स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २०८

अध्यायः २०८
श्रीमार्कण्डेय उवाच -
भूमिपाल ततो गच्छेत्तीर्थं परमशोभनम् ।
विख्यातं त्रिषु लोकेषु पित्ःणामृणमोचनम् ॥ २०८.१ ॥
तत्र स्नात्वा विधानेन संतर्प्य पितृदेवताः ।
मनुष्यश्च नृपश्रेष्ठ दानं दत्त्वानृणो भवेत् ॥ २०८.२ ॥
इच्छन्ति पितरः सर्वे स्वार्थहेतोः सुतं यतः ।
पुन्नाम्नो नरकात्पुत्रोऽस्मानयं मोचयिष्यति ॥ २०८.३ ॥
पिण्डदानं जलं तात ऋणमुत्तममुच्यते ।
पित्ःणां तद्धि वै प्रोक्तमृणं दैवमतः परम् ॥ २०८.४ ॥
अग्निहोत्रं तथा यज्ञाः पशुबन्धास्तथेष्टयः ।
इति देवर्णं प्रोक्तं शृणु मानुष्यकं ततः ॥ २०८.५ ॥
ब्राह्मणेषु च तीर्थेषु देवायतनकर्मसु ।
प्रतिश्रुत्य ददेत्तत्तद्व्यवहारः कृतो यथा ॥ २०८.६ ॥
ऋणत्रयमिदं प्रोक्तं पुत्राणां धर्मनन्दन ।
सत्पुत्रास्ते तु राजेन्द्र स्नाता य ऋणमोचने ॥ २०८.७ ॥
ऋणत्रयाद्विमुच्यन्ते ह्यपुत्राः पुत्रिणस्तथा ।
तस्मात्तीर्थवरं प्राप्य पुत्रेण नियतात्मना ।
पितृभ्यस्तर्पणं कार्यं पिण्डदानं विशेषतः ॥ २०८.८ ॥
तत्र तीर्थे हुतं दत्तं गुरवस्तोषिता यदि ।
मृतानां सप्त जन्मानि फलमक्षयमश्नुते ॥ २०८.९ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऋणमोचनतीर्थमाहात्म्यवर्णनं नामाष्टोत्तरद्विशततमोऽध्यायः ॥