प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← FOREWORD हम्मीरमहाकाव्यम्
हम्मीरमहाकाव्यम्
नयचन्द्रसूरिः

श्रीहम्मीरमहाकाव्यम्
प्रथमः सर्गः



सदाचिदानंदमहोदयैक-हेतुं परं ज्योतिरूपास्महे तत् ।
यस्मिन् शिवश्रीः सरसीव हंसी विशुद्विकृद्वारिणि रंरमीति ।। १ ।।

तज्ज्ञानविज्ञानकृतावधानाः संतः परब्रह्ममयं यमाहुः ।
पद्माश्रयः क्लृप्तभवावसानः स नाभिभूर्वस्त्वरतां शिवाय ।। २ ॥

यशोदयास्फीतशुभप्रवृत्तिर्गोपालमालार्चितपादपद्मः ।
श्रीवत्सलक्ष्मा पुरुषोत्तमः श्री-पार्श्वः श्रियं वस्तनुतादतन्वीं ।। ३ ।।

उचैर्वृषो दर्पकदर्पहारी शिवानुयातो विलसद्विभूतिः ।
शुभ्रास्थितिनैिर्दलितांधकारः श्रीशंकरो वीरविभुर्विभूत्यै ।। ४ ।।

सञ्चक्रहृत्प्रीतिकरैः प्रभावि-प्रभाविशेषैः सुभगंभविष्णुः ।
सम्यक्प्रबोधप्रथनप्रभूष्णु र्भास्वान् सशांतिः शमयत्वघानि ॥ ५ ॥

महेशचूडामणिचुंबिपादो ऽभ्रांतस्थितिः स्फीतशुभप्रचारः ।
महामहाध्वस्ततमस्समूहः समुद्रजन्मा शशभृच्छ्रिये स्तात् ।। ६ ।।

लसत्कविस्तोमकृतोरुभक्ति र्नालीकसंपत्सुभगंभविष्णुः ।
स्वदर्शनेन त्रिजगत्पुनाना सरस्वती नो नयतात्प्रसत्तिं ॥ ७॥

माधा1तृसीतापतिकंकमुख्याः क्षितौ क्षितींद्राः कतिनाम नासन् ।
तेषु स्तवार्हः परमेष सत्व-गुणेन हम्मीर महीभृदेकः॥ ८॥

सत्वैकवृत्तेः किल यस्य राज्य-श्रियो विलासा अपि जीवितं च ।
शकाय पुत्रीं शरणागतांश्वा प्रयच्छतः किं तृणमप्यभूवन् ॥ ९ ।

1 k
[सर्गः
श्रीहम्मीरमहाकाव्ये

अतोस्य किंचिच्चरितं प्रवक्तु मिच्छामि राजन्यपुपूषयाहं ।
तदीयतत्तद्गुणगौरवेण विगाह्य नुन्नः किंल कर्णजाहं ॥१०॥
कैतस्य राज्ञः सुमहच्चरित्रं क्वैषा पुनर्मे धिषणाऽणुरूपा ।
तोतिमोहाद्धुजयैकयैव मुग्धस्तितीर्षामि महासमुद्रं ॥११॥
गुरुप्रसादाद्यदि वास्मि शक्त स्तदीयवृत्तस्तवनं विधातुं ।
सुधाकरोत्संगतरंगयोगान्मृगो न खे खेलति किं सखेलं ॥१२॥
श्रीचाहमानान्वयमौलिमौलि र्बभूव हम्मीरनराधिपस्तत् ।
ऐतह्यतो वच्मि पुरा तदीया मुत्पत्तिमुत्पादितहर्षहेलां ॥१३॥
यज्ञाय पुण्यं क्वचन प्रदेशं द्रष्टुं विधातु र्भ्रमतः किलादौ ।
प्रपेतिवत् पुष्करमाशुपाणि-पद्मात्पराभूतमिवास्य भासा ॥१४॥
ततः शुभं स्थानमिदं विभाव्यं प्रारब्धयज्ञो यमपास्तदैन्यः ।
विशंक्य भीतिं दनुजव्रजेभ्यः स्मेरस्य सस्मार सहस्ररश्मेः ॥१५॥
अवातरन्मंडलतोथभासां पत्युः.पुमानुद्यतमंडलाग्रः ।
तं चाभिषिच्याश्वदसीयरक्षा-विधौ व्यधादेष मखं सुखेन ॥१६॥
पपात यत् पुष्करमन्नपाणेः ख्यातं ततः पुष्करतीर्थमेतत् ।
 यच्चायमागादथ चाहमानः.पुमानतो ऽख्यायि स चाहमानः॥१७॥
ततश्चतुर्वक्त्रभवात्प्रसादात् साम्राज्यमासाद्य स धाहमानः।
चक्रेऽर्कवद्भूभृत आशुपादा-क्रांतान् गुरूनप्ययमस्य वप्तां ॥१८॥
स्वदानजन्मोरुयशोर्जितश्री-विलोपि दानं समवेक्ष्य यस्य ।
बलिः स पातालबिलं सिषेवे त्रपातुराणामपरा गतिः का!?॥१९॥
त्वं पाप रे कामयसे मदीयां कीर्ति शशी येन रुषेति रुद्धः।
बिंबं रवेर्दिव्यामवं प्रदातुं प्रविश्य निर्गच्छति मासि मासि ॥२०॥
प्रतापवह्निं र्ब्वलितो यदीय स्तथा द्विषां कीर्तिवनान्यधाक्षीत् ।
तदुत्थधूमाश्रयतो जहाति वियद्यथा ऽद्यापि न कालिमानं ॥२१॥
निशम्य सुप्रीतमना यदीयां कीर्ति विचित्रोरुचरित्ररम्यां ।
महीतलध्वंसभिया शिरः स्व मकंपयस्तापप्रचाप शेषः ॥२२॥

१]
पूर्वजवर्णनम्

जयश्रिया प्राप्तमहावियोगान्समूर्छयन् वैरिगणान्निकामं।
यो युध्यवाची पवनायितोपि चित्रं द्विजिव्हान्न सुखीचकार ॥२३॥
प्रस्पर्धत्ते मदाशसा ऽस्यं सूनुः शशीत्यमर्षात् किल योंऽबुराशेः ।
गांभीर्यलक्ष्मीं हरतिस्म किन्न सुतापराधे जनकस्य दंडः? ॥२४॥
तदा ऽख्यया जायत चाहमान-वंश स्त्रिलोकीविहितप्रशंसः ।
शश्वत् सुपर्वावलिसेव्यमान उत्पत्तिहेतु र्नरमौक्तिकानां ॥२५॥
तस्मिन् स्फुरद्विक्रमचक्रवाला वंशे बभूवु र्बहवो नृपालाः ।
त्रिवर्गसंसर्गपवित्रचित्र-चरित्रवित्रासितपापभाराः ॥२६॥
पराक्रमाक्रांतजगत्क्रमेणा भवन्नृपो दीक्षितवासुदेवः ।
शक्रासुरान् जेतु मिहावतीर्णः स्वयं धरायामिव वासुदेवः ॥२७॥
सपत्नसंघातशिरोधिसंधि-च्छेदादसिं कुंठतरं निजे यः ।
प्रतापवह्नावभिताप्य काम मपाययत्तद्रमणीदृगंबु ॥२८॥
छिन्नद्विषन्मंडलमौलिमूला-सृक्पूरदिग्धासिलताछलेन ।
रणाजिरे यस्य करे विरेजे व्यक्तानुरागेव भृशं जयश्रीः ॥२९॥
प्रवाद्यमाने रणवाद्यर्वृंदे संपश्यमानेषु दिवः सुरेषु ।
शौर्यश्रियं यो रणरंगभूमा वनर्त्तयद्वेल्लदसिच्छलेन ॥३०॥
भास्वान् जितो यन्महसा ददाति झंपां किमद्यापि न वारिराशौ ।
उन्मज्जति व्याकुलितो ऽन्वहं च सुदुस्त्यजं हा! हतजीवितव्यं ॥३१॥
तदंगजन्मा ऽज्जनि नाभिजन्मा-र्हणाचणः श्रीनरदेवभूपः ।
तनूदरीलोचनलोभनीय-तनुश्रिया तर्जितकामरूपः ॥३२॥
अशात्रवं विश्वमिदं विधातुं क्रुद्धे परिभ्राम्यति यत्र भूपे ।
राज्यश्रियं पातुमरातय1 स्व-कोशाद्वसून्पाचकृषुर्न खड्गान् ॥३३॥
संख्येषु पूर्वाचलचूडशोभां बाहुर्यदीयः कलयांबभूव ।
म्लानिं नयन्वैरिमुखांबुजानि रराज यस्मिन् नवचंद्रहासः ॥३४॥
प्रतापवह्नि र्ज्वलितो यदीयः स्थाने यदन्यायवनान्यधाक्षीत् ।
गज्जनाश्चर्यकरं तदेतत् यद्वैरिणां कंपभरं ततान ॥३५॥

[सर्गः
श्रीहम्मीरमहाकाव्ये

नखावलीनां कपटेन पुत्र-पौत्रान्वितोप्येष पतिर्द्विजानां ।
जितोहमेतत् यशसेत्युपेत्य लग्नो यदीये पदपद्मयुग्मे ॥३६॥
श्रीचंद्रराज्ञेन नयैकधाप्ता ततो धरित्री बिंभरांबभूवे ।
वक्त्रेण कीर्त्या च निशाकरं द्वि र्जयन् स्वनामाऽतत यो यथार्थं ॥३७॥
यस्य प्रतापज्वलनस्य किंचि दपूर्वमेवाजनि वस्तुरूपं ।
जज्वाल शत्रौ सरसे प्रकामं यन्नीरसेऽस्मिन् प्रशशाम सद्यः ॥३८॥
चापस्य’यः स्वस्य चकार जीवा-कृष्टिं रणे क्षेप्तुमनाः शरौघान् ।
जवेन शत्रून् यमराजवेश्म ऽनैषीत्तदेवन्महदव चित्रं ॥३९॥
यस्य क्षितीशस्य च यन्महासे रन्योन्यमासीत्सुमहान् विरोधः ।
एको विरागः समभूत्परेषां दारेषु चान्यो यदभूत्सरागः ॥४०॥
तस्मादशोभिष्ट महिष्ठधामा महीमहेंद्रो जयपालनामा ।
यः सिद्धविद्यो जगति प्रसिद्धिं जगाम चक्रीतिजितारिचक्रः ॥४१॥
भिन्नद्विषत्कुंभिघटाकठाह-कुंभोच्छलच्छोणितशोणशोचिः ।
यस्याहवे खङ्गलता प्रतापा-शुशुक्षणे रर्चिरिवोललास ॥४२॥
अनेकधाष्टापदसारदान-दक्षो वशीभूततराक्षचारः ।
यो द्यूतकृदूच्चतुरंगयुद्ध-क्रीडास्वज्ञेयः समभूत्परेषां ॥४३॥
विदारितारातिकरींद्रकुंभ-विलग्नमुक्ताफलकैतवेन ।
करे यदीये करवालवल्ली जयश्रियो हारलतेव रेजे ॥४४॥
यत्कीर्त्तिपूरैरभितः परीते विश्वत्रये सूरिभिरित्यतर्कि ।
तप्तं प्रतापै र्ध्रुवमेतदीयै र्विलिप्तमेतद्भवचंदनेन ॥४५॥
यदीयकीर्त्यापहृतां समंतात् निजां श्रियं स्वर्गधुनी विभाव्य ।
पतत्प्रवाहध्वनिकैतवेंन कामं किमद्यापि न फूत्करोति ॥ ४६ ॥
रणे कणेदृत्य निपीय रक्त-मधून्यरीणां वदनांबुजेषु ।
शिलीमुख यस्य समंततोपि क्षीबा इव क्षोणितलं स्म यांति ॥४७॥
यस्य प्रसर्पद्दिषमायुधस्य प्रत्यार्थिनां संगरसंगतानां ।
स्वेदः प्रकंपो बलहानिरुच्चै स्भूद्वधूनामिव वल्लभस्य ॥४४॥

१]
पूर्वजवर्णनम्

स्फुरद्धृतिः प्राप्तलसत्प्रतिष्ठो विशुद्धवर्णः स्पृहणीयवृत्तः ।
कीर्तिं स्मरन्सत्कविवत्परार्थ-हतौ मतिं क्वापि न यश्र्चकार ॥४९॥
विरुद्धवासादिह मां न कोपि वेत्तीति बिभ्यत्किल यत्प्रतापात्।
दारूणि वह्निः प्रविवेश नोचे त्तद्घर्षणात्तत्प्रभवः कुतः स्यात् ॥५०॥
कामं यदोजः सृजि वेधसोपि स्वेदोदयः कोपि स आविरासीत् ।
प्रसर्पता येन नदीवदंबु-राशेरपि क्षारमकारि वारिं ॥५१॥
तद्वास्तु तत्तद्धनवस्तुसार-प्राग्भारवीक्षास्तुतधातृसर्गं ।
स्वर्गश्रियां जित्वरकांतिकांत-मतिष्ठिपत् योऽज़यमेरुदुर्गं ॥५२॥
अदीपि तस्माज्ज्ञयराज्ञभूप स्त्रैलोक्यविख्यातयशःस्वरूपः ।
यत्कीर्तिचंद्रैर्मुखमंडलानि दिक्कामिनीनां सुरभीबभूवुः ॥५३॥
यशो विताने स्फुरिते यदीये व्यक्तो यदाऽलक्षि न शीतरश्मिः ।
तदादिशंके विधिना व्यधायि तदीयबिंबांतरयं कलंकः ॥५४॥
यस्मिन्महीं शासति राजमार्ग-प्रोल्लंघनं तुंगसुरालयेषु ।
निस्त्रिंशताऽस्त्रेषु मदो द्विपेषु करग्रहोऽभात् करपीडनेषु ॥५५॥
जगत्प्रदीपे किमु यत्प्रतापे पतंगवद्यान्निपपात भास्वान् ।
पतंग इत्येतदमुष्य नामा ऽन्यथा कवींद्राः कथं मामनंति ॥५६॥
सत्यं किलैकोदरजोपि चैक-नक्षत्रज्ञातोपि सदृग्भवेन्न ।
अप्येकतोसेः सममस्य ज्ञात मुष्णं यदोजः शिशिरं यशस्तु॥५७॥
सामंतसिंहो नृपतिस्ततोऽभात् मत्तरिदंतावलवारसिंहः.।
यस्य प्रतापैर्जयतोरिचक्रं बभूव भूषैवं कृपाणदंडः ॥५८॥
अहो अहीरात्रमहोदयश्री र्यशःशशी यस्य नवो बभासे ।
नान्यायसिंहीसुतलब्धभीति र्नामित्रधाराधरलुब्धकांति1॥५९॥
महीभृतां मूर्धसु यत्प्रतापो भास्वान्नवो भात्किल यः प्रसर्पन् ।
तताप शत्रून् विधृतातपत्रां स्त्यक्तातपत्रान्न पुनः कदाचित् ॥६०॥
पिस्पर्धिषू एष ममेंद्वहीनौ पातीति कोपादिव यस्य कीर्तिः ।।
जटास्वटत् स्वस्तटिनी छलेना-रुरोह मौलिं हिमरश्मिमौलेः ॥६१॥

स्पर्धां विधित्सोः सह येन संख्ये स्वस्याविवेकत्वविलुप्तबुद्धैः ।
तृणानि दद्भिर्दधतः पशुत्व मनागसे स्मारिगणा गदंति ॥ ६२ ॥
 
ततोभजद्राज्यरमामनंता-नंतापति र्गूयकनामधेयः ।
येनानिशं धर्मतरूर्धरित्र्या मुत्सर्गनीररैभिषिच्यतेस्म ॥ ६३ ॥
 
उद्दामधाराजलवालिकं य-त्करांतराले करवालमेघं ।
अभ्युन्नतं वीक्ष्य विपक्षमान-हंसोद्भुतं मानसतोप्यनेशत् ॥ ६४ ॥

उच्चारयन्वैरिपशूंस्तृणानि निस्त्रिंशदंडं च करे दधानः ।
निरंतरं भूषितसर्वदेहः सत्यां वितेने निजगोपतां यः ॥ ६५ ॥
 
प्रलायितानां रिपुभूपतीनां पिबन् कणेहत्य यशःपयांसि ।
तत्स्त्रैणनिश्वाससमीरपुष्टो यस्यासिदंडो भुजगायतेस्म ॥ ६६ ॥
 
तन्नंदन श्र्चंदनवज्जनाना मानंदनो नंदननामधेयः ।
निहत्य शत्रून्समरे समग्रान् स्वसाच्चकारावनिमा समुद्रं ॥ ६७ ॥
 
आलोकमात्रेण शुभानि पुर्ष्णै स्तत्वार्थदृष्ट्या च तमांस्यपास्यन् ।
प्रजा विवस्वानिव वृत्तरम्यः संवर्धयामास निरंतरं यः ॥ ६८ ॥
 
पुरः परेषां किल पक्षपातं विहाय के नाधिकमाहुरेनं ।
नाजौ यथादीदृशदेष पृष्ठं निजं तथा वक्त्रमहॊ परेपि ॥ ६९ ॥
 
पुरः परेषां किल पक्षपातं विहाय केनाधिकमाहुरेनं ।
यथा स्वकोशादंयमाचकर्ष खङ्गं तथाजौ वसु वैरिणोपि ॥ ७० ॥
 
यस्य प्रतापो भुवि वाडवाधिक्षेपाद्यदंहः कलयांबभूव ।
तत्संप्रमार्ष्टुं किमसौ प्रविष्टः पारॆंबुधेस्तीरतपोवनानि ॥ ७१ ॥

भयार्त्तवप्रायितबाहुदंडः सर्वास्त्रविद्योपनिषत्करंडः ।
लीलापराभूतसुपर्वराजः क्ष्माभृत्ततो रा्जतं वप्रराज्ञः' ॥ ७२ ॥
 
जलत्प्रतापज्वलनोपतप्ता प्रत्यर्थिभूभोगजुषां जयश्रीः ।
यदियनिस्त्रिंशनिशातधारा-पाते व्यधान्मज्जनसज्जलीलां ॥ ७३ ॥

सरीसृपस्यास्य च खङ्गयष्टे राकारमात्राद्यदि साम्यमासीत्।
दंष्ट्वा हरेत्प्राणगणान्यदाद्मः परो द्विषां वीक्षितमात्र एव ॥ ७४ ॥

सर्वातिशायिद्युतिनी विधात्रा विधित्सितौजो यशसी यदीये ।
अवश्यमेतौ रचितौ प्रशस्या-भ्यासाय तिग्मद्युतिशीतरश्मी ॥७५॥

शंके प्रतिक्ष्मापतिकीर्तिलोप पापोपशांत्यै विदधेस्य कीर्तिः ।
स्नानं मुहुर्नाकनदीप्रवाहे शुभ्रत्वमासी त्कथमन्यथा स्यां ॥ ७६ ॥

अप्यस्तदोषस्य बभूव तस्य दोषद्वयं कामवशित्वलोभौ ।
सेनां कुमारीं बुभुजे मृधे य ल्ललौ तथैको विजयश्रियं च ॥ ७७ ॥

यत्कीर्तिगानं विनिशम्य शंके हरः प्रनृत्यन्प्रसरत्प्रमोदः ।
छुटज्जटानिर्यदमर्त्यसिंधु-पयःप्रवाहैरिव शुभ्र आसीत् ॥ ७८ ॥

खेलत्सु भूरिष्वपि याचकेषु दानैकलीलारसिकस्य यस्य ।
दा पृष्ठचारी किल यो नकारो यदि प्रियोसौ न परः कदाचित्॥७९॥

अनल्पसंकल्पनकल्पवल्लीं विपक्षपक्षव्रजभेदभल्लीं ।
त्रैलोक्यलोकावलिवंद्यपादां सेवापरप्रत्तमहाप्रसादां ॥ ८० ॥
 
शाकंभरीस्थानकृताधिवासां शाकंभरीं नाम सुरीं प्रसाद्य ।
विश्वापतिर्विश्वहिताय शाकं-भर्यां रुमां यः प्रकटीचकार ॥ ८१ ||
 
ततो धराभारमुरीचकार जितारिचक्रो हरिराजभूपः ।
शकाधिराजस्य रणे निहत्य सन्मानवन्मुग्धपुरं ललो यः ॥८९॥
 
रणाजिरे वैरभृतां भटाना मेकोपि यो ऽनेकतया चकासे ।
प्रपश्यतां निर्मलनीरपूर्ण-पात्रेषु तारापतिवज्जनानां ॥ ८३ ॥
 
भ्रांत्वाप्यदभ्रेषु धराधरेषु कुत्राप्यनासादितयोग्ययोगाः ।
पौरा इवौदार्यमुखा गुणाःस्म दिवानिशं यस्य पुरे वसंति ॥८४॥
  
अनेन पेठे पठताक्षराणि किं नो वृथा बोध्यथवा निदानं ।
निषेधतो स्मान्विशतो निषेद्धु मेवेति यस्मिन्कविवाग्वितर्कः॥८५॥

अस्याऽवनीमघवतोऽसिलतांबुराशे-
रस्ताघता सुमहतीति किमद्भुतं नः ।
अस्याद्भुताद्भुतमिदं तु सनीरतायां ।
सत्यामपि स्फुरति यज्जडता स्म नैव ॥ ८६ ॥

[दंतपृष्ठफणचक्रसहस्रै:] क्रोडकूर्मभुजगाधिपा दधुः ।
क्ष्मां सुखेन भुजयैकया दधत्तामसां वतत कं न विस्मयं॥८७॥
 
उद्यच्छौर्यविनिर्जितोर्जितरिपुस्तंबेरमौघोनघ-
स्त्रीसंचालितचारुचामरयुगव्याजेाल्लसत्केसरः ।
आत्मीयासनमाश्रितो वनजुषा मीशस्वभावं दधत् ।
जज्ञे सिंह इवोन्नतक्रमगतिः श्रीसिंहराज स्ततः ॥ ८८ ॥

एतेनोत्रासितानां प्रतिधरणिभुजामुल्लसद्दुर्यशस्सु ।
स्फूर्जत्पर्जन्यमालाललितमुपगतेष्वाजिभूमौ समंतात्।
किन्न स्थाने तदेतत्प्रवसितमचिरान्मानहंसैर्यदेषा
मस्त्रैर्यद्वा प्रवृत्तं विरहविधुरिमालिंगनात्तद्वधूनां ॥ ८९ ॥
 
क्षारॊप्यंबुनिधिः शितिद्युतिरपि प्रासूत यस्मात्कथं
शुभ्रांशुश्व सुधामयश्व सविधुस्तुल्योहि पुत्रः पितुः ।
आसीदुत्तरमस्य नोऽद्य नृपते र्यस्य प्रसर्पद्यशः
पीयूषैः परिपुष्ट एष उदधिस्तादृग्भवं स्तज्जनौ ॥ ९० ॥
 
लक्ष्मीमेषपराश्रिता मपिबला दाकृष्यभोगास्पदंं
प्रीत्या स्वस्य तनोति मां च जननादप्येकपत्नीव्रतां ।
स्वस्माद्दूरयति स्तुतां कविजनै र्न श्रोतुमुत्कंठते ।
क्रुद्धेतीव विपक्षभूमिमभगत्कीर्ति र्यदीयोच्चकैः ॥ ९१ ॥
 
बाणे महीमघवतोस्य तथा कृपाणे
पाणौ स्थितेप्युभयमद्भुतमेतदासीत् ।
एको दधाव समरे परलक्ष्यहेतो
रन्यः स्वकोशमपि दूरमुदौज्झदेव ॥ ९२ ॥
  
अगाधं पाथोधिं गुरुगरिमसारं सुरगिरिं
पृथक्कृत्वा वेधा न खलु कृतकृत्यो मम मते ।
द्वयं निर्मायास्मिन् पुनरपि किलैकन्न भगवान्
तथा प्रीतः सृष्टिं व्यथित न यथा तत्प्रणयने ॥ ९३ ॥

यत्सौंदर्यवशीकृतेव विजयश्रीकन्यका संगरे
सर्वानप्यपहाय राजतनुजान् दौर्भाग्यदग्धानिव ।
उद्वोढुं यमुपागता करतलं स्पृष्ट्वापि सद्यो महः ।
सूनुं कीर्तिसुतामसूत तदिदं लोके महत्कौतुकं ॥ ९४ ॥
 
कर्णाटश्वदुपाटवप्रकटनो लाटः कपाटप्रद
श्योलस्त्रासविलोलहृत् पारिगलद्धीजर्जरो गुर्जरः ।
अंगः संगररंगभंगुरमतिः संपद्यते स्म क्षणात् ।
दिक्कुक्षिंभरि यत्प्रयाणपटहध्वाने समुत्सर्पति ॥ ९५ ॥
 
“गांभीर्येण विनिर्जितोहममुने” त्यंभोनिधे त्वं वृथा
खेदं मास्म कृथा जनः किल जनं दृष्ट्वा समाश्वासयेत् ।
सत्त्वाधारतया तथोन्नततया पश्यैष देवाऽचलो
जिग्येऽनेन तथा यथा नयनयो र्हित्वा गती गोचरं ॥ ९६ ॥
 
यावत्कर्तु मयं ववांछ विलसत्कोदंड मार्जौ करे
तावद्वैरिनृपः पुंरैव विलसत्कोदंडमाधात्पुरः ।
एतस्मात्कथमन्यथा प्रकुपितात्साक्षात्कृतांतादिव।
प्राणत्राणविधिर्दिगंतबलिभूः स्वर्गं गतानामपि ॥ ९७ ॥
 
