स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १५५

॥ सूत उवाच ॥ ॥
तथाऽन्ये तत्र तिष्ठंति वसवोऽष्टौ द्विजोत्तमाः॥
स्थानमेकं समाश्रित्य सर्वदैव प्रपूजिताः॥१॥
एकादश तथा रुद्रा आदित्या द्वादशैव तु ॥
देववैद्यौ तथा चान्यावश्विनौ तत्र संस्थितौ ॥२॥
देवतास्तत्र तिष्ठंति कोटिकोटिप्रनायकाः॥
एकैका ब्राह्मणश्रेष्ठाः कलिकालभयाकुलाः॥३॥
हाटकेश्वरजे क्षेत्रे यज्ञभागाप्तये सदा ॥
अष्टम्यां शुक्लपक्षे तु मधुमासे व्यवस्थिते ॥ ४ ॥
यस्तान्वसूञ्छुचिर्भूत्वा स्नात्वा धौतांबरो नरः ॥
तर्पयित्वा द्विजश्रेष्ठान्पश्चात्संपूजयेन्नरः ॥ ५ ॥
वसवस्त्वा कृण्वन्निति मन्त्रेणानेन भक्तितः ॥
नैवेद्यं च ततो दद्याद्वसवश्छंदसाविति ॥ ६ ॥
ततो धूपं सुगन्धं च यो यच्छति समाहितः ॥
वसवस्त्वां जेतु तथा मन्त्रमेतमुदीरयेत् ॥ ७ ॥
आरार्तिकं ततो भूयो यः करोति द्विजोत्तमाः ॥
वसवस्त्वां जेतु तथा श्रूयतां यत्फलं हि तत् ॥ ८ ॥
कन्याभिः कोटिभिर्यच्च पूजिताभिर्भवेत्फलम्॥
वसूनां चैव तत्सर्वमष्टभिस्तैः प्रपूजितैः ॥ ९॥
तथा ये द्वादशादित्यास्तस्मिन्क्षेत्रे व्यवस्थिताः ॥
तान्स्थाप्य पूजयित्वा च सप्तम्यामर्कवासरे ॥
सम्यक्छ्रद्धासमोपेतः पुष्पगन्धानुलेपनैः ॥ ६.१५५.१० ॥
पश्चात्तत्पुरतस्तेषां समस्तान्येकविंशतिः ॥
आदित्यव्रत संज्ञानि तस्य पुण्यफलं शृणु ॥११॥
कोटिद्वादशकं यस्तु सूर्याणां पूजयेन्नरः ॥
तत्फलं प्राप्नुयात्कृत्स्नं पूजयन्नात्र संशयः ॥ १२ ॥
तथैकादशरुद्रा ये तत्र क्षेत्रे द्विजोत्तमाः ॥
एकस्थाने स्थितास्तेषां पूजया श्रूयतां फलम् ॥ १३ ॥
यस्तान्पूजयते भक्त्या स्थापयित्वा सुरेश्वरान्॥
चैत्रशुक्लचतुर्दश्यां जपेच्च शतरुद्रियम् ॥ १४ ॥
एकादशप्रमाणेन कोटयस्तेन पूजिताः ॥
भवंति नात्र संदेहः सत्यमेतन्मयोदितम् ॥ १५ ॥
यथा तावश्विनौ तत्र देववैद्यौ व्यवस्थितौ ॥
आश्विने मासि चाश्विन्यां पूर्णिमायां तथा तिथौ ॥ १६ ॥
यस्तौ संपूजयित्वा तु ह्यश्विनीसूक्तमुच्चरेत् ।
द्विकोटि गुणितं पुण्यं सम्यक्तेन समाप्यते । १७ ।
एतद्वः सर्वमाख्यातं माहात्म्यं वसुसंभवम् ॥
आदित्यानां च रुद्राणामश्विनोर्द्विजसत्तमाः ॥ १९८ ॥ ॥
॥ सूत उवाच ॥ ॥
तथाऽन्योऽपि च तत्रास्ति याज्ञवल्क्यप्रतिष्ठितः ॥
पुष्पादित्य इति ख्यातः सर्वकामप्रदो नृणाम् ॥ १९ ॥
यो यं काममभिध्याय तं पूजयति मानवः ॥
स तं कृत्स्नमवाप्नोति यद्यपि स्यात्सुदुर्लभम्॥६.१५५.२०॥।
अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् ॥
बहुवैरोऽरिनाशं च विद्यार्थी शास्त्रविद्भवेत्॥ २१ ॥
सप्तम्यामर्कवारेण यस्तं पश्यति मानवः ॥
मुच्येद्दिनोद्भवात्पापान्महतोऽपिद्विजोत्तमाः ॥ २२ ॥
पूजया हि प्रणश्येत पापं वर्षसमुद्भवम्॥
नाशं याति न संदेहस्तमः सूर्योदये यथा ॥ २३ ॥
अष्टोत्तरशतं चैव यः करोति प्रदक्षिणाम् ॥
फलहस्तः स मुच्येत ह्याजन्ममरणादघात् ॥ २४ ॥
प्रदक्षिणां प्रकुवाणो यो यं काममभीप्सति ॥
स तमाप्नोत्यसंदिग्धं निष्कामो मोक्षमाप्नुयात् ॥ २५ ॥
