स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ४०

।। ईश्वर उवाच ।। ।।
चत्वारिंशत्तमं विद्धि कुंडेश्वरमतः शृणु ।।
यस्य दर्शनमात्रेण लभ्यते सद्गतिः परा ।। १ ।।
विज्ञप्तोऽहं त्वया देवि मंदरे चारुकंदरे ।।
वीरकं द्रष्टुमिच्छामि क्व गतो मम पुत्रकः ।। २ ।।
मया प्रोक्तं विशालाक्षि महाकालवनो त्तमे ।।
जलमध्ये स्थितस्तेपे तपः परमदारुणम्।।३।।
मुनिभिः सहितो धीमान्भ्राजमानोंऽशुमानिव ।।
गच्छामस्तत्र तं द्रष्टुं गणैः सार्द्धं वरानने ।। ।। ४ ।।
मदीयं वचनं श्रुत्वा त्वयाहं प्रेरितस्तदा ।।
उत्तिष्ठ शम्भो गच्छामो वृषमारुह सत्वरम् ।। ५ ।।
सप्रस्नवौ स्तनौ जातौ सद्यः संस्मृत्य वीरकम् ।।
मया स्मृतो वृषो देवि धर्मरूपी सनातनः ।। ६ ।।
मदीयं चिंतितं ज्ञात्वा ममपार्श्वमुपागतः ।।
आरूढोऽहं त्वया सार्द्धं तस्मिन्नेव वृषे तदा ।। ७ ।।
प्रस्थितस्तत्क्षणाच्छीघ्रं गणैर्नानाविधैः सह ।।
वेगात्प्रयातो वृषभस्कंधालंबितया त्वया ।। ८ ।।
रणद्वलयबाहुभ्यां गाढमालिंगितो ह्यहम्।।
त्वं भीता च तदा जाता यदातीव प्रणोदितः ।। ९ ।।
वृषो मया विशालाक्षि स कृष्टो गणपैस्तदा ।।
कृष्टं च सत्वरं दृष्ट्वा प्रोक्तं च भीतया तदा ।। 5.2.40.१० ।।
श्रांतास्मि सांप्रतं देव वेगेनानेन भीषिता ।।
तद्विश्रमितुमिच्छामि भूधरस्य तटे विभो ।। ११ ।।
क्षणं पद्भ्यां गमिष्यामि विषमोयं गिरिर्महान्।।
त्वदीयं वचनं श्रुत्वा बाढमुक्तं प्रिये मया ।। १२ ।।
मुहूर्त्तं चारुजघने शैलपादमुपाश्रिता ।।
कुरु श्रमापनयनं यावद्वेगात्प्रयाम्यहम् ।। ।। १३ ।।
पंथान त्वत्सुखं यत्र तं वयं मृगयावहे ।।
एष कुण्डो गणाध्यक्षस्त्वत्समीपे वसिष्यति ।।
त्वदाज्ञावशवर्त्ती च किंकरः स्थापितो मया ।। ।। १४ ।।
एवमुक्त्वा ततो देवि संस्थाप्य गणरक्षकम् ।।
आरूढोऽहं गिरेः प्रांतमुदयाद्रिं रविर्यथा ।। १५ ।।
ततोऽवलोकितोऽत्यर्थं रमणीयो महा गिरिः ।।
इदं रम्यमिदं रम्यमित्यस्मिन्वरपर्वते ।। १६ ।।
पश्यतो मम शैलेंद्रं गताः संवत्सरा दश ।।
त्वयाथ चिंतितं देवि क्व गतस्त्रिपुरांतकः।।१७।।
नूनं न मदनातप्तां वेत्ति मां रतिवर्जिताम् ।।
मां विहाय महादेवो निर्विशंकः क्व वर्त्तते ।। १८ ।।
हरस्य क्वापि यातस्य वैरं संस्मृत्य चित्तजः ।।
बाधते मामनंगोपि चापरोपितमार्गणः ।।
विलोकयंतीं हा दृष्ट्वा विलपंतीं पुनः पुनः ।। १९ ।।
ततः कुण्डो गणाध्यक्षो ज्ञात्वा भावं त्वदीयकम् ।।
उत्कृष्टेन स्वरेणोक्तं मा देवि विमना भव ।। 5.2.40.२० ।।
आयात एष ते भर्त्ता मा चेतः कलुषं कुरु ।।
एतच्छ्रुत्वा वचस्तस्य कुण्डस्य कमलानने ।। २१ ।।
दुःखार्त्तया त्वया प्रोक्तः कुण्ड वेद्मि न शंकरम् ।।
क्व गतः किं च कुरुते कालं दीर्घमिमं शिवः ।।
दर्शयस्व महादेवमित्युक्तोऽ सौ पुनःपुनः ।। २२ ।।
