स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ३०

श्रीविश्वनाथ उवाच।।
त्रिंशत्तमं विजानीहि त्वं देवि च्यवनेश्वरम्।।
यस्य दर्शनमात्रेण स्वर्गभ्रंशो न जायते।।१।।
भृगोर्महर्षेः पुत्रश्च च्यवनो नाम पार्वति।।
स्थाणुभूतस्तपस्तेपे निराहारो महामुनिः ।। २ ।।
वितस्तायास्तटे रम्ये बहुवर्षगणान्किल ।।
सवल्मीकोऽभवद्विप्रो लताभिरभिसंवृतः ।। ३ ।।
कालेन महता देवि समाकीर्णः पिपीलकैः ।।
तथा स संवृतो धीमान्मृत्पिंड इव सर्वशः ।। ४ ।।
आजगाम तमुद्देशं विहर्तुं वन उत्तमे ।।
शर्यातिर्नाम धर्मात्मा सकुटुंबो मुदान्वितः ।। ५ ।।
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः ।।
एकैव तु सुता सुभ्रूः सुकन्यानाम नामतः ।। ६ ।।
सा सखीभिः परिवृता सर्वाभरणभूषिता ।।
सा भ्रम्यमाणा वल्मीके दृष्ट्वा भार्गवचक्षुषी ।। ७ ।।
सा कौतुकात्कण्टकेन बुद्धिमोहवती तदा ।।
किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ।। ८ ।।
अभवत्स तया विद्धो नेत्रयोः परमार्तिमान् ।।
ततः शर्यातिसैन्यस्य शकृन्मूत्रं समारुणत् ।। ९ ।।
ततो रुद्धे शकृन्मूत्रे पर्यतप्यत पार्थिवः ।।
प्रत्युवाच ततः क्रुद्धो राजा गद्गदया गिरा ।। 5.2.30.१० ।।
केनापकृतमद्येह भार्गवस्य महात्मनः ।।
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः ।। ११ ।।
ज्ञातं वा यदि वाज्ञातं तदिदं ब्रूत मा चिरम् ।।
तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् ।। १२ ।।
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् ।।
पर्यपृच्छत्स्ववर्ग च भूयोभूयः सुदुःखितः ।। १३ ।।
पितरं दुःखितं दृष्ट्वा सुकन्या तमथाब्रवीत् ।।
मया किंचिच्च वल्मीके दृष्टं सत्त्वमतिच्छवि ।। १४ ।।
खद्योतवदभिज्ञातं तन्मया विद्धमंतिकम् ।।
एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं क्षिप्रमभ्यगात् ।। १५ ।।
तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ।।
प्रार्थयामास सैन्यार्थे प्रांजलिः स महीपतिः ।। १६ ।।
अज्ञानाद्बालया यत्तेऽपकृतं तु महीसुर ।।
इमामेव च ते कन्यां ददामि सुदृढव्रताम् ।। १७ ।।
भार्यार्थे त्वं गृहाणेमां प्रसीद द्विजसत्तम ।।
ततोब्रवीमहीपालं च्यवनो भार्गवस्तथा ।। १८ ।।
यद्येवं प्रतिगृह्यैतां क्षमिष्यामि महीपते ।।
ददौ दुहितरं तस्मै च्यवनाय महीपतिः ।। १९ ।।
प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह ।।
प्राप्ते प्रसादे राजाथ ससैन्यो विषयं गतः ।। 5.2.30.२० ।।
सुकन्यापि पतिं लब्ध्वा तपस्विनमनिंदिता ।।
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ।। २१ ।।
कस्यचित्त्वथ कालस्य नासत्यावश्विनौ प्रिये ।।
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ।। २२ ।।
तां दृष्ट्वा दर्शनीयांगीं देवराजसुतामिव ।।
ऊचतुः समुपद्रुत्य कस्य त्वमतिशोभने ।। २३ ।।
सा प्रोवाच महाभागा पतिव्रतपरायणा ।।
शर्यातितनयां चैव भार्यां च च्यवनस्य हि।। २४ ।।
ततोश्विनौ प्रहस्यैनामब्रूतां पुनरेव तु ।।
कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् ।।२५।।
त्वमपास्येह कल्याणि कामभोगबहिष्कृता ।।
वृद्धं च्यवनमुत्सृज्य वरयस्वैकमावयोः ।। २६ ।।
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ।।
एवमुक्ता सुकन्या तु दस्रौ ताविदमब्रवीत् ।। २७ ।।
रताहं च्यवने देवे मैवं मा पर्यशंकतम् ।।
ततोऽब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ ।। २८ ।।
युवानं रूपसंपन्नं करिष्यावः पतिं तव ।।
एतेन समयेनावामामंत्रय सुमध्यमे ।।२७।
सा तयोर्वचनं श्रुत्वा कथयामास भार्गवे ।।
तच्छ्रुत्वा च्यवनो भार्यां क्रियतामित्यभा षत ।। 5.2.30.३० ।।
