स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ६६

।। ईश्वर उवाच ।। ।।
षट्षष्टितमकं विद्धि देवं जल्पेश्वरं प्रिये ।।
यस्य दर्शनमात्रेण महापापं शमं व्रजेत् ।। १ ।।
जल्पोनाम महादेवि राजाभूद्भुवि विश्रुतः ।।
सदा जल्परतो नित्यं जल्प वादप्रवर्तकः ।।२ ।।
विकल्पबहुलो नित्यं संसारगतिचिंतकः ।।
सुबाहुप्रमुखाः पंच पुत्रा जाता महाबलाः ।।३।।
तस्य राज्ञो वरारोहे मूर्ताः पंचाग्नयो यथा ।।
सुबाहुः शत्रुमर्द्दी च जयो विजय एव च ।।
विक्रांतः पंचमः पुत्रः सर्वे शस्त्रास्त्रपारगाः ।।।४।
पित्रा जल्पेन ते राज्ञा पृथग्राज्ये प्रतिष्ठिताः ।।
पृथक्पुत्रा हि ते सर्वे पृथग्देशाधिपाः कृताः ।।५।।
प्राच्यां सुबाहुर्नृपतिर्याम्यां वै शत्रुमर्दनः ।।
पश्चिमायां जयो राजा उत्तरे विजयो नृपः ।। ६ ।।
मध्ये विक्रांतसंज्ञस्तु स्वपदे विनियोजितः ।।
व्यवस्थामीदृशीं कृत्वा स्वयमेव वनं ययौ ।। ७ ।।
बभूवुर्मंत्रिणस्तेषां हिता वंशक्रमागताः ।।
बुभुजुः स्वस्वराज्यानि मंत्रिभिः सहितास्तदा ।। ८ ।।
विक्रांतस्य च यो मंत्री विकल्पैकपरायणः ।।
तेनोक्तं विजने देशे विक्रांतस्य महीभृतः ।। ९ ।।
यस्यैषा पृथिवी कृत्स्ना स समर्थः प्रकीर्तितः ।।
उद्यमेन पदं लब्धं वासवेन महात्मना ।। 5.2.66.१० ।।
त्रिदशैश्चामृतं लब्धमुद्यमेन महीपते ।। ११ ।।
हीनोद्यमा मानवा ये क्षत्त्रियाश्च विशेषतः ।।
ते हास्यास्पदतां यांति हीनवीर्या दिनेदिने ।। १२ ।।
स्नेहं च कुरुते भ्राता राज्यलुब्धोऽर्थकारणात् ।।
अर्थवीर्येण तेनैव संतोषं कुरुते नृपः।।
क्रियते न किमर्थं तु भूप मंत्रपरिग्रहः।।
भुज्यते सकलं राज्यं मया ते मंत्रिणा बलात्।।१४।।
परोऽपि हितवान्बन्धुर्बन्धुरप्यहितः परः ।।
अहितो देहजो व्याधिर्हितमारण्यमौषधम् ।। १५ ।।
भूमिमेते निर्गिलंति सर्पा बिलशयानिव ।।
राजानमविरोद्धारं ब्राह्मणं चाप्रवासिनम् ।। १६ ।।
मायया मोहितं सर्वं को वा कस्य च बांधवः ।।
उद्यमः क्रियतां तस्माद्भ्रातॄणां निग्रहे द्रुतम् ।। १७ ।।
भ्रातृभिर्भ्रातरः सर्वे निहता राज्यकारणात् ।।
धर्मं च शाश्वतं ज्ञात्वा निहताश्चासुराः सुरैः ।। १८ ।।
इति मंत्रिवचः श्रुत्वा स राजा विस्मयान्वितः ।।
हसित्वा प्रत्युवाचेदं ममायं शत्रुरागतः ।। १९ ।।
।। विक्रान्त उवाच ।। ।।
वयं च भ्रातरः पंच पृथिवीं कामयामहे ।।
अतुष्टाः पृथगैश्वर्यं कथं कृत्स्ना भविष्यति ।।5.2.66.२०।।
ज्येष्ठो भ्राता सुबाहुश्च द्वितीयः शत्रुमर्दनः ।।
जयश्च विजयश्चैव तेषां लघुरहं यतः ।। २१ ।।
।। मंत्र्युवाच।। ।।।
राज्ये स्थितं पूजयंति ज्येष्ठं पूजार्हणैर्वरैः ।।
कनिष्ठज्येष्ठता केयं राज्यं प्रार्थयतां नृणाम् ।। २२ ।।
तथेति च प्रतिज्ञाते विक्रांतेन महीभृता।।
स मंत्री कारयामास अभिचारविधिं तदा ।। २३ ।।
अथर्वणेन मंत्रेण पुरोधाः प्रचकार ह ।।
ज्ञातं पुरोहितैस्तेषां तेऽपि चक्रुः समाहिताः ।। २४ ।।
अथ कृत्या समुत्पन्ना पश्चात्कृत्याचतुष्टयम् ।।
सपुरोहितभृत्यांस्तानग्रसंस्तु समं तदा ।। २५।।
ततः समस्तलोकस्य विस्मयश्चाभवन्महान् ।।
यदैक कालं नेशुस्ते पृथक्पुरनिवासिनः ।।२६।।
ततः श्रुत्वा च निधनं पुत्राणां जल्पको नृपः ।।
वने वशिष्ठं पप्रच्छ किमेतद्भगवन्प्रभो ।। २७ ।।
तेनापि कथितं सर्वं वशिष्ठेन महात्मना ।।
