनुमानम्‌ । आप्तः क्षीणदोषस्तेन यदुच्यते तदाप्तवचनम्‌ । आगमः । एतत्‌ त्रिविधं प्रमाणमिष्टम्‌ ॥
ननु चान्यान्यपि प्रतिभादीनि प्रमाणानि सन्ति तद्यथा-
प्रतिभौपम्यमैतिहासमभावस्सम्भवस्तथा ।
अर्थापत्तिरितीमानि प्रमाणान्यपरे जगुः ॥ इति ॥
अस्मिन्‌ पूर्वपक्ष आह- 'सर्वप्रमाणसिद्धत्वात्‌' इति । सर्वेषां प्रतिभादीनां प्रमाणानां सिद्धत्वात्‌, त्रिविध एवान्तर्भावादित्यर्थः । तत्र ग्रामे नगरे वा वर्तत इति प्रतिभोत्पन्ना । तत्र यदा क्षीणदोषस्य, तदाभिज्ञप्राप्तत्वात्‌ प्रत्यक्षमेव । तस्याक्षीणदोषस्य वितथत्वादप्रमाणम्‌ । याप्यर्थाविसंवादिनी कादाचित्का, सापि कादाचित्कादेव निमित्तादुत्पद्यमानानुमानमेव न प्रमाणान्तरम्‌ । 'गौरिव गवयः' इत्यौपम्यम्‌ । तत्र गवयमजानानः कश्चिदाप्तं पृच्छति 'कीदृशो गवयः', इति । स तमाह- 'यादृशो गौस्तादृशो गवयः' इति । तदेतदाप्तवचनमेव न प्रमाणान्तरम्‌ । यदापि लब्धोपदेशो गवयं पश्यति, तदापि गवि दृष्टेनैव विषाणादिना लिङ्गेन गवयस्य व्यवहारं प्रवर्तयतीत्यनुमानमेव न प्रमाणान्तरम्‌ । 'इतिह वै वैश्रवणः' इत्यैतिह्यम्‌ । एतदाप्तवचनमेव न प्रमाणान्तरम्‌ । 'इतिह' इति निपातसमुदाय उपदेशपारम्पर्ये वर्तेते । इतिह एवैतिह्यम्‌ । स्वार्थे यञ्‌ । 'नास्तीह घटोऽनुपलम्भात्‌' इत्यभावः । तत्र घटशून्यप्रदेश एव घटाभावः, स च प्रत्यक्षप्रमाणसिद्धत्वान्न प्रमाणान्तरम्‌ । 'माषः प्रस्थ इत्युक्ते चत्वारः कुडपा इतीदमपि सम्भवति' इत्ययं सम्भवः । तत्र समुदायलिङ्गावयवलिङ्गिनः परिच्छेदादनुमानमेव । अवयवैस्समुदायस्यारब्धत्वात्‌ कार्यकारणलक्षणः सम्बन्धः । 'देवदत्तो दिवा न भुङ्क्ते बलवांश्चेत्युक्त अर्थाद्रात्रौ भुङ्क्ते' इत्यर्थापत्तिः । तत एव रात्रौ तस्य प्रतीतिरनुमानान्न भिद्यते । इदमेव चान्यथानुपपत्तिरित्युच्यते ॥
किं प्रमाणत्रयलक्षणे प्रयोजनमिति चेदाह- 'प्रमेयसिद्धिः प्रमाणाद्धि' इति । यस्मात्‌ प्रमेयस्यार्थस्य सिद्धिः प्रमाणात्‌, अन्यथा कथं तत्प्राप्तिपरिहारौ स्याताम्‌ ॥ ४ ॥


कारिका ५



दृष्टादिप्रमाणानां लक्षणमाह-
प्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमाख्यातम्‌ ।
तल्लिङ्गलिङ्गिपूर्वकम्‌, आप्तश्रुतिराप्तवचनं च ॥ ५ ॥

'प्रतिविषयाध्यवसायः' इत्यादि । विषयं विषयं प्रतिविषयम्‌, प्रतिविषयमध्यवसायः प्रतिविषयाध्यवसायः । विषयाः शब्दादयः, अध्यवसायो बुद्धिः । शब्दस्पर्शरूपरसगन्धेषु यथाक्रमं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणेन्द्रियद्वारेण विशेषावधारणप्रधाना या बुद्धिरुत्पद्यते तद्‌ दृष्टम्‌, शुद्धत्वात्प्रमाणमशुद्धत्वादप्रमाणम्‌ । तच्चतुर्विधम्‌- सव्यपदेशम्‌, सविकल्पम्‌, अर्थव्यतिरेकीन्द्रियव्यतिरेकी चेति । तत्र दूरात्‌ क्वचिदागच्छन्तं दृष्ट्वा देवदत्तसारूप्यं व्यपदिशति देवदत्तोऽयमिति या बुद्धिरुत्पद्यते तत्सविकल्पम्‌, संशयितत्वादप्रमाणम्‌ । तैमिरिकस्य द्विचन्द्रदर्शनं तदर्थव्यतिरेकि, द्वितीयचन्द्राभावात्‌ । यत्स्वप्नदर्शनं तदिन्द्रियव्यतिरेकि, निद्रोपप्लुतत्वादिन्द्रियाणाम्‌ ॥
'त्रिविधमनुमानमाख्यातम्‌' इति । षष्टितन्त्रे व्याख्यातम्‌- पूर्ववत्‌, शेषवत्‌, सामान्यतोदृष्टमिति । अतीतानागतवर्त्तमानास्त्रयः पदार्थाः । तत्र भविष्यदर्थसाधनाय पूर्ववदनुमानम्‌ । पूर्वं लिङ्गमस्यास्तीति पूर्ववत्‌ । यथोन्नतजलधरं दृष्ट्वा वृष्टिर्भविष्यतीत्यनुमीयते । अतीतार्थसाधनाय शेषवत्‌- शेषं लिङ्गमस्यास्तीति । यथास्या नद्या उपरि वृष्टिर्भूता, यस्याः कलुषोदकं शेषं लिङ्गमिति । वर्त्तमानार्थसाधनाय सामान्यतोदृष्टम्‌- सामान्येन लिङ्गलिङ्गिदृष्टत्वात्‌ । यथा देवदत्तस्य गतिपूर्विका देशान्तरप्राप्तिर्दृष्टा, तथा सूर्यादीनां सामान्येन देशान्तरप्राप्त्या गतिरनुमीयते ॥
'तल्लिङ्गलिङ्गिपूर्वकम्‌' इति । त्रिविधमनुमानम्‌ । कदाचिल्लिङ्गपूर्वकं कदाचिल्लिङ्गिपूर्वकं लोके दृश्यते । तद्यथा- श्राव्येण विरुतेन कदाचित्कोकिलोऽनुमीयते, कदाचित्कोकिलं लिङ्गिनं दृष्ट्वा श्राव्येणापि विरुतेनास्य भवितव्यमिति तयोर्गम्यगमकत्वं सति सम्बन्धे । सम्बन्धाश्च सप्त- तत्र स्वस्वामिभावसम्बन्धो यथा राजपुरुषयोः कदाचित्पुरुषेण राजा राज्ञा वा पुरुषः । एवं प्रकृतिविकारसम्बन्धो यथा यवसक्तोः । कार्यकारणसम्बन्धो यथा धेनुवत्सयोः । पात्रपात्रिकसम्बन्धो यथा परिवृट्त्रिविष्टब्धयोः । साहचर्यसम्बन्धो यथा चक्रवाकयोः । प्रतिद्वन्द्विसम्बन्धो यथा शीतोष्णयोः । तत्रैकस्य भावेऽन्याभावः प्रतीयते । निमित्तनैमित्तिकसम्बन्धो यथा भोज्यभोजकयोरिति । एभिस्सम्बन्धैस्त्रिविधमनुमानं प्रमाणन्न लुप्यते ॥
'आप्तश्रुतिराप्तवचनं च' इति । आप्तः क्षीणदोषः । यच्चाहुः-
स्वकर्मण्यभियुक्तो यो रागद्वेषविवर्जितः ।
निर्वैरः पूजितः सद्भिराप्तो ज्ञेयः स तादृशः ॥ इति ॥
आप्तेभ्यो या श्रुतिपरम्परया श्रुतिरागता आप्तवचनम्‌, तैर्दृष्टोऽनुमितो वार्थः, परत्र स्वबोधसदृशबोधान्तरोत्पत्तये शब्देनोपदिश्यते । यदन्यवचनं सो न प्लवते (?) । चशब्दोऽनुमानेन तुल्यकक्ष्यत्वख्यापनार्थः । यथा त्रिकालमविषयमन्मानं तथाप्तवननमपीति ॥ ५ ॥


कारिका ६



एषां त्रयाणां कः कस्य विषय इत्यत आह-
  सामान्यतस्तु दृष्टादतीन्द्रियाणाम्प्रतीतिरनुमानात्‌ ।
तस्मादपि चासिद्धं परोक्षमाप्तागमात्‌ सिद्धम्‌ ॥ ६ ॥

'सामान्यतस्तु' इत्यादि । त्रिविधं प्रमेयम्‌- प्रत्यक्ष्म्‌, परोक्षम्‌, अत्यन्तपरोक्षं चेति । तत्र यत्सामान्यतोदृष्टमनुमानं तस्मादतीन्द्रियाणां परोक्षाणां प्रसिद्धिरस्ति । तन्निश्चयः, तेषां प्रत्यक्षविषयत्वात्‌ । पूर्ववच्छेषवतोस्त्वमनुमानयोर्भविष्यद्भूतार्थवृत्तित्वाद्वर्त्तमानेष्वतीन्द्रियेषु च प्रवृत्त्यसम्भवः ॥
'तस्मादपि चासिद्धम्‌' इति । सामान्यतोदृष्टादनुमानाद्यदसिद्धं परोक्षम्‌, तदत्यन्तपरोक्षत्वादागमात्सिद्धम्‌ । यथा स्वर्गापवर्गाविति । प्रत्यक्षे तु प्रमेये दृष्टमेव व्याप्रियत इत्यर्थादुक्तम्‌ ॥ ६ ॥


कारिका ७



ननु च 'व्यक्ताव्यक्तज्ञविज्ञानात्‌', व्यक्तं तावत्‌ प्रत्यक्षानुमानाभ्यां सिद्धम्‌, प्रधानपुरुषयोस्तु सर्वदानुपलम्भात्‌ कथं सिद्धिर्नस्तयोरिति नानुपलब्धिमात्रेणासत्त्वम्‌ । यतश्चतुर्भिः प्रकारैः सतामपि पदार्थानामुपलब्धिर्भवति । देशदोषादिन्द्रियदोषाद्विषयदोषादर्थान्तरदोषाच्च । तानेव भेदेन दर्शयन्नाह-
अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात्‌ ।
सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिहाराच्च ॥ ७ ॥

'अतिदूरात्‌' इत्यादि । यथा दूरमुत्पतितस्य पक्षिणो नोपलब्धिः ॥
'सामीप्यात्‌' इति । अतिशब्दोऽत्रापि योजनीयः । अतिसामीप्यादिति । यथा चक्षुःस्थस्याञ्जनस्य । उभयत्रापि देशदोषकृतानुपलब्धिः ॥
'इन्द्रियघातात्‌' इति । श्रोत्रादीनां बुद्धीन्द्रियाणां दोषाद्योग्यदेशावस्थितानामपि शब्दादीनामनुपलब्धिः ॥
'मनोऽनवस्थानात्‌' इति । मनसोऽनवस्थानमसमाहितता, विषयान्तरप्रवृत्तत्वात्‌ । ततश्चानुपहतेन्द्रियेऽपि सन्निहितं विषयं नोपलभते । उभयत्रापीन्द्रियदोषादनुपलब्धिः । मनसोऽपीन्द्रियत्वाद्‌ भेदेनोपादानं तु मनसः प्राधान्यार्थम्‌ ॥
'सौक्ष्म्यात्‌' इति । विषयदोषात्‌ । विषय एव परमाण्वादिस्तथा, येनाव्यग्रमनसाऽप्यनुपहतेन्द्रियेण नोपलभ्यते ॥
'व्यवधानात्‌' इति । यवनिकादिभिस्तिरोधानात्‌ स्थूला अप्यविकृष्टा घटादयो नोपलभ्यन्ते ॥
'अभिभवात्‌' इति । आदित्यप्रभाभिभूतत्वात्‌ दिवा तारका नोपलभ्यन्ते ॥
'समानाभिहाराच्च' इति । सदृशानां राशीकरणात्‌ धान्यराशौ ह्येको धान्यगुडकः प्रक्षिप्तो न दृश्यते । त्रिष्वप्यर्थान्तरदोषादनुपलब्धिः । नत्वेत अनुपलभ्यमाना न सन्ति ॥ ७ ॥


कारिका ८



यद्येवं केन प्रकारेण सतोरपि प्रधानपुरुषयोरनुपलब्धिरित्याह-
सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्‌ कार्यतस्तदुपलब्धेः ।
महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च ॥ ८ ॥

'सौक्ष्म्यात्तदनुपलब्धिः' इत्यादि । प्रकारान्तराभावात्‌ सूक्ष्मत्वात्सतोरपि तयोरनुपलब्धिः । नन्वभावादेव कस्मादनुपलब्धिर्न भवति । यथा घटस्योत्पत्तेः प्राक्‌ मृत्‌ शरादिषु.... तस्य प्रध्वंसाभावात्‌, गवि वाश्वत्वस्याश्वत्वे वा गोत्वस्येतरेतराभावात्‌, वन्ध्यासुतस्य वात्यन्ताभावादित्याह- 'नाभावात्‌' इति । चतुर्विधादित्यर्थः ॥
यद्येवं कथं तौ स्त इति गम्यत इत्याह- 'कार्यतस्तदुपलब्धेः' इति । यद्यप्यत्रोभयं प्रक्रान्तं तथापि तच्छब्देन प्रधानं निर्दिश्यते । प्रधानस्यास्तित्वप्रतिपत्तिः कार्यादित्यर्थः । पुरुषस्यास्तित्वप्रतिपत्तौ हेतुं वक्ष्यति ॥
किं तत्कार्यमित्याह- 'महदादि तच्च कार्यम्‌' इति । महान्‌ बुद्धिः स आदिर्यस्य तन्महदादिभूतपर्यन्तं कार्यमस्ति । तत्‌ प्रधानम्‌, यस्येदं महदादिकार्यं व्यक्तम्‌, अकारणस्य कार्यस्यानुत्पादात्‌ ॥
'प्रकृतिसरूपं विरूपं च' इति । तद्व्यक्तं प्रकृतेः प्रधानस्य सदृशमसदृशं चेत्यर्थः । एतदुत्तरत्र योजयिष्यते ॥ ८ ॥


कारिका ९



तत्कार्यं कारणादुत्पद्यमानं सदुत्पद्यते, किमसत्‌, किं वा सदसदिति? तत्र विरुद्धधर्माध्यासितत्वात्सदसन्नोपपद्यते । असदिति वैशेषिकाः । अत्र दूषणमाह-
असदकरणादुपादानग्रहणात्‌ सर्वसम्भवाभावात्‌ ।
श्क्तस्य शक्यकरणात्‌, कारणभावाच्च सत्कार्यम्‌ ॥ ९ ॥

'असदकरणात्‌' इत्यादि । इह लोके असतः करणं नास्ति, यथा शशविषाणादीनाम्‌ । यदेव सत्‌ घटादिद्रव्यं तदेव मृत्पिण्डादिना कारणविशेषेण क्रियते, नासत्‌ ॥
'उपादानग्रहणात्‌' इति । इह यदर्थं यदुपादीयते तस्य तदुपादानं कारणम्‌, यथा तैलस्य तिलाः, दध्नः क्षीरम्‌ । अत्र तैलं दधि च यदि न स्यात्‌ कथं तस्योपादानस्य ग्रहणं तदर्थिभिः क्रियते । तस्मादुपादानसंग्रहात्‌ सदेव कार्यम्‌ । अन्यथा सिकतासलिलयोरपि ग्रहणं स्यात्‌ ॥
'सर्वसम्भवाभावात्‌' इति । यद्यसत्कार्यं भवेत्‌ तदा सर्वस्य सर्वत्र सम्भवः स्यात्‌ । न चैवम्‌ । तस्मात्सदेव कार्यम्‌ ॥
'शक्तस्य शक्यकरणात्‌' इति शक्तं कारणं नाशक्तमित्येवमप्यवगन्तव्यम्‌ । अन्यथोपहतशक्तर्बीजाङ्कुरोत्पत्तिप्रसङ्गः । शक्तश्च को भवितुमर्हति, यः शक्तिमान्‌ । तस्य शक्तिमतः शक्यस्य करणात्‌, शकनीयस्य कार्यस्योत्पादनादित्यर्थः । एवं च तच्छकनीयं यदि कारणे शक्तिरूपेणावस्थितं स्यात्‌ । तस्मात्सदेवोत्पद्यते नासत्‌ ॥
'कारणभावाच्च' इति । कारणस्य सत्त्वादित्यर्थः । यद्यसत्कार्यमुत्पद्यते किमिति कारणभावेन कार्यस्य भावो भवति । भवति च । तस्माच्छक्तिरूपेणावस्थितमिति गम्यते । अथवा- कारणभावादिति कारणस्वभावात्‌ । यत्स्वभावं कारणं तत्स्वभावं कार्यम्‌, यथा स्निग्धस्वभावस्तिलेभ्यः स्निग्धमेव तैलम्‌, मृतो मृत्स्वभावो घटः । यद्यसत्कार्यं स्यात्‌, असत्स्वभावेभ्यो ह्युत्पाद्येतेत्येवं सांख्यानां सदेवोत्पद्यत इति सिद्धान्तः ॥ ९ ॥


कारिका १०



एवं महदादिकार्यं सदेवोत्पद्यत इति व्यवस्थाप्य प्रकृतेविरूपं सरूपं च दर्शयति । तत्र प्रकृतेर्विरूपमधिकृत्याह-
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्‌ ।
सावयवं परतन्त्रं व्यक्तं, विपरीतमव्यक्तम्‌ ॥ १० ॥