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ।।
ततोऽप्सु च्यवनः शीघ्रं रूपार्थी प्रविवेश ह ।। ३१ ।।
अश्विनावपि तत्काले सरः प्राविशतां प्रिये ।।
ततो मुहूर्त्तादुत्तीर्णा सर्वे ते सरसस्तदा ।। ३२ ।।
दिव्यरूपधराः सर्वे युवानो दिव्यकुंडलाः ।।
तुल्यवेषधराश्चैव मनसः प्रीतिवर्द्धनाः ।। ।। ३३ ।।
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभम् ।।
अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ।। ३४ ।।
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरा न्स्थितान् ।।
निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ।। ३५।।
लब्ध्वा तु च्यवनो भार्यां वयो रूपं तु वांछितम् ।।
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ।। ३६ ।।
यदहं रूपसंपन्नो वयसा च समन्वितः ।।
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ।। ३७ ।।
तस्माद्युवां करि ष्यामि प्रीत्याहं सोमपायिनौ ।।
सत्यमेतन्न संदेहो देवराजस्य पश्यतः ।। ३८ ।।
तच्छ्रुत्वा हृष्टमनसौ दिवं देवौ प्रजग्मतुः ।।
याजयामास सोमार्हौ नासत्यावश्विनाविति ।। ३९ ।।
भिषजौ देवतानां हि कर्मणा तेन गर्हितौ ।।
आभ्यामर्थाय सोमं त्वं प्रदास्यसि यदि स्वयम् ।। 5.2.30.४० ।।
वज्रं ते प्रहरिष्यामि घोररूपं सुदारुणम् ।।
एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः ।।
बलिनं वासवं ज्ञात्वा चिंतयामास सत्वरम् ।। ४१ ।।
देवमाराधयिष्यामि महादेवं महेश्वरम् ।।
यस्य कर्मकरः शक्रो यस्य देवा वशानुगाः ।।
यः समर्थो जगद्गोप्ता सृष्टिसंहारकारकः ।। ४२ ।।
इत्युक्त्वा च्यवनो देवि महाकालवनं गतः ।।
रामेश्वरस्य देवस्य लिंगमीशानतः स्थितम् ।।
श्रद्धयाराधितं तेन च्यवनेन महात्मना ।। ४३ ।।
तस्य प्रसन्नो रुद्रस्तु स वज्रादभयं ददौ ।।
तस्य प्रहरतो बाहुं स्तंभयामास भार्गवः ।। ४४ ।।
समाराधनतुष्टस्य लिंगस्यास्य प्रभावतः ।।
एतस्मिन्नंतरे ज्वाला निःसृता लिंगमध्यतः ।। ४६ ।।
तया देवगणाः सर्वे दह्यमाना विचेतसः ।।
प्रोचुर्गद्गदया वाचा धूमेनांधीकृते क्षणाः ।। ४६ ।।
क्रियेतां सोमपावेतावश्विनौ बलसूदन ।।
देवानां वचनं श्रुत्वा च्यवनं भयपीडितः ।।
प्रत्युवाच ततः शक्रः प्रणामानतकंधरः ।। ४७ ।।
सोमपावश्विनावेतावद्यप्रभृति भार्गव ।।
भविष्यतस्ततः सर्वमेतत्सत्यं ब्रवीमि ते ।। ४८ ।।
मा तेऽतिथ्याभिसंरंभो भविष्यति तपोधन ।। ।
लिंगस्यास्य प्रभावोऽयं यदहं निष्प्रभीकृतः ।। ४९ ।।
ततस्त्वन्नामधेयेन प्रसिद्धिर्भुवि यास्यति ।।
आराधितं यतो देवि च्यवनेन महात्मना ।। 5.2.30.५० ।।
च्यवनेश्वरमेतद्वै ख्यातं त्रिभुवनेऽभवत् ।।
भक्ता ये पूजयिष्यंति देवेशं च्यवनेश्वरम् ।।
आजन्मप्रभवं पापं तेषां नश्यति तत्क्षणात् ।। ५१ ।।
यः पश्यति नरो नित्यं च्यवनेश्वरसंज्ञकम् ।।
जन्मदुःखजरारोगैर्मुक्तो मुक्तिमवाप्नुयात् ।। ५२ ।।
यंयं काममभिध्यायेन्मनसाभिमतं नरः ।।
तंतं दुर्लभमाप्नोति च्यवनेश्वरदर्शनात् ।। ५३ ।।
नियमेन प्रपश्यंति ये देवं च्यवनेश्वरम् ।।
ते प्रयांति तनुं त्यक्त्वा मदीये भुवने प्रिये ।। ५४ ।।
यः शृणोति कथां पुण्यां सर्वपापहरां शुभाम् ।।
स पुण्यात्मा परं स्थानं याति दिव्यं न संशयः ।। ५५ ।।
भक्तिहीनः क्रियाहीनो यः पश्यति प्रसंगतः ।।
स पुण्यां गतिमाप्नोति योगिगम्यां यशस्विनि ।। ५६ ।।
पुष्पैर्विचित्रैर्ये देवं यजंते च्यवनेश्वरम् ।।
संसारार्णवमुल्लंघ्य ते यांति परमं पदम् ।। ५७ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
च्यवनेश्वरदेवस्य शृणु खंडेश्वरं शिवे ।। ५८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये च्यवनेश्वरमाहात्म्यवर्णनंनाम त्रिंशोऽध्यायः ।। ३० ।।