स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १७१

॥ सूत उवाच ॥ ॥
एतस्मिन्नेव काले तु विश्वामित्रो महामुनिः ॥
तां शक्तिं व्यर्थतां प्राप्तां ज्ञात्वा कोपसमन्वितः ॥ १ ॥
मुमोच तद्वधार्थाय ब्रह्मास्त्रं सोऽभिमंत्रितम् ॥
तस्य संहितमात्रस्य प्रस्वनः समजायत ॥ २ ॥
ततश्चोल्काः प्रभूताश्च प्रयांति च नभस्तलात् ॥
ततः कुन्ताः शक्तयश्च तोमराः परिघास्तथा ॥ ३ ॥
भिंडिपाला गदाश्चैव खड्गाश्चैव परश्वधाः ॥
बाणाः प्रासाः शतघ्न्यश्च शतशोऽथ सहस्रशः ॥४॥
वसिष्ठोऽपि परिज्ञाय प्रेषितं गाधिसूनुना ॥
ब्रह्मास्त्रं मृत्यवे तेन शुचिर्भूत्वा ततः परम् ॥ ५ ॥
इषीकां च समादाय ब्रह्मास्त्रं तत्र योजयन् ॥
अब्रवीद्गाधिपुत्राय स्वस्त्यस्तु तव पार्श्वतः ॥ ६ ॥
हन्यतामस्त्रमेतद्धिमम वाक्यादसंशयम्॥
ततस्तेन हतं तच्च ब्रह्मास्त्रं तत्समुद्भवम् ॥ ७ ॥
वज्रास्त्रं च ततो मुक्तं वज्रास्त्रेण विनाशितम् ॥
यद्यदस्त्रं क्षिपत्येष विश्वामित्रः प्रकोपितः ॥ ८ ॥
तत्तद्धंति वसिष्ठस्तु मंत्रस्य च प्रभावतः ॥
एतस्मिन्नेव काले तु क्षुभितो मकरालयः ॥ ९ ॥
शीर्यंते गिरिशृंगाणि रक्तवृष्टिः परा स्थिता ॥
प्रलयस्येव चिह्नानि संजातानि धरातले ॥
किमकाले महानेष प्रलयः संभविष्यति ॥ ६.१७१.१० ॥
ततः पितामहं जग्मुः सर्वे देवाः सवासवाः ॥
प्रोचुः प्रलयचिह्नानि यानि संति धरातले ॥ ११ ॥
ततो ब्रह्मा चिरं ध्यात्वा तानुवाच दिवौकसः ॥
विश्वामित्र वसिष्ठाभ्यां युद्धमेतद्व्यवस्थितम् ॥ १२ ॥
दिव्यास्त्रसंभवं देवास्तेनैतद्व्याकुलं जगत् ॥ १३ ॥
तस्माद्गच्छामहे तत्र यावन्नो जायते क्षयः ॥
सर्वेषामेव भूतानां दिव्यास्त्राणां प्रभावतः ॥ १४ ॥
ततोऽभिगम्य ते देशं यत्र तौ मुनिसत्तमौ ॥
विचामित्रवसिष्ठौ तौ युध्यमानौ परस्परम् ॥१५॥
ततः प्रोवाच तौ ब्रह्मा साम्ना परमवल्गुना ॥
निवर्त्यतामिदं युद्धमेतद्दिव्यास्त्रसंभवम् ॥
यावन्न प्रलयो भावि समस्ते धरणीतले ॥ १६ ॥ ॥
॥ वसिष्ठ उवाच ॥ ॥
नाहमस्त्रं प्रयुंजामि विश्वामित्रवधेच्छया ॥
आत्मरक्षाकृते देव अस्त्रमस्त्रेण शामयन् ॥ १७ ॥
अयं मम विनाशाय केवलं चास्त्रमोक्षणम्॥
कुरुते निर्दयो ब्रह्मंस्तं निवारय सांप्रतम् ॥ १८ ॥
॥ ब्रह्मोवाच ॥ ॥
विश्वामित्र मुनिश्रेष्ठ वसिष्ठं ब्राह्मणोत्तमम् ॥
त्वं रक्ष मम वाक्येन तथा सर्वमिदं जगत् ॥ १९ ॥
अस्त्रमोक्षविरामं त्वं ब्रह्मर्षे कुरु सत्वरम् ॥ ६.१७१.२० ॥
॥ विश्वामित्र उवाच ॥ ॥
न मामेष द्विजं ब्रूते कथंचित्प्रपितामह ॥
तस्मादेष प्रकोपो मे संजातोऽस्य वधोपरि ॥ २१ ॥
तस्माद्वदतु देवेश मामेष ब्राह्मणं द्रुतम् ॥
निवारयामि येनास्त्रं यदस्योपरि संधितम् ॥२२॥
॥ ब्रह्मोवाच ॥ ॥
त्वं वसिष्ठाधुना ब्रूहि विश्वामित्रं ममाज्ञया ॥
ब्राह्मणो जायते तेन तव जीवस्य रक्षणम् ॥ २३ ॥ ॥
॥ वसिष्ठ उवाच ॥ ॥
नाहं क्षत्रियसंजातं ब्राह्मणं वच्मि पद्मज ॥
न वधे मम शक्तोऽयं कथंचित्क्षत्रियोद्भवः ॥ २४ ॥
ब्राह्म्यं तेजो न क्षा त्त्रेण तेजसा संप्रणश्यति ।
एवं ज्ञात्वा चतुर्वक्त्र यद्युक्तं तत्समाचर ॥ २५ ॥
॥ ब्रह्मोवाच ॥ ॥
विश्वामित्र द्विजश्रेष्ठ त्यक्त्वा दिव्यास्त्रसंभवम् ॥
कुरु युद्धं वसिष्ठेन नो चेच्छप्स्यामहं च ते ॥ २६ ॥
॥ विश्वामित्र उवाच ॥ ॥
दिव्यास्त्राणि च संत्यज्य मया वध्यः सुदुर्मतिः ॥
किंचिच्छिद्रं समासाद्य त्वं गच्छ निजसंश्रयम् ॥ ॥ २७ ।
॥ सूत उवाच ॥ ॥
बाढमित्येवमुक्ता च ब्रह्मलोकं गतो विधिः ॥
विश्वामित्रवसिष्ठौ च सरस्वत्यास्तटे स्थितौ ॥ २८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वसिष्ठविश्वामित्र युद्धे दिव्यास्त्रनिवर्तनवर्णनंनामैकसप्तत्युत्तरशततमोऽध्यायः ॥ १७१ ॥