स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १९७
॥ सूत उवाच ॥ ॥
एतस्मिन्नेव काले तु नागरो द्विजसत्तमाः ॥
विश्वावसुरिति ख्यातो वेदवेदांगपारगः ॥ १ ॥
पश्चिमे वयसि प्राप्ते तस्य पुत्रो बभूव ह ॥
परावसुरिति ख्यातस्तस्य प्राणसमः सदा ॥ २ ॥
स वेदाध्ययनं चक्रे यौवने समुपस्थिते ॥
वयस्यैः संमतैः सार्धं सदा हास्य परायणैः ॥ ३ ॥
कस्यचित्त्वथ कालस्य माघमास उपस्थिते ॥
रात्रौ सोऽध्ययनं चक्र उपाध्यायगृहं गतः ॥ ४ ॥
निशीथे स समुत्थाय सर्वैर्मि त्रैश्च रक्षितः ॥
वेश्यागृहं समासाद्य प्रसुप्तो वेश्यया सह ॥ ५ ॥
जलपूर्णं समाधाय जलपात्रं समीपगम् ॥
निजाचमनयोग्यं च जलपानार्थमेव च ॥ ६ ॥
निशाशेषे तु संप्राप्ते स पिपासासमाकुलः ॥
निद्रालस्यसमोपेतः शय्यां त्यक्त्वा समुत्थितः ॥ ७ ॥
वेश्याया मद्यपात्रं तु ह्यधस्तात्सं व्यवस्थितम् ॥
तदादाय पपौ मद्यं जलभ्रांत्या यदैव सः ॥ ८ ॥
तदा मद्यं परिज्ञाय पात्रं त्यक्त्वा सुदुःखितः ॥
वैराग्यं परमं गत्वा प्रलापानकरो द्बहून् ॥ ९ ॥
अहो निद्रान्वितेनाद्य किं मया विकृतं कृतम् ॥
यदद्य मद्यमापीतं जलभ्रांत्या विगर्हितम्॥ ६.१९७.१० ॥
किं करोमि क्व गच्छामि कथं शुद्धिर्भवेन्मम ॥
प्रायश्चित्तं करिष्यामि यद्यपि स्यात्सुदुष्करम् ॥ ११ ॥
एवं निश्चित्य मनसा प्रभाते समुपस्थिते ॥
शंखतीर्थं समासाद्य कृत्वा स्नानं तथा परम् ॥ १२ ॥
सशिखं वपनं पश्चात्कारयित्वा त्वरावितः ॥
गतश्च तिष्ठते यत्र ब्रह्मघोषपरायणः ॥ १३ ॥
उपाध्यायः सशिष्यश्च ब्रह्मस्थानं समाश्रितः ॥
स गत्वा दूरतः स्थित्वा संनिविष्टो यथान्त्यजः ॥१४॥
श्मश्रुमूर्धजहीनस्तु यदा मित्रैर्विलोकितः ॥
तदा हास्याद्धतो मूर्ध्नि हस्ताग्रैश्च मुहुर्मुहुः ॥ १५ ॥
उपाध्यायस्तु तं दृष्ट्वा दीनं बाष्पपरिप्लुतम् ॥
श्मश्रुमूर्धजसंत्यक्तं ततः प्रोवाच सादरम् ॥१६॥
किमद्य वत्स दूरे त्वमुपविष्टस्तु दैन्यधृक् ॥
एहि मे संनिधौ ब्रूहि पराभूतोऽसि केन वा ॥ १७ ॥
॥ परावसुरुवाच ॥ ॥
अयोग्योऽहं गुरो जातः सेवायास्तव सांप्रतम् ॥
वेश्याया मंदिरस्थेन ज्ञात्वा निजकमंडलुम् ॥ १८ ॥
वेश्याया मद्यपात्रं तु मद्यपूर्णं प्रगृह्य च ॥
तस्माद्देहि विभो मह्यं प्रायश्चित्तं विशुद्धये ॥ १९ ॥
धर्मद्रोणेषु यत्प्रोक्तं तत्करिष्याम्यसंशयम् ॥ ६.१९७.२० ॥
अथ तं बटवः प्रोचुर्वयस्यास्तस्य ये स्थिताः ॥
हास्यं कृत्वा प्रकामाश्च वेश्या या गुरुसंनिधौ ॥२१ ॥
या एषा नृपतेः कन्या ख्याता रत्नावती जने ॥
अस्याः स्तनौ गृहीत्वा त्वमधरं पिबसि द्रुतम् ॥
