स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ५७

।। ईश्वर उवाच ।। ।।
सप्तपंचाशतं विद्धि घंटेश्वरमथो शृणु ।।
यस्य दर्शनमात्रेण कामावाप्तिश्च जायते।। १ ।।
घंटोनाम गणश्रेष्ठो बभूव मम वल्लभः ।।
चाक्षुषस्य मनोः काले कौतुकार्थं यदृच्छया ।।
प्रस्थितो ब्रह्मसदनं द्रष्टुं ब्रह्माणमव्ययम्।।२।।
अथायान्तं समालोक्य गन्धर्वं गीतकोविदम्।।
चित्रसेनं गणश्रेष्ठः पप्रच्छ कुशलं मुदा।।३।।
मया तत्रैव गन्तव्यं सदने परमेष्ठिनः।.
गीतैराराधयिष्यामि ब्रह्माणं जगतां पतिम्।।४।।
चित्रसेनोऽथ तं देवि प्रत्युक्तो घंटमब्रवीत्।।
पद्मयोनिः सुरैः सार्धं गुह्यं मन्त्रमचीकरत् ।। ५ ।।
एतच्छ्रुत्वा गणो घंटस्तस्थौ विस्मितमानसः ।।
मूहूर्तं चिंतयामास प्रतिहारनिवारितः ।। ६ ।।
हित्वा स्वामिनमीशानं द्रष्टुं ब्रह्माणमागतः ।।
प्रवेशोपि न लभ्येत प्रसादो दूरतः स्थितः ।। ७।।
एवं चिंतयतस्तस्य साग्रः संवत्सरो गतः ।।
घंटस्य ब्रह्मणो द्वारि प्रवेशो देवि नाभवत् ।। ८ ।।
निर्गच्छतमथालोक्य वीणाहस्तं समुत्सुकम् ।।
नारदं स गणश्रेष्ठः पद्मयोनिं गृहोदरात् ।। ९ ।।
प्रोक्तो घंटेन सहसा मां निवेदय नारद ।।
गणोऽहं गीततत्त्वज्ञो महादेवस्य वल्लभः ।। 5.2.57.१० ।।
दर्शनार्थं समायातो ब्रह्मणः परमेष्ठिनः ।।
घंटस्य वचनं श्रुत्वा प्रीतिमानभवन्मुनिः ।।
नारदः प्रत्युवाचेदं समाश्वास्य सकैतवम् ।। ११ ।।
अहं बृहस्पतेः पार्श्वे प्रेषितोऽस्मि गणाधिप ।।
किंचित्कार्यांतरं प्रष्टुं ब्रह्मणा लोककर्तृणा ।।
आयास्यामि क्षणेनैव तावत्कालं प्रतीक्ष्यताम् ।। १२ ।।
इत्युक्त्वा नारदो देवि मम पार्श्वमुपागतः।।
वृत्तांतं कथयामास घंटस्य मुनिसत्तमः।।१३।।
ईदृशो दुर्ल्लभो भृत्यो घंटेन सदृशः प्रभो ।।
यस्त्वां त्यक्त्वा गणो देव सेवायै परमेष्ठिनः।।
स्थितः संवत्सरं साग्रं प्रवेशं न च लब्धवान्।।१४
तच्छ्रुत्वा वचनं तस्य नारदस्य मुनेस्तदा।।
मया शप्तस्तु कोपेन पत घण्ट महीतले।।१५।।
मां त्यक्त्वा हि गतोन्यत्र सेवार्थं परवेश्मनि।।
मयेत्युक्ते च वचने ब्रह्माद्वारि स्थितोऽपि सन्।। १६।।
पतितो भूतले घंटो देवदारुवनांतिके ।।
आत्मानं पतितं दृष्ट्वा भूमौ घंटेन पार्वति ।। १७ ।।
प्रोक्तं शोकोत्तरेणैव वचनं गद्गदाक्षरम् ।।
सेवार्थं याति योऽन्यत्र परिहृत्य स्वकं प्रभुम् ।। १८ ।।
स याति नरकं घोरमपकीर्तिं च विंदति ।।
नारदेन मम त्वद्य वंचितस्य द्वयं गतम् ।।
यस्मात्स्वामी न मे ब्रह्मा न च देवो महेश्वरः ।। १९ ।।
