स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ०८

।। श्रीरुद्र उवाच ।। ।।
कपालेश्वरसंज्ञं च ह्यष्टमं विद्धि पार्वति ।।
यस्य दर्शनमात्रेण ब्रह्महत्या प्रणश्यति ।। १ ।।
पुरा वैवस्वते कल्पे त्रेताकाले समागते ।।
महाकालवने दिव्ये यजे पैतामहे प्रिये ।। २ ।।
उपविष्टेषु विप्रेषु हूयमाने हुताशने ।।
वेषं कापालिकं कृत्वा गतोऽहं तत्र संसदि ।। ३ ।।
जीर्णकंथावृतो देवि मुंडः खट्वांगधारकः ।।
चिताभस्मविलिप्तांगो विकृतो विकृताननः ।।
कपालं च करे कृत्वा कपालकृतभूषणः ।। ४ ।।
ब्राह्मणाश्च ततः क्रुद्धा दृष्ट्वा मां जाल्मरूपिणम् ।।
कपालधारिणं सर्वे धिक्छब्दैश्च जगर्हिरे ।। ५ ।।
असकृत्पापपापेति गच्छगच्छ विडंबिताः ।।
कथं च होमः क्रियते प्राप्ते कापालिके पुरः ।। ६ ।।
अकपालानि शौचानि इति वेदेषु गीयते ।।
यज्ञवेदिर्न तेर्हा तु मनुष्यास्थि धरस्य वै ।। ७ ।।
मया प्रोक्तास्तु ते विप्राः श्रूयतां द्विजसत्तमाः ।।
यूयं कारुणिकाः सर्वे परदुःखेन दुःखिताः ।। ८ ।।
कर्त्तव्या च दया सद्भिः सर्वदा सर्वदेहिनाम् ।।
सर्वेषामेव जंतूनां मित्रं ब्राह्मण उच्यते ।। ९ ।।
अहं कापालिको विप्रो भस्मभूषितविग्रहः ।।
कापालव्रतमास्थाय चरामि पृथिवीतले ।। 5.2.8.१० ।।
आराधयामि सततं महादेवं जगत्पतिम् ।।
ब्रह्महत्याविनाशाय व्रतं द्वादशवार्षिकम् ।। ११ ।।
अघघ्नं विश्रुतं लोके प्रारब्धं हि मया द्विजाः ।।
प्रायश्चित्तनिमित्तं तु शुद्धो यास्यामि सद्गतिम् ।। १२ ।।
मदीयं वचनं श्रुत्वा तैः प्रोक्तं द्विजसत्तमैः ।।
अतीव पापिष्ठतरो यो ह्येवं भाषसेऽधम ।। १३ ।।
कपालैर्भूषितो निंद्यो विशेषेण तु विप्रहः ।।
नाकारितो महादेवो दक्षयज्ञमहोत्सवे ।। १४ ।।
यस्मिन्यज्ञे समायाता आदित्या वसवस्तथा ।।
विश्वेदेवाश्च मरुतो गंधर्वाः किंनरास्तथा ।। १५ ।।
ब्रह्मा विष्णुः सहस्राक्षो वरुणो वायुरेव च ।।
धनदः सागरा नद्यः सरांसि सकलानि च ।। १६ ।।
सुपर्णा गिरयो नागाः सर्वे चाकारिताः क्रतौ ।।
सानुगास्ते सभार्याश्च ब्राह्मणा वेदपारगाः ।। १७ ।।
ब्रह्मर्षयो महाभागास्तथा देवर्षयोऽमलाः ।।
एवमुक्त्वा महादेवं मानुषास्थिविभूषितम् ।। १८ ।।
अपवित्रमिति ज्ञात्वा कथं त्वं वक्तुमर्हसि ।।
प्रवेशो दीयतां मह्यं विशेषेणासि ब्रह्महा ।। १९ ।।
इत्युक्तोऽहं यदा विप्रैर्मया प्रोक्तं वचस्तदा ।।
प्रतीक्ष्यतां मुहूर्तं तु भुक्त्वा यास्याम्यहं पुनः ।। 5.2.8.२० ।।
इत्युक्ते वचने देवि ताडितोऽहं भृशं तदा ।।
लोष्ठैर्लगुडकैः पादैर्मुष्टिभिश्च पुनःपुनः ।। २१ ।।
अथ प्रहस्य तत्क्षिप्त्वा तां वेदिं दर्भसंस्तृताम् ।।
कपालदीपवन्नष्टो न ज्ञातोऽहं द्विजोत्तमैः ।। २२ ।।
मयि नष्टे कपालं तत्क्षिप्तं मंडपबाह्यतः ।।
अथान्यत्तत्र संजातं तादृग्रूपं यशस्विनि ।। २३ ।।
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च ।।
तत्र क्षिप्तानि जातानि ततस्ते विस्मयान्विताः ।। २४ ।।
अथाहुर्ज्ञानिनः सर्वे नेदमन्यस्य चेष्टितम् ।।
ऋते देवान्महादेवाद्गंगाचंद्रार्द्धशेखरात् ।। २५ ।।