ततस्ते स्याद्विशुद्धिश्च नान्यथा प्रभविष्यति ॥ २२ ॥
॥ परावसुरुवाच ॥ ॥
न वयस्या नर्मकालो विषमे मम संस्थिते ॥
ममोपरि यदि स्नेहो वालमित्रत्वसंभवः ॥
तदानीय द्विजानन्यान्वदध्वं निष्कृतिं मम ॥ २३ ॥
अथ ते नर्ममुत्सृज्य तद्दुःखेन च दुःखिताः ॥
विश्वावसुं समासाद्य तद्वृत्तांतमथाब्रुवन् ॥२४॥
सोऽपि तेषां समाकर्ण्य तत्कर्णकटुकं वचः ॥
सभार्यः प्रययौ तत्र यत्र पुत्रो व्यवस्थितः ॥ २५ ॥
दुःखेन महता युक्तः स्खलमानः पदेपदे ॥
वृद्धभावात्तथा शोकात्पुत्राकृत्यसमुद्भवात् ॥ २६ ॥
ततस्तौ प्रोचतुः पुत्रं बाष्पगद्गदया गिरा ॥
दंपती बहुशोकार्तौ हा पुत्र किमिदं कृतम् ॥
सोऽपि सर्वं समाचख्यौ ताभ्यां वृतांतमात्मनः ॥ २७ ॥
प्रायश्चित्तं करिष्यामि तस्मादात्मविशुद्धये ॥
ततो विश्वावसुर्विप्रान्स्मार्ताञ्छ्रुतिसमन्वितान् ॥
तदर्थमानयामास वेदविद्याविचक्षणान् ॥ २८ ॥
ततः परावसुस्तेषां पुरः स्थित्वा कृतांजलिः ॥
प्रोवाच स्वादितं मद्यं मया रात्रावजानता ॥
वेश्या भांडं समादाय ज्ञात्वा निजकमंडलुम् ॥ २९ ॥
एवं ज्ञात्वा यदर्हं च प्रायश्चित्तं प्रदीयताम् ॥
येन मे जायते शुद्धिः प्रसादाद्वो द्विजोत्तमाः ॥६.१९७.३॥।
एवमुक्तास्ततस्तेन विप्रास्ते स्मृतिवादिनः ॥
धर्मशास्त्रं समालोक्य ततः प्रोचुश्च तं द्विजाः ॥ ३१ ॥
अतिमानादतिक्रोधात्स्नेहाद्वा यदि वा भयात् ॥
प्रायश्चित्तमनर्हं तु ददत्तत्पापमश्नुते ॥ ३२ ॥
प्रायश्चित्तं प्रदास्यामस्तस्माद्युक्तं वयं तव ॥
यदि शक्नोषि तत्कर्तुं तत्कुरुष्व समाहितः ॥ ३३ ॥ ॥
॥ परावसुरुवाच ॥ ॥
करोमि वो न चेद्वाक्यं तत्पृच्छामि कुतो द्विजाः ॥
नाहं केनापि संदृष्टो मद्यपानं समाचरन् ॥ ३४ ॥
तस्माद्ब्रूत यथार्हं मे प्रायश्चित्तं विशुद्धये ॥
अपि प्राणहरं रौद्रं नो चेत्पापमवाप्स्यथ ॥ ३५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
बुध्यमानो द्विजो यस्तु मद्यपानं समाचरेत् ॥
तावन्मात्रं हिरण्यं च तप्तं पीत्वा विशुध्यति ॥ ३६ ॥
अज्ञानतो यदा पीतं मद्यं विप्रेण कर्हिचित् ॥
अग्नितुल्यं घृतं पीत्वा तावन्मात्रं विशुध्यति ॥ ॥ ३७ ॥
एवं ते सर्वमाख्यातं प्रायश्चित्तं विशुद्धये ॥
यदि शक्तोषि चेत्कर्तुं कुरुष्व त्वं द्विजोत्तम ॥ ३८ ॥
॥ परावसुरुवाच ॥ ॥
गंडूषमेकं मद्यस्य मया पीतं द्विजोत्तमाः ॥
तावन्मात्रं पिबाम्येव घृतं वह्निसमं कृतम् ॥ ३९ ॥
युष्मदादेशतोऽद्यैव स्वशरीरविशुद्धये ॥
विश्वावसुश्च तच्छ्रुत्वा वज्रपातोपमं वचः ॥ ६.१९७.४० ॥
विप्राणां चाथ पुत्रस्य तदोवाच सुदुःखितः ॥