निर्विण्णोयमरीमिहत्य गणशोप्याजावुवाह क्षमां
इत्याकर्ण्य निधत्त दर्पिततमान् रे भूभुजो मा भुजान्।
दुर्लक्ष्यं किमु वेधंसापि चरितं जानीथ नास्याखिलं
बाह्यामेव वहत्यसौ सुमहतीमेनां न चांतर्गतां ॥ ९८ ॥
 
पंचाप्यस्य करेण दानविधिनां कल्पद्रुमा निर्जिप्ता
एकैकां कलिकां बलिव्यतिकरा..त्त्वांगुलीं स्वामिव !
आसन्नांगुलिकाः स चाभिरभवत्पंचांगुलिः पप्रये
लोकेपि व्यवहार एष न भवेत्प्राग्भिः किमंगीकृतं ॥ ९९ ॥
 
उज्झत्येष विपक्षवृत्तिमपि नो खङ्गं करात्कर्हिचित्।
नांगुल्यापि यदि स्पृशेद्धणवतोप्यस्मान्सपक्षानपि ।

बिभ्राणा इषवो विशन्क्षितितलं दूरे यदीया रणे ॥ १०० ॥

हाहा केयमनौचिती जलंनिधेरद्यापि हृष्यत्यसौ
यं दृष्ट्वा जितमप्यमुष्य यशसा चंद्रं मुहुः स्वांगजं ।
प्राप्यैतन्महसा तथैव वडवावह्निं च शुष्यत्यहो।
सर्वः कोपि परस्य पश्यति जनो दोषं न च स्वस्य तं ॥ १०१ ॥

उत्सर्पद्रुरुदर्पदर्पितभुजादंडारिदंतावल-
व्रातावग्रहनिग्रहाग्रहमहानागेंद्रसांद्रप्रभः ।
हत्वा यो युधि हेतिमं शकपतिं निर्व्याजवीरव्रतो
मत्तेभांश्चतुरोऽग्रहीद्वलकरान्मूर्तानुपायानिव ॥ १०२ ॥
 
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते
श्रीहम्मीरमहाकाव्ये वीरांके तदीयंपूर्वजवर्णनो नाम प्रथमः सर्गः ॥ ९ ॥

अथ द्वितीयः सर्गः



अथो अभावात्तनुजस्य भीमं भ्रात्रेयमात्मीयपदे निवेश्य ।
कृतारिषद्वर्गजयः स सिंह-राजो हरेर्धाम जगाम नाम ॥ १ ॥

तंद्राज्यमासाद्य स भीमदेवः सद्यस्तथा विक्रममाततान ।
न वास्तवी कापि यथा धरायां बभूवुषी शत्रुरिति प्रवृत्तिः ॥ २ ॥

कौक्षेकाग्रक्षतकुंभिकुंभो-च्छलद्गलन्मौक्तिककैतवेन ।
अपातयद्यो रिपुशौर्यबले र्यशःप्रसूनानि चिरार्जितानि ॥ ३ ॥
 
स्वप्नेपि यद्दर्शनतो भयार्त्ता निद्रा प्रियामप्यजहुर्विपक्षाः ।
क्रियेत किं शर्करया तया वा या भक्ष्यमाणाऽशु दतो भनक्ति ॥ ४ ॥

श्रेयस्तरं हंत गुणाऽगुणानां परीक्षणं यद्यपि नो तथापि ।
चकार यः प्रार्थिषु नेयतापि गर्वोद्धुराः संतु सुरद्रुमाध्याः ॥ ५ ॥

अथोद्दिदीपेऽनयनिग्रहाय बद्धाग्रहो विग्रहराजभूपः । ।
द्विधापि यो विग्रहमाजिभूमा वभंजयद्वैरिमहीपतीनां ॥ ६ ॥

                   
संकोचयन्वैरिमुखांबुजानि प्रवर्द्धयन् कौमुदमासमुद्रं ।
संपीडयन् दुर्नयसैंहिकेयं नवो विवस्वान् भुवि यत्प्रतापः ॥ ७ ॥
 
पुरां निजैः प्रौढतरैः प्रतापै रतापयद्यः कुपितो धरित्रीं ।
ततो दयार्द्रीकृतचित्तवृत्ति र्यशः सुधाभिर्नितरामसिंचत् ॥ ८ ॥
 
अप्युग्रवीरव्रतवीरवीर-संसेव्यमानक्रमपद्मयुग्मं ।
श्रीमूलराजं समरे निहत्य यो गुर्जरं जर्जरतामनैषीत् ॥ ९ ॥

कृतारिषड्वर्गजयो नयज्ञः श्रीर्गुददेवोय बभौ नृद्देवः ।
कवींद्रबद्वापि यदीयकीर्तेि र्जगत्समस्तं भ्रमतिस्म चित्रं ॥ १० ॥
 
चकार निर्विघ्नविधित्सितस्य यदोजसो द्रव्यलवेन वेधाः ।
गौरीपतेर्यं तिलकं खमूर्ते श्यकास्ति सोद्यापि सहस्ररश्मिः ॥ ११ ॥
 
महीमृगकोहमिति प्रजा्नां न्यधत्त यो नैव करान् कठोरान्।
युक्तं स ईदृग्न चकोरहर्ष--दायी परं चित्रमिदं न कस्य ॥ १२ ॥
 
कल्पांतकालज्वलनोपमाने यस्य प्रतापे ज्वलितेभितोपि ।
यन्नितिवल्ली क्वच नापि नागा न्म्लानिं तदेतद्गुरुविस्मयाय ॥ ९३ ॥
 
त्रस्तः समंतादपि यत्प्रतापात् द्विषोभिगच्छन् शरणं जलस्य ।
अकृत्यमप्याद्रियतौर्ववान्हि रहो दुरंता बत जीविताशा ॥ १४ ॥
 
प्रत्यर्थिनां वेश्मसु यत्प्रताप-ज्वालावलीढेषु समंततॊ यत् ।
उज्जंगमामास तृणोच्चयस्त द्युक्तं जनेप्यस्य तथैव सिद्धेः ॥ १५ ॥
 
भूवल्लभो वल्लभराज्ञनामा ततोभवद्भास्वदनर्घधामा ।
लीलावतीलोचनलोभनीय-लावण्यलीलाद्भुतरूपसंपत् ॥ १६ ॥
 
हित्वा वपुर्मानुषमाजिभूमौ धृतत्वरा देवभुवं व्रजंत । t
प्रत्यर्थिभूपाः स्मृतयत्प्रतापा श्यकंपिरे वीक्ष्य सहस्ररश्मिं ॥ १७ ॥
 
स्वर्गश्रियां वैभवाजित्त्वरीणां श्रियामपारत्वमवेक्ष्य यस्य ।
तत्स्पर्धयेवाऽशु यशांस्यपारी--भूय व्यजृंभंत जगत्यशंकं ॥ १़८ ॥

विश्वंभराभारधुरीणबाहू रामस्ततो ऽजायत बाहुजेशः ।
विमर्दितोद्यत्खरदूषणेन येन त्रिलोकीं वशमाशु निन्ये ॥ १९॥

    
जयश्रियं स्वामिशयांबुजेन संयोजयन् शत्रुतमांस्यपास्यन् ।
ज्वलत्प्रतापावलिदीप्तकांती रणे कृपाणो रवयद्यदीयः ॥ २० ॥
 
छिंदन् शिरांसि प्रतिपक्षभूमी-भृतामसिर्यस्य विशुद्धधारः ।
पस्पर्श रक्तं न यतो विशुद्धाः परस्य कॆनापि न संसृजंति ॥ २१ ॥

ततो महीक्षित्तमतां दधार चामुंडराज्ञस्तरसा प्रचंडः ।
यत्पाणिपद्मे करवालवल्ली जयश्रियो वेणिरिव व्यराजत् ॥ २२ ॥
 
यस्य प्रतापः प्रसृतः पृथिव्यां बिभेद शंके दृषदोपि नूनं ।
अद्यापि नोचेत्स्फटिकोपलेभ्यो हिरण्यरेताः प्रकटः कुतोस्तु ॥ २३ ॥
 
कृतांतकांताकुचकुंभपत्र-लतापिधाने विधृतावधानं ।
यः संगरे हेज्ञमदीनसंज्ञं शकाधिराजं तरसा व्यधत्त ॥ २४ ॥
 
नृपोय दध्रे वसुधां सुधांशु-भाजिद्यशा दुर्लभराज्ञसंज्ञः ।
भ्रुवैव संगान्समरांगणे यः प्रापीपठद्वैरिगणान्निकामं ॥ २५ ॥
 
जितं स्वमालेाक्य यदीयकीर्त्या शंके त्रिनेत्रो ग्रहिलत्वमाप ।
महेश्वरस्यापि कुतोन्ययास्य कौपीनवासो वसनेनुरागः ॥ २६ ॥
 
यत्खङ्गधाराभिररिव्रजानां प्रतापवह्निः शमितः समंतात् ।
तदंगनाबाष्पभरैरथास्य चित्रं न कुत्रापि निरस्यते स्म ॥ २७ ॥

सहाबदीनं समरे विजित्य जग्राह यो बाहुबलेन मानी ।
असंख्यसंख्यार्ज्जितशारदीन-शशिप्रभाभेतृ तदीयकीर्तिं॥ २८ ॥
 
ततो भवद्दुःशलदेवनामा भूमानऽरिव्रातविजितृधामा ।
यन्मानसं प्राप्य न धर्महंसः कांस्कान् विलासान् कलयांचकार ॥ २९ ॥
 
पलायमाना दरतो द्विषंतो बुंबारवान् यान् समरेष्वकार्षुः।
जयश्रियः पाणिमहाय यस्य त एव वेदध्वनयो बभूवुः॥ ३० ॥
 
नाकेशनारीजनगीयमान-गीतामृतास्वादवितीर्णकर्णं ।
श्रिकर्णदेवं समरे विधाय संद्राज्यलक्ष्मीं परिणीतवान् यः ॥ ३१ ॥

हस्ते लगिक्षास्य जगत्समक्षं कंठे लुठंत्याः प्रतिभूपतीनां ।
यत्खङ्गवल्लेरसतीव्रतायाः किमौचितीं नांचति कालिका स्म ॥ ३२ ॥

 
महीं महीं भूषयतिस्म तस्मात् श्रीविश्वलो विश्वविलासिंकीर्तिः।
समूलमुन्मूल्य कुलं रिपूणा मेकाधिपत्यं भुवि यश्वकार ॥ ३३ ॥
 
प्रसृत्वराऽनीतिलतावितान-कुठारकल्पेपि यदीयराज्ये ।
ललास लोके यदनीतितैव तत्कस्य नो विस्मयमाततान ॥३४॥
 
यस्यारिनारीगिरिगह्वरेषु सुहृन्मृगाक्षीरतिमंदिरेषु ।
स्थिता सुखं भूषणभूषितांगी विवेद नैवोदितमस्तमर्कं ॥ ३५ ॥
 
हताऽहितानां सकलेवराणां स्पर्शोल्लसत्सुप्तिभराप्तदोषे ।
तल्लोलदृग्लोचनवारिपूरैः क्षोणीतलेंऽबूक्षणमक्षिपद्यः॥ ६६ ॥
 
अहीनधामानमदीनसेनं सहाबदीनं समरे निहत्य ।
अमूमुचन्म्लेच्छकुलैर्द्विधापि यो मालवस्यापि विभुर्विभुत्वं ॥३७॥
 
ततो भुवं भूषयतिस्म पृथ्वी--राज्ञः स्वकीयैर्विशदैर्यशोभिः ।
प्रकंपमाने युधि यत्कृपाणे चित्रं निपेतुर्द्विषतां वतंसाः ॥ ३८ ॥
  
मूर्ध्न्युह्यमाना सततं जनानां मनोरथानाशु समर्थयंती ।
आज्ञा यदीया हरपादपद्म-सेवेव कल्याणकरी बभूव ॥ ३९ ॥
 
गंधर्ववृंदैर्दिवि गीयमानां सौभाग्यभंगीं विनिशम्य यस्य ।
सा का सुरी स्वस्य न या ववांछ तत्संगमावाप्तिकरं नरत्वं॥४०॥
 
ततो बभावाल्हणदेवसंज्ञो भूभृद्भटं मन्यशिरोवतंसः ।
वने द्विषंतः स्मृतयद्रजेंद्रा श्वकंपिंरे वीक्ष्य महीभृतोपि ॥ ४१ ॥
 
देहीति जल्पन्नपि याचकेन दानप्रियो यो न जज़ल्प नेति ॥
दावन्नकिं दानपदेस्ति नोपि बलीयसी केवलमीश्वरेच्छा ॥ ४२ ॥
 
छिन्नद्विषच्छोणितशोणशोची रणेषु यस्यासिलता चकासे ।
या स्पर्द्दिनीं वाचमुवाच तेन कृष्टेव जिह्वा युधि सैव तेषां ॥ ४३॥
 
यद्रूपगानं भुवि गीयमानं निपीय कर्णाजलिभिर्निकामं ।
स्वप्नप्रसंगाप्ततदीयसंगा बभूव का नो धृतकामरंगा ॥ ४४ ॥
 
भानलदेवो भटमौलिमौलिरथोपयेमे नृपतित्वलक्ष्मीं ।
यः संगरे दारितवैरिवार-पाणिंधमं स्वर्गपथं चकार ॥ ४५ ॥

 
जेगीयमानं निजकामिनीभि राकर्ण्य यं शेष इति प्रदध्यौ ।
कोप्यस्ति धत्ते वसुधां क्षणं यां गत्वा यथैनं प्रविलोकयामि ॥ ४६ ॥
 
स्वकालिमानं वितरन्मरीणां तेषां च जीवं च यशांसि गृह्णन् ।
रणे यदीयः करवालदंडो वणिक्कलाकौशलकेलिरासीत् ॥ ४७ ॥

गिरीशकैलाससुधासुधांशु-श्रियं समाकृष्य यशः किमस्य ।
वेधा व्यधत्तास्य पुरो यदेते निःश्रीकतामाकलयांबभूवुः ॥ ४८ ॥
 
प्रोदंच्यपाणिं कनकाद्रिदंभा दिदं जगादेव वसुंधरेयं ।
दाता विवेकी विनयी नयी वा विहाय नैनं सुषुवे मयान्यः ॥ ४९ ॥

त्रस्तेन पत्याऽर्धपथे विमुक्ता स्थितापि यद्वैरिवधः स्वदेशे ।
शीतद्युतेस्तीव्रतया नवं स्वं द्वीपांतरं प्राप्तममंस्त किंचित् ॥ ५० ॥

पर्यतशैलप्रतिबिंबदंभात् क्रीडारसक्रोडितदिग्द्विपं यः ।
अचीखनत् पुष्करपुण्यपारं कासारसारं शुचि वारिवारं ॥ ५१ ॥
 
विस्मापकश्रीर्भवति स्म तस्मा द्बूभृत् ज्ञगद्देव इति प्रतीतः ।
दानं समानं समवाप्य यस्य वनीपकाः [के धनिनो नचोर्व्यां] ॥ ५२ ॥

सशोकधूमाश्रुजलैर्मिलित्वा निश्वासवातैरिपुकामिनीनां ।
सद्यो घनीभूय न दुर्द्दिनानि तेने यदोजो ज्वलनः किमासां ॥ ५३ ॥

त्यागेतिविश्वस्य विधेर्विधित्सो र्यस्यांगुलीः पाणितलं नखाँश्व ।
स्वर्गोस्तनाः स्वर्द्रुमपल्लवाःस्व--र्मणिः किलाभ्यासकृतेग्रसृष्टिः ॥ ५४ ॥
 
गुणान् यदीयान् गणयन् विधाता परिश्रमं तं कलयांचकार ।
त्रिलोक्य सृष्टावपि नानुभूते र्यल्लेशमात्रं विषयीबभूव ॥ ५५ ॥
 
ततो भवद्विश्वलदेवनामां विश्वापतिर्विश्वविकासिधामा ।
यत्पाणिपायोरुहि कर्णिकायाः पुपोष भावं ननु भूतधात्री ॥ ५६ ॥

विदारिताऽरातिकरींद्रकुंभा द्यान्यन्न पेतुर्युधि मौक्तिकानि ।
तान्येव पुष्पाणि विकस्वराणि यदीयकीर्तिव्रततेर्बभूवुः ॥ ५७ ॥

यदीयकीर्त्या विजितो हिमाद्रि रद्यापि ना श्रूणि विमुंचते किं ।
भृशं तपत् तापनतापतेन द्रवीभवद्भैमशिलाछलेन ॥ ५८ ॥

२]
१५
पूर्वज्ञवर्णनम्

 
गुणान् कणेहत्य निपीय यस्य भृशं प्रहृष्टोपि सुपर्ववर्गः ।
कष्टं [सचित्राहत एव तस्थौ न देवभूपं] श्रितवान् यदेषः ॥ ५९ ॥
 
तस्मादशोभिष्ट महिष्ठधामा महीमहेंद्रो जयपालनामा ।
स्रवद्भिरस्रैरिपुकामिनीनां यशस्तरुः पल्लवितो यदीयः ॥ ६० ॥
 
वृंदानि संख्ये बलिनामरीणां वीक्ष्यावरोधे च तनूदरीणां ।
यो विश्वविख्यातयशः प्रकाशो भृशं न कंदर्पमुरीचकार ॥ ६१ ॥

दुग्धोदधिस्फीततरत्तरंग-श्रेणिश्रियां वैभवजेतृभासः ।
जगूरणद्वेणुरवाभिरामं गुणान् यदीयानुरगेंद्रकन्याः ॥ ६२॥

गांगेयवद्रेयगुणस्ततॊऽभात् श्रीगंगदेवो वसुधासुधांशुः ।
निश्वासवातै रिपुकामिनीनां प्रतापसप्तार्चिरदीपि यस्य ॥ ६३ ॥
 
दोषाकरो यद्यशसो महत्वं विलोक्य मात्सर्यभरं दधानः ।
यदर्जयामास तम:कलंक-च्छलात्तदद्यापि न मुंचते ऽसौ ॥ ६४ ॥
 
परः शतेभ्योपि रिपुव्रजेभ्यो यच्छन्न तुच्छां सुरलोकलक्ष्मीं ।
उद्दामसंग्राममवाप्य मात्रा हीनः कृपाणोऽजनि यस्य नैव ॥ ६५ ॥
 
गतेषु कर्णादिषु दानशोंडे---ष्वयं जनो मा जनि दौस्थ्पपात्रं ।
ध्यात्वेति यं दायकचक्रशक्रं मन्ये दयालुर्विदधे विधाताः ॥ ६६ ॥

त्रैलोक्यलोकावलिकर्णकर्ण-पूरीकृतानंतगुणैकधाम । -
इलाविलासी जयतिस्म तस्मात् सोमेश्वरोऽनश्वरनीतिरीतिः ॥ ६७ ॥
 
रणेषु येन स्वकरांबुजेन प्रोल्लास्यमानासिलता चकासे ।
अंतः स्फुरत्क्रोधकृशानुजात-धूम्येव साक्षाद्वहिरुल्लसंती ॥ ६८ ॥

उक्तेन गोत्रस्खलनाद्यदीय-नाम्ना विलक्षं रमणं विधाय ।
चिराय संभोगरसंप्रसंगि चेतो निजं प्रीणयतिस्म का न ॥ ६९ ॥
 
वह्नेर्द्विषन्नंब्विति यत्प्रतापा ऽग्निमभ्यवर्षन्नरियोषितो ऽस्रैः ।
हविर्वदेभिर्ववृधे सकामं वामे विधौ वाममंशेषमेव ॥ ७० ॥
 
अनेन राज्ञा सममेकभावं कथं समायातु भुजंगराजः ।
अधात्सहस्रेण स गां शिरोभि रयं पुनस्तां भुजपैकयैव ॥ ७१ ॥

१६
[ सर्गः
श्रीहम्मीरमहाकाव्ये


कर्पूरदेवीति बभूव तस्य प्रिया [प्रिया] राधनसावधाना ।:
जितं यदास्येन जले निलीया द्याप्यप्सुजं किन्न तपस्तनोति ॥ ७९ ॥

इहस्थितो ऽसौ रमणः कदाचित् विलोक्य लुब्धो भविता बतैताः ।
इतीव या नो हृदये प्रवेष्टु मेणीदृशामप्यदितावकाशं ॥ ७३ ॥

पत्या भुवो वैषयिकं विनोदं सा निर्विशंकं किल निर्विशंती ।
अमानधामानमसूत सूनुं हरेरिवाशा तुहिनांशुबिंबं ।। ७४ ।।

अतुच्छवात्सल्यभरं दधानो वितत्य तज्जन्ममहं महतिं ।
जगज्जनाल्हादकरस्य पृथ्वी-राजेतिनामाऽधित तस्य भूपः ।। ७५ ।।

तनुत्विषानिर्द्दलितांधकार-जालः स बालोऽन्वहमेधमानः ।
भृशं प्रजानां नयनोबुजानां भद्रंकरो भानुरिवाजनिष्ट । ७६ ।।

शस्त्रेषु शास्रेषु च लब्धपारं विलोक्य भूमानथ तं कुमारं ।
साम्राज्यभारं प्रवितीर्य तस्मै योगेन मार्त्तं वपुरुत्ससर्ज्ज ।। ७७ ।।

पित्रा प्रदत्तं समवाप्य काले राज्यं स भूभृन्नितरां चकासे ।
अहर्मुखे हर्पति नोदयाद्रि र्यथा तमोव्रातविनाशि रोचिः ॥ ७८ ॥

गुणाभिघातं प्रसभं प्रकुर्व न्नप्येष चक्रे न गुणाभिघातं ।
अपि प्रतन्वन् परलोकबाधां न च प्रतेने परलोकबाधां ।। ७९ ।।

निषेवमाणोप्यसितांसंवृत्तिं नैवासितां वृत्तिमुपादितैषः ।
तेनेति तेने परलोकपीडा न तेन तेने परलोकपीडा || ८० ॥

द्विट्कुंभिकुंभतटदत्तटूढप्रहार-
प्रत्यंगलग्ननवमौक्तिककैतवेन ।
क्ष्मामंडलं फ़लितुमुन्मिषित्प्रसून,
राजीव यस्य युधि खड्गलता विरेजे ॥ ८१ ॥

कीर्तिर्यस्य सतीव्रतेति मृदुरप्याधत्त न प्रत्ययं
चित्तें कस्य न योज्झतिस्म तमहो कल्पांतमप्यास्थितं ।
अन्येषां तु सतीव्रतापि न सती वेश्येव तान् जीविता
बध्येबोज्झति चेन्नयास्म कतिचित्तान् जीवतोपयुज्झति ।८९ ॥

वाग्देवीं चिकुरे शशांक मुदरे शंभुं गले तद्वृषं
प्रोथाग्रे बलमंबरे मदकलं स्वःकुंभिनं कुंभयोः ।
जग्राहास्य यशोभ्रमेण भुवने भ्राम्यद्विषां दुर्यशो
धिग्वैरस्य दुरंततां स्फुरति या तत्संततावप्यहो ॥ ८३ ॥
भेजे यस्य शयालुतां शयपयोजन्मन्यसा विंदिरा ।
तद्रागेण समैदसिच्छलमलंकृत्य स्वयं श्रीपतिः ।
नैवं चेत् बलिवैरिविक्रमभरध्वंसेऽस्यकौतस्कुती
शक्तिः संयति संबभूव नितमामुल्लासिनीलद्युतेः ॥ ८४ ॥
दिक्शैलद्विपकूर्मभोगिविभवः प्रोद्धृत्य सर्वंसहां
तद्भूयो भरभंगुराः पारमुमुक्षंतोपि कंपच्छलात् ।
दृष्ट्वा यं प्रतिपन्नसूरमनिशं भूपालचूडामणिं
लज्जाकीलककीलिता इव न तां शंके त्यजंति स्म ते ॥ ८५ ॥
औन्नत्येन यशोभरेण च पराभूतिं परां लंभितो-
ऽस्योच्चैर्लभयितुं पराभवपदं वांछन् स्वयं तौ पुनः ।
ईशाराधनमाततान हिमवान् कन्याप्रदानादिभि
र्च्यर्थं किं यशसैककेन न तयोस्तं वेदमूढोजित ॥ ८६ ॥
चिंतारत्नावनद्धेऽनवरतममृता सिक्तकल्पद्रुसांद्र-
च्छायाच्छन्ने निषण्णा: श्रमविगमकृते चत्वरे चत्वरेपि ।
तीरे सिद्धापगायाः सुरसुरभिगणांश्चारयंत्योस्पदानं
जेगीयंतेस्म देव्यः करकमलमिलद्वेणुवीणाविलासाः ॥ ८७ ॥
शश्वद्येन निरीतितां गमयता क्षोणीतलं क्ष्माभृता
दिष्ठा अप्यतिवृष्ठयो जलनिधेः पारं प्रयातुं परं ।
यत्प्रक्षिप्य ररक्षिरेऽक्षिषु निजेषूच्चैरिपुस्त्रीजनै-
स्तत्तेनैव हतप्रियेण पुपुषे साकं न किं वैरिता ॥ ८८ ॥
यत्खड्गक्षुण्णभूमीपतिविततिशिरः संचरद्भक्तधारा-
वारां राशिः प्रसर्पत् क्षितितलमखिलं रक्तमेवाकरिष्यत् ।

3 A
१८
[सर्गः
श्रीहम्मीरमहाकाव्ये

एषा प्रोद्गच्छदच्छामृतकरकिरणक्षुब्धदुग्धाब्धिमुग्धा
यत्कीर्तिर्विस्फुंती यदि सपदि न तत् श्वेततामापयिष्यत् ।। ८९ ।।