ततोऽहं विविधैः स्तोत्रैः स्तुतो विप्रैः पृथक्पृथक् ।।
होमं चक्रुश्च ते वह्नौ मंत्रैश्च शतरुद्रियेः ।। २६ ।।
अहं तुष्टस्तदा देवि द्विजानामनुकंपया ।।
व्रियतां ब्राह्मणाः सर्वे वरं यन्मनसेप्सितम् ।। २७ ।।
तदा ते ब्राह्मणाः प्रोचुर्यदज्ञानाद्वधस्तव ।।
कृतस्तेन कृतास्माभिर्ब्रह्महत्या जगत्प्रभो ।। २८ ।।
ब्रह्महत्याविनाशाय प्रसादं कुरु नः प्रभो ।।
वरयामो वरं ह्येनं नान्यं वरमभीप्सितम् ।। २९ ।।
द्विजानां च तदा तेषामग्रे कथितवानिदम् ।।
यत्र राशिः कपालानां भवद्भिर्विहितो भुवि ।। 5.2.8.३० ।।
अनादिलिंगं तत्रासीच्छन्नं कालविपर्यये ।।
पश्यंतु विप्रास्तल्लिंगं ब्रह्महत्याविमोचनम् ।। ३१ ।।
कृता मयापि विप्रेंद्रा ब्रह्महत्या स्वयं पुरा ।।
छिंदता ब्रह्मणः शीर्षं पञ्चमं तेजसोत्कटम् ।। ३२ ।।
ब्रह्महत्या ततो जाता ममातीव सुदुःसहा ।।
कपालं च करे लग्नं तथा चातीव दुःसहम्।। ३३ ।।
दह्यमानस्ततश्चाहं व्याप्तो वै ब्रह्महत्यया ।।
नाशाय सत्वरं तस्याः स्वार्थयात्रामहं गतः ।। ३४ ।।
गतः सर्वेषु तीर्थेषु नैव मुक्तस्तु हत्यया ।।
ततो दुःखी सुसंतप्तो नैव लेभे सुखं क्वचित ।। ३५ ।।
एतस्मिन्नंतरे दैवी वागुवाचाशरीरिणी ।।
गच्छावन्तीं स्वयं नाथ किमर्थं खिद्यते वृथा ।। ३६ ।।
महाकालवनं पुण्यं त्वया नाथ विनिर्मितम् ।।
कपालकरसंस्थानं रुद्रमद्भुतदर्शनम् ।।
न जानासि कथं क्षेत्रं महापातकनाशनम् ।। ३७ ।।
तस्मिन्क्षेत्रे महल्लिंगं गजरूपस्य संनिधौ ।।
विद्यते पश्य देवेश ब्रह्महत्या प्रणश्यति ।। ३८ ।।
ततोऽहमागतस्तूर्ण वाक्यं श्रुत्वा तदोत्तमम्।।
महल्लिंगं मया दृष्टं(?) कपालकरसंस्थितम् ।। ३९ ।।
मम हस्तात्तदा विप्राः कपालमपतद्भुवि ।।
कपालेश्वरदेवोऽयमिति नाम मया कृतम्।। 5.2.8.४० ।।
पश्यंतु विप्रास्तं देवं कपालेश्वरसंज्ञ कम् ।।
यस्य दर्शनमात्रेण निष्कलंका भविष्यथ ।। ४१ ।।
लिंगं दृष्टं तदा तैस्तु कपालैर्बहुभिवृतम् ।।
कृतार्थास्ते तदा जातास्तस्य लिंगस्य दर्शनात् ।। ४२ ।।
अतोऽसौ भुवि विख्यातः कपालेश्वरसंज्ञकः ।।
येऽर्चयन्ति महादेवि कपालेश्वरसंज्ञकम्।। ४३ ।।
कृतपुण्या नरा देवि ते यांति परमं पदम् ।।
कृत्वापि पातकं घोरं ब्रह्महत्यादिकं नरः ।। ४४ ।।
तत्पापं विलयं याति लिंगस्यास्य च दर्शनात् ।।
कर्मणा मनसा वाचा यत्पापं समुपार्जितम् ।।
तत्क्षपयति देवोऽयं चतुर्द्दश्यां समर्चितः ।। ४५ ।।
प्रसंगादपि ये पूजां करिष्यंति वरानने ।।
तेऽपि कामानवाप्स्यंति यांश्च कांश्चित्सुदुर्लभान् ।।
ऐश्वर्यधर्ममतुलं दीर्घमायुररोगताम् ।। ४६ ।।
निःसपत्नत्वमतुलं यच्चान्यत्तदवाप्नुयात् ।।
अतीव पापिनो ये च क्रूरकर्मरता नराः ।। ४७ ।।
विपाप्मानो भविष्यंति गणेशाश्च मम प्रिये ।।
नियमेन प्रपश्यंति ये देवं वत्सरं प्रिये ।।
ते पश्यंति तनुं त्यक्त्वा मदीयं भवनं प्रियम् ।। ४८ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
कपालेश्वरदेवस्य स्वर्गद्वारेश्वरं शृणु ।। ४९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये कपालेश्वरमाहात्म्यवर्णनंनामाष्टमोऽध्यायः ।। ८ ।।