'हेतुमत्‌' इत्यादि । व्यक्तं महदादिभूतपर्यन्तम्‌ । अव्यक्तं प्रधानं तत्र व्यक्तं हेतुमत्‌, यथास्वं कारणेभ्य उत्पद्यमानत्वात्‌ । तत्र प्रधानादुत्पद्यमानो महान् हेतुमान्‌, महतोऽहङ्कारो हेतुमान्‌, अहङ्कारात्तन्मात्राण्येकादशेन्द्रियाण्युत्पद्यमानानि हेतुमन्ति च, तन्मात्रेभ्यश्च महाभूतानि हेतुमन्ति । विपरीतमव्यक्तमहेतुमदित्यर्थः, तस्यान्यतः कुतश्चिदनुत्पादात्‌ । नहि प्रधानाकिंचिदपरमस्ति यतस्तदुत्पद्यते ॥
अनित्यं व्यक्तम्‌, कारणेभ्य उत्पन्नत्वात्‌ घटादिवत्‌ । कारणानि च प्रागुक्तान्येव । विपरीतमव्यक्तं नित्यमित्यर्थः, कुतश्चिदनुत्पन्नत्वात्‌ ॥
अव्यापि व्यक्तं प्रादेशिकमित्यर्थः । दैवं मानुषं तैर्यग्योनं च, तदानीमन्यत्रावर्तमानत्वात्‌ । सर्वगतं विपरीतमव्यक्तं व्यापीत्यर्थः, देवादिषु त्रिषु लोकेषु सर्वदा वर्तमानत्वात्‌ ।
'सक्रियम्‌' इति । क्रियाशब्देनात्र संसरणमभिप्रेतम्‌, न क्रियामात्रम्‌ । महदादिसूक्ष्मपर्यन्तं व्यक्तं देवादि संसरतीत्यर्थः । विपरीतमव्यक्तम्‌, असंसारि । त्रिषु लोकेषु स्थितत्वान्न संसरति । न पुनः क्रियैव नास्तीति निष्क्रियम्‌, तस्य जगत्कर्तृत्वात्‌ ॥
अनेकं व्यक्तम्‌, महदादिभूतपर्यन्ततायास्त्रयोविंशतिप्रकारत्वात्‌ । विपरीतं व्यक्तम्‌, त्रयाणां लोकानां तस्यैकस्य कारणत्वात्‌ ॥
'आश्रितम्‌' इति । यद्यस्मादुत्पन्नं महदादि व्यक्तं तदेव तदाश्रितं नान्यत्‌ । उत्पन्नमन्यदाश्रितमिति दर्शनार्थं वचनम्‌, अन्यथा हेतुमदित्यनेनैवाश्रितं सिद्धमेव । विपरीतमव्यक्तम्‌, अनाश्रितम्‌ । ततोऽन्यस्य कारणस्याभावात्‌ ॥
'लिङ्गम्‌' इति । लिङ्ग्यतेऽनेनाव्यक्तमिति लिङ्गम्‌ । विपरीतमव्यक्तम्‌, न लिङ्ग्यते किञ्चिदनेनेति । अथवा लयं गच्छतीति लिङ्गम्‌ ।
प्रलयकाले ह्याकाशादयः पञ्च यथाक्रमं शब्दादितन्मात्रेषु लीयन्ते, तन्मात्राणीन्द्रियाणि चाहङ्कारे, अहङ्कारो महति, महान्प्रधान इति । विपरीतमव्यक्तम्‌, न कुत्रचिदिदं लीयते, अहेतुत्वात्‌ ॥
'सावयवम्‌' इति । शब्दादयोऽवयवा उच्यन्ते । तैराध्यात्मिकं बाह्यं च व्यक्तं युक्तम्‌ । विपरीतमव्यक्तम्‌, तैरयुक्तत्वात्‌ ॥
परतन्त्रम्‌ । न स्वतन्त्रम्‌ । यदस्मादुत्पद्यते तदेवानुरुद्ध्य स्वकार्यं जनयति न तद्व्यतिरेकेणेति दर्शनार्थम्‌ । अन्यथा हेतुमदित्यनेनैव परतन्त्रत्वं प्रसिद्धमेव । विपरीतमव्यक्तम्‌, स्वतन्त्रं न किंचिदपेक्षते ॥ १० ॥


कारिका ११



सारूप्यमधिकृत्याह-
त्रिगुणमविवेकि विषयः सामान्यमचेतनम्प्रसवधर्मि ।
व्यक्तं, तथा प्रधानम्‌, तद्विपरीतस्तथा च पुमान्‌ ॥ ११ ॥

'त्रिगुणम्‌' इत्यादि । त्रयस्सत्त्वादयो गुणा यस्य तत्त्रिगुणं व्यक्तम्‌ । तथा प्रधानमपि त्रिगुणं तत्स्वभावत्वात्‌ ॥
'अविवेकि' इति । अविवेचनशीलं व्यक्तम्‌, अचेतनत्वात्‌ । यद्वा गुणेभ्यस्तस्य पृथक्त्वाभावादविवेकि । तथा प्रधानमपि ॥
सामान्यं व्यक्तम्‌, सर्वपुरुषोपभोग्यत्वान्मल्लदासीवत्‌ । तथा प्रधानमपि ॥
अचेतनं व्यक्तम्‌, सुखदुःखमोहान्न वेदयतीत्यर्थः । तथा प्रधानमपि ॥
'प्रसवधर्मि' इति । प्रसवो धर्मोऽस्यास्तीति प्रसवधर्मि व्यक्तम्‌ । तथा प्रधानमपि । द्वयोरपि प्रसवधर्मित्वम्‌ ॥
तथा च प्रधानान्महान्‌, महतोऽङ्कार इत्यादिना स्वकार्योत्पादनधर्मत्वाद्यथा व्यक्ताव्यक्तयोर्वैरूप्यं सारूप्यं च, तथा किं पुरुषस्य वापीत्याह- 'तद्विपरीतस्तथा च पुमान्‌' इति । व्यक्ताव्यक्ताभ्यां कैश्चिद्धर्मैर्विलक्षण इत्यर्थः ॥
अत्र पूर्वस्या आर्याया अर्थो योज्यते । हेतुमद्व्यक्तम्‌, अहेतुमदव्यक्तम्‌ । पुरुषोऽप्यहेतुमान्‌, तस्य कुतश्चिदनुत्पादात्‌ ॥
अनित्यं व्यक्तम्‌, नित्यमव्यक्तम्‌ । पुरुषो नित्यः, कुतश्चिदनुत्पन्नत्वात्‌ ॥
अव्यापि व्यक्तम्‌, व्याप्यव्यक्तम्‌ । पुरुषोऽपि व्यापी यदा प्रकृत्या मुक्तः । युक्तश्चेत्‌, व्यक्तेन सदृशो न प्रधानेन । हि सर्वदा देवादिषु प्रवर्तते ॥
सक्रियं व्यक्तम्‌, निष्क्रियमव्यक्तम्‌, असंसारित्वात्‌ । पुरुषोऽपि निष्क्रियः, कर्तृत्वाभावात्‌ ॥
अनेकं व्यक्तम्‌, एकमव्यक्तम्‌ । पुरुषोऽनेको बहुत्वात्‌ । तस्य बहुत्वं प्रतिपादयिष्यति । प्रधानेनात्र वैसादृश्यं तस्यैकत्वात्‌ ॥
आश्रितं व्यक्तम्‌, अनाश्रितमव्यक्तम्‌ । पुरुषोऽप्यनाश्रितः कुतश्चिदनुत्पन्नत्वात्‌ ॥
लिङ्गं व्यक्तम्‌, अलिङ्गमव्यक्तम्‌ । पुरुषोऽप्यलिङ्गः । न किंचिदनेन लिङ्ग्यते न वायं कदाचिल्लीयतेऽनुत्पन्नत्वात्‌ ॥
सावयवं व्यक्तम्‌, निरवयवमव्यक्तम्‌ । पुरुषोऽपि निरवयवः शब्दादिभिरयुक्तत्वात्‌ ।
परतन्त्रं व्यक्तम्‌, स्वतन्त्रमव्यक्तम्‌ । पुरुषोऽपि स्वतन्त्रः, कुतश्चिदनुत्पन्नत्वात्‌ ॥
द्वितीयस्या आर्याया अर्थो योज्यते-
त्रिगुणं व्यक्तमव्यक्तं च । निर्गुणः पुरुषः, गुणानां तत्राभावात्‌ ॥
अविवेकि व्यक्तमव्यक्तं च । विवेकी पुरुषश्चेतनत्वात्‌ । विविक्तो वा निर्गुणत्वात्‌ ॥
विषयो व्यक्तमव्यक्तं च । पुरुषो निर्विषयः, भोक्तृत्वात्‌, न भोग्यः ॥
सामान्यं व्यक्तमव्यक्तं च । पुरुषोऽसामान्यः, अविषयत्वात् ॥
अचेतनं व्यक्तमव्यक्तं च । चेतनः पुरुषः सुखादिवेदनत्वात्‌ ॥
प्रसवधर्मि व्यक्तमव्यक्तं च । पुरुषोऽप्रसवधर्मी, अकर्तृत्वात्‌ । इत्युक्तम्‌ ॥ ११ ॥


कारिका १२



त्रयाणामपि वैरूप्यं सारूप्यं चेति त्रिगुणमित्युक्ते, के के त्रयो गुणाः किमात्मका इत्याह-

प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।
अन्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ १२ ॥

'प्रीत्यप्रीतिविषादात्मकाः' इत्यादि । प्रीत्यादय आत्मानो येषां गुणानां ते तथोक्ताः सत्त्वरजस्तमांसि त्रयो गुणाः । तत्र प्रीत्यात्मकं सुखात्मकं सत्त्वम्‌, अप्रीत्यात्मकं दुःखात्मकं रजः, विषादात्मकं मोहात्मकं तमः । गुणा ह्यतीन्द्रियत्वात्परिणत्या सुखादिनानुमीयमानास्तदात्मका इति व्यपदिश्यन्ते ॥
किं पुनरेषां प्रयोजनमित्याह- 'प्रकाशप्रवृत्तिनियमार्थाः' इति । प्रकाशार्थं सत्त्वं प्रकाशकत्वात्‌, प्रवृत्त्यर्थं रजश्चलत्वात्‌, नियमार्थं तमः स्तिमितत्वात्‌ ॥
किमिति ते गुणाः परस्परसव्यपेक्षाः किं वा नेत्याह- 'अन्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः' इति । अन्योऽन्यशब्दः प्रत्येकमभिसम्बद्ध्यते । अभिभवतीत्यभिभवः । पचाद्यच्‌ । अन्योऽन्यस्याभिभवा अन्योऽन्याभिभवाः । तद्यथा देवेषु सत्त्वमुद्रिक्तं रजस्तमसी अभिभवति, मनुष्येषु रजः सत्त्वतमसी, तिर्यक्षु (तमः सत्त्वरजसी) । आश्रीयन्त इत्याश्रयाः । कर्मण्यण्‌ । अन्योऽन्यस्याश्रयाः, त्रिदण्डवत्‌ । नाश्रयान्तरमेषाम्‌, अनाश्रयाश्च कर्तारः । जनयन्तीति जननाः । 'कृत्यल्युटो बहुलम्‌' इति कर्तरि ल्युट्‌ । अनेकार्थत्वात्‌ च धातूनां बोधनार्था द्रष्टव्याः । अन्योऽन्यस्य प्रबोधका इत्यर्थः । सर्वं हि व्यक्तमुत्पद्यमानं त्रिगुणात्मकमुत्पद्यते । तत्र यदा सत्त्वमुत्कटं तदा रजस्तमसी न्यक्कृतशक्तिके । प्रबोध्यायस्कान्तो लोहवदुक्तम्‌ (?) । सत्वन्यत्कृतेन गुणेन व्यक्तं जनयति (?) एवं रजस्तमश्च योज्यम्‌ । यदा गुणद्वयमुद्भूतशक्ति तदा द्वयमपीतरदभिभवति, प्रबोधयतीत्यर्थः । अन्योऽन्यमिथुना इति । अन्योऽन्यस्य सहाया इत्यर्थः । तथा चोक्तं विष्णुगीतायाम्‌-
रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ।
उभयोः सत्त्वरजसोर्मिथुनं तम उच्यते ॥
एकस्यां व्यक्तौ त्रयाणामभिभवप्रबोधनानुक्तौ व्यक्तम्‌, इतरे तु तौ एव प्रवृत्तिं जनयन्त इति दर्शयन्नाह- अन्योऽन्यवृत्तय इति । वृत्तिः सुखादिरूपेण परिणतिः । वृतिहेतुत्वाद्‍ वृत्तय उच्यन्ते । अन्योन्यवृत्तिहेतव इत्यर्थः । तद्यथा काचिद्योषिद्रूपशीलदत्यन्तगुणा (!) सितत्वात्सात्त्विकी सा भर्त्तुः सुखमुत्पादयति सपत्नीनां कासांचिद्दुःखं कासांचिद्विषादमित्यत्र सत्त्वमात्मनो द्वयोश्च वृत्तिहेतुः । कस्यचित्प्रभोरत्यन्तशूरत्वाद्‌ भृत्या राजसाः, परेषां युध्यमानानां प्रहारैर्दुःखं जनयन्ति, पलायमानानां विषादम्‌, स्वामिनश्च तुष्टिमित्यत्र रज आत्मनो द्वयोस्च वृत्तिहेतुः । मेघांश्चाम्बुगु.....वानिषान्धकारीकृत्योन्नतत्वात्‌ (?) तामसाः, ते वर्षन्तः प्रोषितभर्तृकाणां विषादं जनयन्ति, पथिकानां दुःखम्‌ कृषीवलानां तुष्टिमित्यत्र तम आत्मनो द्वयोश्च वृत्तिहेतुः ॥ १२ ॥


कारिका १३



एषां दुर्लक्षणानां लक्षणान्तरमाह-
सत्त्वं लघु प्रकाशकमुपष्टम्भकं चलं च रजः ।
गुरु वरणकमेव तमः, प्रदीपवच्चार्थतो वृत्तिः ॥ १३ ॥

'सत्त्वम्‌' इत्यादि । इष्टं सांख्याचार्याणां सत्त्वं लघुस्वभावं प्रकाशं च । यस्योद्रेकाच्छरीरेंऽशानि लघूनि भवन्ति, विषयप्रकाशनसमर्थानि चेन्द्रियाणि । बाह्यानि च द्रव्याणि लघूनि प्रकाशात्मकानि निर्मलानि भवन्ति ॥
'उपष्टम्भकं चलं च रजः' इति । उपष्टम्भयतीत्युपष्टम्भकम्‌ । यस्योद्रेकाद् देवदत्तो व्यवस्यति, चलचित्तश्च भवति । बाह्यानि चलानि भवन्तीति ॥
'गुरु वरणकमेव तमः' इति । वृणोति पिधत्त इति । 'कृत्यल्युटो बहुलम्‌' इति कर्तरि ल्युट्‌, करणे वा । पश्चात्‌ स्वार्थे कन्‌ । यस्योद्रेकाद्‌ गुरूण्यङ्गानि भवन्ति, इन्द्रियाणि च तमसैवात्तानि भवन्ति । बाह्यानि च गुरूण्यनिर्मलानि च भवन्ति ॥
उदाहरणदिगियमन्यान्यपि विज्ञेयानि भवन्ति । तथा चाहुः- प्रीतिप्रीति(?)स्वाभिषङ्गलाघवानि प्रसादहर्षौ च, स्तम्भौद्धत्यद्वेषचलनशोषणतापभेदाश्च, वरणापध्वंसनसादनगौरवदैन्यभीतयश्चैतानि सत्त्वरजस्तमसां क्रमेण ज्ञातव्यानि लिङ्गानि ॥
ननु चैते परस्परविलक्षणा गुणा विरुद्धत्वात्‌ कथं सम्भूयैकत्र वर्तन्त इत्याह- 'प्रदीपवच्चार्थतो वृत्तिः' इति । प्रदीपस्येव प्रदीपवत्‌ । तैलवर्त्त्यग्निसमुदायः प्रदीपः । यदा समुदायात्म.....परस्परविलक्षणानामपि प्रदीपभा...प्रवृतिः, तमसि स्थिता घटादयो देवदत्तस्य प्रकाशयितव्या इति, तथा सत्त्वरजस्तमसां पुरुषार्थहेतुना प्रवृत्तिः, पुरुषार्थशब्दोपलब्धिश्चेति ॥ १३ ॥


कारिका १४



ननु च 'त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि व्यक्तम्‌', तत्र सुखदुःकमोहोपलब्धेस्त्रैगुण्यं व्यक्तं सिद्धम्‌, अविवेक्यादयो धर्माः प्रसवपर्यन्ताः कथं सिद्ध्यन्तीत्याह-

अविवेक्यादिस्सिद्धस्त्रैगुण्यात्तद्विपर्ययाभावात्‌ ।
कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम्‌ ॥ १४ ॥

'अविवेक्यादिः सिद्धः' इत्यादि । गुणिद्वारेण गुणाभिधानम्‌ । अविवेक्यादिगुणस्सिद्धः । व्यक्त इति वाक्यशेषः ॥
कुतः? त्रैगुण्यात्‌ । कथं? यस्माद्गुणा एवाविवेकिनो भोग्यास्सामान्या अचेतना प्रसवधर्मिणश्च, ते च व्यक्ते सिद्धा इति सिद्धो गुणः ॥
'तद्विपर्ययाभावात्‌' इति । (त्रैगुण्यस्याभावादिति) । त्रैगुण्यस्याभावेऽविवेक्यादयोरभावात्‌ । न हि निर्गुणस्य पुरुषस्याविवेक्यादिः सम्भवति । तस्मात्त्रैगुण्यादेवाविवेक्यादिस्सिद्धः ॥
एवं च सति, प्रधानमपि त्रैगुण्यात्तथाविधं सिद्धम्‌ । यदाह- 'कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम्‌' इति । कारणस्य यो गुणः स आत्मा स्वभावो यस्य तत्तथोक्तम्‌ । तस्य स्वभावस्तत्त्वम्‌ । तस्मादिह लोके कारणगुणकं कार्यं दृष्टम्‌ । शुक्लैः कृष्णैर्वा तन्तुभिरारब्धः पटः शुक्लः कृष्णो वा भवति । यद्यव्यक्तं तथाविधं न स्यात्‌, कथं व्यक्तं तथाविधं भवेत्‌ ॥ १४ ॥


कारिका १५



ननु च सति धर्मिणि धर्माश्चिन्त्यन्ते, प्रधानस्यैव धर्मिणोऽलब्धसिद्धित्वात्‌ कथमविवेक्यादीत्याह-

