स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २२४
॥ आनर्तउवाच ॥ ॥
श्रुता मया महाभाग श्राद्धार्हा ब्राह्मणाश्च ये ॥
ये च त्याज्यास्तथा पुत्रा बहवश्चैव सुव्रत ॥ १ ॥
सांप्रतं कथयाऽस्माकं मन्त्रपूर्वश्च यो विधिः ॥
गृहस्थेन सदा कार्यः पितॄणां परितुष्टये ॥ २ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
प्रणम्यामंत्रिता ये च श्राद्रार्थं ब्राह्मणोत्तमाः ॥
आनीय कुतपे काले तान्सर्वान्प्रार्थयेदि दम् ॥ ३ ॥
आगच्छंतु महाभागा विश्वेदेवा महाबलाः ॥
ये यत्र विहिताः श्राद्धे सावधाना भवंतु ते ॥ ४ ॥
एवमभ्यर्च्य तान्सर्वांस्ततः कृत्वा प्रदक्षिणाम्॥
जानुनी भूतले न्यस्य ततश्चार्घं प्रदापयेत् ॥ ५ ॥
मंत्रेणानेन राजेंद्र सपुष्पाक्षतचंदनैः ॥
अर्घमेनं प्रगृह्णंतु मया दत्तं द्विजोत्तमाः ॥
पादप्रक्षालनार्थाय प्रकुर्वंतु मम प्रियम्॥ ६ ॥
एवमुक्त्वा महीपृष्ठे अनुलिप्ते ततः परम् ॥
साक्षतान्प्रक्षिपेद्दर्भान्विश्वेदेवान्प्रकीर्तयन् ॥ ७ ॥
अपसव्यं ततः कृत्वा दर्भांस्तिलसमन्वितान् ॥
द्विगुणान्प्रक्षिपेद्भूमौ पितॄनुद्दिश्य चात्मनः ॥ ८ ॥
एवं सर्वाः क्रियाः कार्या दैविका सव्यपूर्विकाः ॥
पैतृकाश्चापसव्येन मुक्त्वा नांदीमुखान्पितॄन् ॥ ९ ॥
सर्वे पूर्वामुखाः स्थाप्या युग्माश्च शक्तितो नृप ॥
पितरो मातृपक्षीयाः स्थाप्याश्चोदङ्मुखास्तथा ॥ ६.२२४.१० ॥
एकैकं वा त्रयो वाऽपि स्युरेकैकं वा पृथक्पृथक ॥
पैतृकान्स्थाप्प चक्रेण पितॄणां परितुष्टये ॥ ११ ॥
षष्ठ्या विभक्त्या तु तेषामासनं च प्रदापयेत् ॥
ऋजुभिः साक्षतैर्दर्भैः सोदकैर्दक्षिणांगतः ॥ १२ ॥
विषमौ द्विगुणैर्दर्भैः सतिलैर्वामपार्श्वतः ॥
पाणौ तोयं परिक्षिप्य न दर्भांस्तु कथं चन ॥ १३ ॥
यो हस्ते चासनं दद्याच्चेद्दार्भं बुद्धिवर्जितः ॥
पितरो नासने तत्र प्रकुर्वंति निवेशनम् ॥ १४ ॥
आवाहनं प्रकर्तव्यं विभक्त्या च द्वितीयया ॥
येनागच्छंति ते सर्वे समाहूताः पृथक्पृथक् ॥ १५ ॥
अन्यया च विभक्त्या चेत्पितॄनावाहयेत्क्वचित् ॥
नागच्छंति महाभागा यद्यपि स्युर्बुभुक्षिताः ॥ १६ ॥
विश्वेदेवास आगत मंत्रेणानेन पार्थिव ॥
तेषामावाहनं कार्यमक्षतैश्च शिरोंऽतिकात् ॥ १७ ॥
