स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १२९

॥ सूत उवाच ॥
तथान्योऽपि च तत्रास्ति याज्ञवल्क्यसमुद्रवः ॥
आश्रमो लोक विख्यातो मूर्खाणामपि सिद्धिदः ॥ १ ॥
यत्र तप्त्वा तपस्तीव्रं याज्ञवल्क्येन धीमता ॥
संप्राप्ता निखिला वेदा गुरुणाऽपहृताश्च ये ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
कोऽसौ गुरुरभूत्तस्य याज्ञवल्क्यस्य धीमतः ॥
पाठयित्वा पुनर्येन हृता वेदा महात्मना ॥ ३ ॥
किमर्थं च समाचक्ष्व सूतपुत्रात्र विस्तरात्॥
कौतुकं परमं जातं सर्वेषां नो द्विजन्मनाम् ॥ ४ ॥
॥ सूत उवाच ॥ ॥
आसीद्ब्राह्मणशार्दूलः शाकल्य इति विश्रुतः॥
भार्गवान्वयसंभूतो वेद वेदांगपारगः ॥ ५ ॥
बृहत्कल्पे पुरा विप्रा वर्धमाने पुरोत्तमे ॥
बहुशिष्यसमायुक्तो वेदाध्ययनतत्परः ॥ ६ ॥
स सदा प्रातरुत्थाय विद्यादानं प्रयच्छति ।
शिष्येभ्यश्चानुरूपेभ्यः प्रसादाद्विजसत्तमाः ॥ ७ ॥
चकार स तदा विप्राः पौरोहित्यं महीपतेः ॥
सूर्यवंशप्रसूतस्य सुप्रियस्य महात्मनः ॥ ॥ ८ ॥
स तस्य धर्मकृत्यानि सर्वाण्येव दिनेदिने ॥
कृत्वा स्वगृहमभ्येति पूजितस्तेन भूभुजा ॥ ९ ॥
एकं शिष्यं समारोप्य शांत्यर्थं तस्य भूपतेः ॥
कथयित्वा प्रमाणं च विधानं होमसंभवम् ॥ ६.१२९.१० ॥
शिष्योऽपि सकलं कृत्वा तत्कर्म सुसमाहितः ॥
आशीर्वादं प्रदत्त्वा च भूपतेर्गृहमेति च ॥ ११ ॥
एवं प्रकुर्वतस्तस्य शाकल्यस्य महात्मनः ॥
पौरोहित्यं गतः कालः कियन्मात्रो द्विजोत्तमाः ॥ १२ ।
तदा वैवाहिके काले शप्तो यः शंभुना स्वयम् ॥
सुनिंद्यां विकृतिं दृष्ट्वा तस्य वेद्यां गतस्य च ॥ १३ ॥
अथ तं योजयामास शांत्यर्थं नृपमंदिरे ॥
याज्ञवल्क्यं स शाकल्यः प्रतिपद्यागतं तदा ॥ १४ ॥
सोऽपि तारुण्यगर्वेण वेश्याकरजविक्षतः ॥
सर्वांगेषु सुनिर्लज्जः प्रकटांगो जगाम वै ॥ १५ ॥
ततश्च शांतिकं कृत्वा जपांते भूपतिं च तम् ॥
शांतोदकप्रदानाय हस्यमानो जनैर्ययौ ॥ १६ ॥
पार्थिवोऽपि च तं दृष्ट्वा तादृग्रूपं विटं द्विजम् ॥
नाशीर्जग्राह तेनोक्तां वाक्यमेतदुवाच ह ॥ १७ ।
उच्छिष्टोऽहं द्विजश्रेष्ठ शय्यारूढो व्यवस्थितः ।
अत्र शालोद्भवे स्तंभे तस्मादेतज्जलं क्षिप ॥ १८ ॥
सोऽपि सावज्ञमाज्ञाय तं भूपं कुपिताननः ॥
तं च स्तंभं समुद्दिश्य ध्यात्वा तद्ब्रह्म शाश्वतम् ॥ १९ ॥