एवं विलपतस्तस्य नारदो मुनिसत्तमः ।।
आजगाम तमुद्देशं यत्र घंटो व्यवस्थितः ।। 5.2.57.२० ।।
देवदारुवने देवि दर्शनार्थं तपस्विनाम् ।।
घंटेन नारदो दृष्टो भीतेनाकुलचेतसा ।। २१ ।।
अवस्थामीदृशीं कृत्वा किमन्यन्मे करिष्यति ।।
एवं तं चिंतयानं तु नारदो वाक्यमब्रवीत् ।। २२ ।।
गणाध्यक्ष न ते कार्यो मन्युः पुण्यविनाशनः ।।
कीर्त्यर्थं पतितो घंट प्रायश्चित्तार्थमेव च ।। २३ ।।
प्रायश्चित्तविशुद्धात्मा प्रभुं प्राप्स्यसि शंकरम् ।।
तस्माद्गच्छ ममादेशान्महाकालवनं शुभम् ।। २४ ।।
रेवंतेश्वर पूर्वे तु विद्यते लिंगमुत्तमम् ।।
सर्वसंपत्करं दिव्यं त्वन्नाम्ना ख्यातिमेष्यति ।। २५ ।।
इत्युक्तो नारदेनैव जैगीषव्यः समागतः ।।
तेनापि कथितं सर्वं सत्यमुक्तमनेन वै ।। २६ ।।
नारदेन गणाध्यक्ष कीर्त्तिस्ते भविताऽक्षया ।।
कश्यपेन मृकण्डेन कण्वेन जमदग्निना ।।२७।।
अत्रिणा भृगुणा देवि लोमशेन सुरर्षिणा ।।
प्रोक्तो घंटो गतः शीघ्रं महाकालवनं शुभम् ।। २८ ।।
यत्र घंटानिनादेन युध्यतो मम संयुगे ।।
पापक्षयकरं देवि संभूतं लिंगमुत्तमम् ।।
दृष्टं तत्र गणेनैव लिंगं तेजोमयं शुभम् ।। २९ ।।
दर्शनात्तस्य लिंगस्य भूयो घंटो गणोऽभवत् ।।
लक्ष्म्या कांत्या समायुक्तः सहस्रकिरणाकृतिः ।। 5.2.57.३० ।।
घण्टोभिनंदितोऽत्यर्थं विमानैः सार्वकामिकैः ।।
मम पार्श्वं समायातो ममातीव प्रियोऽभवत् ।। ३१ ।।
ये पश्यन्ति विशालाक्षि देवं घण्डेश्वरं शिवम् ।।
ते घण्टाभिर्नादितास्तु विमानैः सार्वकामिकैः ।।३२।।
यास्यंति सुचिरं कालं मम लोकं सनातनम् ।।
घण्टेश्वरं परं लिंगं नाख्येयं यस्यकस्यचित् ।। ३३ ।।
व्याधितो यदि वा दीनो दुःखितो वा भवेन्नरः ।।
यः पश्यति प्रसंगेन देवं घण्टेश्वरं प्रिये ।।
दीप्तकांचनवर्णाभैर्विमानैः सार्वकामिकैः ।। ३४ ।।
गंधर्वाप्सरसां मध्ये स्वर्गे मोदति मानवः ।।
ईप्सिताँल्लभते कामान्वीणावेणुविनोदितः ।। ३५ ।।
ततः स्वर्गात्परिभ्रष्टः सर्वैश्वर्यसमन्वितः ।।
हिरण्यधान्यसंपूर्णे समृद्धे जायते कुले ।।
राजा वा राजतुल्यो वा जंबूद्वीपपतिर्भवेत् ।। ३६ ।।
यः पूजयति देवेशं श्रद्धया परया युतः ।।
स याति परमं स्थानमपुनर्भवकारणम् ।। ३७ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
घण्टेश्वरस्य देवस्य प्रयागेशमथो शृणु ।। ३८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये घण्टेश्वर माहात्म्यवर्णनंनाम सप्तपंचाशत्तमोऽध्यायः ।। ५७ ।।