यदा न दर्शितस्तेन कुण्डेनाहं वरानने ।।
तदा शप्तस्त्वया देवि क्रुद्धया गणरक्षकः ।। २३ ।।
गच्छ त्वं मानुषं लोकं यस्मान्न कथितो हरः ।।
एतस्मिन्नंतरे देवि प्राप्तोऽहं त्वत्समीपतः ।। २४ ।।
पृष्टश्चाहं त्वया देवि विहाय क्व गतोऽसि माम् ।।
दुर्गमे पर्वते शून्ये तस्मात्त्य क्ष्यामि जीवितम् ।। २५ ।।
गत्वाग्रे भूधरस्यास्य किं कृतं च त्वया विभो ।।
मया तव वचः श्रुत्वा कथितं सर्वमेव तत् ।। २६ ।।
दुराधर्षतरः शैलः समंताद्दुरतिक्रमः ।।
त्वत्प्रियार्थं महाभागे मया मार्गोऽवलोकितः ।। २७ ।।
येन मार्गेण विश्रब्धं गमिष्यामः सुमध्यमे ।।
अयं कुण्डो गणो देवि विषण्णो व्याकुलः कृतः ।। २८ ।।
त्वयाप्युक्तं महादेव कुण्डः शप्तो मया गणः ।
ममाज्ञा न कृता यस्माद्विफलं न वचो मम ।।
तस्माद्यातु ममादेशा न्महाकालवनं शुभम् ।। २९ ।।
भैरवं रूपमास्थाय यत्र त्वं चोत्तरे स्थितः ।।
तस्याग्रतः स्थितं लिंगं वर्त्तते कामदं सदा ।। 5.2.40.३० ।।
तस्य दर्शन मात्रेण गणपोऽयं भविष्यति ।।
कुण्डेश्वरेति विख्यातः स देवो वै भविष्यति ।। ३१ ।।
इत्युक्तः स त्वया देवि समासाद्य पुनःपुनः ।।
प्रस्थापितस्त्वयादेशाद्व्रज कुण्ड ममाज्ञया ।। ३२ ।।
महाकालवनं शीघ्रं लिंगमाराध्य सत्वरम् ।।
कीर्तिस्ते भविता पुत्र त्रिषु लोकेषु शाश्वती ।। ३३।।
इत्युक्तस्तत्क्षणात्प्राप्तो दृष्ट्वा लिङ्गं तु शाश्वतम् ।।
उत्तरस्य शिवस्याग्रे पूजयामास भक्तितः ।। ३४ ।।
ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः ।।
यक्षाश्चाप्सरसश्चैव समाजग्मुः सहस्रशः ।। ३५ ।।
अथाहं तत्क्षणात्प्राप्तस्त्वया सार्द्धं गणैर्वृतः ।।
दृष्ट्वा कुण्डं गणेशं तु लिंगाराधनतत्परम् ।। ३६ ।।
समाधिध्याननिरतं प्रोक्तमस्माभिरादरात् ।।
तुष्टा ते पार्वती पुत्र प्रार्थ्यतां वरमुत्तमम् ।। ३७ ।।
अक्षयं तु पदं प्राप्तं त्वया लिंगस्य दर्शनात् ।।
अद्यप्रभृति देवोऽयं ख्यातो भुवि भविष्यति ।।
नाम्ना कुण्डेश्वरो यस्मात्सर्वसंपत्करः सदा ।। ३८ ।।
कुण्डेश्वरमनादिं तु भक्त्या पश्यति यो नरः ।।
सोऽश्वमेधसहस्रस्य फलं प्राप्स्यति नान्यथा ।। ३९ ।।
तस्य दानफलं सर्वं सर्वतीर्थफलं सदा ।।
लिंगं कुण्डेश्वरं यस्तु भक्त्या संपूजयिष्यति।।5.2.40.४०।।
दशानामश्वमेधानामग्निष्टोमशतस्य च।।
स्पर्शनात्फलमाप्नोति कुण्डेश्वरस्य सर्वदा।।४१।।
प्रातः पश्यंति ये भक्त्या कृत्वा नियमपूर्वकम्।।
सिद्धिं सुकामिकीं हृष्टाः संप्राप्स्यंति न संशयः ।।४२।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
कुण्डेश्वरस्य देवस्य शृणु लुंपेश्वरं परम्।।४३।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये कुंडेश्वरमाहात्म्यवर्णनंनाम चत्वारिंशो ऽध्यायः ।। ४० ।।