द्यां त्वमालिख्य इत्येव प्रोक्त्वा मंत्रं च याजुषम्॥ (यां त्वमालिख्य- पाठभेदः)
प्राक्षिपच्छांतिकं तोयं तस्य मूर्धनि सत्वरम्॥ ६.१२९.२० ॥
ततः स पतिते तोये स्तंभः पल्लवशोभितः ॥
तत्क्षणादेव संजज्ञे फल पुष्पैर्विराजितः ॥ २१ ॥
तं दृष्ट्वा पार्थिवः सोऽथ विस्मयोत्फुल्ललोचनः ॥
पश्चात्तापं विधायाथ वाक्यमेतदुवाच ह ॥ २२ ॥
अभिषेकं द्विजश्रेष्ठ ममापि त्वं प्रयच्छ भोः ॥
अनेनैव तु मन्त्रेण शुचित्वं मे व्यवस्थितम् ॥ २३ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
ममाभिषेकदानस्य त्वमनर्होऽसि पार्थिव ॥
तस्माद्यास्याम्यहं सद्यो यत्रस्थः स गुरुर्मम ॥ २४ ॥
॥ राजोवाच ॥ ॥
तव दास्यामि वस्त्राणि वाहनानि वसूनि च ॥
तस्माद्यच्छाभिषेकं मे मन्त्रेणाऽनेन सांप्रतम् ॥ २५ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
न होमांतं विना मन्त्रः स्फुरते पार्थिवोत्तम ॥
अभिषेकविधौ प्रोक्तो यः पूर्वं पद्मयोनिना ॥
तस्मान्नाहं करिष्यामि तव यद्वै हृदि स्थितम्॥ २६ ॥
इत्युक्त्वा वचनं भूपं याज्ञवल्क्यः स वै द्विजः ॥
जगाम स्वगृहं तूर्णं निस्पृहत्वं समाश्रितः ॥ २७
अपरेऽह्नि समायातं शाकल्यमथ भूपतिः ॥
प्रोवाच प्रांजलिर्भूत्वा विनयावनतः स्थितः ॥ २८ ॥
यस्त्वया प्रेषितः कल्य शिष्यो ब्राह्मणसत्तमः ॥
शांत्यर्थं प्रेषणीयश्च भूयोऽप्येवं गृहे मम ॥ २९ ॥
बाढमित्येव स प्रोक्त्वा ततो गत्वा निजालयम् ॥
याज्ञवल्क्यं समाहूय ततः प्रोवाच सादरम् ॥ ६.१२९.३० ॥
अद्यापि त्वं नरेंद्रस्य शांत्यर्थं भवने व्रज ॥
विशेषात्पार्थिवेंद्रेण समाहूतोऽसि पुत्रक ॥ ३१ ॥ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
नाहं तात गमिष्यामि शांत्यर्थं तस्य मंदिरे ॥
अवलेपेन युक्तस्य शुद्ध्या विरहितस्य च ॥ ३२ ॥
मया तस्याभिषेकार्थं सलिलं चोद्यतं च यत् ॥
सलिलं तेन तत्काष्ठे समादिष्टं कुबुद्धिना ॥ ३३ ॥
ततो मयापि तत्रैव तत्क्षणात्सलिलं च यत् ॥
तस्मिन्काष्ठे परिक्षिप्तं नीतं वृद्धिं च तत्क्षणात् ॥ ३४ ॥
॥ शाकल्य उवाच ॥ ॥
अत एव विशेषेण समाहूतोऽसि पुत्रक ॥
तस्मात्तत्र द्रुतं गच्छ नावज्ञेया महीभुजः ॥ ३५ ॥
अपमानाद्भवेन्मानं पार्थिवानामसंशयम् ॥
यः करोति पुनस्तत्र मानं न स भवेत्प्रियः ॥ ३६ ॥
कोपप्रसाद वस्तूनि विचिन्वंतीह ये सदा ॥
आरोहंति शनैर्भृत्या धुन्वंतमपि पार्थिवम् ॥ ३७ ॥