भेदानां परिमाणात्‌ समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ १५ ॥

'भेदानाम्‌' इत्यादि । कार्यतस्तदुपलब्धेर्महदादि तच्च कार्यमित्यनेनैव साधितेऽस्मिन्‌ यथावदधिगते पुनर्दार्ढ्यार्थं समनन्तरोपादानम्‌ । भिद्यन्त इति भेदाः कार्यविशेषास्तेषां (एकस्संसर्गी दृष्टः) परिमाणाच्च । भेदानां परिमितत्वादित्यर्थः । येन च परिमितास्तेषामेकः संसर्गी दृष्टः । यथा मूलाङ्कुरपत्रकाण्डप्रसवपुष्पतण्डुलकणानां भेदानां व्रीहिः तविबाह्याध्यात्मिकभेदाः । परिमितबाह्या ब्रह्मादिस्तम्बपर्यन्ताश्चतुर्दश । आध्यात्मिकाश्च महदहङ्कारतन्मात्रेन्द्रियभूताख्यास्त्रयोविंशतिः । तस्मादेतेषामेकेन संसर्गिणा भवितव्यम्‌ । यत्रैषां संसर्गस्तदव्यक्तं कारणमस्तीति सामान्यतोदृष्टमनुमानम्‌ ॥
'समन्वयात्‌' भेदानामिति वर्तते । समन्वयोऽनुगमः । एकजात्यनुगमादित्यर्थः । य एकजात्यनुगता भेदास्तेषामेकमेव तथाभूतं कारणं दृष्टम्‌ । यथा कटककेयूरादीनां सुवर्णपिण्डः, यथा वा शरावादीनां मृत्पिण्डः । एवमेषामपि बाह्याध्यात्मिकानां सुखदुःखमोहानुगतत्वादेकेन तथाविधेन भवितव्यम्‌ । य एषां समुदायस्तत्प्रधानमिति सामान्यतोदृष्टम्‌ ।
'शक्तितः प्रवृत्तेश्च' इति । इह कुलालादिशक्तिपूर्विका घटादीनां प्रवृत्तिर्दृष्टा नाशक्तिपूर्विका । एषामपि बाह्याध्यात्मिकानां प्रवृत्तिर्दृश्यते । ततश्च प्राक्‌ च प्रवृत्तेर्जनितया शक्त्या भवितव्यम्‌ । यासौ शक्तिः सैवाव्यक्तभावमापद्यत इति सामान्यतोदृष्टम्‌ ॥
'कारणकार्यविभागात्‌' इति । कारणस्य पूर्वभावित्वात्‌ पूर्वनिपातः । अल्पाच्तरस्य पूर्वनिपातस्यानित्यत्वम्‌ । यत उत्पद्यते तत्कारणम्‌, यच्चोत्पद्यते तत्कार्यम्‌ । यथा मृत्पिण्डघटयोर्जन्यजनकत्वेन पृथगर्थक्रियाकरणाच्च विभागो दृष्टः । अन्यथा घटास्योदकाहरणक्रिया या न सा मृत्पिण्डस्य, या मृत्पिण्डस्य न सा घटस्य । एवं व्यक्तस्य महदादेः कार्यत्वात्पृथगर्थक्रियाकरणाच्च विभागः । तस्मादस्य कारणेन भवितव्यम्‌ । तच्चाव्यक्तात्किमन्यत् स्यादिति ॥
अस्मिन्‌ व्याख्याने 'कार्यतस्तदुपलब्धेर्महदादि तच्च कार्यम्‌' इत्यनेनैव सिद्धत्वादन्यैरन्यथा व्याख्यायते । यदुपकरोति तक्तारणम्‌, यदुपक्रियते तत्कार्यं तयोर्विभागात्‌, उपकार्योपकारकभावादित्यर्थः । तत्र कार्य...व्यादीनि शरीरस्थानि स्थानसाधना...वभोगैः कारणान्युपकुर्वन्ति । कारणानि च वृद्धिक्षतसंरोहणपालनैः कार्याणि । बाह्यानि च कारणानि पृथिव्या धृतिसङ्ग्रहपत्तिव्यूहनावकाशदानैः परस्परमुपकुर्वन्ति । तथा दैवमानुषतैर्यग्योनानि परस्परोपकारीणि । तत्र दैवम्‌, यथाकालं शीतोष्णवर्षागमः, मानुषतैर्यग्योनान्युपकरोति । मानुषमिज्यायागस्तुतिभिर्दैवं रक्षति, पोषणभेषज्यैशअह तैर्यग्योनमुपकरोति । यथाध्यात्मिकानां बाह्यानां चोपकार्योपकारकभावो बुद्धिकृत इव दृश्यते तदस्य कश्चिद्व्यवस्थापिता स्यात्‌, कुतोऽयं विभाग इत्यन्यथानुपपत्तेः ॥
'अविभागाद्वैश्वरूप्यस्य' इति । न विद्यते विभागोऽस्येत्यविभागः । अविभक्तादित्यर्थः । तस्माद्वैश्वरूप्यस्योपलब्धेरिति शेषः । इह लोकेऽविभक्तादेकस्मादिक्षुद्रव्याद्रसफाणितगुडखण्डशर्करादिवैश्वरूप्यं नानात्वं दृश्यते, तथैकस्माद्दुग्धाद्दधिमस्तुनवनीतघृतादिवैश्वरूप्यमुपलभ्यते । एवमाध्यात्मिकानां बाह्यानां च वैश्वरूप्यम्‌ । तस्मादेषामविभक्तेनैव भवितव्यमिति सामान्यतोदृष्टम्‌ ॥
अन्यस्त्वाह- 'अविभागे वैश्वरूप्यस्य' इति । अविभागो लयः, वैश्वरूप्यं जगत्‌ नानारूपत्वात्‌ । प्रलयकाले वैश्वरूप्यं क्व लीयते स्थित्युत्पत्तिप्रलयाज्जगत इति । न चेश्वरे लयनं सम्भवति, तस्य निर्गुणत्वेनाभ्युपगमात्‌ । तस्मादन्यथानुपपत्त्यास्ति तदेकमिति । तथा चाहुः-
प्रधानादानुपूर्व्येण सृष्टिर्लोकस्य संसरः ।
प्र....प्रातिलोम्येन पुनस्तत्रैव सञ्चरः ॥ इति ॥ १५ ॥


कारिका १६



एषां हेतूनां प्रवर्तनार्थमाह-

कारणमस्त्यव्यक्तम्‌, प्रवर्तते त्रिगुणतः समुदयाच्च ।
परिणामतः सलिलवत्‌, प्रतिप्रतिगुणाश्रयविशेषात्‌ ॥ १६ ॥

'कारणमस्ति' इत्यादि ॥
यदि कारणमस्त्यव्यक्तं तत्कथं प्रवर्तत इत्याह- 'त्रिगुणतस्समुदयाच्च' इति । यदा प्रकृतिस्था गुणास्साम्येन प्रवर्तन्ते तदा (त्रीनेवाधिकृत्य प्रवरन्ते नैकैकमित्यर्थः । यदा वैषम्येण प्रवर्तन्ते तदा) कार्यं कारणारब्धत्वात् समुदयात्‌ प्रवर्तते । समन्तादुदयो यस्य गुणस्य तमधिकृत्येत्यर्थः, शेषन्यक्कृतशक्तिकत्वात्‌ । यदि समुदयादव्यक्तं प्रवर्तते तस्मादुत्पन्नं तदव्य...स्मान्न भवति ॥
शुक्लेभ्यः कृष्णेभ्यो वा तन्तुभ्यः शुक्लः कृष्णो वा पटो भवतीत्याह-
'परिणामतः' इत्यादि । पूर्वस्यामवस्थायामवस्थान्तरं परिणामः, तस्माद्धेतोः प्रवर्तते । यथा कणिकायाः सूक्ष्माया मूलकः शाखाप्रशाखादिप्रवृद्धो महान्वनस्पतिर्व्यक्तो भवति, एवमव्यक्ताद्व्यक्तं परिणमति ॥
यद्येवमेकरूपादुत्पन्नस्य त्रैलोक्यस्य कथमनेकरूपत्वमित्याह- 'सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात्‌' इति । सलिलेन तुल्यं वर्तत इति सलिलवत्‌ । एकैकं प्रति गुणाः प्रतिप्रतिगुणाः । त एवाश्रयास्तेषां यो विशेषस्तस्माद्धेतोः प्रवर्तन्ते । यथा सलिलमन्तरिक्षादेकरसमपि तदेकस्य कट्वम्लादेर्गुणस्याश्रयभूतस्य विशेषान्नानारसं वर्तते एवमव्यक्तमपीति गुणात्मकत्वादेकैकगुणाश्रयविशेषान्नानारूपं प्रवर्तते । तत्र सत्त्वस्य कृतेराश्रयस्य विशेषाद्देवभावेन वर्तनम्‌, रजस आश्रयस्य विशेषान्मानुषभावेन, तमस आश्रयस्य विशेषात्तिर्यग्योनिभावेनेति ॥ १६ ॥


कारिका १७



एवमव्यक्तस्यास्तित्वं प्रवृत्तिं च प्रसाध्य पुरुषास्तित्वं प्रसाधयितुमाह-
संघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात्‌ ।
पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च ॥ १७ ॥

'संघातपरार्थत्वात्‌' इत्यादि । संहन्यत इति संघातः । संघातश्चासौ परार्थश्चेति संघातपरार्थः । संघातत्वं हेतुः परार्थत्वं साध्यम्‌ । इह लोके संघातबाह्याः शयनासनादयो ये ते परार्था दृष्टाः । ते हि देवदत्तस्य परस्यार्थं कुर्वन्ति न स्वार्थम्‌ । एतेऽप्याध्यात्मिका महदादयः शरीरसंज्ञकाः संघाताः, तैः परार्थैर्भवितव्यम्‌ । न च पुरुषव्यतिरिक्तोऽन्यः परोऽस्ति, पुरुष एव पर इ....न्यतोदृष्टम्‌ ॥
ननु महदादिभूतपर्यन्तं शरीरमेव पुरुषो नान्यः कश्चिदित्यत्राह- 'त्रिगुणादिविपर्ययात्‌' इति । आदिशब्देनाविवेक्यादयः पञ्च धर्मा दृश्यन्ते । तथा हि तद्विपरीतः पुमानित्युक्तम्‌ । ततश्च तद्विपरीतत्वात्पुंसः कथं महदादिमात्रमेव पुरुषः । तस्माद्व्यतिरिक्तः पुरुषो यस्यार्थका इमे संघाताः ॥
'अधिष्ठानात्‌' इति । अधितिष्ठत्यस्मिन्नित्यधिष्ठानम्‌ । महदादिभूतपर्यन्तं शरीरमिह लोके यदधिष्ठानं तत्पराधिष्ठितं दृष्टम्‌, यथा रथादि । दृश्यते चाधिष्ठानं शरीरम्‌ । तस्मादस्याधिष्ठात्रा भवितव्यम्‌ । योऽसावधिष्ठाता स पुरुषः, नान्तःकरणमधिष्ठातृ, तस्याचेतनत्वादिति सामान्यतोदृष्टम्‌ ॥
'भोक्तृभावात्‌' इति । भोक्तृत्वादित्यर्थः । इह लोके भोग्यं दृष्ट्वा भोक्तानुमीयते । दृश्यते महदादिपर्यन्तं भोग्यम्‌, तस्मादस्यापि भोक्त्रा भवितव्यमिति सामान्यतोदृष्टम्‌ । न चान्तःकरणं भोक्तृ, तस्याचेतनत्वाद्भोग्यत्वाच्च । यश्च भोक्ता स एव पुरुषः सात्मकं जीवच्छरीरं प्राणादिमत्त्वात्‌ । अस्मिन्‌ देधे योऽयमात्मा समानजातीयानेकवस्त्वन्तरसहायः, प्रतिनियतैर्जन्मादिभिर्युज्यमानत्वात्‌ मनोवत्‌ ॥
'कैवल्यार्थं प्रवृत्तेश्च' इति । कैवल्यं मोक्षः । तदन्यार्थप्रधानस्यैषा प्रवृत्तिः । तथाहि- प्रधानं बुद्ध्यात्मना परिणमति । बुद्धेश्चाष्टादशानि । तेषु च ज्ञानं कैवल्यम्‌ । तत्र यदि पुरुषो न स्यात्तदा तदर्था प्रवृत्तिर्न भवेत्‌ । तस्मादन्यथानुपपत्त्या पुरुषोऽस्ति ॥
तत्र सिद्धे पुंसि विवादाः । एक एवायं पुरुषः सर्वशरीरेषु स्थित इत्येके । सर्वे काय उपनतानेकात्मानस्सात्मकत्वात्‌, योगिशरीरवृंद.. प्रतिशरीरमनेकः पुरुष इत्यपरे । एक एव पुराणः पुरुषः, तस्मादग्नेस..विष्फुलिङ्गाः प्रतिशरीरं पुरुषा आबिर्भूता इति वेदान्तवादिनः ॥ १७ ॥


कारिका १८


अत्राह-
जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ १८ ॥

'जननमरणकरणानाम्‌' इत्यादि । करणं चक्षुरादीन्द्रियम्‌ देहेन्द्रियादेरधिष्ठानस्योत्पत्तिविनाशौ । तद्योगात्पुरुषः जननमरणेऽपि व्यवस्थाप्येते । स्वतः पुरुषस्य ते न सम्भवतः । कुतः ? - नित्यतात्‌ तत्र यद्येकः पुरुषः स्यात्तदैकस्मिन्‌ जायमाने म्रियमाणे वा सर्वेषां जननमरणे स्याताम्‌ । तथैकस्मिंश्चक्षुष्मति श्रोत्रवति वा सर्वेऽन्धा (बधिरा वा, पश्येयुः श्रुणुयुर्वा । एकस्मिन्नन्धे) बधिरे वा तथा स्युः । न चैवम्‌, जननादीनां प्रतिनियमात्‌ । तस्मादन्यथानुपपत्त्या पुरुषबहुत्वं सिद्धम्‌ ॥
'अयुगपत्प्रवृत्तेश्च' इति । यद्येकः पुरुषः स्यात्तदैकेनाधिष्ठात्रा तिष्ठति देहे, धर्माधर्मयोरर्थानर्थयोः सुखदुःखयोर्वा प्रवृत्ते, सर्व एव युगपत्प्रवर्त्तेरन्‌ । न चैवमित्यन्यथानुपपत्तिः ॥
'त्रैगुण्यविपर्ययाच्च' इति । त्रय एव गुणास्त्रैगुण्यम् । तद् विपर्ययोऽन्यथात्वम्‌ । अधिष्ठानस्य त्रिगुणात्मकत्वात्तद्योगात्पुरुषोऽपि त्रिगुणात्मक इत्युच्यते । तत्र यद्येकः पुरुषः स्यात्तदैकस्मिन्‌ सात्त्विके राजसे तामसे वा, सर्व एव तथाविधाः स्युः । न चैवम्‌, गुणानं विपर्ययदर्शनदित्यन्यथानुपपत्तिः ॥
पुराणपुरुषादग्नेरिव विष्फुलिङ्गाः प्रतिशरीरं पुरुषा इत्यस्मिन्नपि दर्शने पुरुषबहुत्वमस्त्येव । तेषां परस्परविलक्षणत्वात् ते पुराणपुरुषादभिन्ना भिन्ना वेति दर्शनद्वयम्‌ । तदन्यत्र विवारितत्वादिह ग्रन्थगौरवभयान्नोपन्यस्तमस्माभिरिति ॥ १८ ॥


कारिका १९



एवं पुरुषबहुत्वं प्रसाद्ध्य तद्धर्मान्‌ कथयितुमाह-
तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यम्माध्यस्थं द्रष्टृत्वमकर्तृभावश्च ॥ १९ ॥

'तस्माच्च विपर्यासात्‌' इत्यादि । यः प्रागुक्तो विपर्ययः- त्रिगुणमविवेकि विषयः - इत्यादिना, तस्मात्साक्षित्वादयो धर्माः पुरुषस्य सिद्धाः । तत्र निर्गुणस्य पुरुषस्याप्रसवधर्मित्वादकर्तृत्वम्‌ । यश्चाकर्ता स भवत्युदासीनः । सप्तविधं चास्यौदासीन्यम्‌ । तथा चोक्तम् -
पश्यति शृणोति सर्वम करोति स्थितिं प्रसङ्गं च नापि ।
स्वतो न परतो...नोभयतश्चाप्युदासीनः ॥ इति ॥
यश्चोदासीनः स साक्ष्यपि भवति प्रधानसम्बन्धिनः क्रियाकलापस्य निर्गुणत्वात् ॥
कैवल्यं केवलभावात् चेतनत्वाच्च द्रष्टृत्वमिति ॥
ननु च यद्यकर्ता तत्कथं- भोक्तृभावादस्ति पुरुषः- ? तथा चाहुः-
बालहुताशनतरवः स्वयमकृतानां यथा हि भोक्तारः ।
पुरुषोऽपि विषयफलानां स्वयमकृतानां तथापि भोक्ता ॥ इति ॥
इत्युक्तमकर्तुरपि भोक्तृत्वमस्येति ॥ १९ ॥


कारिका २०


 
ननु च यद्यचेतनमव्यक्तं कथं देहेन्द्रियसंज्ञमधिष्ठानं धर्माधर्मादिषु प्रवर्त्तते, तस्याचेतनत्वादित्याह-
तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ २० ॥

'तस्मात्तत्संयोगात्‌' इत्यादि । तेन पुरुषेण यः संयोगस्तस्मादचेतनं चेतनावदिव भवति । यथाग्निसंयोगाल्लोहमणिरित्युच्यते । लिङ्गं महदादिसूक्ष्मपर्यन्तं वक्ष्यति ॥
यदि तदेव त्रिगुणात्मकं कर्तृ न पुमान्‌, कथं पुरुषो गच्छतीत्युच्यत इत्याह- 'गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः' इति । गुणानां कर्तृत्वं न पुरुषस्य । यथा पुरुषसंयोगादचेतनं लिङ्गं चेतनावदिव भवति, तथा गुणात्मकलिङ्गसंयोगादकर्तापि सन्‌ कर्तेव भवति । उदासीनः । यथा स्वामी स्वयमयोद्धापि यौधभृत्यसंयोगाद्‌ योद्धेति व्यपदिश्यते, तथा पुरुषोऽप्युपचारेण कर्तेति ।
तथा चोक्तम्‌ -
प्रवर्त्तमानान्‌ प्रकृतेरिमान्‌ गुणांस्तमोऽभिभूतो विपरीतदर्शनः ।
अहं करोमीत्यबुधोऽभिमन्यते तृणस्य कुब्जीकरणेऽप्यनीश्वरः ॥ इति ॥ २० ॥


कारिका २१



 ननु प्रधानपुरुषयोः किं (कर्तृत्वं) चैतन्यार्थमेव संयोगः, किं वान्यार्थमपीत्याह-
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पंग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१ ॥