उशंतस्त्वेति च तिलैः पितॄनावाहयेत्ततः ॥
आयंतु न इति जपेत्ततः पार्थिवसत्तम ॥ १८ ॥
शन्नो देवीति मंत्रेण स्वाहाकारसमन्वितम् ॥
पितॄणामर्घपात्रेषु तथैव च जलं क्षिपेत् ॥ १९ ॥
यवोऽसि यवयास्मद्द्वेत्यक्षतांस्तत्र निक्षिपेत् ॥
चंदनं गंधपुष्पाणि धूपं दद्याद्यथाक्रमम् ॥
सपवित्रेषु हस्तेषु दद्यादर्घ्यं समाहितः ॥ ६.२२४.२० ॥
या दिव्या इति मन्त्रेण स्वाहाकारसमन्वितम् ॥
पितॄणामर्घपात्रेषु तथैव च जलं क्षिपेत् ॥ २१ ॥
तिलोऽसि सोमदैवत्यो गोसवे देवनिर्मितः ॥
प्रत्नवद्भिः पृक्तः स्वधया पितॄनिमाँल्लोकान्प्रीणाहि नः स्वधेति प्रक्षिपेत्तिलान् ॥ २२ ॥
यादिव्येति च मन्त्रेण ततो ह्यर्घ्यं प्रदापयेत् ॥
पितृपात्रे समादाय अर्घ्यपात्राणि कृत्स्नशः ॥ २३ ॥
अधोमुखं च तत्पात्रं मन्त्रवत्स्थापयेत्ततः ॥
आयुष्कामस्तु तत्तोयं लोचनाभ्यां न वीक्षयेत् ॥ २४ ॥
ततस्तु चन्दनादीनि दीपांतानि समाददेत् ॥
ततः पाकं समादाय पृच्छेद्विप्रान्द्विजो त्तमान् ॥ २५ ॥
अहमग्नौ करिष्यामि होमं पितृसमुद्भवम् ॥
अनुज्ञा दीयतां मह्यमपसव्याश्रितस्य भोः ॥ २६ ॥
कुरुष्वेति च तैः प्रोक्ते गत्वाग्नि शरणं ततः ॥
अग्नये कव्यवाहनाय स्वाहेति प्रथमाहुतिः ॥ २७ ॥
सोमाय पितृमते स्वधेति च ततः परम् ॥
हुतमन्नं च शेषं च श्राद्धार्हेभ्यः प्रदीयते ॥ २८ ॥
इष्टमन्नं ततो दत्त्वा पात्रमालभ्य संजपेत् ॥
विप्रांगुष्ठं समादाय पाकमध्ये निधाय च ॥ २९ ॥
पृथिवी ते पात्रमादाय वैष्ण व्या च ऋचा तथा ॥
स्वहस्तेन न वै दद्यात्प्रत्यक्षं लवणं तथा ॥ ६.२२४.३० ॥
स्वहस्तेन च यद्दत्तं प्रत्यक्षलवणं नृप ॥
तच्छ्राद्धं व्यर्थतां याति धृते दत्तेर्द्धभुक्तके ॥
तृप्ताञ्ज्ञात्वा ततो विप्रानग्रे त्वन्नं परिक्षिपेत् ॥ ३१ ॥
अग्निदग्धाश्च ये जीवा येप्यदग्धाः कुले मम ॥
भूमौ दत्तेन तृप्यंतु तृप्ता यांतु परां गतिम् ॥ ३२ ॥
सकृत्सकृज्जलं दत्त्वा गायत्रीत्रितयं जपेत् ॥
मधुवातेति संकीर्त्य ततः पृच्छेद्द्विजोत्तमान् ॥ ३३ ॥
तृप्ताः स्थ इति राजेन्द्र अनुज्ञां प्रार्थयेत्ततः ॥
बन्धूनां भोजनार्थाय शेषस्यान्नस्य भक्तिमान् ॥ ३४ ॥
उच्छिष्टसन्निधौ पश्चात्पितृवेदिं समाचरेत् ॥
पितृविप्रासनस्थानां नोच्छिष्टं द्विजसन्निधौ ॥३५ ॥