कृत्वाश्रुमोक्षणं भूरि बाष्पगद्गदया गिरा ॥ ४१ ॥
सर्वस्वमपि दास्यामि पुत्रस्यास्य विशुद्धये ॥
प्रायश्चित्तं समाचर्तुं न दास्यामि कथंचन ॥ ४२ ॥
अश्राद्धेयो विपांक्तेयः सपुत्रो वा भवाम्यहम्॥
स्थानं वा संत्यजाम्येतत्पुत्र मैवं समाचर ॥ ४३ ॥
तच्छ्रुत्वा वचनं तस्य पितुर्विघ्नकरं परम् ॥
प्रायश्चित्तस्य सस्नेहं पुत्रो वचनमब्रवीत् ॥ ४४ ॥
त्यज तात मम स्नेहं मा विघ्नं मे समाचर ॥
प्रायश्चित्तं करिष्यामि निश्चयोऽयं मया कृतः ॥ ४५ ॥
॥मातोवाच ॥ ॥
यदि पुत्र त्वया कार्यं प्रायश्चित्तं विशुद्धये ॥
तदहं पतिना सार्धं प्रवेक्ष्यामि पुरोऽनलम् ॥ ४६ ॥
त्वां द्रष्टुं नैव शक्रोमि पिबंतमग्निवद्घृतम् ॥
पश्चात्प्राणपरित्यक्तं सत्येना त्मानमालभे ॥ ४७ ॥
॥ पितोवाच ॥ ॥
युक्तं पुत्रानया प्रोक्तं मात्रा तव हितं तथा ॥
ममापि संमतं ह्येतत्करिष्यामि न संशयः ॥ ४८ ॥ ॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे सर्वे सुहृदस्तस्य ये स्थिताः १।
तच्छ्रुत्वा तं समायाता वृत्तांतं दुःखसंयुताः ॥ ४९ ॥
प्रोचुश्च विविधैर्वाक्यैः सपत्नीकं विभावसुम् ॥
पुत्रशोकेन संतप्तं मरणे कृतनिश्चयम् ॥६.१९७.५॥।
पुत्रं प्रबोधयामासुः प्रायश्चित्तनिवृत्तये ॥
तदा न शक्नुवंति स्म निवर्तयितुमं जसा ॥ ५१ ॥
तावुभौ च पितापुत्रौ प्राणत्यागकृतादरौ ॥ ५२ ॥
ततो वास्तुपदं जग्मुः सर्वज्ञो यत्र तिष्ठति ॥
भर्तृयज्ञो महाभागः सर्वसंदेह वारकः ॥ ५३ ॥
तस्य सर्वं समाचख्युः परावसुसमुद्भवम् ॥
वृत्तांतं मद्यपानोत्थं यन्मित्रैस्तस्य कीर्तितम् ॥ ५४ ॥
प्रायश्चित्तं तु हास्येन यच्च स्मार्तैः प्रकीर्तितम् ॥
विश्वावसोश्च संकल्पं वह्निसाधनसंभवम् ॥ ५५ ॥
सपत्नीकस्य मित्राणां यच्च दुःखमुपस्थितम् ॥
निवेद्य तत्तथा प्रोचुर्भू योऽपिविनयान्वितम् ॥ ५६ ॥
अतीतं वर्तमानं च भविष्यद्वापि यद्भवेत् ॥
न तेऽस्त्यविदितं किंचित्सर्वं जानीमहे वयम् ॥ ५७ ॥
एतच्च नगरं सर्वं विश्वावसुकृतेऽधुना ॥
संशयं परमं प्राप्तं तेन प्राप्तास्तवांतिकम् ॥ ५८ ॥
तस्माद्ब्रूहि महाभाग यद्यस्त्यपरमेव हि ॥
प्रायश्चित्तं द्विजस्यास्य मद्यपानविशुद्धये ॥ ५९ ॥
न ते ह्यविदितं किंचित्तव वेदसमुद्भवम् ॥
भर्तृयज्ञो विहस्योच्चैस्ततो वचनमब्रवीत् ॥ ६.१९७.६० ॥
ब्राह्मणस्यास्य शुद्ध्यर्थमप्ययुपायः सुखावहः ॥
विद्यमानोऽपि नास्त्येव मतिरेषा स्थिता मम ॥ ६१ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥ पूर्वापरविरोधे नवाक्यमेतन्महामते ॥