'पुरुषस्य' इत्यादि । पुरुषस्यार्थो द्विविधः, विषयोपभोगः कैवल्यं च । तदुभयं प्रधानेन सम्पाद्यम्‌ । विषयोपभोगश्च प्रधानविभूतिमन्तरेण न सम्भवति, इति दर्शनार्थं पुरुषः प्रधानेन संयुज्यते । मानं स्वां विभूतिं दर्शयितुमसमर्थात्पुरुषेण संयुज्यते (?) । दृष्ट्वा स सर्वां विभूतिमनुभूय विरसत्वाद्‌ विरक्तः पुरुषः प्रधानेन त्यज्यते । त्यक्तस्य कैवल्यमित्यतो दर्शनार्थं कैवल्यार्थं च द्वयोरपि संयोगो मत्स्योदकवदुदुम्बरमशकश्च ॥
'पंग्वन्धवत्‌' इति । दृष्टान्तः । पङ्गुः सचक्षुः पश्यति पन्थानं न संचरति, अन्धोऽपि संचरति न पश्यति पन्थानम्‌ । तयोः स्वार्थभ्रष्टयोर्ग्रामप्राप्त्यर्थः सम्बन्धो भूतः । तत्र पङ्गुरन्धस्कन्धमारुह्य गतिमान्‌, अन्धोऽपि द्रष्ट्रधिष्ठानाद्दृष्टिमान्‌ जातः । ग्रामप्राप्तयोश्च तयोर्वियोगः । एवं पुरुषो निष्क्रियः प्रधानेन संयुज्य तद्विभूतिदर्शनाय देवादिषु संचरति । प्रधानं निश्चेतनमपि पुरुषाधिष्ठानाच्चेतनावदिव द्वयमपि सम्पादयति । तस्मात्पंग्वन्धवदुभयोरपि संयोगः ॥
ननु च संयोगमात्रेण कथं दर्शनं कैवल्यं चेत्याह- 'तत्कृतः सर्गः' इति । संयोगकृतो महदादिग्रामोत्पाद इत्यर्थः ॥ २१ ॥


कारिका २२



तमेव दर्शयन्नाह-
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः ।
तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ २२ ॥

'प्रकृतेर्महान्‌' इत्यादि । प्रकृतिः प्रधानं कारणमव्यक्तं गुणसाम्यं तमोबहुलमव्याकृतमिति प्रकृतिपर्यायाः । ततो महानुत्पद्यते स तु तमोबहुलः । महान्‌ बुद्धिर्मतिः प्रत्यय उपलब्धिरिति बुद्धिपर्यायाः । ततोऽहङ्कार उत्पद्यते । स तु रजस्तमोबहुलः । अहङ्कारः सुपर्णपणि(!)स्तत्पुरुष इत्यहङ्कारपर्यायाः ॥
'तस्माद्गणश्च षोडशकः' इति । तस्मादहङ्कारात्‌ षोडशको गण उत्पद्यते । एकादशेन्द्रियाणि पञ्च तन्मात्राणीत्यर्थः । तानि हृषीकाणीन्द्रियाणीति पर्यायाः । सूक्ष्मा अतिशया अणवः (विषा) इति तन्मात्रपर्यायाः ॥
'तस्मादपि षोडशकात्‌ पञ्चभ्यः पञ्च भूतानि' इति । षोडशाद्‌ गणाद्यानि पञ्च तन्मात्राणि तेभ्य एकोत्तरवृद्ध्या पञ्च महाभूतानि भवन्ति । तत्र शब्दतन्मात्रादाकाशमेकगुणम्‌ । शब्दतन्मात्रप्रतिसंहितात्‌ स्पर्शतन्मात्राद्द्विगुणो वायुः । ताभ्यां प्रतिसंहिताद्रूपतन्मात्रात्‌ त्रिगुणं तेजः । तैः प्रतिसंहिताद्रसतन्मात्रात्‌ चतुर्गुणा आपः । चतुर्भिः प्रतिसंहिताद्गन्धतन्मात्रात्‌ पञ्चगुणा पृथिवीति । एतैरेकादशादयः स्थूला विशेषा उच्यन्ते, येष्ववसितानि चतुर्विंशतितत्त्वानि ॥ २२ ॥


कारिका २३



बुद्धेर्लक्षणमाह-
अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम्‌ ।
सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम्‌ ॥ २३ ॥

'अध्यवसायः' इत्यादि । शब्दादिषु विषयेऽध्यवसायशब्दोऽयं यावत्‌ गन्धोऽयमिति सुबुद्धेर्लक्षणम्‌ (?) । तस्याश्चाष्टौ रूपाणि ॥
'धर्मो ज्ञानं विराग ऐश्वर्यम्‌' इति । तत्र योऽयमनिविषयमनुष्ठानात्मकोऽधवसायस्स धर्मः । यमाः पञ्च नियमाश्च । यथोक्तं सांख्यप्रवचने 'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' । 'शौचसन्तोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः' इति । तत्र सन्तोषस्सनिहितसाधनाभ्याशादधिकस्यानुपादित्सा । तपो जिघत्सापिपासाशीतोष्णस्थानसाधनाजयः काष्ठमौनाकारमौने, व्रतानि च कृच्छ्रचान्द्रायणादीनि । स्वाध्यायो मोक्षशास्त्राध्ययनं प्रणवजपो वा । ईश्वरप्रणिधानं विशिष्टदेवताराधनम्‌ । असंसारिभिस्तुल्यवृत्तित्वादिति । तद्विपरीतानुष्ठानमधर्मः । पञ्चविंशतितत्त्वानां स्वसंज्ञालाक्षण्यकत्वप्रयोजनावधारणं ज्ञानम्‌, गुणपुरुषान्तरज्ञानम्‌ । शेषमज्ञानम्‌ । विषयशरीरेन्द्रियेभ्यो दोषदर्शनाद्वैमुख्यं विरागः । तेष्वभिलाषो रागः । ऐश्वर्यमष्टगुणम्‌- अणिमा, महिमा, लघिमा, प्राप्तिः, प्राकाम्य‌म्‌, ईशित्वं, वशित्वम्‌, यत्रकामावसायित्वं चेति । तत्राणिमाणुत्वम्‌, येन गुणेन सूक्ष्मो भूत्वा विचरति । कार्ये कारणोपचारादणिमेत्युच्यते । उत्तरत्राप्येवं योज्यम्‌ । लघिमा लघुत्वम्‌, येन वायुवल्लघुतरो भवति । महिमा महत्त्वम्‌, येन भुवनेषु धर्मादिप्राप्तिः, येन गुणेनेषितस्य प्रापणम्‌ । प्राकाम्यं प्रचुरकामिता येनैकमनेकं प्राकाम्यतेऽनेकं चैकम्‌ । ईशित्वं प्रभुता (येन स्थावरादीनि भूतानि सन्देशकारीणि भवन्ति । वशित्वं वशिता) येन स्वतन्त्रश्चरति । यत्रकामावशायित्वं (कामेनेच्छयावशेतुं शीलं यस्य स यत्रकामावशायी । तस्य भावः यत्रकामावशायित्वम्‌) । अनेकार्थत्वाद्धातूनां 'शी' तिष्ठतौ वर्त्तते । येन गुणेन दिव्यन्तरिक्षे भूमौ वावस्थायित्वमित्यर्थः ।
'सात्त्विकमेतद्रूपम्‌' इति । सत्त्वतमोबहुलत्वात्‌ । बुद्धेर्यदा सत्त्वमुत्कटं भवति तदैतच्चतुष्टयं भवतीत्यर्थः ।
'तामसमस्माद्विपर्यस्तम्‌' इति । उत्कटलक्षणात्‌ धर्मादिचतुष्टयाद्विपरीतं तमस्युद्रिक्ते भवतीत्यर्थः । अधर्मोऽज्ञानमवैराग्यमनैश्वर्यं चेति ॥ २३ ॥


कारिका २४



अहङ्कारलक्षणमाह-
अभिमानोऽहङ्कारः, तस्माद्द्विविधः प्रवर्त्तते सर्गः ।
एकादशश्च गणस्तन्मात्रपञ्चकश्चैव ॥ २४ ॥

'अभिमानः' इत्यादि । अभिमतिरभिमानः । रूपादिषु विषयेष्वभिमानो रूपवानहम्‌, ममैते विषयाः, इत्यह्यङ्कारलक्षणम्‌ ॥
तस्मादभिमानलक्षणादहङ्कारात्‌ 'द्विविधः प्रवर्त्तते सर्गः' इति । सृज्यत इति सर्गः ॥
तमेव द्विविधं दर्शयितुमाह- 'एकादशकश्च गणः' इति । एकादश परिमाणमस्येत्येकादशः श्रोत्रादिर्गणः ॥
'तन्मात्रापञ्चकं च' इति । तन्मात्रशब्दादिस्वरूपमात्र इत्यर्थः । तन्मात्राणि शब्दस्पर्शरूपरसगन्धाः । मात्राग्रहणं भूतसंश्लेषनिवृत्त्यर्थम्‌ । भूतेष्वपि शब्दादिसम्भवात्‌ ॥ २४ ॥


कारिका २५



स चाहङ्कारस्त्रिविध इति दर्शयन्नाह-
सात्त्विक एकादशकः प्रवर्त्तते वैकृतादहङ्कारात्‌ ।
भूतादेस्तन्मात्रः स तामसः, तैजसादुभयम्‌ ॥ २५ ॥

'सात्त्विकः' इत्यादि । यदा सत्त्वमुद्रिक्तं तदाहङ्कारो वैकृताभिमानो भवति, रजश्चोद्रिक्तं तैजसः, तमश्चोद्रिक्तं भूतादिरिति । तत्र वैकृतादेकादशको गणः प्रवर्त्तते । स च सात्त्विकः सत्त्वबहुलः, स्वविषयग्रहणत्वात्‌ ॥
भूतादेस्तामसादहङ्कारात्तन्मात्रः स तामसः, तमोबहुलत्वात्‌ । ततस्तामसात्तन्मात्रात्‌ गणात्‌ तामसो भूतगणः प्रवर्त्तते ॥
('तैजसादुभयम्‌' इति । एतदाशयः- पञ्चकञ्चैतदुभयमपि प्रवर्त्तते) । आदिकाल उभयत्राप्यस्य सहायत्वात्‌ । वैकृतभूतादि द्वावपि प्रकाशस्थितिशीलत्वात्‌ न क्रियाशीले । ततस्तैजसमहङ्कारं क्रियाशीलं सहायमपेक्ष्यैकादशकं पञ्चकं च मलाजनयत (?) इति ॥ २५ ॥


कारिका २६



कः पुनरेकादश इत्याह-
बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि ।
वाक्पाणिपादपायूपस्थान्‌ कर्मेन्द्रियाण्याहुः ॥ २६ ॥

'बुद्धीन्द्रियाणि' इत्यादि । द्विविधमिन्द्रियम्‌ । तत्र चक्षुर्येन दृश्यते । श्रोत्रं येन श्रूयते । त्वग्यया स्पृश्यते । रसनं येन रस्यते । नासिका यया घ्रायते । ता आख्या येषामिन्द्रियाणामिति शब्दप्रधानो निर्देशः । तानि चक्षुःश्रोत्रत्वग्रसनानासिकाख्यानि पञ्च । बुद्धिपूर्वकपर्यालोचनमिति बुद्धीन्द्रियाण्याहुः सांख्याचार्याः । शब्दवशादत्राक्रमः कृतः । क्रमस्तु श्रोत्रत्वक्चक्षुरिति ॥
'वाक्पाणिपादपायूपस्थान्‌' इति । कर्मेन्द्रियाणि कर्माभिनिर्वर्तनात्‌ । अस्मादेव प्रयोगादुपस्थशब्दः पुंलिङ्गोऽप्यस्तीति ज्ञायते । स च स्त्रैणः पौरुषेयश्च । तत्र वागिन्द्रियं कण्ठस्थम्‌ । अन्यानि प्रसिद्धान्येव ॥ २६ ॥


कारिका २७



एकादशकमिन्द्रियं दर्शयन्नाह-
उभयात्मकमत्र मनः, सङ्कल्पकमिन्द्रियं च साधर्म्यात्‌ ।
गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च ॥ २७ ॥

'उभयात्मकमत्र मनः' इत्यादि । अत्रेत्यस्मिन्निन्द्रियवशे मन उभयात्मकमुभयस्वभावम्‌ । बुद्धीन्द्रियाणां कर्मेन्द्रियाणां च स्वस्वविषयग्रहणकाले बुद्धीन्द्रियं कर्मेन्द्रियं चेत्यर्थः । उभयत्राप्यस्य व्यापारादिति लक्षणं तदित्याह- सङ्कल्पयतीति सङ्कल्पकम्‌, इदं नेदमिति ॥
कथमिन्द्रियमित्याह- 'इन्द्रियं च साधर्म्यात्‌' इत्यादि । इन्द्रियैस्तुल्यत्वादित्यर्थः । यथान्यदिन्द्रलिङ्गं तथा मनोऽपीत्यर्थः ॥
तत्रैकस्मादहङ्कारादुत्पन्नानां कथं स्वरूपभेदः ? । यच्छ्रोत्रादिबुद्धीन्द्रियम्‌, तत्‌ प्रतिनियतविषयं नेतरविषयमपि । यद्यागादि कर्मेन्द्रियं तत्‌ प्रतिनियतकर्म, नेतरकर्मापि । मनश्चोभयात्मकम्‌, नैकात्म‌कमित्याह- 'गुणपरिणामविशेषान्नानात्व‌म्‌' इति । अहङ्कारस्था ये गुणाः सत्त्वादयस्तेषामन्योऽन्याभिभवाश्रया (द्विद्वारेण यः परिणामविशेषस्तत एवैषां नानात्वम्‌ । त एव हि गुणाः परि)णामविशिष्टा इन्द्रियव्यपदेशभाजो नानाविषया भवन्ति । कथं देशनियमो वृत्तिनियमश्च ? तत्र त्वगिन्द्रियं सर्वशरीरस्थितबाह्याभ्यन्तरवृत्ति, चक्षुःश्रोत्रघ्राणरसनानि शिरसि बहिः पृथक्‌ पृथगवस्थितानि बाह्यवृत्तीनि । वागास्ये स्थिता । पाण्यादयश्च बाहोरधस्तात्‌ पृथक्‌ पृथगवस्थिता बहिःकर्मविषयाः ॥
इत्यताह- 'बाह्यभेदाश्च' इति । ये चान्ये विषयभेदा देशनियमवृतिनियमाभ्यां तेऽपि गुणपरिणामविशेषादेव । नात्रान्तरा कारणमस्ति ॥ २७ ॥


कारिका २८



एषामिन्द्रियाणां कस्य का वृत्तिरित्याह-
शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः ।
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम्‌ ॥ २८ ॥

'शब्दादिषु' इत्यादि । आदिशब्देन शब्दस्पर्शरूपरसगन्धाः । तेषु यथाक्रमं पञ्चानां श्रोत्रादीनां बुद्धीन्द्रियाणामालोचनमात्रं वृत्तिरिष्यते सांख्याचार्यैः । श्रोत्रादीनि हि विषयस्य प्रकाशनमात्रं कुर्वन्ति, निश्चयं तु बुद्धिः । तथा हि बुद्ध्यवसितमर्थं पुरुषः चेतयत इति सिद्धान्तः । कर्मेन्द्रियाणामपि वागादीनां यथाक्रमं वसनादानादीनि वृत्तयः कर्माणि । तत्र वागिन्द्रियस्य नानाविधवर्णोच्चारणं कर्म, आदेयस्यादानं पाण्योः, विहरणं देशान्तरगमनं पादयोः, उत्सर्ग आहारमलस्योत्सर्जनं पायोः, आनन्दनमानदो ह्लादः शुक्रविसृष्टिसंसृष्टिसुखं तदुपस्थेन्द्रियवृत्तिः ॥ २८ ॥


कारिका २९



बुद्ध्यहङ्कारमनसां का वृत्तिरित्याह-
स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृतिः प्राणाद्या वायवः पञ्च ॥ २९ ॥

'स्वालक्षण्यं वृत्तिः' इत्यादि । स्वात्मीयं लक्षणं यस्य तत्‌ स्वलक्षणम्‌ । तस्य भावः स्वालक्षण्यम्‌ । तदेव वृत्तिः ॥
'त्रयस्य' इति । बुद्ध्यहङ्कारमनसामित्यर्थः । अध्यवसायो बुद्धेः, अभिमानोऽहङ्कारस्य, सङ्कल्पो मनसः । त एवाध्यवसायाभिमानसङ्कल्पास्त्रयस्य वृत्तिः । एषां च बुद्ध्यादीनां त्रयोदशानां चतुर्विधा वृत्तिः, असामान्यायुगपत्क्रमश्चेति (?) ॥
तत्र सामान्यां दर्शयितुमाह- 'सैषा' इति । येयमुक्ता वृत्तिः सैषा भवत्यसामान्या । या यस्य सा तस्यैव नान्येषामपीत्यर्थः । श्रोत्रस्य यच्छब्दप्रकाशनं तच्छ्रोत्रस्यैव, नान्येषां त्वगादीनां द्वादशानाम्‌ । एवं सर्वत्र योज्यम्‌ ॥
सामान्यामाह- 'सामान्यकरणवृत्तिः' इति सामान्या चासौ करणवृत्तिश्चेति सामान्यकरणवृत्तिः ॥
'प्राणाद्या वायवः पञ्च' इति । प्राणा आद्या येषां वायूनां ते प्राणाद्याः । प्राणापानव्यानोदानसमाना इति पञ्च वायवः । तत्र प्राणो यो मुखनासिकाभ्यां निर्गच्छति । यो नाभेरधः स्थितः सोऽपानः । येन कायेऽग्निर्दीपित आहारं च पचति स समानः । यो नाभिदेशादुद्यतशिरोगतिर्नादं जनयति स उदानः । यः सर्वशरीरं व्याप्य स्थितं स व्यानः । एते त्रयोदशानामपि करणानां सामान्यवृत्तिः ॥ २९ ॥


कारिका ३०



करणप्रभाविकत्वाद्वायूनां युगपत्क्रमशो वृत्तिमाह-

युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च निर्दिष्टा ।
दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३० ॥