वीरे यत्र रणे तथा वितरणे सन्मार्गणानां गणां-
स्तन्वाने प्रथमानमानविभवे संलब्धलक्षान् क्षणात् ।
पूर्वोपार्जितकीर्तिकर्त्तनभिया संभ्रांतचित्तश्चिरं
कश्चिन्न श्रयतिस्म दानपरतां नो वा भटंमन्यतां ॥ ९० ॥

इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहग्मीर
महाकाव्ये वीरांके श्रीभीमदेवप्रभृतिपूर्वजवर्णनो नाम द्वितीयः सर्गः
समाप्तः ॥ ६






अथ तृतीयः सर्गः




अथ प्रथीयस्तरसा रसायास्तलं शयालुं स्वशये-शकेन ।
सहाबदीनेन वितन्वतालमुपद्रुताः पश्विमभूमिपाला ।। १ ।।

आल्हादनेनाखिलभूतधाव्या यथार्थतां नाम निजं नयंतं ।
गोपालचंद्रांगवितीर्णरंगं श्रीचंद्रराजं पुरतो निधाय ॥ २ ॥

उपायनानीतमहेभकुंभ—गलन्मदाद्रीकृतभूमिभागं ।
भेजुर्भुजोर्जाविजितारि पृथ्वी-राजा लयद्वारमुदारवेगाः ॥ ३ ॥ त्रिभिर्विशेषकं

प्रवेशिता नाथगिराथ वेव-करेण कांताभरणा नरेण ।
पृथ्वीपतेः पादसरोजयुग्मं नत्वा यथा स्थानमुपाविशंस्ते ॥ ४ ॥

दीनाननांस्तान् प्रविलोक्य पृथ्वी-राजस्त्रत पार्श्वचरानुवाच ।
पद्मा हिमासीव निदाघसंज्ञे श्रियं किमंते दधते न भूपाः ।। ५ ।।

तं चंद्रराजोथ जगाद चंद्र-श्रीगर्दकूलंकषदंतदीप्त्या ।
हृद्युल्लसंद्वाङ्मयदुग्धसिंधो विस्तारयंस्तारतरानिवोमीन् ॥ ६ ॥

तपःप्रभावार्जितवर्यवीर्य सहिाबदीन शकमेदिनीनः ।
उपप्लवायाजनि धूमकेतुरिवाबनो बाहुंजमंडलानां ॥ ७ ॥

२]
१९
पृथ्वीराग्रामवर्णनम

देशानशेषान् जहि नागराणां हरैणनेत्रा दह मंदिराणि ।
विगृह्य यो बाहुजराजराजेः कुलानि चक्रे विपदाकुलानि ॥ ८ ॥

अशेषभूपालविशेषकाभ के नाम ते क्षोणिभुजः क्षमायां ।
स स्वोजसा त्रासितबाहुजानां वृंदैर्दरीः पूरितवान्न येषां ॥ ९ ॥

य: संगरे संगररंगवेदी क्षात्रं क्षणाद्वेश्म नयन् यमस्य ।
किं भार्गवीयं पुनरेव जात इत्याकुलैर्वीरकुलैर्व्यतर्कि ।१० ॥

अयं समागादयमाः समागाज्जना इति स्फारितलोचनाब्जं ।
दिशो दशापि प्रविलोकयंतो यतो भयेनानिमिषीबभूवुः ॥ ११ ॥

उद्वास्य शस्यान्यपि भूपतीनां यस्त्रैपुराणीव पुराणि शंभुः ।
अतिष्ठिपत् द्विट्कुलशूल मूल-स्थाने प्रधानां निजराजधानीं ॥ १२ ॥

निःकारणं दारुणवैरभाजा तेनाभिभूता नृपभूभुजोमी ।
समैयरुस्त्वां शरणं शरण्य मतो भवानेव परं प्रमाणं ।। १३ ।।

इत्येतदीयां विनिशम्य वाचं वाचयमानामपि कोपकत्रीं ।
आकृष्य कूर्चं तरवारिमुष्टि-पठिष्ठनाभात्करवारिजेन ॥ १४ ॥

मयूरबंधेन निबंध्य नैनं पादारविंदे यदि वः क्षिपामि ।
जातोन्वये तर्हि न चाहमाने इति प्रतिज्ञामकरोन्नरेश: ।। ९५ ।।

ततस्तत: श्रीः शुभकारिसर्व-ग्रहे विलग्ने विजये च योगे ।
चचाल चंचन् प्रतिपंथिमाथ चिकीर्षया व्याकुलचिंत्तवृत्तिः ॥ १६ ॥

पौरैणपोताभदृशः प्रयांतं प्रधिक्षियुस्तं प्रति यान् कटाक्षान् ।
मांगल्यहेतोः स्म भवंति तस्य त एव दूर्वाक्षतकांतिभाजः ।। १७ ।।

निरंतरप्राप्तमहाप्रसाद-विशुद्धये शुद्धधियः प्रकामं ।
करस्फुरत्स्फारतरासिदंड-स्फराः प्रचेलुर्वरवीरवारा ॥ १८ ॥

द्यावापृथिव्योरुदरंभरीणि प्रोत्तुंगरंगद्गजगर्जितानि ।
अपि द्वयानां धरणीधराणां सत्त्वानि चकुर्विधृताधृतीनि ॥ १९॥

प्रतापसूर्येऽभ्युदितेदसीये साध्यं किमेतेन बतोद्यतेन ।
इतीव तीव्रद्युतिमुद्यतश्रि-सैन्योत्थरेणुस्तिरयांबभूव ॥ २० ॥

२०
[ सर्गः
श्रीहम्मीरमहाकाव्ये

रजोव्रजै र्वाजिखुराभिघातो-त्यैर्जानुदघ्रत्वमपि प्रयाताः ।
मदोदकैः सैन्यमतंगजानां वंशद्वयस्यः सरितो बभूवुः।। २१ ॥

इति प्रयाणैः कृतवैरिवारः प्राणप्रयाणैर्नृपतिः किंयद्भिः ।
वसुंधरां भूरितरामतीत्याऽभ्यवेष्टयत्तच्छकराजदेशं ॥ २९ ॥

आजग्मिवांसं तमुपस्वदेशं चरैरथाकर्ण्य शकेश्वरोपि ।
संनह्य सैन्यं रिपुदत्तदैन्यं भेजेभ्यमित्रत्वमवार्यवीर्यः ।। २६ ।। द्य

कोदंडदंडद्युतिमंडितांगाः कटीतटाबद्धबृहन्निषंगाः ।
सूक्ष्माक्षिलक्षीकृतवैरिवीराः पृष्ठेनिरीयुर्यवनप्रवीराः ॥ २४ ॥

प्राक् रेणुजालानि ततः करेणु-कुंभभ्रमत्षट्पदइांकृतानि ।
ततो भटानां स्फुठासिंहनादाः सैन्यद्वयस्याप्यमिलंस्तदानीं ॥ २५ ॥

परस्परालोकनितांतजात-प्रसृत्वरायल्लकवेल्लदंगा ।
नानास्फुरद्धेतिभृतः प्रवीराः प्रतेनिवांसो रणरंगलीलां ॥ २६ ॥

मणीचकानीव महीरुहाणां क्षिपन् यशांसि द्रुतविद्रुतानां ।
क्वौ मरुत्वान् भटराजराजि-करांबुजत्यक्तपृषत्कजन्मा ॥ २७ ॥

मिथः समानाक्षिनिरीक्षणेन प्ररूढगूढप्रतिघा इवीच्चैः ।
घदैकदेशीयभटास्सुशोभा-श्वानामयुध्यंत हठात्तदानीं ॥ २८ ॥

दंतावलस्य प्रषरं प्रविश्य कश्चित्तदाघातकलाविपश्चित् ।
क्षुर्या विदार्योदरमुग्रवीर्यो विलोठयामास तमांशु भूमौ ॥ २९ ॥

उत्प्लुत्य कश्चित्तरसा रसाया आरूढवांस्तुंगकरींद्रकुंभं ।
लांगूललीलायितखङ्गदंड एणारिलीलां कलयांबभूव ॥ ३० ॥

कश्चित्स्पदात् स्पंदनमापतंतं धृत्वा करी काकमुखे सुखेन ।
अवाप्य सद्यो भ्रमिमंतरिक्षे प्रास्फालयत्संगरभूशिलायां ॥ ३१ ॥

प्रक्षिप्य पश्चात्करमुग्रवेगात् उत्पादितस्पंदनकैतवेन ।
योद्धुं स्वयं पंट्टिशमादधान इवेतरोभात्पदगै रमेभः ॥ ३२ ॥

चीत्कारमांकर्ण्य मतंगजानां वित्रस्यतः कोपि तुरंगमस्य । ।
उष्णीषखंडेन पिधाय कर्णावपूपुरतैः सममाहवेच्छां ॥ ३३ ॥

३]
२१
पृथ्वीराजसंग्रामवर्णनम्

हंतुं कुधा दंतिनमापतंतं अरुंतुदाग्रैर्युधि दद्भिरेव ॥
प्रत्यर्थिना लूनभुजद्वयोन्यो दशन् प्रतेने नययुद्धमेव ॥ ६४ ॥

सन्नाहसंधावभिजातगात्र-प्रभेदने किं कुतुकं भटानां ।
मनोपि तेषां परमाणुरूप मभेदि यत्तैः करलाघवेन ॥ ३५ ॥

तदा विपत्तौ पितरः सुतानां प्रमोदपूरं युधि लेभिरे यं ।
अपुत्रिणामप्यजनिष्ट तेषा मेतच्छतांशोपि न जन्मकाले ॥ ३६ ॥

अयोद्भटैश्चारभटैस्तुरष्का श्चंडासिदंडैरभिताड्यमानाः ।
नेशुः समंतालगुडप्रपातै र्यथा कुलान्येकविलोचनानां ॥ ३७ ॥

स्यात्येष यंत्रांतरसंस्थितानां यादृश्यवस्था हरिमंथकानां ।
तादृश्यभूद्भूपतिचाहमान-रणाश्रयाणां यवनेश्वराणां ॥ ३८ ॥

दृष्ट्वा विशीर्ण युधिजीर्णकल्प मिवात्मनीनं शिबिरं शकेशः ।
क्रोधादधाविष्ट महिष्टमुष्टि-धृतासिदंडः स्वयमाशुचंडः ॥ ३९ ॥

तमापतंतं प्रसमीक्ष्य चाह-मानोप्यधावद्धृततीव्रवेगः ।
अंतःस्फुरत्क्रोध कृशानुकीला-नुकारिरागारुणदारुणाक्षः ॥ ४० ॥

करोदरोद्भासिमहासिदंड‌-छलोल्लसत्पुष्करदुर्निरीक्षेौ ।
अभ्युद्यतौ वन्यगजौ किमेतौ वितर्क्यमाणाविति वीरवारैः ॥ ४९ ॥

प्रपूरयंतौ भुवनोदराणि पादाभिघातप्रतिजातशब्दैः ।
मिथः प्रहारप्रथनप्रवीणौ युद्धं चिरायातनुतां क्रुधा तौ ॥ ४२ ॥

एवं नृदेवो युधि युध्यमान प्रसह्य किंचिच्छलमाकलय्य ।
शकाधिराजं विनियम्य सम्य गपूपुरत्स्वां विधिवत्प्रतिज्ञां ।। ४३ ।।

महीमहेंद्रान् शरणागतांस्तान् स्वे स्वेधिकृत्वा विषये नयेन ।
ततः स मानी निजराजधानी मापद्विमानीकृतशत्रुजातः ॥ ४४ ॥

वासांसि दत्वा सुरलोकलोभिमहांसि तस्मा इति राड् मुमोच ।
हा तत्र को नाम पुनर्विधित्सु रमामया संगरमेवमुच्चैः ॥ ४५ ॥

पृथक् पृथक् संगररंगभंग्ये-त्यं सप्तकृत्वः क्षितिवासवेन ।
विनिर्जितोसौ यवनावनीशो मम्लौ च जग्लौ च भृशं नृशंसः॥ ४९ ॥

२२
[ सर्गः
श्रीहम्मीरमहाकाव्ये


अथासहस्तं स्वबलच्छलाभ्यां जेतुं शकेशः शकचक्रकेतुं ।
बलाभिलाषी प्रचचाल चंद्र इव ग्रहेशं प्रति षर्प्परेशं ॥ ४७ ॥

कांबोजलंगाहयभीमभिल्ल-बंगादिदेशाधिपपेशलश्रि ।
शिष्टाष्टलक्षप्रमितमिताहि-कांतत्वराजित्वरवाजिराजि ॥ ४८ ॥

संपादितारातिविपत्तिपत्ति-केव्याकुलं शौर्यकलं बलं स्राक् ।
उक्तात्मवतर्ताय नृपाय तस्मै घटैकदेशीयनृपो ददेऽथ ।। ४९ । ।

सद्यस्ततोऽसौ प्रसरत् प्रसादात् साम्राज्यमासाद्य सहाबदीनः ।
न केनचित् ज्ञातचरः समेत्य जग्राह दिल्लीमतिविग्रहेण ॥ ५० ॥
ततो भियाभ्यस्तपलायनानां हताहता हेति कृतारवाणां ।
भग्नप्रभाणां मुखतो जनानां समागमं शचुपतेर्निशम्य ।। ५१ ।।

रणे मयासौ शतशो जितोपि किं चापलं बाल इवातनोति ।
वहन्नहंकारमिति क्षितीशः प्रचेलिवांस्तुच्छपरिच्छदपि ॥ ५२ ॥ युग्मं

प्राग्लग्रतद्धस्तभृशानुभूत--भीस्तं समीक्ष्येति शकः प्रदध्यौ ।
अस्माकमेकाक्यपि नैव जेतुं शक्यो मृगाणामिव पंचवक्त्त्रः ।। ५३ ।।

ततो निज्ञीथे निभृतांधकारे संप्रेषितैः प्रत्ययितैः शकेशः ।
अबीभिदत्पुष्कलनिष्कदानै स्तस्याश्वपालं सह तौर्यिकै सः ।। ५४ ।।

दिष्ठया समेता ध्रुवमस्मदुक्ता यास्यंति वेश्मानि परं निजानि । ।
हन्मो वितन्मोद्य दृढं स्वराज्य मित्युक्तियुक्तिप्रथका मिथोपि ।। ५५ ।।

आकाशशेषे तुहिनांशुबिंबे प्रकाशकल्पेऽतुहिनद्युतौ च ।
शका समंतान्निभृतं समेत्य पृथ्वीपतीये शिबिरे निपेतुः ।। ५६ ।। युग्मं

गृहाण शत्रं निगृहाणं शीघ्रं प्रयात एवैष शक्रोऽग्रतस्ते ।
आहन्म एतान्निहता बतैतै रित्यं भटभोद्भटवाक्यचित्रे ॥ ५७ ॥

प्रवर्तमाने समरें समंता च्छकेशनुन्नेन तदाश्वपेन ।
तुरंगमस्तेन नृपाय नाटा-रंभाभिधानो श्वयते ददे सः ॥ ९८ ॥

३]
२३
पृथ्वीराज संग्रामवर्णनं


तमश्वमारूढममुं विभाव्य शंकात्तचित्ता अथ तौर्यकास्ते ।
अवीवदन् वीरवरप्रियाणि मृदंगभरीपटहादिकानि ॥ ५९ ॥

अभ्युन्नतांभेाधरधीरगजि-वितजिनं तूर्यरवं निशम्य ।
प्रनर्त्तितुं बर्हणवत्प्रवृत्ते तार्क्ष्ये विलक्षः क्षणमास भूपः ।। ६० ॥

भज स्थिरत्वं व्रज मा विषादं इत्युक्तिभाजो यवना जवेन ।
किं कार्यंता मूढममुं तथास्य सवेष्टयन् द्राक् चटका इवाहैिं ॥ ६९ ॥

भुवं स्पृशन् दक्षिणपादजान्वं-गुष्ठेन चाकुंचितवामपादः ।
वहन् कृपाणावरणं च हस्ते ऽथोत्प्लुत्य सप्तेर्निषसाद भूमौ ॥ ६२ ॥

भंग्या भ्रुवः कांश्चन कांश्चिदुग्रा-सेर्वेल्लनैः कांश्चन सिंहनादैः ।
वित्रासयन् चित्रविधायि युद्धं चिराय चक्रे भटचक्रशक्रः ॥ ६३ ॥

पृष्ठे शकस्तावदुपेत्य कश्चित्प्रक्षिप्य कंठे धनुराततन्यं ।
अपीपतद्भूपतिमाशु पश्चात् संभूय सर्वे तरसा बबंधुः ॥ ६४ ॥

अथ स धरणिकांतः सद्गुणालीनिशांत:
प्रतिहतखलजातः प्रौढराढावदातः ॥
विधिविलासितयोगादाप्तबंधः शकेंद्रात्
द्विरपि रतिमहासीद्भोजने जीवने च ॥ ६५ ॥

यवनाधिपदेशमनुप्रहितं विभुनै[व] पुरोदयराजभटं ।
समुपेतमवेक्ष्य तदा शकराद् प्रविवेश पुरीमुररीकृतभीः ॥ ६६ ॥

कष्टं निशम्योदयराज र्इशितुः प्राप्तं तथा नाह मभूव मित्यय ।
मूर्धानमुच्चैरधुनोन्मुहुर्मुहुः शल्यं तदुद्धर्तुमिव स्वतो हृदः ।। ६७ ।।

संत्यज्यैनं व्यसनपतितं स्वामिनं चेद्द्गजामि
क्रीडां व्रीडा कलयति तदा गौडगोत्रे सुखं मे ।

इत्थं ध्यात्वा शकपतिपुरीं संनिरुध्याभितोसौ
तस्थौ पक्षद्वयमनुदिनं युंध्यमानो हठेन ।। ६८ ।।

म्लेच्छावनीपमिममेवमन्यदा कश्चिज्जगाद सविषादमानसः ।
त्वामेष केोऽमुचदनेकशो रणे त्वं नैकवेलमपि हा जहास्यमुम् ॥ ९९ ॥

धर्मोचितामपि तदेति तद्गिरं श्रुत्वा भृशं स कुपितो नृशंसधीः ।
उच्यंत एत इत एव विद्रव-द्राजज्ञकोपनिषदस्तमित्यवक् ॥ ७० ॥

वीरेंद्रेष्वथ दत्तदृष्टिषु धरापीठे ह्रिया स्राक् सतां
सांद्राश्रुस्तुतिसिक्तशोकलतिकाकंदेषु वृंदेषु च ।
आनीयैष नृपं तमुग्रतररुट् दुर्गातरे चीचय-
त्कार्याकार्यविचारणांधबधिरा हाहाऽधमाः सर्वतः ॥ ७९ ॥

शैवा य “च्छिव” मामनंति “सुगतं” बौद्धा यदाचक्षते
“सर्वज्ञं” यदुदाहरंति नितमामर्हन्मते छेकिलाः ।
तद्ब्रह्माद्भुतचिन्मयं स्थिरमनास्तत्र स्थितोसौ स्मरन्।
पृथ्वीराजनृपो नृपालितिलको लेभे शिवं शाश्वतं ॥ ७२ ॥

पृथ्वीपतेरिति विनाशगतिं निशम्य
दूनः स गौडकुलपंकजबालसूर्यः ।
स्थानं निजं तदुपगम्य बलं स्वयं च
युध्वा दिवस्पतिपदं तरसाससाद ॥ ७३ ॥

अधिगत्य भूपतिविपत्तिमिति स्रवदश्रुमिश्रनयनस्तदनु ।
विहितौर्ध्वदैहिक इलामखिलां स्वकरे चकार हरिराजनृपः ॥ ७४ ॥

यन्नामप्रतिवर्णसंश्रुतसुधापूरापतद्यद्यशः
कर्पूरोरुरजोभरप्रसृमराविर्भाविपंकाकुले ।
वाणीनां पथि नाभजंत पथिकीभावं यदीया गुणा
औदार्यप्रमुखाः किमद्भुतमहॊ तत्तत्कवीनामपि ॥ ७५ ॥

यत्पाणिं सरसीरुहं किल रमा भेजेऽसिदंभाच्च तां
रागादन्वगमत्स्वयं हरिरभूत्सूनुः प्रतापस्तयोः ।
यः श्रुत्वाऽग्रजवैरिणं स्मररिपुं कोपात्तयाऽतीतपत्
नालं दूरयितुं यथा क्षणमपि स्वस्मात्स गंगामभूत् ॥ ७६ ॥

भूचक्रे स्वयशोद्रितुंगशिखरादभ्युद्गतैरंशुभि-
र्ब्रह्मांडाहतिभमवेगविधुरैः पश्चान्निवृत्तैः पुनः ।

३]
२५
पृथ्वीरासंग्रामवर्णनम्

देवानामपि कुंभजन्ममुनये दातुं किमर्थं व्यधात्
नित्योल्लासिवेिकासिकाससुभगं भूष्णुश्रियं यो दिवम्। ७७ ।।

विधुरतिविधुरश्रीर्निस्तरंगा च गंगा'
कनकगिरिरगौरस्त्यक्तगर्वश्च शर्वः ।
कुमुदममदमैंद्रः सिंधुरो नोद्धुरोजा
भजनि लसति विष्वग्द्रीचि यत्कीर्तिपूरे ।। ७८ ।।

यान् यान् व्यत्यगमन्नृपान् कृतनतीस्ते ते प्रकाशं ययु-
र्यान् यान् प्रत्यचलच्च भेजुरभितस्ते ते क्षणान्म्लानतां ।
यस्य क्षोणिपतेः प्रतापवसतेर्दिग्जैन्नयात्रोत्सवे
सेना कापि न वा व्यराजततमां संचारिणी दीपिका ॥ ७९ ॥

कर्तुं दिग्जयमुद्यतस्य निखिलं क्षोणीतलं क्रामता-
मश्वानां गतिभंगता मुपनयन् वेगोत्तरं धावतां ।
वारांराशिरसावजायत तमां यस्यांतरायः कवे-
र्वाचां वाच्यविचारभास्वररुचां गोष्ठीशठानामिव ॥ ८० ॥

हत्वानेन विपक्षभूमिपतयः स्वर्वैभवं लंभिता
अस्येमामुपकारितां स्वहृदये संभाव्य तेपि क्षणात् ।
सच्चकुर्गजवाजिराजिवसुधाकोशादिदानैरमुं
वंध्यं सारपरोपकारजनितं पुण्यं न शत्रावपि ।। ८९ ।।

हुत्वा यो निजकोपपावकमुखे द्विङ्वीरहव्यं शुचा
कंदत्तद्रमणीविलोचनगलद्भाष्पांबुभिर्भूरिभिः ।
भूचक्रेऽत्र तथातिवृष्टिमनिशं प्रोल्लासयामासिवान्।
आशिश्राय यथाविनाशमचिरादन्यायबीजांकुरः । ८२ ॥

इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा
काव्ये वीरंकेि श्रीपृथ्वीराजरांग्रामवर्णनो नाम तृतीयः सर्गः ॥




२६
[सर्गः
श्रीहम्मीरमहाकाव्ये

अथ चतुर्थः सर्गः



कुर्वन् कुवलयोल्लास मसंतापकरैः करैः ।
वेला इव तुषारांशुः स प्रजा अभ्यवीवृधत् ॥ १ ॥

राज्यं निर्विशतेऽन्येद्यु र्हरिराजमहीभृते ।
प्रीतिव्रततिवृद्ध्यर्थं श्रीगुर्जरनरेश्वरः ॥ ९ ॥

विस्फुरच्छुक़संबंधाः समुन्नतपयोधराः ।
वर्षा इवोल्लसद्धर्षाः प्रेषयामास नर्त्तकीः ॥ ३ ॥ युग्मं

अन्यदा स्फुरितोदार-स्फारशृंगारभासुरे ।
नृपे च नृपलोके च स्फीतप्रीतौ निषेदुषि ॥ ४ ॥

वाद्यमानेषु वाद्येषु तालमेलमनोहरं ।
गायनेषु च गायत्सु कोकिलालापकोमलं ।। ५ ।।

दृढयौवनसोपानाः श्रृंगाररसवारयः ।
विस्फुरद्द्नालसेवाला विलासोल्लासवीचयः ॥ ६ ॥

पीनस्तनोल्लसत्कोका विस्मेरवदनांबुजाः ।
चलदृक्पृथुलोमानः सुमेषोर्दीर्घिकां इव ॥ ७ ॥

वात्याव्यतिकराद्धूत-कदलीदलवत्तनुं ।
वेल्लयंत्यो भ्रमंतश्च चक्रजीविकचक्रवत् ॥ ८ ॥

कदाचिद्भुजयोर्मूलं कदाचिन्नाभिमंडलं ।
कदाचन कुचोन्नत्यं दर्शयंत्यो मुहुर्मुहुः ॥ ९ ॥

लसल्लावण्यलीलाभि र्लोकलोचनलोभनाः ।
मूर्त्ताः (कंदर्प) दर्पास्ताः प्रावर्तत प्रनर्तितुं ॥ १० ॥

सप्तभिः कुलकं
तस्यांजननमेवासी दासां लावण्यवारिधौ ।
मग्रे दृग्मनंसी यस्य निर्यातुं शक्ततां गते ॥ ११॥

२७
तज्जन्मवर्णनम्

इति तासां स्फुरद्भासां नाट्यं पश्यन्नहर्निशं ।
क्षणमात्रमपि त्यक्तुं नालंभूष्णुरभूदयं ॥ १९ ॥

ततोऽसौ गीतनृत्तादि-दक्षदानपरायणः ।
मितंपचत्वं शिश्नाय सेविनां जीविकार्पणे ॥ १३ ॥

वार्तामलभमानास्ते तस्य सेवामहासिषुः ।
स्वार्थसिद्धिं विना कोपि किं स्यात्कस्यापि सेवकः ॥ १४ ॥