संक्रांतौ सूर्यवारेण यः कुर्यात्स्नापनक्रियाम्॥
अभीष्टं सिध्यते तस्य मेषे वा यदि वा तुले ॥ २६ ॥
तस्मिन्सर्वप्रयत्नेन वांछद्भिरीप्सितं फलम् ॥
स देवो वीक्षणीयश्च पूजनीयो विशेषतः ॥ २७ ॥
यद्देवैः सकलैर्दृष्टैश्चमत्कारपुरोद्भवैः ॥
फलमाप्नोति तद्दृष्टौ तेन तत्फलमाप्नुयात् ॥ २८ ॥
। ऋषय ऊचुः ॥ ॥
याज्ञवल्क्येन देवोऽसौ यदि तावत्प्रतिष्ठितः ॥
पुष्पादित्यः कथं प्रोक्त एतन्नो वक्तुमर्हसि ॥ २९ ॥
॥ सूत उवाच ॥ ॥
अत्र वः कीर्तयिष्यामि चेतिहासं पुरातनम् ॥
पुष्पादित्यो यथा जातो याज्ञवल्क्यप्रतिष्ठितः॥६.१५५.३॥।
अस्त्यत्र मेदिनीपृष्ठे सुपुरं वैदिशं महत् ॥
नानासौध समाकीर्णं वरप्राकारशोभितम्॥ ३१ ॥
उद्यानशतसंकीर्णं तडागैरुपशोभितम् ॥
तत्रासीत्पार्थिवश्रेष्ठश्चित्रवर्मेति विश्रुतः ॥ ३२ ॥
न दुर्भिक्षं न च व्याधिर्न च चौरकृतं भयम् ॥
तस्मिञ्छासति धर्मज्ञे सततं धर्मवत्सले ॥ ३३ ॥
तत्पुरे क्षत्रियो जात्या मणिभद्र इति स्मृतः ॥
स वै धनेन संयुक्तः पितृपैतामहेन च ॥ ३४ ॥
तत्पुरं सकलं चैव स राजा मंत्रिभिः सह ॥
कुसीदाहृतवित्तेन वर्तते कार्य उत्थिते ॥ ३५ ॥
स च कायेन कुब्जः स्याज्जराव्याप्तस्तथैव च ॥
वलीपलितगात्रश्च ह्यत्यंतं च विरूपधृक् ॥३६॥
तथा चैव कुकीनाशः प्रभूतेऽपि धने सति ॥
न ददाति स पापात्मा कस्यचित्किञ्चिदेव हि ॥
न भक्षयति तृष्णार्तः स्वयमेव कथंचन ॥ ३७ ॥
एवंविधोऽपि सोऽतीवविरूपोऽपि सुदुर्मतिः ॥
प्रार्थयामास वै कन्यां स्वजात्यां वीक्ष्य सुंदरीम्॥ ३८ ॥
बिंबोष्ठीं चारुदेहां च मुष्टिग्राह्यकृशोदरीम्॥
पद्मपत्रविशालाक्षीं गूढगुल्फां सुकेशिकाम् ॥ ३९ ॥
रक्तां सप्तसु गात्रेषु त्रिगंभीरां तथा पुनः ॥
सर्वलक्षणसंपूर्णां जातीयां सुमनोरमाम् ॥ ६.१५५.४० ॥
क्षत्रियाद्द्विजशार्दूला दरिद्रेण च पीडितात् ॥
तेन तत्सकलं वृत्तं भार्यायै संनिवेदितम् ॥ ४१ ॥
तच्छ्रुत्वा सा च दुःखेन मूर्च्छिता संबभूव ह ॥
संबोधिता ततस्तेन वाक्यैर्दृष्टांतसंभवैः ॥ ४२ ॥
॥ क्षत्रिय उवाच ॥ ॥
न सा विद्या न तच्छिल्पं न तत्कार्यं न सा कला ॥
अर्थार्थिभिर्न तज्ज्ञानं धनिनां यन्न दीयते ॥ ४३ ॥
इह लोके च धनिनां परोऽपि स्वजनायते ॥
स्वजनोऽपि दरिद्राणां कार्यार्थे दुर्जनायते ॥ ४४ ॥
अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः ॥
प्रवर्तंते क्रियाः सर्वाः पर्वतेभ्यो यथापगाः ॥ ४५ ॥
पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते ॥
वंद्यते यदवन्द्योऽपि ह्यनुबंधो धनस्य सः ॥ ४६ ॥
अशनादिंद्रिया णीव स्युः कार्याण्यखिलानिह ॥
सर्वस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥ ४७ ॥
अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते ॥
जनितारमपि त्यक्त्वा निःस्वः संयाति दूरतः ॥ ४८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्पादि त्यमाहालये मणिभद्रवृत्तांते मणिभद्राय कन्याप्रदानार्थं क्षत्रियकृतनिजभार्यासंबोधनवर्णनंनाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ॥१५५॥ ॥