कथमस्ति कथं नास्ति तस्मात्त्वं वक्तुमर्हसि ॥
विस्मयोऽयं महाञ्जातः सर्वेषां च द्विजन्मनाम् ॥ ६२ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
जपच्छिद्रं तपश्छिद्रं यच्छिद्रं यज्ञकर्मणि ॥
सर्वं भवति निश्छिद्रं यस्य चेच्छंति ब्राह्मणाः ॥ ६३ ॥
अच्छिद्रमिति यद्वाक्यं वदंति क्षितिदेवताः ॥
विशेषान्नागरोद्भूतास्तत्तथैव न चान्यथा ॥६४॥
तथा च ब्रह्मशालायां संस्थितैर्यदुदाहृतम् ॥
नान्यथा तत्परिज्ञेयं हास्येनापि स्मृतिं विना ॥ ६५ ।।
स एष हास्यभावेन प्रोक्तो मित्रैः परावसुः ॥ ६६ ॥
रत्नवत्याः स्तनौ गृह्य यद्यास्वादयतेऽधरम्॥
तद्भविष्यति मे शुद्धिर्मद्यपान समुद्भवा ॥ ६७ ॥
तदुपायो मया प्रोक्तो विप्रस्यास्य सुखावहः ॥
पराशरमतेनैव करोति यदि शुध्यति ॥ ६८ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यद्येतच्छुणुते राजा वाक्यमीर्ष्यापरायणः ॥
तत्सर्वेषां वधं कुर्याद्विप्राणामन्यथा भवेत् ॥ ६९ ॥
तस्मात्करोतु चाभीष्टमेष विप्रः परावसुः ॥
मातापितृसमोपेतो वयं यास्यामहे गृहम् ॥ ६.१९७.७० ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
स राजा नीतिमान्विज्ञः सर्वधर्मपरायणः ॥
भक्तो देवद्विजानां च सर्वशास्त्र विचक्षणः ॥ ७१ ॥
तस्मान्मया समं सर्वे नागरायांतु तद्ग्रहे ॥ ७२ ॥
मध्यगं पुरतः कृत्वा तद्वक्त्रेण च तत्पुरः ॥
कथयंतु च वृत्तांतं मद्यपान समुद्भवम्॥ ७३ ॥
परावसोश्च यत्प्रोक्तं वयस्यैर्हास्यमाश्रितैः ॥
पराशरसमुत्थं च यद्वाक्यं तत्स्मृतेः परम् ॥ ७४ ॥
तच्छ्रुत्वा यदि भूपाल ईर्ष्या लोभसमन्वितः ॥
भविष्यति ततोऽहं तं धारयिष्यामि सत्पथे ॥ ७५ ॥
॥ सूतउवाच ॥ ॥
ततस्ते नागराः सर्वे सन्तोषं परमं गताः ॥
साधुवादैः समभ्यर्च्य भर्तृयज्ञं पृथग्विधैः ॥ ७६ ॥
तेनैव सहितं तूर्णं मध्ये कृत्वा च मध्यगम् ॥
गर्त्तातीर्थसमुद्भूतं वेदवेदांगपारगम् ॥ ७७ ॥
स्मृतिज्ञं लक्षणज्ञं तमाहिताग्निं यशस्विनम् ॥
यष्टारं बहुयज्ञानां भर्तृयज्ञमते स्थितम् ॥ ७८ ॥
आनर्तेनापि भूपेन स्वर्गभ्रष्टेन वै पुरा ॥
कर्णोत्पलाजनित्रेण यश्च पूर्वं चिरन्तनः ॥ ७९ ॥
चमत्कारपुरे न्यस्तः स्थानेऽस्मिन्विप्रगौरवात् ॥
येन सिध्यंति कार्याणि सर्वेषां च द्विजन्मनाम् ॥ ६.१९७.८० ॥
तथा चैव तु चान्यानि चमत्कारपुरस्य च ॥
हरिभद्राभिधानं तं भर्तृयज्ञसमन्वितम् ॥ ८१ ॥
कृत्वा ते नागराः सर्वे राजद्वारमुपागताः ॥
परावसुं समादाय मातापितृसमन्वितम् ॥ ८२ ॥
अथ द्वाःस्थो द्रुतं गत्वा भूपतेस्तान्न्यवेदयत् ॥
ब्राह्मणान्भर्तृयज्ञेन हरिभद्रेण संयुतान् ॥ ८३ ॥