राज्यस्थितिं तथाभूतां दर्शंदर्शं प्रजा अपि ।
विरज्यंतेस्म तस्मात् स्राग् स्त्रितमा दुर्भगादिव ॥ १५ ॥

एतत्स्वरूपं विज्ञाय प्राग्वैरी शकनायकः ।
ससैन्योभ्येत्य दिल्लीतो देशसीमानमानशे ॥ १६ ॥

काकनाशं ततो भीत्या प्रनष्टजनताननात् ।
सौख्यसर्वंकषं श्रुत्वा गमनं शत्रुभूपतेः ॥ १७ ॥

आरभ्य पृथ्वीराजेंद्र-नाकलोकाप्तिवासरं ।
अकृत्यमिति संत्यक्त-३ाकाननविलोकनः ॥ १८ ॥

सांतःपुरपुरंधीक स्नतोसौ ज्वलने विशत् ।
भाविनी यादृशी कीर्ति र्मतिः स्यात्तादृशी नृणां ॥ १९ ॥
त्रिभिर्विशेषकं

नाकलोकं पृणे ऽमुष्मि न्नग्लासीत्तत्परिच्छदः ।
अस्तंगते जगद्दीपे स्मेरः किं कमलाकरः ॥ २० ॥

अपुत्रत्वेन भूभर्तुः शत्रोरागमनेन च ।
चिंताचांतहृदो बाढं मंत्रयंति स्म मंत्रिणः ॥ २९ ॥

अपत्यं भूपतेर्नास्ति भटा न च रणोद्भटाः ।
विंपक्षस्तु महावीर्यः कथं रक्षिष्यते पुरं ॥ २२ ॥

तत् त्यक्त्वा नीवृतं यामो रणस्तंभपुरं प्रति ।
सूरोपि बलवैकल्यात् श्रयेत् द्वीपांतरं न किं ॥ २३ ॥

२८
[सर्गः
श्रीहम्मीरमहाकाव्ये

तत्रास्ति पृथ्वीराजस्य प्राक् पित्रातो निरासितः ।
पौत्रो गोविंदराजाख्यः स्वसामर्थ्र्यात्तवैभवः ॥ २१ ॥

स्वस्वामिवंशकासार-हंसं तं भूपमाश्रिताः ।
कीर्त्तिपात्रीभवंतोऽव-तिष्ठेम ह्यकुतोभयाः ॥ ९५ ॥

मंत्रयित्वेति भूपीयं सर्वं कोशबलादिकं ।
सहादाय चलंतिस्म रणस्तंभपुरंप्रति ॥ २६ ॥

दावपावकवत् वार्क्ष्र्यं ज्वालयन् देशमुद्वसं ।
शकः पश्चादुपागत्या ज्जयमेरुपुरं ललौ ॥ २७ ॥

अथ प्राप्य रणस्तंभं पुरं गोविंदभूपतेः ।
समगंसत ते सर्वे वृत्तांतं च न्यगादिषुः ॥ २८ ॥

पितृव्यस्य तथाभूतं मृत्युं श्रुत्वा धराधिपः ।
वाचामगोचरं कष्टं कलयामास मानसे ॥ २९ ॥

स्मृतिस्मृतिपरित्यक्त-शोकः कृत्वौर्ध्वदैहिकं ।
धीसत्वांस्तान् यथायोग्य-कार्येणायोजयन्नृपः ॥ ६० ॥

पराभवन् द्विषच्चक्रं प्रभवन् न्यायवृद्धये ।
सौख्यं चानुभवस्फीतं स प्रजाश्चिरमन्वशात् ॥ ३१ ॥

गोविंदे दिविषद्दृंदे संचारयति चातुरीं ।
तानवं शात्रवं निन्ये श्रीमद्वाल्लण भूपतिः ॥ 32 ॥

घनवत् समरे यत्र शरासारं वितन्वतिं ।
नाशेनैवा ऽभवद्व्यक्ता रिपूणां राजहंसता ॥ ३३ ॥

वर्षत्यपि भृशंवाण - धाराभिर्द्धनुर्घने ।
चित्रं विच्छायतामेव भेजिरे शत्रुभूभृतः ॥ ३४ ॥

सत्वरं जित्वरं वीक्ष्य समरे यमरिव्रजाः ।
अभिलेषुः सपक्षत्वं न वरं नाशहेतवे ॥ ३५॥

नाम्नि धाम्नि च संक्षेपं विधित्सन् यो विरोधिनां ।
अवनीपालतां हित्वा द्राग् वनीपालतां ददौ ॥ ६६ ॥

२९
तज्जन्मवर्णनम्

स दानभोगौ गोचक्र-मंडनौ पापखंडनौ ।
उभावभूतां तत्पुत्रौ सूर्याचंद्रमसाविव ॥ ३७ ॥

गुणश्रेष्ठस्तयोर्ज्येष्ठः ख्यातः प्रल्हादनाह्कयः ।
द्वैतीयीको द्वितीयश्री र्वाग्भटः प्रतिपद्धटः ॥ ३८ ॥

समं वितन्वतोः क्रीडां सममभ्यस्यतोः कलाः ।
अवर्द्धिष्ट तयोः प्रीती रामलक्ष्मणयोरिव ॥ ३९ ॥

वीक्ष्याऽन्यदा नृपो सूर्ध्नि पलितं करणीं जरां ।
शपतिस्माऽशु भोगेभ्यो योगेभ्यः श्लाघते स्म च ॥ ४० ॥

ततोनुशास्य विधिना भूपः पुत्रावुभावपि ।
न्यधात् प्रल्हादनं राज्ये प्रधानत्वे च वाग्भटं ॥ ४१ ॥

स्वयं स्थित्वा किंयत्कालं तयोः प्रीतिमिवेक्षितुं ।
प्रांते स्मरन् परब्रह्म बभूवे दिविषत्पदं ॥ ४२ ॥

कृत्वौर्ध्वदैहिकं वप्तु स्ततः प्रल्हादनों नृपः ।
अरंजयत्प्रजा नाठ्यो-पनिषज्ञो यथा सभाः ॥ ४३ ॥

भास्वत्यभ्युदिते यस्मि न्नासत्यजनि कर्त्तरि ।
सपक्षैश्च विपक्षैश्च कौतुकं कौशिकायितं ॥ ४४ ॥

विशामीशे दशाऽप्याशा जेतुं यत्र कृतोद्यमे ।
वैरिणो जीवितं बातुं द्विधापि प्रधनं जहुः ॥ ४५ ॥

बलिध्वंसोल्लसद्धामा शयशायिसुदर्शनः ।
विंष्वक्सेनोपि यश्चित्रं न भेजे दानवारितां ॥ ४६ ॥

उत्सलदूलिंविज्ञात-खुराग्रक्षुण्णभूतलाः ।
त्वरया वायुविस्फूर्ति-जित्वरा स्तुरगा बभुः ॥ ४७ ॥ .

मुदान्यदा स दावाग्नि-प्रतापश्वापविद्गुरुः ।
विधित्सुः पटुमाखेटं निरगान्नगराद्बहिः ॥ ४८ ॥

आजानुलंबि सुस्थूल-नीलीचीवरधारिणः ।
चेलुः पदातयो मूर्त्ता भयानकरसा इव ॥ ४९ ॥
 

३०
[ सर्गः
श्रीहम्मीरमहाकाव्ये

स्तंब्धोर्ध्वकर्णाः सुस्निग्ध-वर्णाः स्वर्णाग्रकंठिकाः ।
चाक्षुषा मातरिश्वान इव श्वानश्यकासिरे ॥ ५० ॥

वाहिंनीशतसंश्लेष-बहलैः प्रचलद्वलैः ।
समुद्रैरिव कल्पांत-भ्रांतैर्विव्हलयन्निलां ॥ ५१ ॥

विंस्मेरसुमनोबाण-करवीरमनोहराः ।
नारीरिव वनीर्वीक्ष्य नृपोभूद्रंतुमुन्मनाः ॥ ५२ ॥

बलभद्रास्ततः केपि हरिमार्गानुसारिणः ।
केचिच्छशधरादृष्ट -सिंहिकासुतविक्रमाः ॥ ५३ ॥

केचिच्छिवानुगा रौद्रा वृषोल्लंघनजांघिकाः ।
अंतर्वणं विशंति स्भ भटा आखेटलंपटाः ॥ ५४ ॥

द्विधापि पृष्ठदानेन सन्नपः कोपेि सिंहयोः ।
यशोमृतं पिबन्नतः स्थितः क्रोडं व्यडंबयत् ॥ ५५ ॥

मत्स्वामिवल्लभां शश्वद्वसुधां चंखनीत्ययं ।
इति प्रकुपितः कोपि वराहं मध्यतो ऽच्छिनत् ॥ ५६ ॥

त्वन्नेत्रकांतिचौरोयं यथारुचि विधीयताम् ।
इति कश्कित्प्रियाप्रीत्यै मृगं बध्वा समाग्रहीत् ॥ ५७ ॥

निघ्नन् पुरः स्थितं सिंहं हत्वा पृष्ठागतं परं ।
लेभे काकाक्षगोलस्यो-पमानं कस्यचित्करः ॥ ५८ ॥

तत्कटीदर्शनादाशु प्रियां संस्मृत्य कश्चन ।
न हातुं न प्रहंतुं च सिंहमासीत्क्षणं क्षमः ॥ ५९ ॥

व्यात्तवक्त्रे करं क्षिप्त्वा छित्त्वा केसरिणः शिरः ।
उदांचितभुजो बाहु-त्राणवत्कोप्यदीदृशत् ॥ ६० ॥

निजिघांसुं मृगीं कंचिन्मृगो दृष्ट्वातिकष्टितः ।
स्वयमासांतरावर्ती कटास्नेहकटाक्षितं ॥ ६९ ॥

वंचयित्वायं दाक्ष्येण कोपि दृग्गोचरं हरेः ।
पृष्ठमारूढवान् सिंह--यानलीलायितं दधौ ॥ ६९ ॥

३१
तज्जन्मवर्णनम्


कृत्वातिसिंहस्थामप्राक्-पश्चाच्छस्त्रेण पातितः ।
वराहो रारटीतिस्म स्वभावः खलु दुस्त्यजः ॥ ६३ ॥

नृपोपि वर्षन् हर्षेण शरासारैररुंतुदैः ।
श्वापदानापदाक्रांता न्कुर्वन्गच्छन् यदृच्छया ॥ ६४ ॥

क्वचिद्गिरिणदीतीरे स्फुरच्छरवणांतरे ।
पारींद्रमेकमद्राक्षी न्निद्रामुद्रितलोचनं ॥ ६५ ॥

युग्मं
उत्साह्य भूपो विज्ञात-शरसंधानमोक्षणः ।
निर्ममे दक्षिणेर्म्माणं तं पारींद्रं विनिद्रितं ।। ६६ ।।

तेनैवोत्साहनादेन कुतोपि कुपितोन्यतः ।
तावत्परः स्फुरत्फालः सिंहः संहतविक्रमः ।। ६७ ।।

जग्राह भूपतेरंसं प्रांशुं तीव्राग्रदंष्ट्रया ।
उरोविदारं रांज्ञापि क्षुर्याऽसौ प्रतिचस्करे ।। ६८ ।।

युग्मं
दंष्ट्राघातस्रवद्रक्त--धाराभिरभितष्यितः ।
दधौ धातुद्रवश्लिष्ट-शैललीलां क्षणं नृपः ॥ ६९ ॥

ततो दंष्ट्राविषोत्सर्पि-मूर्छाभिर्विव्हलीकृतः ।
यतीवर्द्धि स पापर्द्धि त्यक्त्वागादात्पमंदिरं ॥ ७० ॥

मंत्रवादिगणैर्वैद्य-वृंदैरपि परः शतैः ।
भृशं चिकित्स्यमानोपि नाभूद्भूपः स्वरूपभाक् ॥ ७१ ॥

दुश्चिकित्सतरं ज्ञाखा ऽत्मानं भूपोथ सर्वथा ।
वीरनारायणं पुत्र मभ्यषिंचान्निजे पदे ।। ७२ ॥

पतिष्यच्चाहमानीय राज्यश्रीवल्लिपादपं ।
वाग्भटं च समाहूय सोदरं जगिवानिति ॥ ७३ ॥

शौर्य बुद्धिरविश्वासो राज्यश्रीकारणं त्रयं ।
तदुक्तं स्थावरे स्वापं दुरापं शैशवे पुनंः ।। ७४ ।।

तदस्ति स्वापचापल्ये बाल्येऽसौ वयसि स्थितः ।
अनुशास्यस्तथाकारं यथास्यान्नाहितं क्वचित् ॥ ७५ ॥

३२
[सर्गः
श्रीहम्मीरमहाकाव्ये


दौःशल्येन सुतस्यास्य सशल्य इव वाग्भटः ।
मंदंमंदमथाचख्यौ मन्युगद्गदया गिरा ॥ ७६ ॥

भवितव्यं तु न स्वामिन्निरोद्धुं कोपि सासहिः ।
त्वामिवैनं पुरोपासे सावधानः परं सदा ॥ ७७ ॥

उक्त्वेति वाग्भटे तूष्णीं तस्थुषि क्षितिपाग्रणीः ।
चिकीर्षयात्मनीनस्य सस्मार परमात्मनः ॥ ७८ ॥

राज्ञ्यथांस्तमिते तस्मिन् वीरनारायणो विभुः ।
भास्वानिवासील्लोकानां कमलीलासकोविदः ॥ ७९ ॥

स्वतेजसैव यस्याशु द्विषतः र्पिषतः सतः ।
वृथा मत्प्रतिकर्मेति किमसिः श्यामतामधात् ॥ ८० ॥

बिस्फूर्जद्धुजशौंडीर्य-फणभृद्दष्टवैरिणां ।
यस्य खङ्गलता नाग-दमनौषधिवद्भभौ ॥ ८१ ॥

सोन्यदा प्रमदानेत्र-पावनं यौवनं श्रितः ।
परिणेतुं सुतां कत्स-वाहस्याऽस्त्रपुरीमगात् ॥ ८२ ॥

तत्राभिषेणितो जल्ला-लदीनशकभूभुजा ।
पलाय्यागाद्रणस्तंभं पृष्ठतः सोप्युपागमत् ॥ ८३ ॥

तत्र युध्वा चिरं जल्ला-लदीनः प्रौढपौरुषः ।
विज्ञाय तं छलग्राह्यं निवृत्त्यागान्निजां पुरीं ॥ ८४ ॥

कियत्यथगते काले ततः स शकभूपतिः ।
विजिगीषुच्छलेनामुं दूतेनेत्थमचीकथत् ॥ ८५ ॥

ज्योतिश्चक्रेषु सर्वेषु सूर्याचंद्रमसौ यथा ।
तथावां सार्वभौमा वो भूभृत्सु निखिलेष्वपि ॥ ८६ ॥

तन्नो युक्ता मिथः प्रीतिः पचेलिमफलोदया ।
न च विग्रहविस्फूर्ति र्भिदोलिम तमायतिः ॥ ८७ ॥

सहायं त्वादृशं लब्ध्वा समीरमिव पावकः ।
दंदह्येप क्षणेनैव वैरिवंशान् दृढानपि ॥ ८८ ॥

४]
३३
तज्जन्मवर्णनम्

प्रीतोस्मि तव शौर्येण त्वं मे भ्रातास्यतः परं ।
द्रुह्यामि यद्यहं तुभ्यं कर्त्रे तर्हि शपे ध्रुवं ॥ ८९ ॥

एकवेलं समेतव्यं मिलनाय परं त्वया ।
न चेदहं समाकार्यं स्त्वदादेशवशंवदः ॥ ९० ॥

वक्षःस्थलपुरेशेन विग्रहाख्येन विग्रहैः ।
सुतरां विगृहीतस्य सिसाधयिषतोथ तं ॥ ९१ ॥

ताभिर्दूतोक्तिभंगीभि र्भृगीभिरिव वारिजं ।
चुंबितं चाहमानस्य हृदयं व्यश्वसीत्तमां ॥ ९२ ॥
  
युग्मं
ततोवनीपतिं वीक्ष्य शकसंगमनोत्सुकं ।
रहः संवादयामास वाग्भट: प्रतिभाभठः ॥ ९३ ॥

नयशास्रांबुधेः पार-दृश्वनः का तवौचिती ।
क्रियते दुष्टहृन्म्लेच्छ-संगमाय यदुद्यमः ॥ ९४ ॥

शत्रुर्न मित्रतां गच्छे च्छतशः सेवितोपि सन् ।
दीपः स्नेहेन सिक्तेपि शीतात्मत्वमिपर्त्ति किं ॥ ९५ ॥

प्रचिकीर्षसि चेद्राज्यं जिजीविषसि चेच्चिरं ।
तदा मदुक्तिभृंगीयं नीयतां हृदयांबुजं ॥ ९६ ॥

गुरवो यदि वा संतो हितवाक्योपदेशिनः ।
हेयोपादेयतां तस्या-~भव्यभव्यौ चिकीर्षतः ॥ ९७ ॥

इत्युक्त्वा तत्र तूष्णीके सर्वांगीणकुधांधलः ।
घटयन् भ्रकुठीं भीमां पार्थिवो जगिवानिति ॥ ९८ ॥

अकार्यं यदि वा कार्यं यन्मे रोचिष्यतेतमां ।
करिष्ये तदहं स्वैरं चिंतयान्न कृतं तव ॥९९॥

वाग्भटस्तेन वाक्येन प्राप्तेनेव हतो द्ददि।
ययौ तद्राज्यमुत्सृज्य मालवे सपरिच्छदः॥ १०० ॥

परमप्रीतिगौराणां पौराणामपि भाषितं ।
उपेक्ष्य गर्वादुर्वीशो ययिवान् योगिनीपुरं ॥ १०१ ॥

5 k
३४
[ सर्गः
श्रीहम्मीरंमहाकाव्ये


अंतर्दुष्टो मुखे मिष्टः शकेंद्रोभ्येत्य सन्मुखं ।
महेन महतानैषी दंतःपुरि नरेश्वरं ॥ १०२ ॥

प्रियालपनसारत्वं वनवद्दर्शयन्मुहुः ।
चिरं चकार चेतोस्य चित्रप्रचयचुंबितं ॥ ९०३ ॥

अन्येद्युर्विषयोगेन शकान्नृपममीमरत्।
क्वाप्यकृत्यं प्रकुर्वतः पापा मुह्यंति हंत किं ॥ ९०४ ॥

हतेत्रान्यच्छको बोधि जितमेवाशु राजकं ।
मूले छिन्ने हि सुग्राहं फलाद्युच्चैस्तरोरपि ॥ ९०५ ॥

ततो वाग्भटभूपाल-सूर्येण परिवर्जितं ।
रणस्तंभपुरव्योम व्यानशे शाकतारकैः ॥ १०६ ॥

शकप्रेरणयेहापि जिघांसुं मालवेश्वरं ।
विज्ञाय वाग्भटो हत्वा लली तद्राज्यमूर्जितं ॥ ९०७ ॥

शकातंकपरित्रस्तै र्बाहुजैः शरणागतैः ।
तद्राज्यं प्राज्यलीलाभृ दवर्धिष्ट दिने दिने ॥ १०८ ॥

शके जल्लालदीनेथ षर्प्परैरभिषेणिते ॥
वाग्भटोप्यमिलत्सैन्यं रणस्तंभोद्दिधीर्षया ॥ १०९ ॥

पुन्नागसंगसुभंगाः प्रक्षरन्मदनिर्झराः ।
जंगमावनिभृल्लीलां कलयांचक्रिरे द्विपाः ॥ ११० ॥

खुरोत्खातरजःपुंजै र्विश्वमप्येकरूपतां ।
नयंतो वाजिनां व्यूहा रेजिरेऽद्वैतवादिवत् ॥ १११ ॥

संचरद्रथचक्राणां दिशां कूलंकषैः स्वनैः ।।
शब्दाद्वैतमयीवासी दखिलाप्यब्धिमेखला ॥ ११२ ॥

धृतिहेतिततिस्फीत-शुतिद्योतितदिङ्मुखाः ।
वभुः पदातपो द्वेधा--प्यरिप्राणापहारिणः ॥.११३ ॥

चलदूलभरैर्भोगि-विभुना दुर्धरां धरां ।
सृजन्नधो रणस्तंभं शिबिरं संन्यवेशयत् ॥ ११४ ॥

४]
३५
तज्जन्मवर्णनम्


दृष्ट्वानेकरणोत्सेक-क्रीडद्वीरकुलं बलं ।
दधिवांसोदरोद्रेकं दुर्गस्थाः शकपुंगवाः ॥ ११५ ॥

लोका अपि लसच्छोका बभूवुः पुरवासिनः ।
सौख्यनाडिंधमाः के वा परचक्रे समेयुषि ॥ ११६ ॥

नृपादेशात्ततः स्फूर्ज न्शौर्यावेशा भटव्रजाः ।
दुर्गग्रहाग्रहग्रस्ता अभियोद्धुं डुढौकिरे ॥ ११७ ॥

गोलैष्टकैः कुशीभिश्च प्रभिदंतोप्यनेकशः।
न तेऽलंभृष्णवोभूवन् दुर्गं भेत्तुं मनागपि ॥ ११८ ॥

भटानां शैौर्यचातुर्यं दुर्ग्राह्यत्वं पुरस्य च ।
दर्शंदर्शं नरेंद्रोभू द्विषादाश्चर्यचुंबितः ॥ ११९ ॥

मत्वा दुर्गं बलाऽग्राह्यं सोथ नीतिविदां गुरुः ।
वेष्टयित्वाभितस्तस्थौं निवार्य समराद्भटान् ॥ १२० ॥

निर्यातुं च प्रवेष्टुं चा-शक्नुवंतस्ततो भिया ।
पुरोदरस्थिता लोका लेगिवांसो विषीदितुं ॥ १२१ ॥

वारीण्यदुग्धायंतैक्षु-यष्टीयंतं तृणान्यपि ।
एधांस्यचंदनायंत प्राध्यभावात्पुरांतरे ॥ १२२ ॥

त्रिमास्यामपि जग्मुष्या पुरं रक्षितुमक्षमाः ।
पलायिषत सर्वेपि जीवं लात्वा शकबुवाः ॥ १९३ ॥

भक्तिगौरास्ततः पौरा उपदापात्रपाणयः ।
संजग्मिरे महीशस्य जयशस्य तमद्युतेः ॥ १२४ ॥

नृपोपि तेभ्यो वस्रादि दत्वा कृत्वा च सत्क्रियां । ।
स्वच्छोत्सवोच्छलच्छायं प्रविवेश पुरांतरं ॥ १२५ ॥

सैंहिकेयास्यनिर्मुक्त-चंद्रबिंबविडंबिनीं।
पश्यन्नथारिनिर्मुक्त-रणस्तंभपुरश्रियं ॥ १२६ ॥

गजाश्वस्वर्णरत्नाद्यैर्यथास्थाननिवेशितैः ।
स चकार धरासार-मंदिरं माद्यदिंदिरं ।॥ ९२७ ॥

 
क्रमागतोदयस्थानं भास्वानं लब्ध्वा स वाग्भटः ।
कान्कान्भूमीभृतो नैव पादाक्रांतानरीरचत् ॥ ९२८ ॥
 
निवेश्य देशसीमासु चतुर्दिक्षु बलं निजं ।
सुखं द्वादशवर्षाणि स्वयं राज्यं स तेनिवान् ॥ ९२९ ॥
 
तस्मिन्स्वर्लोकलोलाक्षी-कटाक्षविशिखावलैः ।
वीरयोगव्रतादाप्यां वेध्यतामुपचत्वरे ॥ १३० ॥
 
तन्नंदनो जगन्नेत्रा-नंदनश्र्चंदनद्रुवत् ।
जैत्रप्रतापः श्रीजैत्रसिंहोऽभूद्भूमिवल्लभः ॥ १३१॥ युग्मं
  
समूलकाषंकषिता--ऽन्यायसंतमसोदयः।
तिग्मांशुरिव लोकानां यः प्रियं भावुकोऽभवत् ॥ १३२ ॥
 
सद्वंशस्यापि यच्चाप-दंडस्याहो अनौचिती ।
जग्राह दोषमेवास्य समाजे संगते द्विषां ॥ १३३ ॥
 
बिभ्रत्सदानभोगंत्वं सुमनःश्रेणिसेवितः ।
शचीवरयितुर्लीलां यो भूमिष्ठोप्यचूचुरत् ॥ १३४ ॥
 
कर्णजाहं जगाहाने शौर्ये यद्भुजदंडयोः ।
चकंपिरे शिरांसि स्राक् दृढानामपि भूभृताम् ॥ १३५ ॥
 
यदातंकतमग्रस्ते शत्रुशौर्यनभोमणौ ।
व्यक्तं शोकतमोभासी तन्नारीणां कचच्छलात् ॥ १३६ ॥
 
सद्वंशस्याप्यैकमत्यं न यच्चापस्य यस्य च ।
पृष्ठं यद्युध्यदात्प्राच्यः परेषां न पुनः परः ॥ १३७ ॥

अगण्यपुण्यलावण्य-रसप्रसरसारणिः ।
हीरादेवीति तस्यासी त्प्रेयसी श्रेयसीं गुणैः ॥ १३८ ॥

सौंदर्येण जिता यस्या रतिस्तामेव भेजुषी ।
जगदे वह्निदग्धस्य शरणं वह्निरेव वा ॥ १३९ ॥
 
भुजानां भूभुजाः साकं सा कंदर्परसं भृशं ।
शुभं गर्भं दधातिस्म विस्मयैकपदं सतां ॥ १४० ॥

 
स्वकरांभोजकीनाश-दासीकृतशकासृजा ।
गर्भानुभावतो राज-पत्नी सिस्नासतिस्म सा ॥ १४१ ॥
 
प्रहर्षुलमनः प्रेयः पूरितोद्दामंदौहृदा ।
समये सुषुवे सूनुं सा श्रीरिव सुमायुधं ॥ १४२ ॥