समौ मानापमानौ च चित्तज्ञः कालवित्तथा ॥
सर्वंसहः क्षमी विज्ञः स भवेद्राजवल्लभः ॥ ३८ ॥
अपमानमनादृत्य तस्माद्गच्छ नृपालयम् ॥
ममाज्ञापि न लंघ्या त एष धर्मः सनातनः ॥ ३९ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
आज्ञाभंगो ध्रुवं भावी परिपाटीव्यतिक्रमात् ॥
करोषि यदि शिष्याणां ये त्वया तत्र योजिताः ॥ ६.१२९.४० ॥
तस्माद्यदि बलान्मां त्वं योजयिष्यसि तं प्रति ॥
त्वां त्यक्त्वाऽन्यत्र यास्यामि यतः प्रोक्तं महर्षिभिः ॥ ४१ ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ॥
उत्पथे वर्तमानस्य परित्यागो विधीयते ॥ ४२ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा शाकल्यः क्रोधमूर्छितः ॥
ततः प्रोवाच तं भूयो भर्त्समानो मुहुर्मुहुः ॥ ४३ ॥
एकमप्यक्षरं यत्र गुरुः शिष्ये निवेदयेत् ॥
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत् ॥ ४४ ॥
तस्माद्गच्छ द्रुतं दत्त्वा मदध्ययनमालयम् ॥
त्यक्त्वा विद्यां मया दत्तां नो चेच्छप्स्याम्यहं तव ॥ ४५ ॥
एवमुक्त्वाभिमंत्र्याथ नादबिंदुसमुद्भवैः ॥
मंत्रैराथर्वणैस्तोयं पानार्थं चार्पयत्ततः ॥ ४६ ॥
सोऽपिबत्तत्क्षणात्तोयं तत्पीत्वा व्याकुलेंद्रियः ॥
उद्गिरद्वांतिधर्मेण तत्त्वविद्याविमिश्रितम् ॥ ४७ ॥
ततः प्रोवाच तं भूयः शाकल्यं कुपिताननः ॥
एकमप्यक्षरं नास्ति तावकीयं ममोदरे ॥ ४८ ॥
तस्माच्छिष्योऽस्मि ते नाहं न च मे त्वं गुरुः स्थितः ॥
सांप्रतं स्वेच्छयाऽन्यत्र प्रयास्यामि करोषि किम् ॥ ४९ ॥
एवमुक्त्वाऽथ निर्गत्य तस्मात्स्थानाच्चिरंतनात् ॥
पप्रच्छ मानवान्भूयः सिद्धिक्षेत्राणि चासकृत् ॥ ६.१२९.५० ॥
ततस्तस्य समादिष्टं क्षेत्रमेतन्मनीषिभिः ॥
सिद्धिदं सर्वजंतूनां न वृथा स्यात्कथंचन ॥ ५१ ॥
आस्तां तावत्तपस्तप्त्वा व्रतं नियममेव वा ॥
हाटकेश्वरजे क्षेत्रे सिद्धिः संवसतोऽपि च ॥ ५२ ॥
येनयेन च भावेन तत्र क्षेत्रे वसेज्जनः ॥
तस्यानुरूपिणी सिद्धिः शुभा स्याद्यदि वाऽशुभा ॥ ५३ ॥
तच्छ्रुत्वा च द्रुतं प्राप्य क्षेत्रमेतद्द्विजोत्तमाः ॥
भानुमाराधयामास स्थापयित्वा ततः परम् ॥ ५४ ॥
नियतो नियताहारो ब्रह्मचर्यपरायणः ॥
गायत्रं न्यासमासाद्य निर्विकल्पेन चेतसा ॥ ५५ ॥
ततश्च भगवांस्तुष्टो वर्षांते तमुवाच सः ॥
दर्शने तस्य संस्थित्वा तेजः संयम्य दारुणम् ॥ ५६ ॥