दिव्यज्ञानेन वृत्तांतं विकल्पं चाकरोन्नृपः ।। २८ ।।
।। राजोवाच ।। ।।
निमित्तोऽहं विनाशस्य धिग्धि ग्जन्म मदीयकम् ।।
सार्द्धं त्वमात्यपुत्रैश्च मृतं ब्राह्मणपंचकम् ।। २९ ।।
मत्तोऽन्यः कः पापरतो भविष्यति महान्भुवि ।।
यदि जन्म मदीयं स्या न्न च जातु महीतले ।। 5.2.66.३० ।।
ततस्ते न विनश्येयुर्मम पुत्रपुरोहिताः ।।
धिग्राज्यं धिक्च मे जन्म भूभुजां च महाकुले ।। ३१ ।।
कारणत्वं गतो योऽहं विनाशस्य द्विजन्मनाम् ।।
कुर्वन्तः स्वामिनस्तेऽर्थं पुत्राणां मम याजकाः ।।
नाशं ययुर्न दुष्टास्ते दुष्टोऽहं नाशकारणे ।। ३२ ।।
इत्थमुद्विग्नहृदयः स जल्पः पृथिवीपतिः ।।
पप्रच्छ च पुनः प्रह्वो वशिष्ठं ज्ञानिनां वरम् ।। ३३ ।। ।।
।। राजोवाच ।। ।।
भगवन्ब्रूहि मे तीर्थमवियोगकरं सदा ।।
सद्यः पापहरं विप्र लिंगं वा कथय प्रभो ।। ३४ ।।
तस्य तद्वचनं श्रुत्वा जल्पस्य पृथिवीपतेः ।।
वशिष्ठः कथयामास दिव्यज्ञानेन पार्वति ।। ३५ ।।
गच्छ जल्प ममादेशान्महाकालवनोत्तमम् ।।
कृत्वा निः क्षत्रियां पृथ्वीं यत्र रामस्तपस्यति ।।
तत्र लिंगमनाद्यं च कुक्कुटेश्वरपश्चिमे ।। ३६ ।।
तदाराधय राजेंद्र जामदग्न्याश्रमे स्थितः ।।
वशिष्ठस्य वचः श्रुत्वा जल्पोऽसौ पृथिवीपतिः ।। ३७ ।।
देवदारुवनं त्यक्त्वा महाकालवनं गतः ।।
ददर्श तत्र तल्लिंगमनाद्यं देवसंस्तुतम्।।
पूजयामास विधिवत्परमेण समाधिना ।। ३८ ।।
तत्र वाणी समुत्पन्ना लिंगमध्याद्वरानने ।।
न त्वं पापसमाचारो न त्वं मरणकारणम् ।।
पुत्राणां नृपविप्राणामदृष्टं तत्र कारणम् ।। ३९ ।।
विपाकेन स्वकीयेन गता वैवस्वतं पुरम् ।।
मा शोकं कुरु राजेंद्र गहना कर्मणो गतिः ।। 5.2.66.४० ।।
अनेन शुद्धभावेन तुष्टोऽहं नृपसत्तम ।।
यदभीष्टं वरं ब्रूहि तत्ते दास्यामि नान्यथा ।।४१।।
।। राजोवाच ।। ।।
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ।।
संसारसागरे घोरे मा भवेन्मम जन्म च ।। ४२ ।।
अक्षयां देहि मे कीर्त्तिं नाम्ना मे विश्रुतो भुवि ।।
अयं जल्पेश्वरो देवो जल्पेनाराधितो विभुः ।। ४३ ।।
वदंतु त्रिदशाः सर्वे एष मे दुर्लभो वरः ।।
ये त्वां पश्यंति मनुजा मन्नाम्ना ख्यातिमागतम्।।
तेषां वियोगो मा भूयात्पुत्रतो धनतोऽपि वा ।। ।। ४४ ।।
न संसारभयं तेषां दस्युतो नैव राजतः ।।
न भूतग्रहरोगेभ्यो भयमस्तु कदाचन ।। ४५ ।।
शिवमस्तु सदा तेषां येषां त्वं दर्शनं गतः ।।
ते धन्या मानुषे लोके ये त्वां शरणमागताः ।। ४६ ।।
सर्वतीर्थाभिषेकैस्तु यत्पुण्यं प्राप्यते नरैः ।।
तत्सर्वमधिकं देव लभ्यते तव दर्शनात ।। ।। ४७ ।।
तावत्पतंति संसारे घोरे दुःखशताकुले ।।
यावन्न दृश्यते देवः संसारार्णवतारकः ।। ४८ ।।
यदा पापक्षयः पुंसां तदा ते दर्शनं भवेत् ।।
महता सुकृतेनैव नाल्पेन तपसा प्रभो ।। ४९ ।।
एवं भविष्यतीत्युक्त्वा तेन लिंगेन पार्वति ।।
पश्यतां सर्वदेवानां स्वतनौ संनिवेशितः ।। 5.2.66.५० ।।
तस्मिँल्लिंगे लयं प्राप्ते नृपे जल्पे वरानने ।।
देवो जल्पेश्वरः ख्यातो देवैरुक्तो महीतले ।।
भुक्तिदो मुक्तिदश्चैव सदाभीष्टकरः स्मृतः ।। ५१ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
जल्पेश्वरस्य देवस्य शृणु केदारसंज्ञकम् ।। ५२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये जल्पेश्वरमाहात्म्यवर्णनंनाम षदषष्टितमोऽध्यायः ।। ६६ ।।