असौ शकासृग्बाष्पूरैः संस्नाप्य धरणीमिमां ।
इष्टातन्मुं - - - - - - - - - - - - - - - - - -
- - - - - - - - - - - - - - - - - -- - सृत्वरैः
अभ्युद्यतसहस्रार्क मिवासीत्सूतिकागृहं ॥ १४४ ॥
 
दिशः प्रसादमासेदुः सुखसेव्यो ववौ मरुत् ।
नभो निर्मलतां भेजे दिनकृद्दिद्युतेतमां ॥ १४५॥
 
विशदं सम्मदं यं त---ज्जनने जनको दधौ ।
शतांशोपि न तस्यासीत् कवीनां गोचरो गिरां ॥ १४६ ॥
 
तज्जनौ स्वर्णधाराभि रवर्षद्भूपतिस्तथा ।
मूलतेपि यथाशुष्य दर्थिरोरववासकः ॥ १४७ ॥
 
कृत्वा दशाहिकमहं विश्वं विश्वसुखावहं ।
हर्षाजूंमीरदेवेति नामामुष्मै पिता ददौ ॥ १४८ ॥
 
मातापित्रोर्दृशः सिचन् स्वदर्शनसुधारसैः ।
सौम्यमूर्तिरवर्धिष्ट स शशीव दिने दिने ॥ १४९ ॥
 
दिनैः कतिपयैरेवा-कृच्छ्रं गुर्वनुभावतः ।
शस्त्रशास्त्ररहस्यानि स स्ववश्यानि तेनिवान् ॥ १५० ॥
 
न तच्छास्त्रं न तच्छस्त्रं न च तज्जनरंजनं ।
सदाशयांबुजे तस्य न यदभ्रमरायत ॥ १५१ ॥

अथाभंगुरश्रृंगार-जीवनं यौवनं श्रितः ।
कासां मृगीदृशां निन्ये वशं दृग्मनसी न सः ॥ १५२ ॥

दृग्द्वंद्वपेयसौंदर्य-श्रीणामेकं तमास्पदं ।
दृष्ट्रा वांछन् पतीकर्त्तुं कामिन्यः का न मानसे ॥ १५३ ।

  
अकृत्रिमालंकृतिराननस्य तस्योत्थिते श्मश्रुलते व्यभातां ।
आधिक्यतो घ्राणयुगाध्वनिर्य-च्छृंगारधारे इव नेत्रपेये ॥ १५४ ॥

केशाः केकिकलापकांतिजयिनो वक्त्रं शशिप्रीतिभित्
कंठः कंबुरिपुः कपाटपटुताविक्षेपि वक्षस्थलं ।
दोर्दडौ परिघापघातनिबिडौ पादौ कृताब्जापदौ
किंकिं रम्यतरं न यौवनपदं प्राप्तस्य तस्याभवत् ॥ १५५ ॥
 
विंध्ये सिंधुरवत् धने विधनवत् ज्ञातिप्रसूनेऽलिवत्
त्यागे याचकवत् गुणे सगुणवन्नपाये महीपालवत् ।
..पाकंदे पिकवच्छ्रुते विदुरवत्पाथोरुहे हंसवत्
तस्मिन् संसृजतिस्म वागविषयां प्रीतिं मनो योषितां ॥१५६॥
 
नारीभिः सुमचाप इत्यमरभूजन्मेति च प्रार्थिभि-
र्गंगाभूरिति सत्यसंगरपरै र्ब्रह्मेति तत्वोन्मुखैः ।
स्वर्भुग्भूरिति योद्धृभिर्यम इति प्रत्यर्थिपृथ्वीधवैः
कैः कैरेष कथं कथं न युवतामध्याश्रितस्तर्कितः ॥ १५७॥

सौंदर्यधन्या अथ सप्तकन्या पित्रा प्रमोदात्परिणायितोसौ ।
चिक्रीड ताभिः सह शश्वदस्तव्रीडं यथा दुश्च्वनः शचीभिः॥१५८॥

हम्मीरादितरावपि क्षितिपतेर्जैत्रस्य पित्र्यानुजौ
जज्ञातेंऽगरुडौ गुहाविव जगज्जैत्रप्रतापोदयौ ।
आद्योभादनयोर्नयोदयदलद्वल्लीवसंतः सुर-
त्राणोन्यः परवीरदारणरणारंभप्रभो वीरमः ॥ १५९ ॥
 
पूर्द्वारार्गलदीर्घपीनभुजभूप्रौढप्रतापज्वलत्-
ज्वालाजिह्वविषावलीकवलितप्रत्यर्थिभूमीधवैः ।
इत्यभ्यस्तनयैस्त्रिभिः स्वतनयैः संसेव्यमानोन्वहं
श्रीजैत्रः क्षितिपः स्म वीरजनकोत्तंसत्वमास्तिध्रुते ॥ १६० ॥

इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते

हम्मीरमहाकाव्ये वीरांके तज्जन्मवर्णनोनाम चतुर्थः सर्गः समाप्तः॥

अथ पंचमः सर्गः

अथ जैत्रसिंहनृपतौ धरणिं करणिं दिवः श्रितहरेः सृजति ।
उदजृंभतप्रियसुहृत्सुरभिः सुमसायकस्य किल विश्वजितः ॥ १ ॥

पुपुषे ध्रुवं सलयशैलभवोऽनिल एष भोगियुवतिश्वसितैः।
कथमन्ययास्य सहता भवति स्म वियोगिनो झगिति मूर्च्छयितुं ॥२॥

ऋतुराजविक्षणरसान्नितरा मरुणेन न ध्रुव मनोदि रथः ।
कथमन्यथा दधु रमी दिवसा गुरुतां रथांगविहगैकहितां ॥ ३ ॥

अतिदुःसहप्रियसुहृद्विरहैः प्रमदजनैः कथमिवैष स नः ।
महिमा सहिष्यत इतीव निशाः कृशता मधुर्मधुरिताः कृपया ॥ ४ ॥

समुदाचरंति मधुपा मलिना न च निर्मला स्फुरति जातिरिह ।
इति वा बभूव ऋतुराट्समयो नवरं न वल्लभतरो यतिनां ॥ ५ ॥

मलयानिलो मलयजैः सुरभौ सुदृशा मुरोजयुगले विलसन् ।
समुपागतं मलयशैलमहा-शिखराधिरोहण ममंस्त पुनः ॥ ६ ॥
 
अमुना विवर्णितदला मभितो नलिनीं विलोक्य नलिनीदयितः ।
कुपितः प्रहिंतुमिवैष हिमो-च्चय मभ्यगा द्विमवतः ककुभं ॥ ७ ॥
 
स्थलतां प्रयाति गगने पवने-रितपुष्पराजिरजसां पटलैः ।
अचलन् यदर्कतुरगाः शनकै स्तदिवास वासरगणोत्र गुरुः ॥ ८ ॥

मधुकप्रसूनमधुपानवशा दतिमात्रमत्तमधुकृद्युवतेः।
विनिशम्य झंकृतमरं दधिरे कति रे न चेतसि विकारभरं ॥ ९ ॥

सहकारसारतरमंजरिका-ग्रसनोल्लसन्मधुरिमांचितया ।
परपुष्टया कुसुमकांडकरे ऽरचि लीलया प्यखिलमेव जगत् ॥ १० ॥

इय मागतैव शशिनाशिकुहू रथचेयमाव्यलपदन्यभृतः ।
पिककूजितेष्विति न का मुंमुदे विषसाद चाध्वगवधू रसकृत् ॥ ११ ॥

शुकचंचुसंनिभपलाशदल-त्कुसुमानि रेजुरभितीनुवनं ।
शमदंतिनं भृशमुपानयतो वशमंकुशा इव सुमेषुविभोः ॥ १२ ॥

यदि पुष्पितामिह तत्कियतीं श्रियमुद्वहंतु लतिका इतराः।
किमिदं विचिंत्य कृपया सुरभौ विचकास नाभिनवजातिलता ॥ १३ ॥

विकसत्प्रसूननिचयाः शुचयः प्रतिकाननं शुशुभिरे तरुषु ।
प्रथिता हसा इव वनीयुवते र्निजजीवितेशमृतुराजमनु ॥ १४ ॥
 
जलदागमे स्त्रमहिमोल्लसितै रवधीदसौ पथिकलोकवधूः ।
इति पंक्तिबाह्यविहितेव मधौ नवमालती न सुमनस्स्वविशत् ॥ १५ ॥
 
मदनोऽधुनापि परदेशजुषां हृदि नष्टशल्यमभिहंतुमिव ।
कुसुमानि वृंतसुषिराणि भृशं विरचय्य कांडफलतामनयत् ॥ १६ ॥
 
मम नाम नालिकशरा यदि मारुतः सहेत कतरे स्पृशतीः ।
किमितीह नाद्रियत जातिलता कलिकां मधौ मधुसखः स्फुटतीः ॥ १७ ॥

विकसत्प्रियालतरुमंजरिका-रजसारुणैरपि मृगीनयनैः ।
मधुसीधुपानघनरागजुषः सुदृशां दृशः सदृशतां न जहुः ॥ १८ ॥

परिसंचरन्मलयादक्पवन-प्रविकंपिपल्लवकरांबुरुहैः ।
उपगूहनाय वनराजिवधू र्निजकांतमाह्वयदिवर्तुपतिं ॥ १९ ॥

मधुपानतः शिथिलितभ्रमरा भ्रमिरा वभुः प्रतिवनं तरुषु ।
गुलिकांस्त्रकाभ्यसनमुन्नयतो गुलिका इव प्रसवचापविभोः ॥ २० ॥

प्रविलोकनादपि वियोगवशा विदधद्वशा विधूतकंपरसाः।
अनयत्पलाशशिखरी तरसा चरितार्थतां जगति नाम निजं ॥ २१ ॥
 
पदसंगमात्र उपजाततृषो मम निप्रजप्तुरिमकाः प्रसभं ।
गतभर्तृका इति सकोप इवा-ज्वरयन्मुहुर्मुहुरशोकतरु ॥ २२ ॥
 
परिलोभयन् मधुकरप्रकरान् मधुसंगमेन मधुरै र्मधुभिः । तिलकद्रुमस्तिलकवन्निखिले-ष्वपि भूरुहेषु लभतेस्म रुचिं ॥ २३ ॥

अपि तन्मुखाभिषवसेकमृते श्रियमुद्वहन्नतिवचोविषयां ।
अधरीचकार मुदृशामखिला मपि मानसंस्थिति मगो बकुलः ॥ २४ ॥

निजकालमोल्लसितसंजानिता ऽसमयक्षपालिषु वनीततिषु ।
अलभंत चंपकतरोः कलिकाः स्मरराजदीपकलिकोपमिति ॥ २५ ॥

भृशलीनषट्चरणचक्रवशा ऽधिकनीलनीरजदले सरसि ।
कमलै रलंभिविलसत्कमलै र्गगने नवोदितशशांकरुचिः ॥ २६ ॥

मलिनांबुबिंदुतुलनां कलय-द्विकसत्पलाशसुमवृंतमभात् ।
शिरसाऽग्निसाधनतपो रचय न्निव मालतीविंरहतोलियुवा ॥ २७ ॥

कृतवेल्लनामलयदिक्पवनै र्वनवल्लयो रुरुचिरेऽतितरां ।
उपगूहनानि चिरकालभवन् मिथः प्रविरतं - - त्य इव ॥ २८ ॥

सकलत्रिलोकविजयप्रभवं श्रमवारिसंगतमनंगपतिं ।
इव वीजयंत्यभि.वभौ सुरभौ कदलीदलै रनिलसंगचलैः ॥ २९ ॥
 
हृदयेश्वरं भजत मानममुं त्यजताशु नैति समयो हि गतः ।
इति बोधयन्निव कुरंगदृशो रुचिरं चिकूज परपुष्टयुवा ॥ ३० ॥
 
किमु चुंबनं किमथवा मधुरं मधु इत्यसाविव विवेचनकृत् ।
क्षणमंबुजं क्षणमथ भ्रमरी-वदनं चुचुंब मधुकृत्प्रवणः ॥ ३१ ॥
 
विलसद्विलासिनि वसंतऋतौ कुसुमानि कानिचिदिहाविदुषां ।
इदमेददेतदिदमित्प्रवदन् इव इांकृतैर्मधुकराः कतिचित् ॥ ३२ ॥
 
विधृतत्वराणि विदधन्नितरां युवमानसानि दयितानुनये ।
चदुकूजितैः कलरवो मदयन् दयितां चुचुंब परिरभ्य मुहुः ॥ ३३ ॥

विकसत्सुमस्तबकचारुकुचा नवपलवाद्भुतकरक्रमणाः ।
मधुमागताः समवलोकयितुं वनदेवता इव लता व्यरुचन् ॥ ३४ ॥
 
अधिकाधिकं तनुविलेपविधौ प्रमदाभिराद्रियत वह्निशिखं ।
उपकारकारि सुचिरोपनतं सहसैव हेयमिह वस्तु कथं ॥ ३५ ॥

पथिकांगनाजनपरासनजै र्गुरुपातकैरिव नितांतचिताः ।
हविराचितांऽजनघनद्युतयो भ्रमरा बभुः प्रतिवनभ्रमिराः ॥ ३६ ॥

इति वीक्ष्य वीक्षणयुगप्रसभा-हतसंमदं सुरभिकालमिमं ।
परिपृच्छ्य जैत्रजगतीदयितं सहि वीरमाग्रजकुमारवरः ॥ ३७ ॥

अदसीयरूपविलुलोकयिषा-नुग्रहाधिरूढललनावदनैः ।
दिवसेपि विस्फुरदनेकसुधा-करबिंबमंबरतलं जनयन् ॥ ३८ ॥

घनसारसारमृगनाभिमिलन्-मलयद्रुनागजरजःप्रकरैः ।
कृतदेवनो वनविनोदचिकी-रवरोधबंधुरवधूमधुरः ॥ ३९ ॥
 
प्रचलद्दलावलिलसत्पवनं तरुराजिराजितपुरोपवनं ।
प्रययौ स यौवनवयः सव्र..--परिहासभासुरतरास्यशशी ॥ ४० ॥

चतुर्भिः कलापकं


तरुणा लसन्नवनवाभरणा अथ चेलुरर्हतमचेलभृतः ।
मदकृन्मधूत्सवकृतॆ मदनॊ-द्यमदीप्तदीप्तिसुतनूभिरमा ॥ ४१ ॥
 
कृतुभूषयापि वदनांबुरुहः सखि सांप्रतं तव रुरोदिषया ।
कृतमेहि सत्वरममुं दयितं सुतरां प्रसाद्य जहि वैरिमुदं ॥ ४२ ॥
 
इति काचन प्रियसखीवचनैः सुचिरं विमृश्य हृदये निपुणं ।
परिहत्य मानमुपगत्य पतिं विशदप्रसादललितं व्यतनोत् ॥४३॥युग्मं
 
अनुनेतुमन्यतर इंदुमुखीं विविधेंगितानि विदधन्निपुणं ।
परिरभ्यतेस्म तरतैव तया सपूर्वसूचिततदिंगितया ॥ ४४ ॥
 
प्रचलालिकाननमितः कितवो विरहा त्तवांग स किमातनुते ।
प्रविलोकयाव इति कापि मिपादुपनीय तां प्रियतमाय ददौ ॥ ४५ ॥

अनुनेतुमंबुजदृशः पदयोः पतितस्य कस्यचन वेणिरभात् ।
इदमीयमानमभिपाठयितुं कुसुमायुधस्य तरवारिरिव ॥ ४६ ॥
 
अयेि पश्य शस्यवदने मधुरा मधुवासरा झटिति यांति कथं ।
अधुनापि मानमिममादधतीं स्वपराहितं किमु चिकीर्षसि हा॥ ४७ ॥
 
इति कश्चन प्रकुपितां दयिता मनुनीय येषिदनुनीतिचणः ।
उपगूहनं प्रतिपदं वितरन्नचलन्मधूत्सबकृते सुकृती ॥ ४८ ॥
 
न विलोकसे न च ददासि वचः कथमेष जीवतु तवानुचरः ।
इति पीतवल्लभवचा इतरा मदपानतोष्यधिकमाप मदं ॥ ४९ ॥

नवपल्लवाद्धुतकरा मधुपा-वलिवेणिमिद्धसुमगुच्छकुचां । ।
नववल्लभामिव विलोक्य वनीं दधुरुत्सुकत्वमथ रंतुमभी ॥ ५० ॥

तरुणीगणे विकरुणं प्रसवः-वचयं विधातुमभियोगवति ।
तरुभिः प्रकंपितमिव प्रवह---त्पवमानवेल्लितदलालिमिषात् ॥ ५१ ॥
 
प्रविहाय काननसुमान्यभितो निपतद्भिरंबुजधिया वदने ।
भृशमुष्मदिष्णुमधुकृन्निकरैरुदवेजि काचन सरोजमुखी ॥ ५२ ॥

दयितां लताग्रमधिरोहयता क्वच नापिं केनचिददायि तनौ ।
नखरक्षतं यदतनोत्किलितं न मुदं तदीयहृदये कियतीं ॥ ५३ ॥
 
सुमकंदुकौ निजकरग्रथितौ सहसं प्रदर्श्य किल केन च न ।
त्वदुरोजकौ ध्रुवमियत्प्रमितौ वदतेत्यहासि कुपितापि सुदृक्॥ ५४ ॥
 
अयि वल्लभे मधुरगंधमिदं कुसुमं वदन्नितिपरो विदुरः ।
उपनासमाप्य किल सिंघयण-च्छलतः करं न्यधित तामधरे॥ ५५ ॥
 
मुखचुंबनं यदि ददासि सकृत्.प्रददे तदा कुसुममाल्यमिदं ।
गदतीति भर्त्तरि सखीविदितं त्रपया मुदा च समवादि परा ॥ ५६ ॥
 
दयितस्य वृक्षमधिरूढवतः पदमाशु पल्लवधिया विधृतं ।
न चकर्ष नैव च मुमोच परा तदवाप्तिजातपुलकप्रसरा ॥ ५७ ॥
 
पुरतो लताततिषु रम्यतमाः प्रसवाः स्फुरंति ननु चंद्रमुखी ।
इति विप्रलोभ्य दयितामितरो विजनप्रदेशमनयद्रतये ॥ ५८ ॥
 
अयि पश्यतोपि कुसुमस्तबकः क्व गतो ममेति कितवोक्तिपरः।
करसाद्विधाय दयितोरसिजं निजगाद लब्धमिति कोपि हसन्॥ ५९ ॥

अयि पश्यतोपि कुसुमस्तबकः क्व गतो ममेति कितवोक्तिपरः।
प्रममर्द नैकयुवतेः कुचयो र्युगुलं गवेगवेषणपरः--- ॥ ६० ॥
 
तनुवल्लिबद्धनवपुष्पगलन्-मकरंदलुब्धमधुकृन्निकरः ।
परिरभ्यतेस्म तरुकैतवतो ऽतिविदग्धया प्रियतमः परया॥ ६१ ॥
 
फलदाधिरूढहृदयाधिपति--प्रविलोकनापहृतचेतनया ।
वितरेमभंग वितरेममिति प्रसवं वृथैव परयाभिदधे ॥ ६२ ॥
 
इतरेण गोत्रभिदया प्रहितः कुसुमोच्चयानुवनितामनया ।
प्रहतो ---तव निःश्वसितै रनवेक्ष्य तां किमुदितः प्रति यां ॥ ६३ ॥

अयि पश्य पश्य पुरतो लकुचे सुकुचे कथं भ्रमति भृंगयुवा ।
इति विप्रलोभ्य दयितामितरो निपपौ परां सुचिरमर्द्धदृशा ॥ ६४ ॥

तरुराजितो विक्रसितप्रसव-प्रकरान्निधाय शिरसि प्रयतान् ।
गुरुझंकृतिप्रमुखरा भ्रमरा वनरक्षका इव परां रुरुधुः ॥ ६५ ॥
 
दधदंतरा नवतिरस्करिणीमिव तापनोदनमिषेण पटीं ।
वनितां विलोभ्प कितवो हृदयाधिकृतां चुचुंब गतभीरितरां ॥ ६६ ॥
 
उपवीजयन्निजकरग्रथित--प्रविकाशिभासिकुसुमव्यजनैः ।
कृतविप्रियोपि भृशमन्वनयत् सुदृशं परः स्मरकलाविदुरः ॥ ६७ ॥
 
तरुशृंगसांस्थितसुमंग्रहणो-र्ध्वसरत्करत्वतः सुकृशादुदरात् ।
गलदंबराक्षणमभादपरा प्रकटीभवंत्यतनुशक्तिरिव ॥ ६८ ॥
 
कितवेन पल्लवमिषादधरे विधृते प्रिया यदतनोद्धसितं ।
अभवत्तदेव किल तत्कपट-स्फुटपाटवस्य शशिभासि यशः ॥ ६९ ॥
 
जडगात्रवर्तनपराङ्गमितां दधदेकबाहुलतया दयितां । ।
नलिनं करेण च परेण परः शुशुभे स्मरः सशरचाप इव ॥ ७० ॥

कामिन्याः कुसुमानि चेतुमधिरोहंत्यास्तरुस्कंधकं
भूमौ स्थायिनि दक्षिणे पदतले वामे च शाखास्पृशि ।
कृत्वा किंचन कैतवं विनमितोऽधोनाभिमूलं परो
दृष्ट्वोदीरितकाम ऊर्ध्वसुरते वांछामतुच्छां दधौ ॥ ७१ ॥
 
शाखाग्रस्थमिदं ददासि कुसुमं चेत्तर्हि यद्याचसे
तत्तेहं प्रददे प्रिय ध्रुवमिति प्रोक्तेऽन्यया मुग्धया ।
नीत्वा ल...कतां तदालिमचिराद्दत्वा च पुष्पं छलात्
अासीद्यद्धृदये द्वयोरपि तयोर्धूर्त्तेन तत्प्रस्तुतं ॥ ७२ ॥
 
करांबुजालंबितलंबशाखा मिथोपि संयोजितपादपद्माः ।
आांदोलिता आलिजनैः स्वयं ता दोलातुलां शिश्रियुरंबुजाक्ष्यः॥ ७३ ॥
 
कामिनीकरजकोटिविलून-स्रस्तपल्लववनावनिपीठे । ।
पुष्पराजिभिरराजत मुक्ता-वेणिवद्विपूलविदुमपात्रे ॥ ७४ ॥

प्रसवचोलवतंसककंकण-स्तबकराजिविराजितविग्रहाः ।
शुशुभिरे सुदृशो धृतकंकटा इव भटाः कुसुमायुधभूपतेः ॥ ७५ ॥
 
इति रुचिरविधाभिः स्वांगसंगोपभोग-
स्फुरितविततलीलाश्रेणिभिः श्रेयसीभिः ।
ऋतुपतिसमयोत्थां काननीं पुष्पलक्ष्मीं
झगिति सफलभावं निन्यिरे पौरवीराः ॥ ७६ ॥

इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहाकाव्ये वीरांके वसंतवर्णनोनाम पंचमः सर्गः समाप्तः॥


अथ षष्ठः सर्गः

प्रेक्ष्य काननविलासवशेन स्वेदिनोऽथ तरुणान्नृपपुत्रः ।
वारिकेलिकलनाय जगन्वान् जैत्रसागरसरः सरसश्रि ॥ १ ॥
 
उल्लसच्छुकगरुत्समकांति र्यस्यतीरतरुराजिरराजत् ।
चंद्रबिंबमभितः प्रसरंती सिंहिकांगजगजध्वजिनीव ॥ २ ॥
 
अंतराप्रतिफलद्रणपूर्व-स्तंभनामपुररम्यतरश्रि ।
यज्जहास विपुलाकविलासि-द्वारकं किल सरिद्धृदयेशं ॥ ३ ॥
 
तीररूढतरुनीलपलाश-स्मेरजालकहरिन्मणिमुक्तं ।
वृत्तरम्यमवनीवनितायाः कर्णकुंडलतुलामवहद्यत् ॥ ४ ॥
 
नीलनीरजदलावलिदंभ-व्यक्तलक्ष्मविधृतामृतपूरं ।
यत्कृतावतरणं भुवि रेजे चंद्रबिंबमिव राहुभयेन ॥ ५ ॥
 
कर्णिकांकविचरन् मधुपोद्य-त्तारकोन्मिषितपंकजदंभात् ।
आलुलोकिषुनिजामिव लक्ष्मीं यद्दधार शतशो नयनानि ॥६॥षङ्गिः कुलकं
 
आयतैश्चलदृशोथ नितंबैः.सखरं रुरुधिरे वनवर्त्म ।
अग्रतोबुललनाय यियासू न्वारयंत्य इव जीवितनाथान् ॥ ७ ॥
 
स्वां श्रियं पयसि वीक्ष्य तरुण्यो द्राग्मंनांसि चकृषुर्मुकुरेभ्यः ।
तत्किमत्र यदि वा प्रमदानां यत्र तिष्ठति मनश्चिरमेव ॥ ८ ॥

४६
[सर्ग
श्रीहम्मीरमहाकाठये
.