याज्ञवल्क्य वरं ब्रूहि यत्ते मनसि रोचते ॥
सर्वमेव प्रदास्यामि नादेयं विद्यते त्वयि ॥ ५७ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
यदि तुष्टः सुरश्रेष्ठ वेदाध्ययनसंभवे ॥
गुरुर्भव ममाद्यैव ममैतद्वांछितं हृदि । ५८ ॥
॥ भास्कर उवाच ॥ ॥
अहं तव कृपाविष्टस्तेजः संहृत्य तत्परम् ॥
ततश्चात्र समायातस्तेन नो दह्यसे द्विज ॥ ५९ ॥
तस्मादत्रैव कुंडे च मंत्रान्सारस्वताञ्छुभान् ॥
वेदोक्तान्क्षेपयिष्यामि स्वयमेव द्विजोत्तम ॥ ॥ ६.१२९.६० ॥
तत्र स्नात्वा शुचिर्भूत्वा यत्किंचिद्वेदसंभवम् ॥
पठिष्यसि सकृत्तत्ते कंठस्थं संभविष्यति ॥ ६१ ॥
तत्त्वार्थं प्रकटं कृत्स्नं विदितं ते भविष्यति ॥
मत्प्रसादान्न संदेहः सत्यमेतन्मयोदितम् ॥ ६२ ॥
अद्यादि मानवः प्रातः स्नात्वा त्वत्र ह्रदे च यः ॥
सावित्रेण च सूक्तेन मां दृष्ट्वा प्रपठिष्यति ॥
तस्मै तत्स्यादसंदिग्धं यत्तवोक्तं मया द्विज ॥ ६३ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
एवं भवतु देवेश यत्त्वयोक्तं वचोऽखिलम् ॥
परं मम वचोऽन्यच्च तच्छृणुष्व ब्रवीमि ते ॥ ६४ ॥
नाहं मनुष्यधर्माणमुपाध्यायं कथंचन ॥
करिष्यामि जगन्नाथ कृपां कुरु ममोपरि ॥ ६५ ॥
ततस्तस्या ददौ सूर्यो लघिमा नाम शोभनाम्॥
विद्यां हि तत्प्रभावाय सुतुष्टेनांतरात्मना ॥ ६६ ॥
ततस्तं प्राह कर्णांते ममाश्वानां प्रविश्य वै ॥
अभ्यासं कुरु विद्यानां वेदाध्ययनमाचर ॥ ६७ ॥
मन्मुखाद्ब्राह्मणश्रेष्ठ यद्येतत्तव वांछितम् ॥
न ते स्याद्येन दोषोऽयं मम रश्मिसमुद्भवः ॥ ६८ ॥
एवमुक्तः स तेनाथ वाजिकर्णं समाश्रितः ॥
लघुर्भूत्वाऽपठद्वेदान्भास्करस्य मुखात्ततः ॥ ६९ ॥
एवं सिद्धिं समापन्नो याज्ञवल्क्यो द्विजोत्तमाः ॥
कृत्वोपनिषदं चारु वेदार्थैः सकलैर्युतम् ॥ ६.१२९.७० ॥
जनकाय नरेंद्राय व्याख्याय च ततः परम् ॥
कात्यायनं सुतं प्राप्य वेदसूत्रस्य कारकम् ॥ ७१ ॥
त्यक्त्वा कलेवरं तत्र ब्रह्मद्वारि विनिर्मिते ॥
तत्तेजो ब्रह्मणो गात्रे योजयामास शक्तितः ॥ ७२ ॥
तस्य तीर्थे नरः स्नात्वा दृष्ट्वा तं च दिवाकरम् ॥
नादबिंदुं पठित्वा च तदग्रे मुक्तिमाप्नुयात् ॥ ७३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये याज्ञवल्क्याश्रममाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥ १२९ ॥ ॥ छ ॥