ततो वेदिं समाधाय पैतृकीं दक्षिणाप्लवाम् ॥
तस्यां दर्भान्समाधाय कुर्याच्चैवावनेजनम् ॥ ३६ ॥
विभक्त्या पूर्वया पश्चात्पिंडान्दद्याद्यथाक्रमम् ॥
भूयोऽप्यत्र जलं दद्यात्पितृतीर्थेन पार्थिव ॥
सूत्रं च प्रतिपिण्डे वै दयात्तेषु पृथक्पृथक् ॥ ३७ ॥
यः सूत्रं पूर्वपिण्डेषु सततं विनियोजयेत् ॥
स विरोधं चरेत्तेषां त्रोटनाच्च परस्परम् ॥ ३८ ॥
ततः संपूजयेत्सर्वान्पिंडान्यद्वद्द्विजोत्तमान् ॥
आचम्य प्रक्षाल्य तथा हस्तौ पादौ च पार्थिव ॥ ३९ ॥
नमस्कृत्य पितॄन्पश्चात्सुप्रोक्षितं ततः परम् ॥
कृत्वा सव्येन राजेन्द्र याचयित्वा वराशिषः ॥ ६.२२४.४० ॥
अक्षय्यसलिलं देयं षष्ठ्या चैव ततः परम् ॥
पवित्राणि समादाय ऊर्ध्वं स्वधेति कीर्तयेत्॥
अस्तु स्वधेति तैरुक्ते पिंडोपरि परिक्षिपेत् ॥ ४१ ॥
ततो मधु समादाय पायसं च तिलोदकम् ॥
ऊर्जस्वेति च मन्त्रेण पितॄणामुपरिक्षिपेत् ओ। ४२ ॥
उत्तानमर्घपात्रं तु कृत्वा दद्याच्च दक्षिणाम् ॥
हिरण्यं देवतानां च पितॄणां रजतं तथा ॥ ४३ ॥
ततः स्वस्त्युदकं दद्यात्पितृपूर्वं च सव्यतः ॥
न स्त्रीभिर्न च बालेन नान्ये नैव च केनचित् ॥ ४४ ॥
श्राद्धीयविप्रपात्रं च स्वयमेव प्रचालयेत् ॥ ४५ ॥
ततः कृतांजलिर्भूत्वा प्रार्थयेत्पार्थिवोत्तम ॥
अघोराः पितरः सन्तु अस्मद्गोत्रं विवर्द्धताम् ॥ ४६ ॥
दातारो नोऽभिवर्धंतां वेदाः सन्ततिरेव नः ॥
श्रद्धा च नो मा व्यगमद्बहुधेयं च नोऽस्त्विति ॥ ४७ ॥
अन्नं च नो बहु भवेदतिथींश्च लभेमद्दि ॥
याचितारश्च नः सन्तु मा च याचिष्म कश्चन ॥ ४८ ॥
एता एवाशिषः सन्तु विश्वेदेवाः प्रीयंतां ततः ॥
स्वस्त्यर्थमुदकं दद्यात्पितृपूर्वं च सव्यतः ॥ ४९ ॥
वाजेवाजेति च ऋचा विसृजेच्च ततः परम् ॥
आमा वाजस्येति प्रदक्षिणीकृत्योपवेशयेत् ॥६.२२४.५॥।
पादावमर्दनं कृत्वा आसीमांतमनुव्रजेत् ॥
बलिं च निक्षिपेत्तस्माद्भोजनं च समाचरेत् ॥ ५१ ॥
मौनेन दृश्यते सूर्यो यावत्तावन्नराधिप ॥ ५२ ॥
यश्चैवास्तमिते सूर्ये भुंक्ते च श्राद्धकृन्नरः ॥
व्यर्थतां याति तच्छ्राद्धं तस्माद्भुंजीत नो निशि ॥ ५३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धविधिवर्णनंनाम चतुर्विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२४ ॥