उत्तरंगिणि सरोंभसि नार्य श्चिक्षिपुर्विकसितानि सुमानि ।
उज्जिजीवयिषयेव यजंत्यो मन्मथस्य गिरिशं जलमूर्त्तिं ॥९॥
तीरसंस्थितविलासवतीनां वारिणि प्रतिफलत्सु मुखेषु । स्मेरवारिजधिया निपतंतो हासयन्मधुकरास्तरुणौघान् ॥१०॥
वारिगोचरजुषां युवतीना मुल्लसत्प्रतिनिधिव्यपदेशात् ।
आतिथेयमिव कर्त्तुममूषा माविरासत सरोजलदेव्यः ॥११॥
अत्यगाधजलदर्शनजाता-तंककंपिततनूस्तनुमध्यां ।
पाणिनाऽथ विनिगृह्य कथंचि द्वेशयंति सलिलं स्म युवानः ॥१२॥
किं पुरो विदधतीं जलकेलिं स्वां सखीमपि न पश्यसि मुग्धे । दर्शयन्निति च तत्प्रतिबिंबं तां व्यशिश्वसदहो चतुरोन्यः ॥१३॥
अस्त्यगाधमिह वारि तदेवं न प्रवेष्टुमुचितं तव मुग्धे ।
इत्युदीर्य विविशे कितवेना-त्येन वक्षसि निधाय मृगाक्षीं ॥१४॥
उत्सुकापि सुतरां जलकेला--वंचले प्रणयिना विधृतापि । तद्विलोकरसभाववशात्मा काप्यवस्थित तथैव परोपि ॥१५॥
आहतः कुचतटैः प्रमदानां चेतनाविरहितोपि तडागः ।
क्षोभभावमगमत् सहसा य-तत्र कारणमसौ रसवत्ता ॥ १६॥
अस्पृशत्प्रथममंबु वधूना मंगसंगचपलं जघनानि ।
खेलतिस्म तदनूरसिजेषुं क्क क्रमः स्फुरति हंत जडानां ॥१७॥
जानुदघ्नमपि तत्सरसोंभः कंठदघ्नमभव.हुतमेव । योषिदंगविगलल्लवणिप्ता स्फीततामुपगृहीतमिवोचैः ॥ १८॥
आजनेरपि वितीर्णमरंदा–न्यंबुजानि मधुपाः प्रविहाय । ।
भेजिरे मृगदृशां वदनानि स्यात्कुतोहि मलिनेषु विवेकः ॥१९॥
संचरच्चटुंलदृग्वदनाब्जा--लोकतकिंतनिशाकरबिंबेः ।
खादितुं विसलतोपगृहीता तत्यजे न बुभुजे न च चक्रैः ॥२०॥
योषितां स्तनतटे स्स्वलतोचै रस्म्रियंत पयसा पुनरेव ।
शैशवे प्रवहतां गिरिमार्गे कूलशैलसबलास्फलनानि ॥२१॥

६]
४७
तलक्रीडावर्णनम्
.

प्रेयसीवदनमुक्षितुमात्तं नीरमंजलिपुटे दयितेन ।
तव बिंबितमवेक्ष्य तदेवा-मोचिनोपचितभंगभयेन ॥२२॥
सेसिचत् प्रियतमो मदिराक्ष्या शक्तया कुलतया प्रतिसेके ।
गृह्यतेस्म भुजया लघुकंठे बाणयुद्धविदिवासि करेण ॥२३॥
वल्लभे विकसितांबुजमुख्या उन्मदे पिबति वक्त्रसरोजं ।
भ्रश्यदंबुकणकेशकलाप-च्छद्मनालिभिररोदि श्रुचेव ॥२४॥
गाढपीडितरदावलिरंंध्रै र्याः स्रियो मुमुचिरे जलधाराः ।
ताभिरास मदनः सलिलास्त्रो भर्तृमानदहनास्त्रशमाय ॥२५॥
कंठदघ्नपयसि स्थितवत्या जीविताधिपतिना गजगत्याः ।
यद्यबुध्यत तयोर्द्युतिहान्या-ब्जद्वयांतरगतं वदनाब्जं ॥२६॥
श्रीरपाह्रियत नो नयनाना मोभिरेभिरिति संभृतकोपाः ।
मज्जयंति कमलानि सरस्सू-न्मज्जयंति च मुहुः सुदृशः स्म ॥२७॥
वारिणि प्रतिनिधिव्यपदेशात् व्यत्ययेन मदनश्च रतिश्च ।
तत्तदाप्तरुचिरत्वविशेषौ संश्रिताविव वधूं च वरं च ॥२८॥
कैतवेन करवारिभिरेकां प्राप्य कश्चन पराङ्सुखभावं ।
चुबतिस्म विदितोदितरागो ऽन्यां मुहुः कमलिनीमिव भृंगः ॥२९ ॥
शैलसारकठिने प्रमदाना मंभसां स्तनतटे स्खलितानां ।
फेनपंक्तिरिव हारलताया दिद्युते सरसि मौक्तिकपंक्तिः ॥३०॥
अंभसाहृतविलेपनभंगौ योषितां वपुषि कांतकृतानि ।
रेजिरे नखपदानि सपत्न्युः-च्चाटनार्थमिव मंत्रपदानि ॥३१॥
वुट्यतोपि जलपूरितरंध्रैः शुक्तिजन्मभिरपाति न हारात् ।
के त्यजंति सुदृशां कुचयुग्म-स्पर्शसौख्यमभिलब्धरसा वा ॥३२॥
नीरपूरणवशाद्रितमौनं नूपुरं चटुलपादसरोजे ।
संननाय्यसदवेदि मृगाक्ष्या गुह्यको वट इवानुपलब्धेः ॥३३॥
कंठदघ्र उदके विहरंती वाणिनीविशदपक्षमधत्त ।
स्मेरमब्जमिति तन्मुखवीक्षा-सख्यविश्वसितमानसमाशु ॥३४॥

४८
[सर्ग
श्रीहम्मीरमहाकाठये
.

भावनाट्यसमुपेत्य जलांत र्भर्तरि स्पृशति सक्थिकरेण ।
प्रासकंपिततनूस्तनुमध्या-श्चर्यचुंबितमवेक्षि सखीभिः ॥३५॥
प्रेयसा दशनरंघ्रविमुक्तै रूक्षितोदककणैर्मदिराक्षी ।
प्रीतिजातपुलकोद्धुषितांगा कामकांडनिचितेव चकासे ॥३६॥
मुक्तगंधमपि वारिविहारैः पुष्पदाम न जहे शशिमुख्या ।
न स्वतोपि गुणवान् सुखहेयः किं पुनर्यदि स जीवनलीनः ॥३७॥
पंकजच्छददृशः कटिवस्त्रे नर्मणा व्यपहृते दयितेन ।
वस्रवन्निजदलानि ददानां-भोजिनी ध्रुवमधत्त सखीत्वं ॥३८॥
औक्षमौक्षमबलां ऽजितदृग्भ्यां कालिमा य उदवास्यत भर्त्रा ।
सोऽसहिष्णुवनितावदनाब्जे व्यक्ततामभजदाशु निविश्य ॥३९॥
ताडनाय समुदंचितमब्जं मत्प्रियामुखमिति प्रतिचुंबन् ।
तां स्मयेन परिवर्तितवक्त्रा मप्यहासयदहो कितवोन्यः ॥४०॥
योषिता जलविहारवतीनां नूपुराणि रणितानि न चक्रुः ।
कः सदाचरणभाक् जलमध्ये स्वं तनोति यदि वा महिमानं ॥ ४१॥
सारसेंऽभसि परस्परहर्षा दुहिझतैरपि सरोजमुखीभिः।
श्रीरवाप्यत परा सुमगुच्छैः क्व श्रियां सुमनसो न पदं स्युः ॥ ४२॥
दंपती विधृतवार्यभिपूर्णा-यामशालिबिसशस्य तमास्यौ ।
प्रेमपानमिव चक्रतुरन्यो-न्यावलोकवशकूणितनेत्रौ ॥४३॥
स्मेरपंकजवने कथमन्यो ज्ञास्यदास्यकमलं कमलाक्ष्याः ।
कैतवेन कमले यदि सिक्ते नाहसिष्यदियमेव विमुग्धा ॥४४॥
चुंबितं स्मितसरोरुहबुद्ध्या तेन चाधरदले प्रहृतापि ।
कांतवक्त्रमलिना किल दष्टा-स्मीति तथ्यमपि नो बुबुधेन्या ॥४५॥
वारिभिश्चलदृशामधरेभ्यो दूर्यतेस्म नवयावकरागः ।
मंडनं तदधिकं तु वितेने तत्र कांतनिहितैरदनांक्रैः॥४६॥
मंडनं चपलदृमयनानां वारिणांजनमलोपि लवेन ।
भंजनोपि हि जडस्य मतिः किं कृत्यवस्तु वद पाटवमेति ॥४७॥

४९
जलक्रीडावर्णनम्

बिंबितेंबुनि निजाननपद्मे कापि दृग्द्वयमवेक्ष्य झषाक्षी ।
पद्मकोशगतमीनधिया तत् गृह्णती दयितचित्तमगृह्णीत् ॥४८॥
सांद्रितेंबुनि किलललनानां नेत्रकज्जलभरैर्हसितेश्च ।
गांगवारिकलितां रविकन्यां मेनिरे युवजनाः किमु धन्यां ॥४९॥
एहि मंक्षु नलिनीषु निलीनां दर्शयामि सुतनो भवदालीं ।
विप्रतार्य दयितामिति कश्चित्तां जिगाय निभृते पणबंधे ॥५०॥
प्रौढदेवनवशाद्रितवृद्धौ सारसेंभसि निमग्नसरोजे ।
कुंतलच्छलमिलद्भ्रमरौघै र्योषितां सरसिजायितमास्यैः ॥५१॥
उत्तानमंभसि सुखं प्लुतिलाघवेन निष्पंदमंबुजदृशामभितस्थुषीनां।
रेजुः स्तनाः सुविवृता भृशमुच्छ्वसंतश्चक्राइवापविवरं मिलितस्वकांताः ॥५२॥
व्यात्युक्षीषु भृशोक्षणाकुलितया वक्रीकृतग्रीवया।
व्यालोक्य प्रतिबिंबितां स्वकबरीं पृष्ठप्रतिष्ठेंबुनि ।
प्रेयान्वारहिशंकया स्म परया संश्लिष्यते भीतया
लातुं स्वासिलताशया पुनरिमां चिक्षेप हस्तं स च ॥५३॥
चिकुरनिचयमाशु स्रंसयामांस नेत्रां-बुरुहमपि चुचुंबोरोजपीठे लुलोठ !
जघनतटमुपासामास पस्पर्श पादौ प्रिय इव वनितानां सारसो वारिपूरः॥५४॥
स्रस्तो धम्मिल्लबंधो गलितमखिलमप्यंजनं लोचनानां ।
भ्रष्टो रागोधराणामविरलपुलकैर्व्याप्तमंगं समग्रं ।
नष्टा शक्तिः कपोलस्तनतटलिखितापत्रलेखाप्यपास्ता
वारिक्रीडा वधूनामजनि रतिरसस्य प्रवेशध्रुवेव ॥५५॥
परिनिस्सरच्चटुलदृग्जघनो-रसिजावलीरिततरंगतति ।
आभनज्जलं झगिति कूलभुवः सहयानमाभिरभितन्वदिव ॥५६॥
अत्युत्सुकत्वनिपतत्पदपातजात-स्फीतध्वनिश्रुतिवियोजितपक्षिपक्षाः।
अन्योन्यपाणितलताडनलब्धलक्ष्या नीरान्निरीयुरथ दंपतयः सहेलं ॥५७॥

५०
[सर्गः
श्रीहम्मीरमहाकाव्ये

विलोक्यतां स्वच्छतयाऽबलानां जग्मुर्न वासांसि जलाद्रितानि ।
धृवं परित्यागभयेन तासां निलीय देहद्युतिषु स्थितानि ॥५८॥
गतेंगरागेपि तनूदरीणां न कायलक्ष्मीरधरीबभूव ।
स्वभावरम्यस्य जनस्य यद्वा विभूषणं मंगलमात्रदायि ॥५९॥
विनिर्गतानां सरसो वधूनां पृष्ठे प्रलंबी शुचिकेशपाशः ।
परिक्षितुं प्रत्युत हेमपट्टे निवेशिताभात् कषपट्टिकेव ॥६०॥
विनिर्गतानां सरसो वधूनां पृष्ठे प्रलंबी श्रुचिकेशपाशः ।
मेरोः शिलायां मुखमासितस्य शिखंडिनो बर्हमिव व्यराजत् ॥६१॥
निर्नोरितानि बिबुभुर्वनिताजनानां चेलांचलैर्मृदुतरैर्नितरां वपूंषि ।
उत्तेजितानि सुमनोविशिखस्यशस्राणीवाखिलत्रिजगतीजयबद्धबुद्धेः ॥ ६२॥
उन्मिषन्नयनीलसरोजा भ्रूलतालसितकांततरंगाः ।
मुक्तबंधकचशैवलरम्या सारसीं श्रियमलानिव नार्यः ॥६३॥
भूषापहृत्या रिपुमस्मदीय मसौ यमात्तः सलिलं बिभर्ति ।
इति प्रकोपाभिरिवांगनाभि रबध्यतावर्त्यशिरोजपाशः ॥६४॥
इत्थं विधाय जलकेलिमनन्यजन्यां
श्रीजैत्रसंहतनयः स हमीरवीरः ।
स्वान् स्वान् गृहान् प्रतिविसृज्य जनान्सहैतान्।
वेश्माससाद निजमर्थिकृतप्रसादः ॥६५॥
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते
श्रीहम्मीरमहाकाव्ये वीरांके जलक्रीडावर्णनोनाम षष्ठः सर्गः समाप्तः ॥



अथ सप्तमः सर्गः


अथ निशांसमयागमलालसं चलदृशां प्रवदन्निव मानसं ।
चरमभूमिधराग्निमचूलिका महिमरश्मिरभूषयदंशुभिः ॥१॥
विधिवशाद्विपदं समुप्रेयुषीं न खलु कोप्यवधीरयितुं क्षमः ।
गददिवेत्यहिंमद्युतिमंडलः समभवद्विगलद्युतिमंडलः॥२॥

५१
जलक्रीडावर्णनम्

जगति नाम पतंग इति स्फुटं मम दधुस्तदमी शलभेषु किं ।
इति वहन्निव सूरिषु कोपितां ग्रहपुषो जनि लोहितविग्रहः ॥३॥
अविरतांबरसंचरणोल्लसत् गुरुपरिश्रमसंगतविग्रहः ।
सलिलकेलिचिकीरिव वाहिनी दयितमध्यमगाहत भास्करः ॥४॥
जलशयेशशयांबुजनिन्हुतै-ककुचसिंधुसुतोरसिजभ्रमं ।
प्रवितरज्जगतां जलधेर्जले-शकमग्नमभाद्रविमंडलं ॥ ५ ॥
भुवनचक्षुषि भास्वति वारुणी मभिनिषेव्य जडेष्वधिमञ्जति ।
उचितमेव तदा त्वमपि व्यधात् यदखिलं भुवनं स्ववशं तमः ॥६॥
अहिमभासि हृदेकतमप्रिये नयनमार्ग मतीत्य गते क्वचित् ।
अपरदिग्भवरागहुताशने प्रविविशे प्रणयेन दिनश्रिया ॥७॥
गलितभासि हृदेकतमप्रिये व्रजति भास्वति शोच्यदशांतरं ।
विशदलिव्रजकैतवतो विशत् हृदिव शोकतमः सरसीरुहां ॥८॥
विधिनियोगतयापतदापदं समभिवीक्ष्य पतिं महसामिह ।
सपदि संचुकुचे सरसीरुहै रपश्रिभिः सुहृदा मुचितं ह्यदः ॥९॥
सितगुरेष कुरंगकलंकभाग् मलिनहृत्क्षणदास्य वधूरपि ।
तदिहही किमवेक्ष्यत इत्यभूत् कमलिनी विनिमीलिसरोजदृक् ॥ १०॥
उडुपतिद्युतिपानपरिस्फुर त्खगजिगीषुतयेव दिनात्यये ।
निशि वियोगवतां पततां गणा निखिलमेव रवेः पपुरातपं ॥११॥
पुनरनाप्तिभिया पपुरातपं दिनकृतः किममून्यधिकं रुचेः ।
रथपदाह्व पतन् मिथुनानि नो यदधुना व्यषहंत सहासितुं ॥१२॥
निशि वियोगवतः पततः स्थिता बिसलताचलचंचुपुटे बभौ ।
असुगणं वनिताविरहाद्विनि-जैिगमिषुं विनिरोद्धुमिवार्गला ॥१३॥
बिसगुणोपि ययोर्युगचारिणोः कथमपि स्म नमाति पुरांतरा ।
अपि सरिद्दयितः सममात्तयो र्विलसितं न विधेः स्मृतिगोचरः ॥ १४॥
रुरुदृशां स्ववशे सकलं जगत् रचयितुं रतिजीवितवल्लभः ।
दिनविरामरणन्मुरजावलि–स्वनमिषेण निदेशमिवादित ॥१५॥

५२
[सर्गः
श्रीहम्मीरमहाकाव्ये

तिमिरराशिरुदिखरंशक्तिर प्यधित नीचपदानि पुरा वशे ।
निजसमानवशीकरणोद्यमः प्रविजिगीषुगुणो ह्ययमादिमः ॥१६॥
स्मरशरध्यितदुर्दयितांगना ज्वलितदुःखहुताशकणा इव ।
प्रतिपदं कृतलोचनकौतुका रुरुचिरेतितरां शिखिकीटकाः ॥१७॥
अतिविदग्धतयाभ्रमिमाचर न्न कुलटा जन आट दृशोः पथं ।
विविधयुक्तिनिषेवणहृष्टह्नन् मनसिजेन वितीर्णवरादिव ॥१८॥
भृशमपि क्षिपति प्रतिवासरं मयि मुहुर्मुर्हुरेति तमः कुतः ।
इति रुषेव वह्न्नतिलोहितं वपुरगादुदयं रजनीकर ॥१९॥
शमयितुं तिमिराणि यदुत्सुकी--प्यमृतसूरुदियाय शनैः शनैः ।
तदिदमंकमृगो मघवप्रिया-र्पिततृणग्रसने खलु लुब्धवान् ॥२०॥
भुवनभेदसंभवशोणितो–पचितमन्मथमार्गणघर्षणैः।
अरुणतामिव यच्छशिमंडलं श्रियमदाद्गगनस्य निजस्य च ॥ २९॥
क्रकचचक्रजकेसरपांडुर-प्रसृमरोरुकरोत्करकैतवात् ।
अनुनिशादयितां हिमवालुका-प्रकरमास्यदिचाखरदीधितिः ॥२२॥
हृदयमध्यगतं दधदुच्चकैः स्फुटतरांकमिषेण तमस्विनीं ।
अजयदर्धवपुर्धृतवल्लभं पशुपतिं प्रणयातिशयाच्छशी ॥२३॥
सरसिजानि विहाय हरिप्रिं-----------------।


कटाक्षनिरीक्षणलक्षिता ॥२४॥

हिमकरं दयितं मिलितुं निशा विवसिताद्भुतभूषणया दधे ।
अविरलोदिततारकपेटक-च्छलमयी नवमौक्तिकजालिका ॥२५॥
चिरभवन्मिलनादुपगूहनं द्विजपतावदयं ददति श्रियः ।
त्रुटाति हारलतास्मसमुत्पत-द्विविधमौक्तिकतारकितांबरा ॥२६॥
सुमंशरान्प्रविहाय सुमायुधः शशिकरान् यदमन्यत तत्पदे ।
उचितमेव नवंनवमिच्छतां परिचिते रिपुता हि महीयसी ॥९७॥
किममृतैः सिसिचे किमु चंदनैः किमु हमीरकुमारयशोभरैः ।
चितमिदं जगदिंदुकरोत्करै र्व्यतनुतेति वितर्कपरंपरां ॥२८॥

७]
५३
जलक्रीडावर्णनम

प्रियसरोजदृशां रतविज्ञता-स्थितिविवेकविधाविव दीक्षिताः।
विविधभोगवतां रतमंदिरे रुरुचिरे परितोपि दशेंधनाः ॥२९॥
प्रणयिभिः सह सांप्रतमाहवः स्मरभवो भविता सुमहानिति ।
विविधभूषणकंकटसंग्रहा ऽप्रहवशं सुदृशो हृदयं व्यधुः ॥३०॥
श्रवणकुंडलवेणिविलोचनां-बुजमृजोपधिना मृगलोचनाः ।
सपदि चक्रकृपाणशरावली–प्रभृति शस्त्रचयं किमसज्जयन् ॥३१॥
उपगते दयिते भविता मया किमिह संयतयापि मुहुर्मुहुः ।
इति रणत्कलकिंकिंणिकामिषा-न्नववधूरिव मेखलया जगे ॥३२॥
तरुणिमोष्मविशुष्यदुपाहिता-च्छतरचंदनलेपनकैतवात् ।
मदनयुद्धकृते परिधापिता—विव कुचौ परया नववाससा ॥३३॥
रणितकिंकिणिसन्मणिमेखला-वलिमिषेण नवोढवधूरते ।
पतिभयादभितः स्मरमंदिरं स्फुरितजागरिदुर्गमिव व्यधात् ॥३४॥
रुरुचिरेतितरां रुचिरद्युति-प्रसवसंभवशेखरराजयः ।
स्मितसरोजदृशां मुखचंद्रमः-प्रसरदुद्गतिकांतिचया इव ॥३५॥
सरलकञ्जलकातलिपिच्छलात् वशकृतौ जगत कमिता रतेः ।
स्वसुभटेषु पुरोगमतां दृशोः कथयतिस्म न किं हरिणीदृशां ॥३६॥
प्रतिफलन्निह मा रजनीकरो विदितलक्ष्ममुखं वितनिष्ट नः ।
इति धियेव जितेंदुकपोलयो र्विदधिरे नवपत्रलताः स्त्रियः ॥३७॥
सहजपाटलतातिमनोहरे दधुरमूरधरे यदलक्तकं ।
तुहिनभासिसितीकरणश्रम-भ्रमकरं तदजायत नो किमु ॥३८॥
उरसिजेषु सखीजनांनिर्मिता मकरिका विबभुर्मृगचक्षुषां ।
मकरकेतुविभोस्तनवासिता-नुमितिसाधनबंधुरविभ्रमाः ॥३९॥
परिपिबन् रमणी ध्वनिमेतयो र्भवति नैव समाप्तरतादरः।
चरणयोर्विधृते इति नूपुरे मृदुगिरो हृदये बहु मेनिरे ॥४०॥
न पटयोरपि सूचिकया विना भवति योग्यतमा किल योजना ।
दयितसंगमनेष्विति दूतिका जनगतागतमभ्यलषन् स्त्रियः ॥४१॥

५४
[सर्गः
श्रीहम्मीरमहाकाव्ये

स्वमपि कांतममूष्वभितो विला -सिनमवेक्ष्य परिच्युतमत्सरा । रतिरपि श्रयतिस्म तनूदरी र्बलवता हि बलं न सहोचितं ॥४२॥
अथ मिथोपि मुखांबुजदर्पणे नयनगोचरचुंबितनुश्रियः । उदितकामरसादयितागमो-त्सुकतरं दधिरे प्रमदा मनः ॥४३॥
चलदृशां दयितेषु समानतां-बुजरुचेव कृशत्वममाश्रयत् । शितिसरोजस्त्येव सह क्षणा दतिशयत्वमगादनुनेतृता ॥४४॥
मृगदृशः स्म विभांति कटाक्षिता: प्रणयिभिः स्फुटितोष्मपयःकणाः । निशितपक्ष्मविभिन्नवपुःस्रुता-द्यरसबिंदुचयोपचिता इव ॥४५॥
मृदुरवा दयितेषु यथा यथा-यतकटाक्षचयानभिचिक्षिपुः । रातिपति: स्पृशति स्म तथा तथा धनुरधिज्यमसौ विदयाशयः ॥ ४६॥
चरणलंबितहारमिषाच्छ्रिता–क्षवलयैस्तालिमर्जुपसोद्यमैः । अजनि वारवधूविटनिर्मित--प्रबलमोहनभंगभयादिव ॥४७॥
इह धृते प्रविलोकयिता स मां तमहमप्यखिलात्मतया रते । इति विचिंत्य पराधितपार्श्वतो गृहमणिं ज्वलितोज्वलवत्तिंकं ॥४८ ॥
अयि तनोषि किमु द्यणुकोदरी-ति निगदव्यपि भर्तरि सत्वरं । त्यजति मानमशेषमपि प्रिया–स्म कठरे रजनीसमयोर्जितं ॥४९॥
प्रियसमागमसूचकवामदृक्-स्फुरणतो मुदिताशयया ऽन्यया । हृदयनाथमनुप्रहितापि किं निजसखी न पथः स्म निवर्त्यते ॥ ५०॥
अपि लवो युगकोटिशतायते धृतिपरस्य जनस्य ऋते यतः । हृदयहारिणि तत्र किमौचितीं स्पृशति मानिनि मानपरिग्रहः ॥ ५१॥
अनुनयन्नपि चैवमुपेक्षितो ह्यसुभगामिव चेद्भवतीं त्यजेत् । किमयशःपटहो न तदा तव व्रजति कोपिनि ङिडिमडंबरं ॥५२॥
रतिकृतां प्रयितो रिपुरेव य स्तमपि मानभरं परिपुष्णती । सुचरितेत्युदितापि तदाशये कथमिव प्रतिभासि विलासिनी ॥५३ ॥
प्रतिवधूरधिगत्य सम त्वया सकलहं विदधे यदि तं स्वसात् ।

तव तदास्तु पुनः स कुतः करे प्ररिचिताः पुरुषा हि न कस्यचित्॥५४॥
५५
जलक्रीडावर्णनम्