'युगपत्‌' इत्यादि । 'चतुष्टयस्य तु' इति । तुशब्दो विशेषणार्थः । बुद्धिरहङ्कारो मनश्चक्षुरित्येतस्य चतुष्टयस्यैकस्मिन्‌ रूपे युगपद्वृत्तिः । यथान्धकारे विद्युत्संपाते कृष्णसर्पसन्दर्शने युगपदालोचनाध्यवसायाभिमानसङ्कल्पनानि भवन्ति । तथा हि चक्षुषालोचितं बुद्ध्याध्यवसितमहङ्कारेणात्मीकृतं मनसा सङ्कल्पितमिति ॥
'क्रमशश्च तस्य' इति । चतुष्टस्यस्य क्रमेण कदाचिद्वृत्तिरिष्टा । मन्दप्रकाशे स्थाणुपुरुषोचितामूर्ध्वतां दृष्टवतः किं स्थाणुः पुरुष इति विकल्पः । तत्राकुञ्चपनप्रसारणात्‌ पुरुष इत्यध्यवसायः । तत आत्मीकरणादभिमान इति ॥
येय(मुभय)थावृत्तिः सा कस्मिन् विषय इत्याह - 'दृष्टे' इति । अदृष्टे तर्ह नास्तीत्याह - 'तथाप्यदृष्टे' इति । तथा...ष्टे दृष्टेऽपि वृत्तिः ॥
किन्तु न चतुष्टयस्य तर्हीत्याह- 'त्रयस्य' इति । बुद्ध्यहङ्कारमनसामित्यर्थः । तत्रापि तत्पूर्विका श्रोत्रादिपूर्विकेत्यर्थः । यथा स्मर्तव्यमनुस्मरतः सङ्कल्पाभिमानाध्यवसाया भवन्ति ॥ ३० ॥


कारिका ३१



अथ यदेतच्चतुष्टयं तत्किं युगपत्‌ परस्परसव्यपेक्षं स्वां स्वां वृतिं प्रतिपद्यते किं वा निरपेक्षमित्याह-
स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहैतुकीं वृत्तिम्‌ ।
पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्‌ ॥ ३१ ॥

'स्वां स्वाम्‌' इत्यादि । आत्मीयात्मीयां वृत्तिम्‌ ॥
'परस्पराकूतहैतुकीम्‌' इति । परस्परस्य यदाकूतं स्ववृत्तिभोगस्तदेव हेतुः । तत्र भूतां परस्पराकूतहैतुकीं वृत्तिं चत्वारि करणानि प्रतिपद्यन्ते । तत्र चक्षुर्बुद्ध्यादित्रयस्याकूतं ज्ञात्वा प्रकाशनं प्रतिपद्यते । एवं बुद्धिरहङ्कारो मनश्च त्रयाणामाकूतं ज्ञात्वाऽध्यवसायमभिमानं सङ्कल्पनं च प्रतिपद्यन्ते । क्रमशश्च परस्पराकूतहैतुकीम्‌ । किन्तु पूर्वपूर्वहैतुकी द्रष्टव्या । यथा कस्यचिदुपनिमन्त्रणं श्रुतवतः श्रोत्रवृत्तिं ज्ञात्वा, बुद्धिर्गमनायाध्यवसिता । तद्वृत्तिं ज्ञात्वाऽहङ्कारो मोदकानहं भक्षयिष्यामीति मन्यते । तद्वृत्तिं ज्ञात्वा मनः, प्रचुरं घृतं प्रापयिष्यामीति किं स्तोकमिति, सङ्कल्पयतीति । एवं बाह्यान्यपि करणानि स्वां स्वां वृत्तिं परस्पराकूतहैतुकीं प्रतिपद्यन्ते ॥
एतानि किमात्मार्थं स्वां स्वां वृत्तिं प्रतिपद्यन्ते, किमन्यार्थमित्याह- 'पुरुषार्थ एव हेतुः' इति । पुरुषस्यार्थो विषयोपभोगः कैवल्यं च, स वृत्तिहेतुः ॥
नन्वीश्वरः कर्ता जगतः, स एव बुद्ध्यादिकलापं सृष्टवान्‌ येन पुरुषस्यार्थः सम्पद्यते । तथा चोक्तम्‌-
'ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा' । इति
तत्राह - 'न केनचित्कार्यते करणम्‌' इति । प्रधानव्यतिरेकेण न कश्चिद्बुद्ध्यादिकरणं स्वां स्वां वृत्तिं कारयतीत्यर्थः । यदि कर्ता स्यात्‌, किमिति प्रकृतिमपेक्षते । नापि सेश्वरवादिना प्रकृतिरभ्युपगतैव, निश्चेतनत्वात् प्रकृतेः सचेतनोऽधिष्ठाता कर्ताऽपरो गवेष्यत इति चेत्‌, पुरुष एवाधिष्ठाता । अचेतना प्रकृतिः । एतदुक्तमेव प्राक्‌ ॥ ३१ ॥


कारिका ३२



कतिविधमन्तःकरणमित्याह-
करणं त्रयोदशविधम्‌, तदाहरणधारणप्रकाशकरम्‌ ।
कार्यं च तस्य दशधा, हार्यं धार्यं प्रकाश्यं च ॥ ३२ ॥

'करणं त्रयोदशविधम्‌' इत्यादि । पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, बुद्ध्यहङ्कारमनांसि च त्रीणि । एतत्‌ त्रयोदशविधम्‌ । करणं करोतीति । 'कृत्यल्युटो बहुलम्‌' इति कर्तरि ल्युट्‌ ॥
तत्र कस्य का क्रिया यदपेक्षया करणमित्याह- 'तदाहरणधारणप्रकाशकरम्‌' । इति तत्करणमाहरणादीनि करोतीति । तत्र कर्मेन्द्रियाण्याहरणं कुर्वन्ति, बुद्ध्यहङ्कारमनांसि धारणम्‌, बुद्धीन्द्रियाणि प्रकाशमिति ॥
किं तत्कार्यं यस्याहरणं कुर्वन्तीत्याह- 'कार्यम्‌' इति । तस्य करणस्य दशविधं कार्यम्‌ । तत्र शब्दस्पर्शरूपरसगन्धाः पञ्च वचनादानविहरणोत्सर्गानन्दाः पञ्चेति दशधा । पूर्वे द्विविधाः- सूक्ष्मास्तन्मात्रलक्षणाः सुखैकस्वभावत्वाद्दिव्याः, स्थूला आकाशादयः सुखदुःखमोहत्मकत्वाददिव्या इति । एतत्कार्यं बुद्धीन्द्रियाणां प्रकाश्यम्‌ । वागादीनामुक्त्यादानादिकर्मकर्तृत्वात्‌ कार्यम्‌ (?) । तत्र वाचा शब्दस्य, पाणिभ्यामादेयस्याह्रियमाणत्वादुभयमप्याहार्यम्‌ ॥ विहार्यं विहरणस्थानम्‌, पूर्वावयवन्यासेनोत्तरावयवाक्रमणेन च पादाभ्यामाह्रियमाणत्वादाहार्यम्‌ । अन्यथा कथमुत्सर्गानन्दौ स्याताम् । उभयमपि कर्मेन्द्रियाविषयम्‌ । बुद्ध्यहङ्कारमनसां धार्यम्‌, तैरन्तः स्ववृत्त्यावधार्यमाणत्वात्‌ ॥ ३२ ॥


कारिका ३३



तदेव त्रयोदशविधं करणं बाह्यान्तरभेदाद्द्विविधमिति दर्शयन्नाह-
अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम्‌ ।
साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्‌ ॥ ३३ ॥

'अन्तःकरणम्‌' इत्यादि । करणं द्विविधम्‌- बाह्यमाभ्यन्तरं च । तत्र शरीरस्यान्तःस्थितत्वादन्तःकरणं त्रिविधम्‌- बुद्धिरहङ्कारोमनश्चेति ॥
'दशधा बाह्यम्‌' इति । दशप्रकारम्‌ । पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्दियाणि । तद्बुद्धिर्भवति ॥
तद्बाह्यं 'त्रयस्य विषयाख्यम्‌' इति । त्र्यवयवस्यान्तःकरणस्य बाह्यं विषय इत्याख्यायते, तद्द्वारेण विषयावगाहनात्‌ । तेनान्तःकरणस्य द्विविधो विषयः- द्वारं भोग्यं चेति । चतुष्टयस्य दृष्टेर्वर्तमाने त्रयस्यादृष्टे वृत्तिरुक्ता ॥
तत्रातीतानागतयोरपि विषययोः किं वृत्तिरस्ति, नेत्याह- 'साम्प्रतकालं बाह्यम्‌' इति । कल्यत इति कालः विषय एवातीतोऽनागतो वर्तमानोश्चोच्यते । न तद्व्यतिरेकेण कालोऽस्ति । मा भूत्‌ षड्विंशतितत्त्वप्रसङ्ग इति । तत्र साम्प्रतो वर्तमानः कालो यस्य बाह्यस्य तद्धि बाह्यम्‌ । श्रोत्रादि वर्तमानमेव शब्दादिकं प्रकाशयति, नातीतानागते । वागादि च वर्तमानमेवोक्त्यादानविहरणोत्सर्गानन्दान्‌ करोति, नातीतानागतान्‌ ॥
'त्रिकालमाभ्यन्तरम्‌' इति । त्रयः काला यस्य तत्‌ त्रिकालम्‌ । यथा बुद्धिर्वर्तमानमध्यवस्यति । तथातीतानागतावपि । मान्धातासीत्‌ कल्की राजा भविष्यतीति । यथाहङ्कारो वर्तमानमभिमन्यते तथातीतानागतावपि । ममैवमासीत्‌, ममैवं भविष्यतीति । यथा च मनो वर्तमानं सङ्कल्पयतीति तथातीतानागतावपि । तत्र किमिदं भूतं स्यात्‌, न ममेति । किमिदं भविष्यति, नेतीति ॥ ३३ ॥


कारिका ३४



ननु च यदि स्थूलाः पृथिव्यादयस्ते विशेषाः । बाह्यं बाह्यकरणं स्वविषयं प्रतिपद्यते । पृथिव्यादयस्तर्हि भेदेन प्रतिपत्तव्या इत्याह-
बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयीणि ।
वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयीणि ॥ ३४ ॥

'बुद्धीन्द्रियाणि' इत्यादि । तेषामपि त्रयोदशानां करणानां यानि पञ्च बुद्धीन्द्रियाणि, तानि विशेषाविशेषविषयीणि । शब्दादयः पञ्च विषया द्विविधाः - विशेषा अविशेषाश्च । तत्र ये सूक्ष्मास्तन्मात्रलक्षणास्तेऽविशेषाः । ये स्थूलाः पृथिव्यादयस्ते विशेषाः । विशेषाश्चाविशेषाश्चेति द्वंद्वः । त एव विषया विद्यन्ते येषामिति मत्वर्थोपः । विशिष्टानविशिष्टांश्च विषयान्‌ गृह्यन्तीत्यर्थः । तत्र श्रोत्रं स्थूलान्‌ नानाशब्दानविकलान्‌ गृह्णाति, शब्दतन्मात्रं च । नासिका स्थूलान् सुरभ्यादिगन्धान्‌, तन्मात्रं च गृह्णातीति ॥
'वाग्भवति' । केवलः शब्दो विषयो यस्याः, न विषयान्तरमित्यर्थः ॥ शेषाणि पाण्यादीनि चत्वारि, पञ्च विषयीणि । पञ्च विषया एषामिति । तत्र पाणिः शब्दस्पर्शरूपरसवन्तं घटादिकमादत्ते । पादौ शब्दादिमत्यां भूमौ विहरतः । पायुरुपस्थश्च शब्दादिमदेव मलं शुक्रं च विसृजति । अनेन द्वारेण तु सर्वं बाह्यं करणं पञ्चविषयमेव द्रष्टव्यम्‌ । यं हि यदेवमाश्रित्य (?) स्फीतं तस्य शब्दस्पर्शरूपरसगन्धवत्त्वात्‌, 'बाह्यं त्रयस्य विषयाख्यम्‌' इत्युक्तम्‌ ॥ ३४ ॥


कारिका ३५



तत्कथं तस्य विषय इत्याह-
सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात्‌ ।
तस्मात्‌ त्रिविधं करणं द्वारि, द्वाराणि शेषाणि ॥ ३५ ॥

'सान्तःकरणा' इत्यादि । बुद्धेरुपात्तत्वाच्छेषमहङ्कारो मनश्चान्तःकरणम्‌ । ताभ्यां युक्ता बुद्धिः ॥
'सर्वम्‌' इति । त्रिष्वपि कालेषु व्यवस्थितं विषयमवगाहते गृह्णाति यस्मात्‌ , तस्मात्‌ त्रिविधमन्तःकरणं बुद्ध्यादि द्वारि भवति । द्वाराण्यस्य सन्तीति कृत्वा । शेषाणि तु बुद्धीयकर्मेन्द्रियाणि (?) द्वाराणि । एभिर्द्वारभूतैरन्तःकरणं विषयान्‌ गृह्णाति ॥ ३५ ॥


कारिका ३६



ननु च यद्यन्तःकरणं बाह्यकरणद्वारेण सर्वं विषयमवगाहते, तस्मिन्‌ किं लक्षणमित्याह-
एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६ ॥

'एते' इत्यादि । श्रोत्रादयो वागादयो बुद्ध्यादयश्चेत्येते त्रयोदश गुणविशेषाः, त्रय एव गुणा अन्योऽन्याभिभवद्वारेण परिणताः श्रोत्रादिव्यपदेशभाज इत्यर्थः । प्रदीपकल्पाः, स्ववृत्त्या विषयस्य प्रकाशकत्वात्‌ । परस्परविलक्षणाः । एकस्य या वृत्तिः स्वरूपं च, न तदितरेषामपि यदि स्यादेतेनैव विषयावगाहनं सिद्धं किमन्येन ॥
'कृत्स्नम्‌' इति । त्रैलोक्यगतं पुरुषस्यार्थं सूक्ष्मस्थूलविषयलक्षणं प्रकाश्याभिव्यक्तिं नीत्वा पश्चादहङ्कारादयो द्वादश बुद्धौ प्रयच्छन्ति, स्थापयन्तीत्यर्थः । अवगाहनफलमेतत्‌ । तस्यां च विषयोपधानोपरक्त्यां बुद्धौ पुरुष उपलभते । तत्रेदमुच्यते - बुद्ध्याध्यवसितमर्थं पुरुष...त इति ॥ ३६ ॥


कारिका ३७



ननु च तुल्ये करणत्वे किमित्यहङ्कारादयो बुद्धौ प्रयच्छन्ति । प्राधान्यात्तदेव दर्शयन्नाह -
सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः ।
सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम्‌ ॥ ३७ ॥

'सर्वम्‌' इत्यादि । उपभोगमुपभोगं प्रति प्रत्युपभोगम्‌ । देवमनुष्यतिर्यग्योनिशु यो विषयस्योपभोगस्तं प्रति सर्वं त्रैलोक्यगतविषयं पुरुषस्य साधयति, सम्पादयति । यस्माद्बुद्धिः प्रधानभूता सती नान्यः कश्चित्‌, तस्मात्‌ तानि करणानि बुद्धौ प्रयच्छन्ति । (यथा ग्रामे हिरण्यादिप्रत्ययं कुटुम्बिनः प्रधानाय प्रयच्छन्ति) । प्रधानोऽप्यासन्नवर्त्तित्वाद्भोगपतय इति ॥
'सैव च विशिनष्टि' इति । यदा तमस्वती बुद्धिर्भवति तदा सर्वमुपनीतं सम्पादयति । यदा सत्त्वाधिका बुद्धिर्भवति, तदा ज्ञानसङ्गता प्रधानपुरुषान्तरं विशिनष्टि । प्रधानपुरुषयोर्विभागं करोतीत्यर्थः । अन्यत्‌ प्रधानमन्यः पुरुष इति ॥
'सूक्ष्मम्‌' । सांसारिकज्ञानस्याविषयत्वात्‌ ॥ ३७ ॥
 


कारिका ३८



विशेषाविशेषविषयिणीत्युक्तम्‌, तत्र के विशेषाः केऽविशेषाश्चेत्यत्राह-
तन्मात्राण्यविशेषाः, तेभ्यो भूतानि पञ्च पञ्चभ्यः ।
एते स्मृता विशेषाः, शान्ता घोराश्च मूढाश्च ॥ ३८ ॥

'तन्मात्राणि' इत्यादि । सूक्ष्मविषयास्तन्मात्राणीत्युच्यन्ते । तैर्न कश्चिद्विशिष्यत इत्यविशेषाः । यथा सूक्ष्मतृणाग्रावस्थितं तेजो न लक्ष्यते, न च किञ्चित्‌ प्रकाशयति, तद्वत्‌ तेऽप्यविशेषाः ॥
'तेभ्यो भूतानि पञ्च पञ्चभ्यः' इति । तन्मात्रेभ्यः पञ्च महाभूतान्युत्पद्यन्ते ॥
'एते स्मृता विशेषाः' इति । शब्दतन्मात्रादेकगुणमाकाशमुत्पद्यते । एवं स्पर्शादितन्मात्राद्‌ द्वित्रिचतुःपञ्चगुणा वाय्वादय उत्पद्यन्ते । तैश्च तन्मात्राणि । विशिष्यन्त इति विशेषाः ॥
ते च किंस्वरूपा इत्याह- 'शान्ता घोराश्च मूढाश्च' इति । शान्ताः सुखप्रदाह घोरा दुःखप्रदाः, मूढा मोहप्रदा इति ॥ ३८ ॥


कारिका ३९



किमेतावन्त एव विषेषा उतान्येऽपीत्याह-
सूक्ष्मा मातापितृजाः, सह प्रभूतैस्त्रिधा विशेषाः स्युः ।
सूक्ष्मास्तेषां नियता, मातापितृजा निवर्तन्ते ॥ ३९ ॥

'सूक्ष्माः' इत्यादि । ये सूक्ष्मास्तन्मात्रलक्षणाः संसारिणः शरीरस्याश्रयतां गतास्तेऽपि विशेषाः, सूक्ष्मशरीरस्यारब्धत्वात्‌ ॥
'मातापितृजाः' इति । मातापितृजाः षट्‌ । तत्र मातृतो लोमलोहितमांसानि पितृतः स्नाय्वस्थिमज्जानः । तेऽपि विशेषाः, तैः स्थूलशरीरस्य षट्कोशिकस्यारब्धत्वात्‌ । एते द्विविधा विशेषा आध्यात्मिकाः ॥
'सहप्रभूतैः' इति । यानि महाभूतानि बाह्यानि शान्तघोरमूढान्युक्तानि तानि स्थूलशरीरस्यावकाशव्यूहनपत्तिक्लेदनधारणकर्तृत्वेन प्रकृष्टभूतान्युच्य्न्ते । तैः सह त्रयो विशेषाः ॥
'सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते' इति । सूक्ष्मशरीरनियतं ज्ञानप्राप्तेः प्राक्‌, तस्य सांसरिकत्वात्‌ । स्थूलशरीरनियतं तु निवर्तते, तस्य प्रतिमरणं पतितस्य रसभस्मनिष्ठान्तत्वात्‌ ॥ ३९ ॥