आनर्तोऽपि च ताञ्छ्रुत्वा राजद्वारसमागतान् ॥
पुरोधसा समायुक्तः संमुखं प्रययौ तदा ॥ ८४ ॥
दत्त्वार्घं मधुपर्कं च विष्टरं गां तथा नृपः ॥
प्रथमं भर्तृयज्ञाय हरिभद्राय वै ततः ॥ ८५ ॥
चतुर्णां मुद्गहस्तानां तथान्येषां द्विजन्मनाम् ॥
आद्यऋग्यजुःसाम्नां च प्रगृह्याशीर्वचः परम् ॥ ८६ ॥
सभामंडपमासाद्य सर्वान्समुपवेशयत् ॥
वरासनेषु हैमेषु यथावदनुपूर्वशः ॥ ९७ ॥
तथा तेषूपविष्टेषु सर्वेषु पृथिवीपतिः ॥
उपविश्य धरापृष्ठे कृतांजलिर भाषत ॥ ८८ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे गृहमुपागतः ॥
सर्वोऽयं नागरो लोको भर्तृयज्ञसमन्वितः ॥ ८९ ॥
तदादिशतु मां लोको यत्कृत्यं प्रकरोमि वः॥
अदेयमपि यच्छामि गृहायातस्य सांप्रतम् ॥ ६.१९७.९० ॥
अगम्यमपि यास्यामि करिष्येऽकृत्यमेव च ॥
तच्छ्रुत्वा हरिभद्रः स समुत्थाय त्वरान्वितः ॥ ९१ ॥
पप्रच्छाद्यांस्तदर्थं च बह्वृचांस्तदनंतरम् ॥
अध्वर्यूंश्चैव छांदोग्याननुज्ञातश्च तैस्तदा ॥ ९२ ॥
प्राणरुद्रान्वदंत्वाद्या जीवसूक्तं च बह्वृचाः ॥
एषां चैव पृथिव्यादिसवनं यत्पुरा कृतम् ॥ ९३ ॥
पठन्त्वध्वर्यवः सर्वे छांदोग्याश्च पृथक्पृथक् ॥
मधुच्युतेन संयुक्तं प्रपठन्तु च सिद्धये ॥ ९४ ॥
भर्तृयज्ञमतेनैवं तेन प्रोक्ता द्विजोत्तमाः ॥
पप्रच्छुश्चैव तत्सर्वं यत्प्रोक्तं तेन धीमता ॥ ॥ ९५ ॥
ततः पाठावसाने तु मध्यगः प्राह सादरम् ॥
परावसुसमुद्भूतं वृत्तांतं तस्य भूपतेः ॥ ९६ ॥
यथा तेनाऽऽसवः पीतो यथा मित्रैः प्रजल्पितम् ॥
प्रायश्चित्तं समादिष्टं यथा स्मार्तैर्घृतोद्भवम् ॥ ९७ ॥
भर्तृयज्ञेन चानीता यथा सर्वे द्विजातयः ॥
तच्छ्रुत्वा पार्थिवो हृष्टः कृतांजलिपुटोऽब्रवीत् ॥ ९८ ॥
धन्योहं कृतपुण्योऽस्मि यस्य मे नागरैर्द्विजैः ॥
विप्रत्रयप्ररक्षार्थं प्रसादोऽयं महान्कृतः ॥ ९९ ॥
धन्या मे कन्यका चेयं रक्षयिष्यति च स्वयम् ॥
ब्राह्मणत्रितयं ह्येतन्मरणे कृतनिश्चयम् ॥ ६.१९७.१०० ॥
अथाऽसावानयामास तां कन्यां तत्क्षणाद्द्विजाः ॥
उपविष्टं सभामध्ये ब्राह्मणेभ्यो न्यवेदयत् ॥ १०१ ॥
एषा कन्या मयानीता युष्मद्वाक्याद्द्विजोत्तमाः ॥
भर्तृयज्ञेन यत्प्रोक्तं तत्करोतु च स द्विजः ॥ १०२ ॥
ततस्तत्र समानीय ब्राह्मण तं परावसुम् ॥
भर्तृयज्ञ इदं वाक्यं कन्यायाः पुरतोऽब्रवीत् ॥ १०३ ॥
इमां त्वं कन्यकां चित्ते जननीं यदि मन्यसे ॥
अधरास्वादनं कुर्वंस्ततः सिद्धिमवाप्स्यसि ॥ १०४ ॥
अनुरागपरो भूत्वा यद्यास्वादनतत्परः ॥
भविष्यति ततो रक्तं तव वक्त्रे परावसो ॥ १०५ ॥
