सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.2 द्वितीया दशतिः

प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।
उपस्तुतासो अग्नये ॥ १०७ ॥

प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः ।
यस्य त्वं सख्यमाविथ ॥ १०८ ॥

तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।
देवत्रा हव्यमूहिषे ॥ १०९ ॥
सौभराणि

मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एशः ।
यः सुहोता स्वध्वरः ॥ ११० ॥

भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
भद्रा उत प्रशस्तयः ॥ १११ ॥

यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यं ।
अस्य यज्ञस्य सुक्रतुं ॥ ११२ ॥

तदग्ने द्युम्नमा भर यत्सासाहा सदने कं चिदत्रिणं ।
मन्युं जनस्य दूढ्यं ॥ ११३ ॥

यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशे ।
विश्वेदग्निः प्रति रक्षांसि सेधति ॥ ११४ ॥
राक्षोघ्नम्