कारिका ४०



यदेतत् सूक्ष्मशरीरं तत्कथमुत्पन्नमित्याह-
पूर्वोत्पन्नमसक्तं नियतम्महदादिसूक्ष्मपर्यन्तम्‌ ।
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्‌ ॥ ४० ॥

'पूर्वोत्पन्नम्‌' इत्यादि । प्रधानेनादिसर्गे प्रतिपुरुषमुत्पादितत्वात्‌ पूर्वोत्पन्नम्‌ । असक्तमप्याह । तन्न क्वचिद्विहन्यते, पर्वतमपि भित्त्वा गच्छति ॥
'नियतम्‌' । नित्यम्‌, ज्ञानोत्पत्तेः प्रागित्यर्थः ॥
किंपरिमाणमिदमित्याह- 'महदादिसूक्ष्मपर्यन्तम्‌' इति । बुद्धिरादिर्यस्य तत्‌, महदादिसूक्ष्मविषयास्तन्मात्रलक्षणाः पर्यन्तं यस्य तत्‌ सूक्ष्मपर्यन्तम्‌ । बुद्धिरहङ्कार एकादशेन्द्रियाणि पञ्च तन्मात्राणीत्येतत्परिमाणमित्यर्थः ॥
'संसरति' । त्रिषु लोकेषु ॥
'निरुपभोगम्‌' इति । बाह्येन स्थूलशरीरेण विकलत्वाद्विषयभोगसमर्थं न भवतीत्यर्थः ॥
'भावैरधिवासितम्‌' इति । धर्मादिभिरुपरक्तमित्यर्थः ॥
'लिङ्गम्‌' इतु । प्रलयकाले लयं गच्छतीति कृत्वा ॥ ४० ॥


कारिका ४१



ननु करणमात्रमेव संसरति, किं सूक्ष्मशरीरेणेत्याह-
चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया ।
तद्वद्विनाऽविशेषैर्न तिष्ठति निराश्रयं लिङ्गम्‌ ॥ ४१ ॥

'चित्रम्‌' इत्यादि । यथा कुड्यादिकमाश्रयमृते चित्रं न तिष्ठति ॥
'स्थाण्वादिभ्यः' इति । आदिशब्देन वृक्षस्तम्बादयः । 'पृथग्विनानानाभिस्तृतीयान्यतरस्याम्‌' इति पञ्चम्यपि भवति । तैर्विना यथा च्छाया स्निग्धा परुषा वा न तिष्ठति ॥
'तद्वद्विनाऽविशेषैर्न तिष्ठति निराश्रयं लिङ्गम्‌' इति । अविशेषास्तन्मात्राणि । लिङ्गं त्रयोदशविधं करणमिह गृह्यते । न तिष्ठति निराश्रयत्वात्‌ । (तैर्हि सूक्ष्मशरीरमारब्धम्‌, तदभावात्तदपि नास्तीति निराश्रयत्वात्‌) । न संसरति । न च निराधारेण करणेन पुरुषस्य संयोगः सम्भवति । पुरुषोऽपि निष्क्रियत्वान्न संसरति ॥ ४१ ॥


कारिका ४२



तदेव सूक्ष्मशरीरं किमर्थं संसरतीत्याह-
पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम्‌ ॥ ४२ ॥

'पुरुषार्थहेतुकम्‌' इत्यादि । पुरुषार्थो द्विविध उक्तः । स हेतुर्यस्येति । समासान्तः कप्‌ ॥
'इदम्‌' इति । महदादि सूक्ष्मपर्यन्तं लिङ्गमुक्तम्‌, तन्नटवदवतिष्ठते । यथैक एव नटस्तं तं विशेषमास्थाय यवनिकान्तो निर्गत्य राजामात्यविदुषकादिभावेनानुविद्धोऽवतिष्ठते, तथा लिङ्गमपि तं तं देहमास्थाय देवमनुष्यतिर्यग्भावेन व्यवतिष्ठते ॥
तदेव कथं भवतीत्याह- 'निमित्तनैमित्तिकप्रसङ्गेन' इति । निमित्तं धर्माधर्मादि, नैमित्तिकमूर्ध्वाधोगमनादि । वक्ष्यति च । तयोः प्रसङ्गेनेति ॥
किमेतत्सर्वमीश्वरात्‌ किं वा स्वभावादित्यत्राह- 'प्रकृतेः विभुत्वयोगात्‌' इति । प्रकृतिः प्रधानम्‌, तस्या विभुत्वं जगत्कर्तृत्वम्‌ । तद्योगात्‌ नटवद्व्यवतिष्ठते । प्रधानेनैव हि पुरुषस्यार्थः कर्तव्य इति महदादिसूक्ष्मपर्यन्तं लिङ्गमुत्पाद्य धर्मादिभिरधिवासयति । तदधिवासितं च नटवत्‌ व्यवतिष्ठते । नेश्वरान्न स्वभावादिति भावैरधिवासितमित्युक्तम्‌ ॥ ४२ ॥


कारिका ४३



ते पुनः कियन्तः किमाश्रिता इत्याह-
सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।
दृष्टा करणाश्रयिणः कार्याश्रयिणः कललाद्याः ॥ ४३ ॥

'सांसिद्धिकाश्च' इत्यादि । ये प्राकृतस्वभावास्ते सांसिद्धिका उच्यन्ते । ते च कपिलस्यैव महामुनेर्नान्यस्य । तस्य ह्युत्पद्यमानस्यैवादिसर्गे सहोत्पन्ना धर्मज्ञानवैराग्यैश्वर्यसंज्ञकाश्चत्वारो भावाः । ये त्वादिसर्गादुत्तरकालमुत्पन्नकार्यकारणानामस्मद्विधानां प्रयत्नपूर्वका उत्पद्यन्ते, ते वैकृताः ॥
ते च द्विविधाः । यदाह- 'धर्माद्या दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः' इति । धर्मादयश्चत्वारः, विपरीताश्चाधर्मादयश्चत्वार इत्यष्टौ । एते त्रयोदशविधं करणमाश्रित्य प्रवर्तन्ते । कार्यं पञ्च, कुक्षिस्थस्यास्य निच्छुरितस्य तु कौमारयौवनवार्द्धकानि त्रयः, इत्यष्टौ भावाः । तत्र वैकृते धर्मादिभिरधिवासितं संसरतीति ज्ञेयम्‌ ॥ ४३ ॥


कारिका ४४



निमित्तनैमित्तिकप्रसङ्गेनेत्युक्तम्‌ । तदुभयमपि दर्शयितुमाह-
धर्मेण गमनमूर्ध्वं, गमनमधस्ताद्भवत्यधर्मेण ।
ज्ञानेन चापवर्गो, विपर्ययादिष्यते बन्धः ॥ ४४ ॥

'धर्मेण' इत्यादि । धर्मादिनिमित्तमूर्ध्वगमनादि नैमित्तिकम्‌ । तत्र धर्मेण यमनियमलक्षणेन गमनमूर्ध्वमिति, सूक्ष्मशरीरस्य देवादिव्यवस्थितिरित्यर्थः ॥
'गमनमधस्ताद्भवयधर्मेण' इति । तिर्यग्योनिषु स्थितिः । मिश्रान्मनुष्यलोके स्थितिरित्यर्थोक्तम्‌ ॥
'ज्ञानेन चापवर्गः' इति । प्रधानपुरुषान्तरज्ञानाख्येन ज्ञानेन लिङ्गं निवर्तते । ततः केवलः पुरुषो भवति ॥
'विपर्ययादिष्यते बन्धः' इति । ज्ञानविपर्ययादज्ञानात्‌ संसारचक्रबन्धः, पुनः पुनरावर्तनम्‌ । स च त्रिप्रकारः - प्रकृतिबन्धः, दक्षिणाबन्धः, विकारबन्धश्चेति । येषां प्रकृतिरेव परतत्त्वं नान्यत्‌, तेषां प्रकृतिवादिनां प्राकृतिको बन्धः । येषामिष्टापूर्तभाविन एव दिव्यादिव्यमानुषभोगाः पुरुषार्थ इति, तेषां कर्मवादिनां दक्षिणाबन्धः । इष्टापूर्तं दक्षिणेति । तथा चोक्तम्‌-
अग्निहोत्रं तपः सत्यं देवानां परिपालनम्‌ ।
अतिथिर्वैश्वदेवं च इष्टमित्यभिधीयते ॥
पुष्करिण्यः सभा वाप्यो देवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥
येषां विकार एवैश्वर्यलक्षणः पुरुषार्थ इति, तेषां विकारत्ववादिनां वैकारिको बन्धः ॥ ४४ ॥


कारिका ४५



वैराग्यात्‌ प्रकृतिलयः, संसारो भवति राजसाद्रागात्‌ ।
ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः ॥ ४५ ॥

'वैराग्यात्‌" इत्यादि । यो विषयादिदर्शनाद्विरक्तो यमनियमपरिस्थितो न ज्ञानं पर्येषते, तस्य मृतस्य वैराग्यादष्टास्यु प्रकृतिषु प्रधानादितन्मात्रपर्यन्तासु लयः, स्थूलशरीरेण विषयोपभोगनिमित्तेन योगः । तल्लीनश्चात्मानं मुक्तमिव मन्यते न तु मुक्तम्‌, सर्गकाले पुनः संसरणात्‌ । यदा तु ज्ञानं पर्येष्यते तदा मुच्यत एव । तथा चोक्तम्‌-
ज्ञानादथ विरागाच्च तथा कृत्स्नस्य संक्षयात्‌ ।
इत्येवं जायते मोक्षो मुक्त आत्मस्थ उच्यते ॥ इति ॥
'संसारो भवति राजसाद्रागात्‌' इति । वैराग्यविषयोऽशुभविषयाभिष्वङ्गो राजसो रागः, तस्य शुभाशुभकर्माक्षेपकत्वात्‌ । तस्माद्देवादिष्वयं जनाद्यजिभावेन (?) संसरति ॥
'ऐश्वर्यादविघातः' इति । अनैश्वर्यात्तद्विपर्यास इति । अविघातविपर्यासो विघातः, प्रार्थितानामप्राप्तिरित्यर्थह । मुक्तिस्तु दुरोत्सारितैव ॥ ४५ ॥


कारिका ४६



एषामष्टानां बुद्धिरूपाणामेकेन मोक्षः सप्तभिर्बन्धः संसार इति यदेतन्निमित्तनैमित्तिकं षोडशमुक्तं तत्संक्षेपेण चतुर्विधमाह -
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्देन तस्य भेदास्तु पञ्चाशत्‌ ॥ ४६ ॥

'एषः' इत्यादि । प्रत्ययशब्देन बुद्धिरुच्यते । तस्य सर्गो यः षोडशविध उक्तः, एष विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । विपर्ययादीनामाख्या यस्य प्रत्ययसर्गस्य स तथोक्तः । तत्र विपर्ययमज्ञानम्‌, अशक्तिर्ज्ञानाधिगमासामर्थ्यं सत्यामप्यधिजिगांसायाम्‌, तुष्टिर्मोक्षोपायेषु वैमुख्यम्‌, सिद्धिर्ज्ञानप्राप्तिः ॥
तस्य चतुविधस्य पुनः पञ्चाशत्‌ भेदा भवन्ति । केन प्रकारेणेत्याह- 'गुणवैषम्यविमर्देन' इत्यादि । सत्त्वरजस्तमसामन्योऽन्याभिभवद्वारेण वैषम्यं विषमभावः, एकस्य द्वयोर्वाधिक्येऽन्यस्यानाधिक्यम्‌ । एकद्वित्रियोगेन षड्विधं वैषम्यम्‌ । तेन द्वयोर्विमर्दः परस्परक्षोभः । तेन हेतुना भवतीत्यर्थः ॥ ४६ ॥


कारिका ४७



तान्‌ भेदान्‌ दर्शयन्नाह-
पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात्‌ ।
अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधासिद्धिः ॥ ४७ ॥

'पञ्च विपर्ययभेदाः' इत्यादि । अज्ञानाख्यस्य सर्गस्य भेदाः पञ्च- तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्रश्चेति । अत एव सांख्यप्रवचने क्लेशा उच्यन्ते । 'अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः' इति । तत्राविद्याक्षेत्रमुत्तरेषाम्‌ ॥
'अशक्तिश्च' इति । अशक्त्याख्यः सर्गः ॥
'करणवैकल्यात्‌' इति । करणं बाह्यमाभ्यन्तरं च । तयोर्वैकल्यादष्टाविंशतिभेदा यस्याः अशक्तेः सा भवतीति विभक्तिपरिणामेन योज्यम्‌ । करणवैकल्यं च गुणवैषम्यविमर्देन भवति ॥
'तुष्टिर्नवधाऽष्टधा सिद्धिः' । इति तुष्टिसर्गो नवप्रकारः, सिद्धिसर्गोऽष्टप्रकारो भवतीत्यर्थः । एतैः समुदायेन पञ्चाशद्भेदा इति ॥ ४७ ॥


कारिका ४८



तानवान्तरभेदसहितान्‌ दर्शयन्नाह-
< भेदस्तमसोऽष्टविधो मोहस्य च, दशविधो महामोहः ।
तामिस्रोऽष्टादशधा, तथा भवत्यन्धतामिस्रः ॥ ४८ ॥

'भेदस्तमसः' इत्यादि । तम इत्यविद्योच्यते । सा चोत्तरेषां प्रसवभूमिः । सा च प्रकृतिः । तत्त्ववेदिनां सत्यपि वैराग्ये नापवर्ग इति, ज्ञानस्याभावात्‌ । ततश्च तेषामष्टास्वेव प्रकृतिषु लयो भवतीति अष्टविधा अविद्या, विषयस्याष्टविधत्वात्‌ ॥
मोहस्य चेतिशब्देनाष्टविधो भेद इत्यनुवर्तते । मोह इत्यस्मितोच्यते । देवा अपि विनाशिनोऽपि, अष्टगुणमैश्वर्यमाश्रिता आत्मानमविनाशिनं मन्यन्ते । ततश्च तेषामष्टविधो मोहः, ऐश्वर्यस्याष्टविधत्वात्‌ ॥
'दशविधो महामोहः' इति सुखानुशयो रागो महामोह इत्युच्यते । स च दिव्यादिव्यविषयेषु वर्तमानो दशविधो भवति । तत्र सूक्ष्मास्तन्मात्रलक्षणाः पञ्च, सुखैकस्वभावत्वाद्द्विव्याः । स्थूलाः पृथिव्यादयः पञ्च, सुखदुःखमोहात्मकत्वाददिव्याः ॥
'तामिस्रोऽष्टादशधा' इति । दुःखानुशयो द्वेषस्तामिस्र इत्युच्यते । स चाष्टगुणैश्वर्ये दशविधे च विषये प्रतिभवतीत्यष्टादशविधः ॥
'तथा भवत्यन्धतामिस्रः' इति । यथा तामिस्रोऽष्टादशधा तथाऽयमपीत्यर्थः । मरणत्रासोऽन्धतामिस्र उच्यते । स चाष्टगुणैश्वर्ये दशविधे च विषये प्रतिभवतीत्यष्टादशविधः ॥
'तथा भवत्यन्धतामिस्रः' इति । यथा तामिस्रोऽष्टादशधा तथाऽयमपीत्यर्थः । मरणत्रासोऽन्धतामिस्र उच्यते । स चाष्टगुणैश्वर्ये दशविधे विषय एव भवतीति । एवं द्विषष्टिभेदमज्ञानमुक्तम्‌ ॥ ४८ ॥


कारिका ४९



अशक्तिः करणवैकल्यादित्युक्तम्‌, तस्या भेदान्‌ दर्शयितुमाह-
एकादशेन्द्रियवधः सह बुद्धिवधैरशक्तिरुपदिष्टा ।
सप्तदशधा च बुद्धेर्विपर्ययास्तुष्टिसिद्धिनाम्‌ ॥ ४९ ॥

'एकादश' इत्यादि । एकादशानामिन्द्रियाणामेकादशैवोपघाताः । श्रोत्रचक्षुर्घ्राणानां बाधिर्यान्धत्वाघ्रातृत्वानि, वाचो मूकत्वम्‌, जिह्वाया जाड्यम्‌, मनस उन्मादः, पाणिपादोपस्थानां कौण्यपङ्गुत्वक्लैब्यानि, त्वगिन्द्रियस्य कुष्ठः, पायोरुदावर्त इति ।
बाधिर्यमान्ध्याघ्रातृत्वे मूकता जडता तथा ।
उन्मादकौण्यकुष्ठानि क्लैब्योदावर्तपङ्गुताः ॥ इति ॥
अत इन्द्रियवधा अशक्तिरित्युपदिष्टाः सांख्याचार्यैः ॥
'सह बुद्धिवधैः' इति । बुद्धेरपि वधा अशक्तिरुपदिष्टा ॥ ते कियन्त इत्याह- 'सप्तदशधा च बुद्धेर्वुपययास्तुष्टिसिद्धीनाम्‌' इति । तुष्टयो नव, सिद्धयश्चाष्टौ । वक्ष्यमाणाम्भसां ये विपर्ययास्ते सप्तदशविधा बुद्धेर्ज्ञेयाः । एवमशक्तिरष्टाविंशतिभेदा यया क्रमस्वशक्तो भवति ॥
ननु प्रत्ययसर्ग इत्युक्तम्‌, नायमिन्द्रियवधः प्रत्ययसर्गः किञ्चिदहङ्कारसर्ग इति सत्यम्‌, अहङ्कारस्य प्रत्ययसर्गत्वात्‌ तत्सर्गोऽपि प्रत्ययसर्ग उच्यते । धर्मो वा प्रत्ययः सर्गः ॥ ४९ ॥


कारिका ५०



तुष्टिभेदानाह-
आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
बाह्या विषयोपरमात्‌ पञ्च, नव तुष्टयोऽभिमताः ॥ ५० ॥