शुद्धस्य त्वथ दुग्धं च भविष्यति न संशयः ॥ १०६ ॥
स्तनाभ्यां तव हस्ताभ्यां स्पर्शात्क्षीरं भवेद्यदि ॥
तत्ते शुद्धिः परिज्ञेया रक्तं वा न भविष्यति ॥ १०७ ॥
एवमुक्त्वाथ तं कन्यां ततः प्रोवाच स द्विजः ॥
एनं त्वं पुत्रवत्पश्य पुत्रि ब्राह्मणसत्तमम् ॥ १०८ ॥
येन शुद्धिमवाप्नोति त्वदोष्ठास्वादने कृते ॥
स्पर्शिताभ्यां स्तनाभ्यां च प्रायश्चित्तं यतः स्मृतम् ॥ १०९ ॥
एतदस्य द्विजेंद्रस्य वयस्यैर्हास्यसंयुतैः ॥
येन शुद्धिमवाप्नोति नो चेन्मृत्युमवाप्स्यति ॥ ६.१९७.११० ॥
॥ सूत उवाच ॥ ॥
सा तथेति प्रतिज्ञाय सव्रीडं तमुवाच ह ॥
एहि वत्स कुरुष्व त्वं प्रायश्चित्तं विशुद्धये ॥ १११ ॥
मातृभावं समाधाय मया त्वं कल्पितः सुतः ॥
सोऽपि तां मातृवन्मत्वा तस्याः सांनिध्यमागतः ॥ ११२ ॥
स्पृष्टवांश्च स्तनौ तस्याः सर्वलोकस्य पश्यतः ॥
स्पृष्टाभ्यां च स्तनाभ्यां च तत्क्षणाद्द्विजसत्तमाः ॥ ११३ ॥
क्षीरधारे विनिष्क्रांते कुन्देंदुहिमसंनिभे ॥ [। ११४ ॥
अथौष्ठास्वादनं यावत्तस्याः स कुरुते द्विजः ।।
तावत्क्षीरं विनिष्क्रांतं तादृग्रूपं तदाननात् ॥ ११५ ॥
एतस्मिन्नंतरे सर्वैस्ताला दत्ता द्विजातिभिः ॥
राज्ञाऽयं ब्राह्मणः शुद्धो वदमानैर्मुहुर्मुहुः ॥ ११६ ॥
सोऽपि प्रदक्षिणीकृत्य तां च कन्यां मुहुर्मुहुः [।
नमस्कृत्य क्षमस्वेति त्वं मातः पुत्रवत्सले ॥ ११७ ॥
तद्दृष्ट्वा महदाश्चर्यमानर्तो विस्मयान्वितः ॥
शशंस भतृयज्ञं तं प्रायश्चित्तप्रदायकम् ॥ ११८ ॥
अहोऽतीव सुभा ग्योऽहं यस्य मे गृहमागताः ॥
ईदृशा ब्राह्मणाः सर्वे चमत्कारपुरोद्भवाः ॥ ११९ ॥
तथा चैतादृशी कन्या ह्यसामान्यप्रवर्तिनी ॥
रत्नावती महाभागा सत्यशौचसमन्विता ॥ ६.१९७.१२० ॥
तथाऽयं नैव सामान्यो ब्राह्मणश्च परावसुः ॥
यश्चेदृशीं समासाद्य कन्यां नो विकृतः स्थितः ॥ ॥ १२१ ॥
एवमुक्त्वा विसृज्याथ तान्विप्रान्पार्थिवोत्तमाः ॥
तां च कन्यां समादाय ततश्चांतःपुरं ययौ ॥ १२२ ॥
अथ ते नागराः सर्वे मर्यादां चक्रिरे ततः ॥
अद्यप्रभृति या वेश्या स्थानेऽस्मिन्वासमेष्यति ॥ १२३ ॥
तया नैव गृहे धार्यं सुरामांसं कथंचन ॥
दूषयंति सदा दुष्टा नागराणां सुतानिह ॥ १२४ ॥
अथ व्यवस्थामुत्क्रम्य या हि तद्धारयिष्यति ॥
सा दण्ड्यास्माच्च निर्वास्या प्रेत्य स्यात्पापभागिनी ॥ १२५ ॥
औदुम्बर्या मध्यगेन दत्तं तालत्रयं तदा ॥ १२६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये परावसुप्रायश्चित्तविधानवृत्तांतवर्णनंनाम सप्तनवत्युत्तरशततमोऽध्यायः ॥ १९७ ॥