सखि हृदेकहितं भज मार्दवं परुषतां तु दुरंततरां त्यज ।
परुषता रचिता हि हृदीश्वरे फलति केवलमात्मनि मूढ़ता ॥५५॥
मम वचोद्य कुरु स्वहितं नचे दनुशयं हृदयं तव यास्यति ।
इति परा प्रतिबोध्य सखीं निजां रमणमंदिरमध्यमपानयत् ॥५६ ॥
षड्भिः कुलकं
स कितवोऽद्य समेष्यति चेत्तदा भुजयुगेन निबध्य रतालयं ।
समुपनीय निहन्मि तथा पुरा पुनरुपैति यथा न तदालयं ॥५७॥
हृदयनिष्कुटमध्यकृतोद्गमा कमितरीति मनोरथवल्लरी ।
सुभगया परया परया मुदा सफलभावमनीयत सत्वरं ॥५८॥
अनुनयान्वितमाश्रितगद्गदं सखि तथा वद जीवितवल्लभं ।
स समुपैति यथा न च कुप्यती-त्यभिविबोध्य सखीप्रहितान्यया ॥५९॥
यदि वियोगमवेश्यमियद्व्यं स्मयमधास्यामिमं हृदि किं तदा ।
इति परा परितप्य मुहुर्मुहु र्नयनमालिषु दीनमथाक्षिपत् ॥६०॥
प्रिय स मेह्मसि सुधु विमानहृ त्तव किमीश यशो मदनस्य किं ।
सहि ममेक्षणजः किल सोपि तत्तव परेति हृदीशमजीहसत् ॥६१॥
प्रतिदिनं शतशोपि निवारितो मुहुरिह त्वमुपैषि कयाऽशया ।
कृतक कोपवतीत्यपरारया दुपरि तल्पमपातयदीश्वरं ॥६२॥
विनयतो वसनं कमितुः करौ करयुगेन परा त्रपयाऽधित ।
रवयंमपि स्फुरितोद्धुषणैर्गल-न्निवसना सहसाथ किमातत ॥६३॥
यतिविरोधिलसद्रसपूर्णयो रुपरि लोलदृशस्तनकुंभयोः ।
बभतुरीशकरांबुरुहे अधो-मुखपिधानतुलामिव बिभ्रती ॥६४॥
दृगतिथौ दयिते मृगचक्षुषां हृदि लवं यदि मानभरोऽलसत् ।
गृहपतौ समुपेयुषि कश्चिरं परगृहे लभते यदि वा स्थितिं ॥६५॥
स्पृशति भर्त्तरि हृत् हृदयेशयः सचकितं मदनोऽन्यनतभ्रुवः ।
समुदतिष्ठदसंशयमत्रुठन् इतरथा किमु कंचुकसंधयः ॥६६॥

             
सपदि गोत्रपरिस्खलनात्प्रिया मनुपरो दहनास्त्रमिवाकिरत् ।
समधित प्रतिशस्त्रमिवाथ सा जलमयं स्रवदश्रुततिच्छलात् ।। ६७ ॥ .
तव मुखं कमलं मम चंद्रमा स्तदनयो रधुना स्मरकारितः ।
भवतु संधिरिति प्रवदन् परः स्वदयिताऽननयोजनमातनोत् ।। ६८ ॥
तव ममाप्यधरं निपिपासतोर्विधुरतांस्तु न कस्य च नेत्यथ ।
विलसतः स्म तथापपतुर्यथा-धरदलं सममेव वधूवरौ ।। ६९ ।।
उपरि यावमृतस्य तयोरिहा-प्युपरितैव भवत्विति दंपती ।
विलसंतः स्म तथा धरयोर्ययो--परितयैव मिथो जनिं चुंबने ।। ७० ।।
दधितयोरमृतोपरि यौ तयो रधरयोरधरेत्यभिधा कथं ।
अवगतं यदि वाधरता तयो रधरपानविधौ ग्रहणान्मिथः ॥ ७१ ॥
अमृतमित्यनृतं दयिताधरो यदि तदेष न किं गद नामृतं ।
निमिमिषुर्यंदमुं पिबतां दृशो विमुमुहुर्हृदयान्यपि कामिनां ।। ७२ ।।
विशदमेव न किं दयिताविलो—कनसुधारसपानमसूचयन् ।
मुकुलिताक्षससीत्कृतशब्दिता-ननपुरः करणेन विलासिनः ।। ७३
हृदि मयानुसृते तव सा स्वयं निरगमत्किल माऽत्र विषीद तत् ।
दयितमित्यभिधास्खलनादवा-ग्मुखमभाषत काप्यधृताधृतिः ॥ ७४ ॥
प्रियतमाधरपल्लवचुंबनो-पनतकांतमुखेंदुमिषाच्छशी ।
मयि सुधा किल तादृगिहापि किं किमधिकेति विवेक्तुमिवालसत् ॥ ७५ ॥
दयितयोर्मिथ एक मुखासव-ग्रहणलंपटयोर्मुखसंगमे ।
द्विशशितापनिमित्तमुदत्वरी न किमुवाह विपर्ययवर्जनां ॥ ७६ ॥
श्रियमुखामुख एव हरन्निजां प्रियतमामुखवेषधर शशी । ।
अधरपानमिषाद्रुरुधे न किं वदनवारिरुहेणं विलासिनः ॥ ७७ ॥
प्रणयिना विधृतापि मनस्विनी वपुरुवाह यदुत्पुलकं किल ।
किमियतापि जगाद न सा वशं तव गतास्मि विधेहि यदीहितं ॥ ७८ ॥
भज धृतिं त्यज भीतिमहेनुकां हियमवांचय वक्त्रमुदंचयः।
अभिनवामुपदेष्टुमिति प्रिया मजनि कोपि सखीव पटुः स्वयं ।। ७९॥

जघनसंगमनोत्सुकमानसं हृदयनाथमवॆत्य मृगीदृशः ।
स्वयमपासरदेव तदंशुकं किमुचिताचरणे गुणिनो ऽबुधाः ॥ ८० ॥
असह आाशु विदूरयितुं परो युवतिनीविमतिचुटदुत्सुकः ।
विषहते समुदीरितमन्मथो न खलु कश्चन कालंविलंबनं ।। ८९ ।।
परिसमाप्तरतेपि परः प्रिया-धररसं सुरसायनवत्पिबन् ।
पुनरपि स्फुरिताऽसमसायको व्यधित किं किमसौ न हृदीप्सितं ।। ८९ ॥
शशिरवी सुरतेषु तथा चलत्-कनककुंडलकैतवकल्पितौ ।
मृगदृशः पुरुषायित मूर्जितं समभिवीक्ष्य झलज्झलिताविव ॥ ८३ ॥
वरयिता रतकेलिषु कौशलं भृशमसौ वहतीति परा मुदा ।
ऋजुरणन्नवनूपुरसॆिंजितै रभिजगाविव तद्गुणगौरवं ।। ८४ । ।
मम मुखस्य विधोरपि दर्शनात् तव दृशौ कुमुदे अपि मीलितः ।
किमिदमेित्यपरा श्यनोन्मुखं स्तनतटेन जघान हि तं मुहुः ।। ८९ ।।
पुनरुपैषि तदोकसि तां विलो-कयसि जल्पसि वाथ तया समं ।
दयितयेत्युदितो विदधे शठो नहि नहीति मृषाप्यमृषोत्तरं ।। ८६ ।।
जहिहि लाक्षणिकीं रुषमुत्तमे नहि न वेद्मि मनस्तव यन्मयि ।
अहह पश्य तवाधरपल्लवः स्फुरति मामिव चुंबितुमुत्सुकः ॥ ८७ ॥
अपिच रागममांतमिवाशये न वहतो न दृशो बहिरुद्गतं ।
इति विदग्धवचाः कुपितामपि प्रियतमां न परः किमहासयत् ॥ ८८ ॥ युग्मं
रचयिता सखिं तत्र किमेष मां नवरतं भविता च कथंकथं ।
इति मुहुः समवादि न का सखी रतिरसोत्सुकयापि नवोढया ॥ ८९ ॥
प्रियतमे पुरुषायितलाघवं किमपि पश्यति वक्रितकंधरं ।
असहया रतमुज्झितुमन्यया गृहमणिः शमितः कुसुमैxहया ॥ ९० ॥
सुरतकेलिषु सुश्रु तवाहितं किमपि चेच्छपथोऽस्तु तदात्र मे । ।
ऋतगिरं यदि मां न च मन्यसे ननु विधाय न पश्यतिं किं तदा ॥ ९१ ॥
इति नवां रमणीं रतये परः स्मरकलाविदुरः समबूबुधत् ।
अतिविचक्षणतातिविमुग्धता-सुखविबोध्यमिदं यदि व्रा द्वयं ॥ ९२ ॥

8 k

इति नवां रमणीं रमणः परः स्मरविलासकृते समबूबुधत् ।
सततनिमैितकामकथोलसन् नवनवीक्त्यभिषिक्तमनोभवः ।। ९3 ।।
प्रियतमस्य भृशं सुरतार्दने शपथपूर्वमदात् सुरतं पुरा ।
तदनुलब्धरसा न तदस्मर न्नववधूर्वपुरेस्मरवङ्गितं ॥ ९४ ॥
अधरपानविधौ स्तनमर्दने नखरदोल्लिखने परिरंभणे ।
क्वचिदपि स्खलति स्म न कामिनां मतिरिहाप्यवधानभृतामिव ॥ ९५ ॥
हृदि यदेव दधे दयितैरते युवतयो ऽग्रत एव तदाचरन् ।
इतरथा कथमेकमनस्कता रतिरहस्यमुपैति यथार्थतां ॥ ९६ ॥
इह सुखेषु सुखं सुरतोद्भवं महदिहापि मिथौप्यनुकूलता ।
रहसि केलिरिहापि यदृच्छया सममिहापि रतिर्यदि किं पुनः ।। ९७ ।।
प्रियसखीभिरपि प्रतिबोधिता नवरतोत्सवतोभयशंकिनी ।
अतितरां परिरभ्य हृदीश्वरं कपटमुद्रितदृक् शयितेतरा ।। ९८ ।।
दयितदष्टरदच्छदपल्लवा नववधूः करकंपनकैतवात् ।
विगतवंति दिनानि रतोत्सवै र्विरहितानि शुशोच मुहुर्न किं ॥ ९९ ॥
रतिरसं कलयभितमां पर स्तदुरुतागुणविघ्नितचुबनः ।
परिनिनिंद कुचौ मुहुरीक्षयन् नव वधूं समयः स हि तादृशः॥ १०० ॥
रतिरसोपरमे स्खलनात्परः प्रणयिनीकुचपर्वतमस्तके ।
निपतितोपि मुमूर्छ न सन्मुखं दृढतरोजनि रंतुमहो पुनः ॥ १०१ ।।
प्रणयिनां यदभिद्यत कौसुमॆ रपि शरैर्हृदयं सुमधन्वनः ।
प्रणयिनीकुचशैलमहाहती-स्तदसहिष्ट यदद्भुतमेव तत् ॥ १०२ ॥
सपरिवेषशशिश्रियंमुद्वहत् भुजयुगांतरवर्ति मुखं स्त्रियः।
चिचलिषो ऽहृदयाधिपरेतसो ऽपशकुनाय न किं समजायत ॥ ९०३ ॥
रतिरसं परमात्मरसाधिकं कथममी कथयंतु न कामिनः ।
यदि सुखी परमात्मविदेककों रतिविदो सुखिनो पुनरप्युभौ॥ १०४ ॥
अधिकृतां करकंकतयोजनां विदधतौ रहसींदुमुखीवरौ।
विवभतुः सुगृहीतपरस्परा-विव मिथोप्युपपादयितुं रतिं ॥१०५॥

                
आसीत्तेन महाहवः स्मरभवो यद्युक्तमेवेति तत्
प्रीतिर्यच्च परैव युक्तमपि तत् यत्क्षेत्रयोरन्यता ॥ ११७ ॥
दृष्ट्वा स्वं प्रतिबिंबमेव वहति प्रेयानयं स्वप्रिया-
मक्ष्णीति स्तवदश्रुवाभैिरकरोन्मुग्धानिपानं पुर: ।
तत्रैव प्रतिबिंबनान्निपातितां भर्त्रा समं यत्पद-
द्वंद्वे स्वे मुमुदे व वीक्ष्य क्रिमितोपि स्यात्परं योषितां ॥ ११८ ॥
कोपि स्मरोन्मुक्तविषाक्तबाण-मूर्छामंतुच्छामिव हंतुकामः ।
शैलाविवालंब्य कुचौ कराभ्यां पपौ सुधामिंदुमुखीमुखेंदोः॥ ११९ ॥
सुरत्राणः कस्य त्वमिति मुहुरेवाभिहितया-
पणैणाक्ष्या प्रोक्तां स्मरशरशरव्यत्वभितया ।
परेषां सर्वेषामवनि हिमरश्में तव पुनः
करक्रीतादासीगिरमिति पपौ कोपि सुकृती ॥ १२०॥
स्वाभाविकात्सुरततो विपरीतमेत-द्रागं विशिष्य सुरतं वितनोति यूनां ।
निश्चेतनाप्यजनि रागवती यदत्र शय्यासयावकवधूपदबिंबदंभात् ॥१२१
स्मरस्मेरलीलामुतल्पादधस्तात् प्रसूनानि बभ्राजिरे निष्पतंति ।
मृगाक्षीवपुर्वल्लिविश्लेषभावा-विरांसानदुःखाद्ददंतीव झंपां ॥१२२॥
यस्यांगं तावदेवं बहिंरपि विहितस्पर्शनं कामिनीना-
मीदृक्सौख्यं विधत्ते स खलु रचयिता किं न मध्ये प्रविष्टः।
इत्थं ध्यात्वा रतति सुदृढतमपरीरंभदंभेन मध्ये
कायं प्रक्षेप्तुमैच्छन्सकलमिव हितं कातराः कातराक्ष्यः ।१२३।।
भानोः संक्रमणे श्रयेत मृदुतां विश्वं समस्तं यथा .
मन्ये शिश्रियतुस्तनावपि तथा स्रीणां रतेः संक्रमे ।
नैवं चेद्गुरुशैलवत्कठिनयोः श्रांता रतांते भृशं ।
प्रेयांसः कणशोभवन्न पतिता मघ्ये तयोस्तत्कंथं ।। १२४ ॥
क्षणं मानेमाने क्षणमथ मिथ काक्षकषणे
क्षणं हासोल्लसे क्षणमथ दृढालिङ्गनविधौ ।

इति व्यग्रा निन्युः प्रतिगृहमशेषामपि निशां
रतोत्साहैस्तैस्तैः समुदितमुदस्ते युवजनाः ॥ १२५ ॥
अन्योन्यमर्पितरदच्छदखंडनानां निःशंकनिर्मितनखक्षतमंडनानां ।
संभोगसंभवपरिश्रमखेदितानां निद्रासुखं क्षणमभूद्भूतयेथ यूनां ।। १९६ ।।
अन्योन्यप्रवितीर्णदंतनखरमोद्यत्पदव्यंजनै-
यूंनोर्वीक्ष्य परां स्थितिं गतवतो निर्व्याजवीरव्रते ।
कंदर्पोपि गिरीशदर्पदलने निश्चिंततामुद्वहन्
आशिश्नाय चिराय संगसुभगां निद्रां विशंके तदा ॥ ९९७ । ।
तूलं स्पर्शानुकूलं मुखशशिरुचिरश्रीसमाकृष्टिमूलं
तांबूलं नासिकायाव्रतसुकृतफलं स्फारपुष्पोपहारः ।
कांताश्नांतास्तनाभ्यामुरसि खिलमिदं न श्रुतः सप्तमश्येत
सर्गः श्रृंगारसंजीवन इति विदितो वीरहम्मीरकाव्ये।। १२८ ।।
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते महाकाव्ये
हम्मीरचरिते वीरांको सुरतवर्णने शृंगारसंजीवनो नाम सप्तमः सर्गः समाप्तः ।


अथाष्टमः सर्गः ।

 
प्रपंचयंतः स्फुटतारमंद्र-मध्यस्वरान् पंचमरागगर्भान् ।
हम्मीरदेवाय निशाऽवसानं वैतालिका विक्षपयां बभूवुः ।। १ ।।
विच्छायमिंढुं मुखमावहंती विनिम्नतारांकलुषांबरैषा ।
विभावरी याति रजस्वलेव स्नातुं पयोधौ दिशि पश्विमायां॥२ । ।
वियुक्तनारीजननॆचपातो-त्काभिः समंतांदिवं दीप्यमानं । ।
विहाय शीतांशुरसैौ विहाय आसीदपूर्वाचलचूलचुंबी ॥ ३ ॥
स्वातंत्र्यहंता न उदेति भास्वानस्यामिति क्रोधभरारुणाभिः । । ,
दृष्टेव दृग्भिः कुलटाजनॆन पुरंदराशारुणतां जगाम ॥ ४ ॥ ं ।

अबोधि किं न क्षणिका क्षपेयं मानो दधे यद्भवतीभिरेवं ।
इत्यभ्यसूयन्निव मानिनीभ्य स्तनॊति शब्दान् कृकवाकुरेषः ॥ ५ ॥

जायापतीनां रतकौतुकेन रात्रिं समग्रामपि जागरित्वा ।
घूर्णत्पमी विस्फुरितप्रमीला इव प्रदीपा रतमंदिरेषु ॥ ६ ॥
 
निवर्त्य चेतः सुरतात्कथंचित् यावत्सुषुप्संति युवान एते ।
मार्दगिकैस्तावदवादि सद्यः प्रत्यूषसूचा सुभगो मृदंगः ॥ ७ ॥
 
विलेपनामोदिरतांततांत-स्वेदोदकास्वादनमंदचारः ।
संभोगशालासु निविश्य यूनः सुखाकरॊत्येष उषासमीरः ॥ ८ ॥
 
प्राप्तप्रबोधा गुरुणोपदिष्टान्महाप्रयोगान् प्रणिधाय चित्ते ।
किर्त्यै कवींद्रा-इव निर्मलार्थो-त्पत्तिं नरेद्राः परिभावयंति ॥ ९ ॥

विप्राननोद्गीर्णविविक्तवर्ण--प्रचारचारुध्वनिवेदमंत्राः ।
सतां हृदंतस्तरसा प्रविश्य तमः कषंतीव समूलकाषं ॥ १० ॥
 
तमोमये प्रेक्ष्य विधिः प्रलीनं मेरुं युगांतेय नवं सिसृक्षन् ।
प्रत्यूषसंध्याभवरागदंभात् चिनोति श्रृंगाणि हिरण्मयानि ॥ ११॥
 
विभा विभातैव विभावरीय मद्यापि मानं किमिवादधासि ।
इति प्रियाया अपि बद्धमूलं मानं सुखेनैव नुनोद कश्चित् ॥ १२ ॥
 
संभोगकेलीं प्रविधाय पश्वात्सुप्तापि नारी प्रथमप्रबुद्धा ।
आालिंग्य सुप्तं प्रियसुप्तिभंगं विशंकमाना न जहाति तल्पं ॥ १३ ॥
 
कचिद्विभातीकृतयामिनीका अभ्येत्य कांता निभृतप्रचारं ।
स्वप्नेपि तत्तर्जनशांतचित्ता माश्लिष्य सुप्तां दयितां स्वपंति ॥ १४ ॥
  
अपि द्विजेशः श्रितवारुणीको ध्रुवं भवेन्नीचजडोपयोग्यः ।
इति प्रबोधं जगतां प्रयच्छन्नध्यास्त मध्यं जलधेः शशांकः ॥ १५ ॥
 
असौ सिषेवे चतुरोऽपि यामान् श्यामां क्षये सत्यपि यत्सकामः ।
तेनैव शंकेस्तमुपैति पक्वपलांडुपांडुः पतिरोषधीनां ॥ १६ ॥

समस्वरूपे शशिनो रवेश्च बिंबेस्तभावादुदयत्वतश्च ।
उपैति पूर्वापरयोर्विभेदे मतिर्जनानां क्षणमीश जाड्यं ॥ १७ ॥

अवाप यस्यामुदयं विहाय तां मामथासावपरां सिषेवे ।
इत्यादधानेव रुषं हिमांशौ पुरंदराशाऽरुणतां जगाम ॥ १८ ॥

स्फुटं स्फुटत्कुड्मलकोशनिर्य-द्विलोलरोलंबमिषेण हर्षात् ।
समागमे पत्युरिनस्य पश्याऽस्राणीव मुंचंति सरोरुहिण्यः ॥ १९ ॥

क्वापि ह्रूदे व्योमसरिद्वरायाः पतिर्नदीनामनुबिंबितः किं ।
यद्वारि भातीह तमस्तरंगाः प्रत्यूषरागोपि तदंतराग्निः ॥ २० ॥

एषाहमेतच्च गृहं तवैवा--ऽगंतव्यमेवाशु पुनः प्रियेण ।
इत्युक्तिपूर्व परिरभ्य गाढं र्षिगान् प्रहिण्वंति पणैणनेत्राः ॥ २१ ॥

प्रकाशकल्पेपि सहस्ररश्मौ वारांनिधिश्चापलमुत्ससर्ज ।
हंसे प्रकाशं यति यत्सतीव जडेपि शांतखमुपैति मूर्त्त ॥ २२ ॥

बिच्छायतां भूरितरामुपेता दूरीभवत्पुष्करकोशवासा: ।
काले कलौ संत इवोडवोऽमी क्वचित् क्वचिन्नेत्रपथं प्रयांति ॥ २३ ॥

लोलत्तनूनां मयनेन दघ्नस्तनूदरीणां कबरीमिषेण ।
ध्वांतावलीकुट्टनजातकार्ष्ण्याः स्फुरंति दंडा इव चंडरश्मेः ॥ २४ ॥

षिंगैर्निषिद्धैरपि दत्तदंत-पदालिवित्रेषु रदच्छदेषु ।
संभ्रांतचित्ताः प्रतिदृष्टिपातात् ददत्यलक्तं कुलटा नतास्याः ॥ २५ ॥

स्मराहवे स्मेरतरे प्रवृते पलाय्य पृष्टे मलिनो यमस्थात् ।
इत्यात्तकोपा इव केशपाशं गाढं निबध्नंति सरोरुहाक्ष्यः ॥ २६ ॥

काँचीगुणस्य ग्रथनप्रयासि प्रकोष्ठभूषागणसिंजितेन ।
मुक्तिं भजेथाः पुनरेव शीघ्र मित्यादिशंतीव तमंबुजाक्ष्यः ॥ २७ ॥

शिलालिहंतोग्रगसैधवानां वक्त्रोष्महिध्मा मलयंति वाहाः ।
निश्वासवातैरिव पाणिगानाऽदर्शान्निशाभोगवियोगिनार्यः॥ २८ ॥

समूलमुन्मूल्य तमःसमूहं लोके प्रवेशं सृजतो दिनस्य ।
मांगल्यहेतोरविबिंबदंभात् नीराजनामाचरतीव पूर्वा ॥ २९ ॥

र्षिंगैर्वितीर्णानणुवित्त्वैरा दिवाप्रभांतं भृशमर्दितांग्यः ।
सर्वांगसंस्पृश्यपिभानवीय-करोत्करे जाग्रति नो भुगिष्याः ॥ ३० ॥

६४
[ सर्गः
श्रीहम्मीरमहाकाव्ये

घूकादिर्वेदोरिव नीलनीर-रुहादिवाकृष्य विभातकालः ।
रथांगनामार्कसरोरुहेषु मुदं प्रक्राशं श्रियमादधाति ॥ ३१ ॥
 
पत्यूरुचीनामहिताद्भयेन तमःसमूहो विरहय्य धात्री ।
निशाटनेत्राणि वॆिवेश नूनं मुत्पश्यतैतेषु कुतोन्यथासु ॥ ३२ ॥

विंभावरीयाय विनाशमेषा मुदं दधस्वेत्यसुवल्लभा स्वा ।
विबोध्यते द्वंद्वचरेण याव-त्सा तावदागात्स्वयमेव पार्श्वं ॥ ३३ ॥

क्रुधेव ताम्रं वपुरादधान मायांतमालेक्य सहस्ररश्मिम् ।
निलीयते भ्रश्यदितस्ततोपि भिया तमिस्रं गिरिगव्हरेषु ॥ ३४ ॥

इत्यद्धुतैर्वाक्यभरैर्विबोध-करैः समाख्यातविभातकालः ।
तदर्हकृत्यं विरचय्य दान-केलिं कुमारः कलयांचकार ॥ ३५ ॥

विभूषितास्थानसभं शुभैषी श्रीजैत्रासिंहं रिपुकुंभिसिंहं ।
गत्वा कुमारोथ मुदा नमस्या-मासानणीयस्तरभक्तिनम्रः ॥ ३६ ॥

कृतप्रणामं तमवेक्ष्य दृष्यद्रोमा पुलोमारिरयो धरित्र्याः ।
रहस्युपानीय रहस्यवेदी जगाद निस्तंद्रतरास्यचंद्रः ॥ ३७ ॥

साम्राज्यलक्ष्मीकरपीडनाय जातप्रवीणप्रतिभे तनूजे ।
विदांवरेण्य क्वच नापि नास्म--द्वंशाः प्रदास्या विषयाभिवश्याः ॥ ३८ ॥

विध्वस्तबाह्यारिचयोप्यजित्वा-तरंगशत्रूनतिमात्रशक्तीन्।
बाह्येतरारीन् जितवत्सु तेषु स्थितः कथंकारमहंचकास्मि ॥ ३९ ॥

कियद्वराका सविकाशमाहू-राज्यं नृपाणां विगलत्कृपाणां ।
इदं तु योगप्रणिधानभाजां यावद्वराकासविकाशमेव ॥ ४० ॥

बाह्याः शरीरे किंल शैशवीयाः भावा यथार्त्यीजिषताययेस्य ।
हातुं तथाभ्यंतरगानपीमान् उदांसते हंत किमत्रं संत: ॥ ४१ ॥