'आध्यात्मिकाः' इत्यादिना । प्रकृत्यादीन्याख्या यासां तुष्टीनां तास्तथोक्ताः । तत्र प्रकृतिः प्रधानम्‌ । सैव व्यक्तात्मना परिणम्य बन्धमोक्षौ कुरुत इत्येतावन्मात्रोपदेशात्‌ तुष्टो भवति यस्तस्य प्रकृत्याख्या तुष्टिरम्भ इत्युच्यते ॥
उपादीयते प्राप्यते मोक्षोऽनेनेत्युपादानम्‌ । प्रव्रज्यालिङ्गं चात्र दण्डादि । न प्रकृतिज्ञानमात्रेण मुक्तिः । 'उपादानेन चापरे' इत्यस्मादद्वितीयादुपदेशादिहैव मुक्तिः प्राप्तव्येति परितुष्टः प्रव्रजितोऽयं तस्य द्वितीया उपादानाख्या तुष्टिः सलिलमुच्यते ॥
कल्यत इति काला । महदादिसूक्ष्मपर्यन्तेन लिङ्गेन संसरताऽपरेण मोक्षो न प्रकृत्युपादानमात्रादिहैव जन्मनीति तस्मात्तृतीयादुपदेशात्‌ तुष्टो यः कालापेक्षी स्थितस्तस्य कालाख्या तुष्टिरोध इत्युच्यते ॥
यस्यापरं भाग्यमस्ति तस्य मोक्षः, प्रकृत्युपादानकालमात्रेण न, कश्चिद्विपरीतभागधेयोऽस्तीति तस्माच्चतुर्थादुपदेशात्‌ तुष्टो यो भाग्यापेक्षी स्थितस्तस्य चतुर्थी वृष्टिरित्युच्यते । एताश्चतस्र आत्मानमधिकृत्य भवन्तीत्याध्यात्मिकाः आत्मना मोक्तव्यमिति कृत्वा ॥
'बाह्यविषयोपरमाच्च' इति । शब्दादिभ्यो व्यावृत्तिरुपरमणं पञ्चधा भवति । आर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनात्‌ । तत्र विषयार्जने महद्दुःखं तदल्पविषयेभ्य इत्यार्जनदोषदर्शनान्निवृत्तस्य तुष्टिरियं पञ्चमी सुतारमित्युच्यते ॥
विषया आर्जितुं शक्याः, रक्षणं तु दुःखं बहुभिः तज्जन्यमानानां (?) स्यादिति रक्षणदर्शनान्निवृतस्य तुष्टिरियं षष्ठी सुपारमित्युच्यते ॥
विषया आर्जितुं रक्षितुं क्षये च प्रतिविधातुं शक्याः, किन्तूपभुज्यमाना महतीमात्मसक्तिं कुर्वन्ति, तदप्राप्तौ च महद्दुःखमिति सङ्गदोषदर्शनादुपरस्तस्याष्टमी तुष्टिरनुत्तमाम्भ इत्युच्यते ॥
सर्वं शक्यं किन्त्वनुपहत्य भूतानि न भोगः सम्भवति । भूतोपघातान्महदनिष्टफलमिति हिंसादोषदर्शनादुपरतस्य तुष्टिरियं नवमी उत्तमाम्भ इत्युच्यते । एताः पञ्च विषयद्वारेणेति भवन्तीति बाह्याः । तत्पूर्विकाश्चाध्यात्मिकाः, विषये तत्परस्याध्यात्मिकतुष्ट्यसम्भवात्‌ ॥
तत्र प्रकृत्युपादानकाला न मोक्षोपाया इत्युपदिष्टमपि यो वैमुख्यान्न प्रतिपद्यते तस्याध्यात्मिकाश्चतस्रः, विषयोपरमाच्च बाह्याः पञ्चेति नव तुष्टयः । ता बुद्धिवधा इत्युचन्ते । तेषां शक्तेरन्तर्भवति [?] । तासां चतुष्षष्टीनां महत्प्रभृतयो विपर्ययेण संज्ञा । तदुभयमपि बुद्धावन्तर्भूतं तत्सर्गत्वात्‌ ॥ ५० ॥


कारिका ५१



कतिभेदा ज्ञानाज्ञानलक्षणा सिद्धिरित्याह-
ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः ।
दानं च सिद्धयोऽष्टौ, सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ ५१ ॥

'ऊहः शब्दोऽध्ययनम्‌' इत्यादि । सिद्धिर्ज्ञानप्राप्तिः, तस्या भेदा उपायभेदात्‌ । ऊह इति । जन्मान्तरसंस्कृतधियो यस्य बन्धमोक्षकारणमुत्प्रेक्षमाणस्य प्रधानपुरुषान्तरज्ञानमुत्पद्यते तस्य सिद्धिरूहहेतुका प्रथमा तारमित्युच्यते ॥
यस्य सांख्यशास्त्रपाठमन्यदीयमाकर्ण्य तत्त्वज्ञानमुत्पद्यते, सा सिद्धिः शब्दहेतुका द्वितीया सुतारमित्युच्यते ॥
यस्य शिष्याचार्यसम्बन्धेन सांख्यशास्त्रं शब्दतोऽर्थतश्चाधीत्य ज्ञानमुत्पद्यते, तस्याध्ययनहेतुका । अध्ययनेन हि तत्परिज्ञानात्‌ । एषा तृतीया तारवि इत्युच्यते ॥
'दुःखविघातास्त्रयः' इति । योऽप्याध्यात्मिकेनाधिभौतिकेनाधिदैविकेन वा भावितस्तद्विघातार्थं ज्ञानं पर्येष्यति, ऊहेन शब्देनाध्ययनेन वा, तस्य तद्विघातहेतुकाः प्रमादप्रमुदितमोदनाख्यास्तिस्रः, उपायस्य त्रित्वादिति । पूर्वा यास्तिस्रः सिद्ध्ययस्ता न दुःखहेतुका इति बोद्धव्याः ॥
'सुहृत्प्राप्तिः' इति । योऽधिगततत्त्वः सुहृदं प्राप्य ज्ञानमधिगच्छति, तस्य सुहृत्प्राप्तिपूर्विका । मित्रं हि स्नेहात्‌ ज्ञानं प्रकाशयति । इयं सप्तमी रम्यकमित्युच्यते ॥
दानं च सिद्धिहेतुः । दानेन ह्याराधितो ज्ञानी ज्ञानं प्रयच्छति । इयमष्टमी सदाप्रमुदितमित्युच्यते ॥
तद्विपरीता असिद्धयः । मन्दबुद्धित्वान्नोहते यस्तस्यानूहहेतुका असिद्धिः । यः शक्तोऽपि सांख्यशास्त्रं शृण्वन्नपि बुद्धिदौर्बल्यान्न बुद्ध्यति तस्य शब्दहेतुका असिद्धिः । बुद्धिदोष एवायम् । यस्य गुरुपूर्वकं नाध्ययनं बुद्धिदोषादेव तस्यानध्ययनहेतुका असिद्धिः । न यत्र मित्रसंग्रहो न च दानमित्यष्टावसिद्धयो बुद्धिवधा अशक्तावन्तर्भूताः । तासां चासिद्धीनां मोषमुष्णामानोरमित्याद्याः [?] संज्ञाः । बुद्धावन्तर्भूतं तत्सर्गत्वात्‌ ॥
'सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः' इति । तस्या अष्टविधायाः सिद्धेर्यः पूर्वो विपर्ययाशक्तितुष्ट्याख्यस्त्रिविध उक्तः सोऽङ्कुश इवेत्यङ्कुश उक्तः । तेन ह्यस्वतन्त्रीकृतो लोकः संसारचक्रेऽवतिष्ठते । तत्र विपर्ययादिष्यते बन्ध इति वचनात्‌ पञ्चविधमज्ञानमङ्कुशः । अशक्तिः करणवैकल्यम्‌, ततो हि ज्ञानाप्राप्तिरित्यङ्कुशः । तुष्टिरप्यङ्कुशः । तदा प्रकृत्युपादानकालभाग्या मोक्षोपाया इति, विषयोपरमाच्च मुक्त इत्येतावन्मात्रादुपदेशात्‌ तुष्टो न ज्ञानं पर्येष्यति । यदा तु पर्येष्यति तदाऽनङ्कुश इत्यर्थः । एते प्रत्ययसर्गभेदाः पञ्चाशत्‌ पदार्थाः, अस्तित्वादयश्च दश । ते चास्यामेव सप्तत्यां निर्दिष्टाः । तथा चाह संग्रहकारः-
अस्तित्वमेकत्वमथार्थवत्त्वं पारार्थ्यमन्यत्वमकर्तृभावः ।
योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः ॥ इति ॥
एकत्वमर्थवत्त्वं पारार्थ्यं चेति प्रधानमधिकृत्योक्तम्‌ । अन्यत्वमकर्तृत्वं बहुत्वं चेति पुरुषमधिकृत्य । अस्तित्वं योगो वियोगश्चेत्युभयमधिकृत्य । स्थितिर्मूलसूक्ष्ममधिकृत्य । वक्ष्यति- 'तिष्ठति संस्कारवशात्‌' इति । एते षष्टि पदार्थाः, तदर्थं शास्त्रं षष्टितन्त्रमित्युच्यते ॥ ५१ ॥


कारिका ५२



पूर्वोत्पन्नं लिङ्गं भावैरधिवासितं संसरतीत्युक्तम्‌, तत्र किं भावा अपि पूर्वमुत्पन्नाः किं लिङ्गमेवेत्यत्राह-
न विना भावैर्लिङ्गम्‌, न विना लिङ्गेन भावनिष्पत्तिः ।
लिङ्गाख्यो भावाख्यस्तस्माद्द्विविधः प्रवर्तते सर्गः ॥ ५२ ॥

'न विना' इत्यादि । यदि भावा न पूर्वोत्पन्नास्तैर्विना लिङ्गमपि नास्ति । संसरणार्थं लिङ्गं संसारनिमित्तं च भावाः ॥
'न विना लिङ्गेन भावनिष्पत्तिः' इति । लिङ्गं विना न भावानिष्पत्तिः, लिङ्गाश्रितत्वाद्भावानाम्‌ । यस्मादेवं तस्मात्‌ लिङ्गाख्यो भावाख्यश्च द्विप्रकारः प्रधानत्वात्‌ सर्गो भवतीति । सृज्यत इति सर्गः ॥ ५२ ॥


कारिका ५३



यथा द्वावेतौ पूर्वोत्पन्नौ तथ भूतसर्गोऽपीति दर्शयन्नाह-
अष्टविकल्प दैवस्तैर्यग्योन्यश्च पञ्चधा भवति ।
मानुष्यचैकविधः, समासतो भौतिकः सर्गः ॥ ५३ ॥

'अष्टविकल्पः' इत्यादि । देवानामयं दैवः । सोऽष्टविधः । तद्यथा ब्राह्मः, प्राजापत्यः, सौरः, आसुरः, गान्धर्वः, याक्षः, राक्षसः, पैशाचश्चेति ॥
'तैर्यग्योन्यश्च पञ्चधा भवति' इति । तिर्यग्योनीनामयं तैर्यग्योन्यः । पशुमृगपक्षिसरीसृपस्थावरभेदात्‌ पञ्चविधः । तत्र गवाद्या रासभान्ताः पशवः । सिंहाद्या बिडालान्ता मृगाः । हंसाद्या मशकान्ताः पक्षिणः । सर्पादयः कृम्यन्ताः सरीसृपाः । वृक्षादयः स्थूणान्ताः स्थावरा इति ॥
'मानुष्यश्चैकविधः' इति । मनुष्याणामयं मानुष्यः । एवंविधसंस्थानस्यैकविधत्वात्‌ । ब्राह्मादिभेदोऽपि सत्त्वरजस्तमसां विकल्पात्‌ कालव्यवहारनिमित्तम्‌ ॥
'समासतः' इति । संक्षेपेण । विस्तरं...तस्तस्यैव (?) - जरायुजाण्डजोष्मजोद्भिज्जाख्याश्चत्वारो भेदाः शास्त्रान्तरे द्रष्टव्याः । उद्भिज्जाः स्थावराः ॥
'भौतिकः सर्गः' इति । भूतेषु भवो भौतिकः, लोकोत्पाद इत्यर्थः । स च द्विविधः ॥ ५३ ॥


कारिका ५३



स्थूलशरीरे सत्त्वयि कश्चिदेव क्वचिदधिक्येन वर्तत इति दर्शयन्नाह-
ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः ।
मध्ये रजोविशालो, ब्रह्मादिस्तम्बपर्यन्तः ॥ ५४ ॥

'ऊर्ध्वम्‌' इत्यादि । ब्रह्मा आदिर्यस्य सर्गस्य स्तम्बश्च तृणविटपपर्यन्तः, स ब्रह्मादिस्तम्बपर्यन्तः सर्गः । स ऊर्ध्वः सत्त्वविशालः । ऊर्ध्वं देवलोकस्तस्योत्कृष्टत्वात्‌ तत्र सात्त्विक इत्यर्थः । देवलोकस्य सत्त्वबहुलत्वात्‌ ॥
'तमोविशालश्च मूलतः सर्गः' इति । तैर्यग्योनो मूलम्‌, तस्याधमत्वात्‌ । तस्मिन्‌ मूले तमोऽधिकं तमोबहुलत्वात् ॥
'मध्ये रजोविशालः' इति । मनुष्यलोके मध्ये । उत्तराधरभावात्‌ तत्र दुःखबहुलत्वात्‌ ॥ ५४ ॥


कारिका ५५



यदि त्रिषु लोकेषु लिङ्गं संसरति, तदेव तर्हि सांसारिकं सुखं दुःखं वाप्नोति, तस्यैव सांसारिकत्वादित्याह-
तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।
लिङ्गस्याविनिवृत्तेस्तस्माद्‌ दुःखं स्वभावेन ॥ ५५ ॥

'तत्र' इत्यादि । तेषु लोकेषु जरामरणकृतमिति चतुर्दुःखोपलक्षणार्थम्‌ । गर्भदुःखम्‌, जन्मदुःखम्‌, जरादुःखम्‌, मरणदुःखमिति । तत्र मातुः कुक्षौ अन्धतमसीव प्रविष्टस्य सङ्कुचनप्रसारणदुःखं गर्भदुःखम्‌ । जायमानस्य मातुरुदरान्निर्गच्छतो जन्मदुःखम्‌ । व.....पालतस्खलनादिदुःखं जरादुःखम्‌ । मरणावस्थायां स्थूलशरीरं त्यजतो मरणदुःखम्‌ । एतत्त्वाध्यात्मिकं दुःखेऽन्तर्भूतमप्रीतदुःखं बुद्ध्याध्यवसितं पुरुषः प्राप्नोति तस्य चेतनत्वात्‌, न तु लिङ्गमचेतनत्वादिति भावः ॥
कियन्तं कालमित्याह- 'लिङ्गस्याविनिवृत्तेः' इति । यावल्लिङ्गस्याविनिवृत्तिस्तावदित्यर्थः । तस्य च निवृत्तिः प्रधानपुरुषान्तरज्ञानात्‌ । यतश्चैवं तस्माद्दुःखं स्वभावेन । लिङ्गगर्भाद्यवस्थासु स्वभावतो दुःखमित्यर्थः । लोकत्रये सुखमपि प्राप्नोति, तन्नोक्तं तस्यानियतत्वात्‌ । जरादिदुःखं तु नियतमिति ॥ ५५ ॥


कारिका ५६



योऽयं भावलिङ्गभूततत्सर्गः स किमीश्वरात्‌, यथोच्यते-
ईश्वरप्रेरितो गच्छेत्‌ स्वर्गं वा श्वभ्रमेव वा ।
इति, किं वा पुरुषात्‌, यथोच्यते-
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्‌ ।
इति, किं वा स्वभावात्‌, यथोच्यते-
स्वभाविकमेवेदं सर्वं जगन्नहि मरुदादयः केनचित्‌ क्रियन्ते ।
इत्यत्राह-
इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः ॥ ५६ ॥

'इत्येष प्रकृतिकृतः' इत्यादि । आरभ्यत इत्यारम्भः । प्रकृतिकृत इति प्रधानकृतः, नेश्वरादिकृत इत्यर्थः । लोकत्रयं त्रिगुणात्मकं भवति, तच्च त्रिगुणाया एव प्रकृतेरुत्पद्यते । नपै स्वभाविकम्‌, विपरीतगुणदोषप्रसङ्गाद्देशानियमयोगाच्च ॥
स किंस्वरूप इत्याह- 'महदादिविशेषभूतपर्यन्तः' इति । बुद्धिरादिर्यस्यारम्भस्य । भूतानि लोकत्रये यान्यभिन्नसंस्थानानि स्थूलशरीराख्यानि । विषयाश्च । बाह्याश्च विषयाः सूक्ष्माः स्थूलाः । ते पर्यन्तेऽवसाने यस्य स तथोक्तः । अनेन भावलिङ्गभूतसर्गाख्यास्त्रय आख्याताः ॥
किमर्थमयं प्रधानस्यारम्भ इत्यत्राह- 'प्रतिपुरुषविमोक्षार्थम्‌' इति । एकैकस्य पुरुषस्य पुरुषस्य विमुक्त्यर्थमारम्भः, पुरुषाणां बहुत्वात्‌ । भावसर्गे भूतसर्गे चानेक इति दर्शयति । तथाहि मोक्षार्थं विषयोपभोगार्थं चायमारम्भ इति द्रष्टव्यम्‌ । प्रधानेन हि पुरुषार्थः कर्तव्यः । स च द्विविधः । विषयोपभोगः कैवल्यं च । तदुभयं कृत्वा निवर्तत इति ॥
'स्वार्थः' इति । यः कश्चित्‌ देवदत्तस्वार्थ एव परार्थो रहितितं प्रवर्तते न परस्तपस्तकरोति (?) तथा प्रधानमपीत्यर्थः ॥ ५६ ॥


कारिका ५७



ननु च सचेतनस्य बुद्धिपूर्विका प्रवृत्तिर्भवति, प्रधानस्याचेतनत्वात्कथं लोकत्रये पुरुषं विषयैः संयोज्य ध्यानेन विप्रमोच्य निवर्तेत । कथमेवंविधा प्रवृत्तिः । नायं नियमः, अचेतनानामपि लोके प्रवृत्तिदर्शनात्‌ । यदाह-
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ५७ ॥

'वत्सविवृद्धिनिमित्तम्‌' इत्यादि । वत्सस्य विवृद्धिः पुष्टिः । तस्या निमित्तम्‌ ॥
'क्षीरस्य यथा प्रवृत्तिरज्ञस्य' इति । अचेतनस्य । यथा तृणदिकमचेतनं गवाशितं पीतं च, वत्सस्य पुष्टिः कर्तव्येति, क्षीरात्मना परिणमति कृतार्थं च निवर्तत इति ॥ ५७ ॥


कारिका ५८



यदि पुरुषविमोक्षार्थं प्रधानस्य प्रवृत्तिः, प्रवृत्तेः प्राक्‌ पुरुषस्य कैवल्यं स्थितमेव, तत्‌ किं तेन प्रवृत्तेन? तथा चाहुः -
मध्वर्थं प्रस्थितः कश्चिद्‌ ग्रामाभ्याशे तु माक्षिकम्‌ ।
अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्‌ ॥ इति ॥
अत्राह-
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम्‌ ॥ ५८ ॥

'औत्सुक्यम्‌' इत्यादि । यथौत्सुक्यनिवृत्त्यर्थमभिमतक्रियासु लोकः प्रवर्तते, तद्वत्‌ प्रलयावस्थायां पुरुषोऽपि मोक्षनिमित्तं यदौत्सुक्यं तन्निवृत्तये प्रवर्तयेत्प्रधानमिति ॥ ५८ ॥


कारिका ५९



उदाहरणान्तरमाह-
रङ्गस्य दर्शयित्वा निवर्तते नर्त्तकी यथा नृत्तात्‌ ।
पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ ५९ ॥

'रङ्गस्य' इत्यादि । नृत्यतीति नर्त्तकी । सा तथा रङ्गस्य नृत्तं दर्शयित्वा तस्मान्नृत्तान्निवर्तते विरमति, दृष्टाहमनेनेति कृतप्रयोजना सती, तथा पुरुषस्यात्मानं संप्रकाश्य देवादिभावरूपं गता निवर्तते प्रकृतिः प्रधानमित्यर्थः ॥ ५९ ॥


कारिका ६०



ननु च नटी रङ्गात्‌ स्वार्थं साधयति, प्रकृतेस्तु पुरुषार्थः स्वार्थो येनैवमाचरयतीत्याह-
नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।
गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥ ६० ॥

'नानाविधैः' इत्यादि । पूर्वं सप्तभिर्धर्मादिभिरुपायैस्त्रिषु विषयेष्वात्मनं प्रकाशयत्युपकारिणी, तदनन्तरमेकेन ज्ञानाख्येन कैवल्यं कुर्वाणोपकारिणी भवति ॥
'अनपकारिणः पुंसः' इति । न पुमांस्तां प्रत्युपकरोति, अहमनयोपकृत इति । पुनस्सा तमुपकरोति ॥
नासौ तामित्याह - ' गुणवत्यगुणस्य सतः' इति । गुणसत्त्वात्प्रकृतिः सक्रिया, निर्गुणत्वात्‌ पुरुषो निष्क्रिय इति । तस्यार्थमपार्थकं चरति । तस्य पुंसोऽर्थो द्विविधः- विषयोपभोगः कैवल्यं च । तन्निरर्थकं करोति, यतस्तस्याः प्रयोजनाभावः । व्यक्तात्मनाऽऽत्मानं दर्शयति नत्वव्यक्तात्मना ॥ ६० ॥


कारिका ६१



तथाहि - गुणानां साम्यावस्था प्रकृतिः । कुतश्च सा न सर्वात्मनाऽऽत्मानं प्रकाशयति, पुमानपि न सर्वथा पश्यति ? तथा चाहुः-
गुणानां परमं रूपं न दृष्टिपथमृच्छति ।
यत्तु दृष्टिपथं प्राप्तं तन्मायावस्तु तुच्छकम्‌ ॥ इति । अत्राह -
प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१ ॥

'प्रकृतेः' इत्यादि । सुकुमारतरमिति सूक्ष्मतरमितरत्‌ । एतदुक्तं भवति- प्राग्व्यक्तात्मना प्रकाशयति न त्वव्यक्तात्मनापि, येन ज्ञानावस्थायां प्रकृतेर्मतिर्भवति मम सूक्ष्मतरं न किञ्चिदपरमस्ति यद्द्रष्टव्यं पुरुषेण ॥
('या दृष्टाऽस्मि' इति । सा प्रकृतिर्व्यक्तात्मना च) दृष्टाहमनेनेति न पुनर्दर्शनमुपैति पुरुषस्य, द्रष्टव्याभावात् । ततश्चैवं सर्वथा प्रकृतिरात्मानं प्रकाशयति, पुरुषश्चैतां सर्वथा पश्यति ॥ ६१ ॥


कारिका ६२



तस्मान्न पुरुषस्य बन्धो नापि संसरणं मोक्षो वेत्याह-
तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित्‌ ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२ ॥

'तस्मान्न बध्यते' इत्यादि । बन्धाभावान्न बध्यते । पुरुषस्यापि कार्यत्वाद्बन्धो नास्ति । न विमुच्यते तस्या बन्धनात्‌ । नापि संसरति निष्क्रियत्वात्‌ । कश्चिदिति पुरुष इत्यर्थः ॥
कस्य तर्हि बन्धादय इत्याह- संसरति बध्यते मुच्यते च प्रकृतिरिति । ननु च तस्याः सुकुमारत्वाद्बन्धादयो न सम्भवन्त्येवेत्यत्राह- नानाश्रयेषुरभिवज्यते (?) । तत्राश्रयाः भावलिङ्गभूतास्सर्गाः । ते प्रकृतिपुरुषवन्नानाविधाः ॥ ६२ ॥


कारिका ६३



ततश्च नानाश्रयत्वादेव दर्शयन्नाह-
रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः ।
सैव च पुरुषार्थम्प्रति विमोचयत्येकरूपेण ॥ ६३ ॥

'रूपैः' इत्यादि । धर्मादयो बुद्धे रूपान्युक्तानि । 'सप्तभिः' । ज्ञानं त्यक्त्वा ते च प्रकृतेरात्मभूताः । सैवात्मनैव पुरुषार्थं प्रत्यात्मानं महदादिसूक्ष्मपर्यन्तं लिङ्गं बध्नाति । बन्धश्च त्रिविधः । तच्च लिङ्गं भावादिभिरधिवासितमर्थमेव । संसरतीति । प्रकृतिरेव संसरति ॥
'सैव च' इति । प्रकृतिः पुरुषार्थं प्रति कैवल्यार्थं विमोचयत्यात्मानम्‌ ॥
'एकरूपेण' इति । एकं च तद्रूपं चेति । ज्ञानाख्येन रूपेणेत्यर्थः । यं पुरुषमपेक्ष्य ज्ञानमुत्पादयति तं प्रत्यव्यक्तमात्मानं संहरतीत्यर्थः । नहि धर्मादयः पुरुषधर्मा यस्तैर्बध्यते । नापि संसरति, अलिङ्गभावत्वात्‌ । नापि मुच्यते, तस्य बन्धनत्वात्‌ ॥ ६३ ॥


कारिका ६४



तदेवं ज्ञानं कथमुत्पद्यते येन मोचयतीत्याह-
एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम्‌ ।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्‌ ॥ ६४ ॥

'एवं तत्त्वाभ्यासात्‌' इत्यादि । एवमिति वक्ष्यमाणे योज्यम्‌ । तत्त्वानि पञ्चविंशतिः । तेषां पुनः पुनः स्वरूपेणाभ्यसनमभ्यासः । यदेतत्‌ सूक्ष्मशरीरं भौतिकं च तस्मिन्न भवामि, अपि तु प्रकृतिः ॥
'न मे' इत्यादि । न ममेदमपि तु प्रकृतेः ॥
नाहमिति । नाप्यहं प्रकृतिरित्येवं तत्त्वाभ्यासात्‌ । किंविशिष्टात्‌ - अविपर्ययादहमित्यमानसंशयात्‌ ज्ञानमुत्पद्यते ॥
ईदृशमित्याह- 'अपरिशेषम्‌' इति । परिपूर्णं विशुद्धम्‌ संसारमलापगमात्‌ केवलमेकमित्यर्थः ॥ ६४ ॥


कारिका ६५



ननु ज्ञानेन पुरुषः किं पश्यतीत्याह-
तेन निवृत्तप्रसवामर्थवशात्‌ सप्तरूपविनिवृत्ताम्‌ ।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः ॥ ६५ ॥

'तेन' इत्यादि । यत्‌ प्रकृतिज्ञानमुत्पद्यते तं प्रति निवृतः प्रसवो लिङ्गभूतसर्गाख्यो यस्याः प्रकृतेः स तथोक्ता । प्रसवनिवृत्त्या वा यो विषयो विषयेभ्यो निवर्तते तद्वशात्‌, सप्तभ्यो रूपेभ्यो धर्मादिभ्यो निवृत्ता प्रकृतिर्भवति । भावसंसर्गोऽपि यस्या निवर्तत इत्यर्थः । तामेवंविधामव्यक्तरूपां पश्यति पुरुषः ॥
'प्रेक्षकवदवस्थितः' इति । यथा प्रेक्षकः प्रवर्त्तितनृत्तमुपसंहृतनृत्तां च नर्त्तकीं पश्यति, तथा पुरुषोऽपि प्रवर्तितसर्गामुपसंहृतसर्गां चेति ॥
'स्वस्थः' इति । आत्मनि स्थितो न प्रकृतिस्थः, ततः प्रकृतेर्निवृत्तत्वात्‌ ॥ ६५ ॥


कारिका ६६



ननु च यदि प्रकृतिर्गर्भभूःपुरुषं प्रति निवृत्तप्रसवा, तस्याश्च प्रकृतेस्तदानीं सर्वगतत्वादस्त्येव संयोगस्तत्किमिति पुनः शरीरोत्पत्तिर्न भवतीत्याह -
दृष्टा मयेत्युपेक्षक एको दृष्टाऽहमित्युपरमत्यन्या ।
सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ ६६ ॥

'दृष्टा मया' इत्यादि । तयोर्द्वयोरेकः पुरुष उपेक्षकः, सर्वथा...त्वात्‌ । यथा प्रेक्षको नटीमुपेक्षते निवृत्ताभिलाषत्वात्‌ ॥
'दृष्टाऽहमित्युपरताऽन्या' इति । अपरा प्रकृतिरुपरता निवृत्तप्रसवा । सर्वथाऽहमनेन दृष्टेति ॥
ततश्च संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य । विषयोपभोगार्थः सर्गः । तस्मिन्नेव चरितार्थत्वात्‌ न पुनः सर्गमारभते । नहि नटी रङ्गे प्रेक्षकैर्निराकांक्षितं पुनर्नृत्तमारभते ॥ ६६ ॥


कारिका ६७



यद्यात्मज्ञानात्‌ कैवल्यप्राप्तिः, तदनन्तरमेव शरीरं कस्मान्न निवर्तत इत्याह-
सम्यग्ज्ञानाधिगमात्‌ धर्मादीनामकारणप्राप्तौ ।
तिष्ठति संस्कारवशात्‌, चक्रभ्रमवद्धृतशरीरः ॥ ६७ ॥

'सम्यक्‌ ज्ञानाधिगमात्‌' इत्यादि । सम्यक्‌ ज्ञानमात्मज्ञानम्‌ । तस्याधिगमादात्मज्ञानप्राप्तेरित्यर्थः ॥
'धर्मादीनामकारणप्राप्तौ' इति । न कारणमकारणम्‌, तस्यामकारणप्राप्तावेव तदुक्तं भवति । सम्यक्‌ ज्ञानाधिगमात्तेषां धर्मादीनामग्निदग्धबीजवदशक्तत्वात्‌ ॥
जन्मान्तरसंस्कारवशाद्धृतशरीरः पुमांस्तिष्ठति । कथम्‌- चक्रभ्रमवत्‌ । यथा कुलालव्यापारे निवृत्तेऽपि वेगवशात्‌ कियन्तमपि कालं चक्रभ्रमस्तिष्ठति तथा शरीरमपीत्यर्थः ॥ ६७ ॥


कारिका ६८



कदा स मोक्षो भवतीत्यत्र-
प्राप्ते शरीरभेदे चरितार्थत्वात्‌ प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८ ॥

'प्राप्ते शरीरभेदे' इत्यादि । लिङ्गभौतिकशरीरे पृथग्भूते यथा संभूते लयं गति तेष्वित्यर्थः (?) ॥
'चरितार्थत्वात्‌ प्रधानविनिवृत्तौ' इति । प्रधानं लिङ्गात्मना परिणतं निवर्तते । निवृत्तावुभयं कैवल्यमाप्नोति ॥
'ऐकान्तिकमात्यन्तिकं च' इति । तत्रात्मज्ञानोत्पादादवश्यंभावि कैवल्यमित्यैकान्तिकम्‌ । सत्यपि तयोः संयोगे प्रयोजनाभावान्न पुनः सर्ग इत्यात्यन्तिकमिति ॥ ६८ ॥


कारिका ६९



सप्तत्यां विशुद्धिं दर्शयन्नाह-
पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम्‌ ।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम्‌ ॥ ६९ ॥

'पुरुषार्थज्ञानम्‌' इत्यादि । पुरुषार्थं ज्ञानं चेति पुरुषार्थज्ञानम्‌ । यदिदं पञ्चविंशतितत्त्वज्ञानं तत्प्रधानम्‌, पुरुषार्थमोक्षोऽनेन प्राप्यत इति कृत्वा । गुह्यमिदमप्रकाश्यम्‌ । साधुजनादन्यस्मै न देयमित्यर्थः ॥
'परमर्षिणा समाख्यातम्‌' इति । कपिलमुनिना प्रकाशितम्‌ ॥
'स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम्‌' इति । यत्र ज्ञाने भूतानां ब्रह्मादिस्तम्बपर्यन्तानां स्थित्यादयो व्यवस्थाप्यन्ते । तत्रोत्पन्नानां प्रबन्धेनावस्थानं स्थितिः । सा च त्रिषु स्थानेषु दैवमानुषतैर्यग्योनेषु उत्पत्तिः सृष्टप्रधानात्‌ यावत्‌ तन्मात्रेभ्यः पञ्चमहाभूतानि । सृष्ट्युपसंहारे महाप्रलयः, सर्वोऽप्युत्क्रमेण । तद्यथा पृथिव्यादयस्तन्मात्रादिषु लीयन्ते यावत्प्रधानमिति । तेन पञ्चविंशतितत्त्वव्यतिरिक्तं नास्तीत्येतदुक्तम्‌ ॥ ६९ ॥


कारिका ७०



मुनिना समाख्यातमिति कुतो ज्ञायत इत्याह-
एतत्‌ पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।
आसुरिरपि पञ्चशिखाय, तेन च बहुधा कृतं तन्त्रम्‌ ॥ ७० ॥

'एतत्‌' इत्यादि । 'पवित्रम्‌' इति । दुःखत्रयमेतत्‌ पुनातीति कृत्वा । सर्वभेदानामग्रेभवत्वादग्र्यम्‌ ॥
'मुनिरासुरयेऽनुकम्पया प्रददौ' इति । कपिलस्य महामुनेः सहोत्पन्नाश्चत्वारो धर्मादयः । तत्र ज्ञानाख्येन भावेनान्धे तमसि वर्तमानं जगत्‌ दृष्टवतो मुनेः करुणोत्पन्ना । तया च प्रेर्यमाण आसुरिं सगोत्रब्राह्मणं वर्षसहस्रयातिनमागत्योवाच । 'आसुरे रमसे त्वं गृहस्थधर्मेण' इति । स तमाह- 'भगवन्‌ न रमेऽहम्‌' इति । पुनर्वर्षसहस्रे पूर्णे तं गत्वा तथोवाच । सोऽपि 'भगवन्‌ न रमेऽहम्‌' इत्युवाच । ततो मुनिना 'यदि विरक्तस्त्वम्‌, एहि ब्रह्मचर्यं चर' इत्यसावुक्तः । स तु प्रदिपद्य गृहस्थधर्मं त्यक्त्वा प्रव्रजितः । तस्मै शिष्यायानुकम्पया संक्षिप्य दत्तवान्‌ । 'तम एव खल्विदमासीत्‌' । तस्मिंस्तमसि क्षेत्रज्ञ एव प्रथमः । तमः प्रधानम्‌, क्षेत्रज्ञः पुरुष उच्यते । आसुरिरपि तदेव संक्षिप्तं पञ्चशिखाय स्वशिष्यायानुकम्पया प्रददौ ॥
'तेन' इति । पञ्चशिखेन मुनिना बहुधा कृतं तन्त्रम्‌ । षष्टितन्त्राख्यं षष्टिखण्डं कृतमिति । तत्रैव हि षष्टिरर्था व्याख्याताः ॥ ७० ॥


कारिका ७१



ननु च षष्टितन्त्रमेवास्तु किं सप्तत्येति स्वशास्त्रकरणप्रयोजनमाह-
शिष्यपरम्परयाऽऽगतमीश्वरकृष्णेन चैतदार्याभिः ।
संक्षिप्यार्यमतिना सम्यग्विज्ञाय सिद्धान्तम्‌ ॥ ७१ ॥

'शिष्यपरम्परया' इत्यादि । मुनेरासुरेः पञ्चशिखस्तथा गर्गगौतमप्रभृतिर्णरामतंग्रम्या (?) ईश्वरकृष्णनामानं परिव्राजकमित्यनया शिष्यपरम्परया । इति ज्ञानमयरूपेणागतं सिद्धान्तं षष्टितन्त्रम्‌ । सम्यग्विज्ञाय संक्षिप्तं षष्टितन्त्रम्‌, पञ्चविंशतितत्त्वाख्यं ज्ञानमित्यर्थः ॥
आर्यमतिः, अधिगततत्त्वज्ञानतयार्यमतिः ॥
'आर्याभिः' इति । सप्तत्येत्यर्थः । 'दुःखत्रयाभिघातात्‍' 'एतत् पवित्रम्‌' इति सप्तत्याभिहितम्‌ ॥ ७१ ॥


कारिका ७२



अत्र षष्टितन्त्रे बहवोऽर्थाः, तेऽत्र नोक्ता इत्याह-
सप्तत्यां किल येऽरथास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ॥ ७२ ॥

'सप्तत्याम्‌' इत्यादि । 'एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः' इत्यादिना ग्रन्थेन य उक्तास्ते कृत्स्नस्य षष्टितन्त्रस्यापि ॥
किन्तु 'आख्यायिकाविरहिताः परवादविवर्जिताः शुद्धाः' इति । आख्यायिका आख्यानम्‌, तद्विरहिताः । परचोद्यं तेन विवर्जिताः । शुद्धाः केवलाः । परं बन्धमोक्षोपयोगिनोऽर्थाः दर्शिता इति तस्मात्‌ सम्पूर्णेयं सप्ततिरिति ॥ ७२ ॥



॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पूज्यपादशिष्येण श्रीशङ्करभगवता कृता सांख्यसप्ततिटीका समाप्ता ॥