शक्तावसत्यां विषयाभिलाषो विडंबयत्येव जनान् प्रयोक्तृन् ।
शांतोऽनलः फूत्क्रियमाण उच्चैः किं पूरयत्याशु न भस्मनाऽस्यं ॥ ४२॥

अपास्तलज्जं बहुदैन्यमस्मानकामयंत स्मरकातरा या ।
ताः कामयेम ह्यधुना मृगाक्षी र्वयं हहाऽतोपि विडंबना किं ? ॥ ४३ ॥

८]
६५
ह्रस्मीरदेवराज्याप्तिवर्णनम्


मलातुराणामशुचौ शुचौ वा यथाप्रदेशे न विचारणास्ति ।
स्त्रीणां तथा मूत्रपुरीषपात्रे गात्रे नराणां मदनातुराणां ॥ ४४ ॥

यत्प्रेरणादुत्तरलीभवंतः कृत्यान्यकृत्यान्यपि न स्मरंति ।
तदप्यहो यौवनमस्वमस्तु काद्यापि तृष्णा विषयेषु निष्णा ॥ ४५ ॥ १

ये यौवनोन्मादभरे गतेपि कुर्वत्यसर्वे विषयेषु रागम्।
निर्मांसमज्जाऽस्थिषु ते शृगाला लालारसास्वादनमाचरंति ॥ ४६ ॥

सर्वांगेषु निकृष्टमंगयुगलं स्त्रीणां तदुक्तं तयो-
राद्यं विङ्विवरं प्रसिद्धमितरत्प्रस्रावरंध्रं पुनः ।
तन्मध्ये यदपत्यरंध्रमसकृद्विस्त्रस्त्रवृच्छोणितं
ये तस्मादधुनापि नान्यवदनास्तेभ्योपि निद्योऽस्तु कः ॥ ४७ ॥

तद्राज्यकक्षीकरणान्ममैता माज्ञां गुणैकालय पालयाशु ।
साहाय्यतस्तेऽयमुपेंद्रसेवा--हेवाकिचेताः सुखमस्तु भूपः ॥ ४८ ॥

वार्धक्पदोषोदयदुर्भगत्वान्मुक्त्वाद्य सद्यः कमलानिवास्मान् ।
पतिं द्विजानामिव सौम्यमूर्त्ति साम्राज्यलक्ष्मीरुपतिष्ठतां त्वां ॥ ४९ ॥

सुधाकिराऽथैष गिरा स्वभक्ति-वल्लीं प्रवेल्लन्नवपल्लवाढ्यां ।
कुर्वन्निव व्यज्ञपयत्कुमार स्तातं जगद्गेयतमावदातं ॥ ५० ॥

द्वेधापि राजन्नरकांतमेत द्राज्यं न चेतो बहु मन्यते मे ।
द्युसद्गवीवद्विबुधालिसेव्या त्वदंघ्रिसेवा यदि लभ्यतेऽसौ ॥ ५१ ॥

त्वात्त्पादपद्मे सदसद्विवेक-कृद्राजहंसत्वमभीप्सतो मे ।
हर्षाय सुव्यक्तकलंककारि राजन्नराजत्वमिदं कदाचित् ॥ ५९ ॥

ज्येष्ठे तनूजे सति राज्यलक्ष्मी र्देया कदाचिन्न किलेतरस्मै ।
जानन्नपीत्यं नयवर्त्मसंस्थां मह्यं कथं दित्सति तामधीशाः ॥ ५६ ॥

हम्मीरदेवाय वितीर्य राज्यं मदंधिसेवानिरतो भवेति ।
स्वप्ने निशांते शयितं निशांते मामाह विष्णुः करवै किमार्य ॥ ५४ ॥

निरुतरीकृत्य ततोहठेना-निच्छंतमप्येनमतुच्छचित्तं ।
हम्मीरदेवं नृपतित्वलक्ष्मी ममीमनल्लातु मिलाविलासी ॥ ५५ ॥
9 k

६६
[सर्गः
श्रीहम्मीरमहाकाव्ये


ततश्च सेवन्नववह्निवाह्निं-भूहायने माघवलक्षपक्षे ।
पौष्यां तिथौ हेलिदिने सपुष्ये दैवज्ञनिर्दिष्टबले ऽलिलग्रे ॥ ५६ ॥

पुरा पुरोधास्तदनु क्षितीन्दु र्भुपास्ततोन्ये सचिवास्ततश्च ।
ततॊ महेभ्यास्तदनु प्रजाश्च तस्याभिषेकं रचयांबभूवुः ॥ ५७ ॥ युग्मं ॥

छायाकरैस्तस्य तितांशुशुभ्रं यदातपत्रं बिभरांबभूवे ।
छायाखिलस्यापि जगत्त्रयस्य् बभूव तेनाऽद्धुतमेतदुच्चैः ॥ ५८ ॥

एवं पतिष्यंत्यसकृत् प्रदेऽस्य क्षितिक्षितः ख्यातुमिवेति लोके ।
शिरोभितोप्यापतती नृपस्य तस्पाऽथ बालव्यजने व्यभातां ॥ ५९ ॥

अपाठिषुर्बंदिजनास्तदानीं मराणिषुर्मंगलतूर्यकाणि ।
अनर्तिषुर्नर्तविदश्च गीत मगासिषुर्गायकमंडलानि ॥ ६० ॥

पदेपदे वंदनमालिकानां माला निबद्धा बभुरुल्लसंत्यः ।
गृहावलीनां नयनायमान-द्वारामिव भ्रूलतिकाः सलीलाः ॥ ६१ ॥

नरेंद्रमार्गेष्वभितो विकीर्णा विस्मेरपुष्पप्रकरा विरेजुः ।
कांतं नवीनं प्रति भूमिदेव्या हासा इव स्फारतरप्रका३ाः ॥ ६२ ॥

हर्षप्रकर्षेण समंततेपि सद्यस्कबाल्हीकजलप्रसिक्ताः ।
नवे हृदीशॆ प्रकटीकृतात्म-रागा इवोद्रंगभुवो विरेजुः ॥ ६३ ॥

प्रत्यालयोत्तंसितशांतकुंभ-मांजिष्ठकौसुंभिककेतुदंभात् ।
अधीश्वरं प्राप्य नवं हमीर-देवं विशंके पुरमप्यरज्यत् ॥ ६४ ॥

सुम्राज्यलब्ध्या मुदिंतोप्यमुष्य भूभंगमाशंक्य शिरांस्यधुन्वन्।
वृथा व्यषीदत्फणिराट् विवेद -------------------- ॥ ६५ ॥

दृत्वा श्रियं शात्रवकैरवाणां सुहृज्जनांभोजकुले दधानः ॥
प्राप्तोदयो भूवलये स राजा - - न कस्याऽजनि विस्मयाय ॥ ६६ ॥

विश्राणने कर्णनृपस्य नीतौ रामस्य शौर्ये च धनंजयस्य ।
काले कलैौ पंडितमंडलीनां किं जायतोदाहरणं समास्म ॥ ६७ ॥

धर्मो जगर्जेंव दरिद्रमुद्रा क्वचिन्ननाशेव बभाविव श्रीः ।
समुल्ललासेव नयद्रुमोपि शुभं ननर्तेव तदीयराज्ये ॥ ६८ ॥

 
कालानलो नाऽजनि नाभिरामो रामो भवन्नो भरतो रतोभूत्।
आसीन्न चित्ते जनकोपि कोपि हमीरमालोकयतां जनानां ॥६९॥

अहानि तान्येव सुखावहानि हमीरदेवो २२२२२ऽजनि येषु भूप्ः ।
लोकास्त एवात्तशुभावलोका वक्त्रांबुजं यै र्ददृशे ऽदसीयं ॥७०॥

विकासिकाशाभिनवप्रवाल-जिद्दंतदंतच्छददीप्तिदंभात् ।
हृदु....सद्वाङ्गयरागसिंधो र्विस्तारर्य स्तारतरानिवोमींन् ॥७१॥
 
रुजार्दनादित्यथ जैत्रसिंहः स्वस्यावसानं निकटं विजानन् ।
स्नेहेन हम्मीरनृपाय राज्य-शिक्षामिमां प्रारभत प्रदातुं ॥७२॥
 
स्त्रीणां श्रियां वा क्वच नापि मागा विश्वासमासां क्षणभंगुराणां ।
रक्ता विरक्ताश्व सतामपिं स्युः पदे पदे ऽभू र्विपदे यदाशु ॥७३॥

साम्राज्यमासाद्य महत्तमेषु स्म विस्मरो मा विनयं नरेश ।
पुमान् बृहद्भानुरिवाविनीतः कुलस्य सर्वस्य विनाशहेतुः ॥७४॥

अप्यार्यकार्याणि विचार्यं कुर्वन् विवेकवानेष जगज्जनेष्टः।
जगन्निवासा तदियं नृपत्व--लक्ष्मीः कथं तं विजहाति तात ॥७५॥
 
शक्तोपि देह्यप्रकटीकृतात्म-शक्तिः परांभूतिपदं सदैव ।
कारीषवन्हिर्वद वत्स कस्य कस्याशु न स्यादतिलंघनीयः ॥७६॥

सदा सदाचारपरो नरेंद्रः सेव्यो मुनीनामपि निस्पृहाणां ।
कुशीलताभाप्रवरं खलोपभोगाय तैलीव भवत्यवश्यं ॥७७॥

धर्मार्थकामा इव सामदान-भेदाः क्रमेणैव पुरा प्रयोज्याः ।
सर्वात्मनैषामसति प्रचारे धार्या मतिर्मोक्ष इवाथ दंडे ॥७८॥

अनंतरो यो विषयेषु राजा संवर्धित क्लेशकरः स्व एव ।
गृहांगणांतर्विषवृक्ष उप्ते कालं कियंतं कुशलं गृहस्य ॥७९॥

राज्यस्य धर्मा किल पंच ये तान् पंचेंद्रियाणीह वदंति संतः ।
प्रलीयमानेषु तदेषु राज्य मपि प्रलीयेत वपुर्ययैवं ॥८०॥

शक्तिं समासाद्य सदोद्यतेन कार्या मंति र्विक्रम एव पुंसा ।
तिर्यक्षु भूरिष्वपि पश्य सिंहः पराक्रमादेव न किं मृगेंद्रः॥८१॥

नये धियं सम्यगनासयिखा युक्तः प्रयुक्तो न पराक्रमोपि ।
छलावलंबेन विनैव तावत् सिंहोपि हंतुं प्रविशेदिभं किं ! ॥ ८२ ॥
  
बुद्धचैव सिद्विर्यदि तन्नपुष्पै रपि प्रहर्त्तव्यविधिर्विधेयः ।
पश्य प्रसूनैरपि युध्यमानः स्मरो हरात्कां गतिमाससाद ॥ ८३ ॥

शौर्यं च बुद्विार्मिथुनं तदस्मात् अदूषिताद्राज्यमुदेति नित्यं ।
न चैकतो विश्वमपि प्रपश्य संजायते द्वंद्वत एव सर्वे ॥ ८४ ॥
 
जिगीषुणाऽरौ बलशालिनापि यात्रा विधेया खलु जेय एव ।
 ज्वालाजटालीकृतदिङ्सुखोपि नांबूनि दग्धुं क्रमते दवाग्निः ॥ ८५ ॥

रिपौरपि स्वाश्रयमागतस्य करॊति सत्कारविधिं विधिज्ञः ।
तथाहि मीनांशमुपागतस्य नोच्चं पदं किं भृगुनंदनस्य ॥ ८६ ॥

यथा न पीडा भवति प्रजानां ग्राह्य स्तथा धीधन तत्करोपि ।
किं नाम पुष्पाणि चिनोति पुष्प-लावी लतानां जनयन्विबाधां ॥ ८७ ॥

निवासिता येन स एव वेत्ति प्रायः प्रजानां सुखदुःखभावं ।
वध्या विजानाति किमंग गर्भ-प्रपोषणं वां वहनक्लमं वा ॥ ८८ ॥
 
धनं प्रजानामयथाऽपराधं गृह्णन् विजानाति न तच्च ताः स्वाः ।
इदं नृपस्याऽशकुनं तथाहि राज्यस्य नाशेऽस्य न तच्च ताश्च ll ८९ ll

सर्वस्वनाशेपि कुले र्विरोधा्द्भोधं सुधीनों विदधीत कश्चित् ।
कुले विरोधो रचितो निनाय सुयोधनं किं निधनं न सद्यः ll ९० ll
 
प्रजासु पीडा स्वकुले विरॊधः पक्षद्वयं पेषणयंत्रमस्मिन् ।
चूर्णीकृतं धान्यमिव प्ररोढुं पुनर्न राज्यं समुपैति शक्तिं ॥ ९१ ll
 
स्वमेव पुष्णन् प्रभुवंचनॆन नार्हत्युपेक्षामनुजीविवर्गः ।
कर्षद्रसाया रसमात्मनॆ किं नोन्मु्ल्यते क्षेत्रगतं तृणादि ll ९२ ll
 
मातेव राजा हितकृत् प्रज्ञानां मातुः सपत्नीव नियोगिवर्गः ।
तयार्पितानां च करे तदस्याः क्व वृद्विरासां क्वच जीवितव्यं ॥९३॥
 
स्वतः कुलीनोप्यधिको विधेयो राज्ञानुजीवी न कदाचिदेव ।
यतो जडात्मा वटवत्प्रवृद्ध स राज्य सौधस्य विनाशहेतुः ॥ ९४ ॥

प्राज्ञः सपत्नैः परिभूयमानो--प्युदीषिषन् न त्यजति स्वदेशं ।
दिवाकरालुप्तक्ररोप्यनुद्यन् नभः शशांकः पुनरभ्युदेति ॥ ९५ ॥

चिरंतनान्मंत्रिवरान् विहाय साम्राज्यभारो निहितो नवेषु ।
क्षणेन मूलादपि नाशमेति यथाऽविपक्वेषु जलं घटेषु ॥ ९६ ॥

स्याद्राज्यमंत्रेषु किलैक एव श्रेयांनमात्यो न पुनर्द्वितीयः ।
आारोहणं यानयुगस्य तज्ज्ञा न प्राणसंदेहकरं स्मरंति ॥ ९७ ॥
 
यो यत्र रक्तो यदि वा विरक्तो भावे विवेको नहि तस्य तत्र ।
अतो न तन्मंत्रविधौ विधेया शिक्षा तदीया सुविचक्षणेन ॥ ९८ ॥

मंत्रान्बहूनामपि धीसखानां श्रेयस्तरानैव वदंति संतः ।
गर्भस्य मातुश्च कुतः शिवाय करा बहूनां बत सूतिकानां ॥ ९९ ॥

पूर्वं स्वहृद्येव विचार्य सम्यक् मंत्रं ततः सम्मतिमाददीत ।
संवादिता चेत् तदिदं विधेयं नोचेत्तदूहै र्मतिराविरांस्या ॥ १०० ॥

विराद्भपूर्वः पुरुषः प्रधानपदे कदाचिन्न पुनर्विधेयः ।
 ताट्टग्छलं प्राप्य तथाविधा हि द्रुह्यंति नूनं धृतगुप्तवैराः ॥ १०१ ॥

पुमान्विराद्धो विजहाति नैव धीमन् युगांतेपि विरोधभावं ।
अद्यापि पश्यार्यमणं विधुं वा तुदन्निवर्तेत विधुंतुदो न ॥ १०२ ॥

महाबलेनापि कलिर्न कार्यः समं शकेशेन लसच्छलेन ।
तथां समर्थोपि बलिर्विजिग्ये छलप्रधानेन जनार्दनेन ॥ १०३ ॥
 
पुरः पुरो जाग्रदुदग्रकष्ठं दुरोदरं दूरत एव हेयं ।
दुरोदरारंभवशेन कां कां बिडंबनां पांडुसुता न जग्मुः ॥ १०४ ॥
 
बलाबलं सूत्रगतं विचार्य सविग्रहां यो विदधीत वृतिं ।
स एव तत्तद्गुरुगौरवार्ह--शास्रज्ञधुर्यंत्व मुपैति तात ॥ १०५ ॥
 
दखेति शिक्षां शुभबंद्वसख्यां गेहेच देहेच निरीहचिंत्तः।
जैत्रप्रभुः स्वात्महितं चिकीर्षन् श्री आश्रमं पत्तनमन्वचालीत् ॥ १०६ ।।

शिवापि ज्ञंबूपथसार्थवाही विराजते यत्र शिवः स्वयंभूः ।
यो ध्यातमात्रोप्युरुभक्तिभाज्ञां दत्ते न किं भुक्तिमिवाशु मुक्ति ॥ १०७ ॥

मज्जच्छचीदृग्युगलाकुवेलं-विष्वग्गलत्कज्जलमेचकांबु ।
चर्मण्वती यत्र सरिद्वहंती पुण्यश्रियो वेणिरिवाविभाति ॥ १०८ ॥

ज्वलिष्यदेतद्विरहाग्नितप्त मिवांबकाब्जस्रवदस्रुवर्षैः ।
पृष्ठेऽथ ह्रुत्सेसिचतः समेत्य व्यजिज्ञपन्नेनममात्यमुख्याः ॥ १०९ ।।

साम्राज्यलक्ष्मीं विरहय्य पूर्वं मुमुक्षतोऽस्मानंपि संप्रतीश ।
खद्योतवत् त्वद्विरहांधकारे भाग्यानि नो यांति पुरा प्रकाशं ॥ ११० ॥

भवत्दृगालोकनमुक्तयोगं प्रपत्स्यतेऽदो नगरं नरेश ।
रंगत्पतंगोज्वलबिंवडिंब--विवर्जितस्य श्रियमंबरस्य ॥ १११ ॥

वृष्ट्या सुधाथा इव सौम्यदृष्ट्या सिंचन्नयैतान्निजगाद भूपः ।
मा कार्ष्टं कष्टं विदुषामनिष्टं कृते मम स्वात्महितं चिकीर्षोः ॥ ११२ ॥

इदं पुरव्योममदंशुमालि-प्रतापरोचिश्वयशून्यशोच्यं ।
हैमीरचंद्रेभ्युदिते प्रकाम--श्रीकं भविष्यत्यचिरेण नूनं ॥ ११३ ॥

मद्वंशपायोरुहराजहंसस्तैस्तै र्गुणैर्विश्वकृतप्रशंसः ।
संसेव्यमानोहमिव प्रसाद--दानैः सदानंदयितैष युष्मान् ॥ ११४ ॥

इत्थं सहैतान् विसृजन् अवापत् पल्लीं पुरीं यावदसौ नरेंशः ।
लूता विनिर्गत्य पपात तावत् स्वयंच भेजे लघु देवभूयं ॥ ११५ ॥

असासहीभिर्विरहं प्रियाभिरष्टाभिरिष्टाभिरथाऽन्वितस्य । ।
तत्रैव संस्कारविधिर्विधिज्ञैः श्रीज्ञैत्रसिंहाधिपते र्वितेने ॥ ११६ ।।

अथाभिर्षिचन्नवशोकभूपं नवावतारं हृदि बाष्पपूरैः ।
चकार मॊहग्रहिलीकृतात्मा हम्मीरदेव: परिदेवनानि ॥ ११७ ॥

तातेति तातेति वचः प्रधोष-शुष्यद्रलस्यापि ममाऽवनीश ।
यद्दर्शनं न प्रददासि तत्का तवौचिति संगतिमंगतीयं ॥ ११८ ॥

विश्वत्रिलोकीतिलकायमानं व्यधात् विधेयस्तव पाणिरेनं ।
कथं स एवास्य विनाशहेतोः प्रागल्भ्यमभ्यस्यति हे हताशा ॥ ११९ ॥

हुताशनाऽसज्जनकालकूटान् परंतपोर्जीनिति को व्यधत्त ।
श्रीज्ञैत्रसिंहं नृपति प्रणिघ्नन्न्जायतास्योत्तरमदा वेधाः ॥ १२० ॥

धातर्विगर्ह्यदभितोपि लोका-पवादतो यद्यपि नासि भीतः ।
तयापि पाणी कथमुत्सहेतां नृरत्नमेनं तव हंत हंतुम् ॥ १२१ ॥

केनापि शंके पविशैलसाराण्यादाय चक्रे हृदयं विधातुः ।
क्रंदत्यपीत्थं मयि मुक्तकंठं नाद्यापि यत्तत्करुणा रुणद्भिः ॥ १२२ ॥

कंठस्यं हाहेति वचांसि दृष्ट्यो रस्रं कपोलस्य कराब्जकोशः ।
चित्तस्य शोकः शरणं हमीर–देवस्य तत्राहानि जायते स्म ॥ १९३ ॥

इत्थं महाशोकसमुद्रमग्नं उद्धर्तुमेनं जनताहिताय ।
अकर्णधारायतविप्रबीज्ञाऽदित्यादिभिर्ब्रह्मविदां वरेण्यैः ॥ १२४ ॥

जगाम तातो निधनं ममेति वृथा कृथा मा क्षितिपाल खेदं ।
कस्याप्यवश्या निधनस्य शस्य दृष्ठाः श्रुता वा पितरो त्र विश्वे ॥ १२५ ॥

श्वासावधि स्यात्खलु जीवितव्यं श्वासः प्रसिद्धः स तु वायुरेव ।
वायोरिहान्यत्तरलं न किंचिद्यज्जीव्यते तन्महदेव चित्रम् ॥ १२६ ॥

क्रीडां करिष्यति क्रियच्चिरमेष हंसः ।
स्निग्धोल्लसत्कलरवोत्र शरीरवाप्यां ।
कालारघट्टघटिकावलिपीयमान
मायुर्जलं झग्रिति शोषमुपैति यस्मात् ॥ १२७ ॥
 
इयं मायारात्रिर्बहलतिमिरा मोहललितैः
कृताज्ञाना लोकास्तदिह निपुणं जाग्रत जनाः ।
अलक्ष्यः संहर्तुं ननु तनुभृतां जीवितधना-
न्ययं कालश्र्यौरॊ भ्रमति भुवनांतः प्रतिदिनं ।। १२८ ।।
 
लंकाभर्त्तुर्निधनरुचिना चापहस्तेन येन
क्षिप्तास्तास्ताः पितृपतिमुखे कोटयो राक्षसानां ।
सोपि स्फूर्जद्दिवसरजनीघोरववत्रेण राम-
स्ताम्यन्मूर्तिर्झगिति गिलितः कालनक्तचरेण ॥ १२९ ॥

सूनोर्मन्मनभाषितानि शिशुता हृद्यस्य जीवादिशे-
त्युक्तीर्यौवनगस्य यस्तव पिता माधुर्यधुर्याण्यपात् ।

क्व स्वर्गे वसुधांसुधाकरसुधास्वादोऽधुना प्रीतये
तस्य खद्यशसैवं तृप्तिरमरीगीतेन पीतेन चेत् ॥ १३० ॥

इत्थं स्मार्तविनोदमोदिह्रुदंयप्रज्ञालवक्वांबुज
प्रादुर्भूतविशेषतत्वभणितिश्रेणीप्रबुद्धाशयः ।
शोकद्वेषिचमूरमूर्दलयितुं वीरं विवेकं सृजन्
वेश्मेव स्वमपालयत्क्षितितलं हम्मीरदेवस्ततः ॥ १३१ ॥

इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिंविरचिते श्रीहम्मीरमहा-काव्ये वीरांके श्रीहम्मीरदेवराज्याप्तिवर्णनो नामाष्टमः सर्गः समाप्तः ॥


अथ नवमः सर्गः

अथास्य षडुणॉस्तिस्रः ३ाक्तीर्भूपस्य बिभ्रतः ।
दिग्जयायानपायाय स्पृहयाळु मनो ऽभवत् ॥ १ ॥

ततो दैवज्ञविज्ञात---लग्ने लग्नेद्धरुग्ग्रहे ।
वंद्याभिर्गोत्रवृद्धाभिः कृतयात्रिकमंगलः ॥ २ ॥

पश्चाद्धृतोष्णरुग्बिंब ऊर्ध्वाकृष्टसमीरणः ।
नृपस्तुरंगमारूक्षंत्पुरस्कृतसितंद्युतिः ॥ ३ ॥ युग्मं ॥

स्वतेंधिकोजसं वीक्ष्य माम्लासीदेनमुष्णरुक् ।
इतीवास्योज्वलं शीर्षे छत्रं छायाकरैर्दधे ॥ ४ ॥

पास्यंत्यस्याऽखिलं सैन्या मद्वारीति विशंकिनी ।
तं बालंव्यजनव्याजा—दागाद्गंगेव सेवितुं ॥ ५ ॥

चंपाया इव चंपेश स्त्रिपुरस्त्रिपुरादिव ।
प्रकंपयन् धरां धीरो निर्ययौ नंगरांद्वहि ॥ ६ ॥

पराग इव पाथोजा त्पार्थपाणे शरा इव ।
पुरतः स्फुरितॊत्साहाः पृष्ठे सैन्या विनिर्ययुः ॥ ७ ॥

निमिमणा मदांभोभि र्विष्वक्कर्दमिलामिलां ।
गर्जिसंतर्जिताराति--शौंडीर्या निर्ययुर्गजाः ॥ ८ ॥

प्रखरप्रस्फुरत्पक्षा आरूढपुरुषोत्तमाः ।
चेलुस्तार्क्ष्याः परोलक्षाः प्रत्यक्षास्तार्क्षका इव ॥ ९ ॥

उच्चैर्ध्वजालीबिभ्राणैः प्रशस्तस्पंदनैस्तथा ।
यथा तदंतर्विक्षिप्तै स्तिलैर्भेजे न भूतलं ॥ १० ॥

वियत्कुक्षिंभरिस्फार--हुंकारमुखराननाः ।
पत्तयो वल्गु वल्गंतो नृपचित्तममूमुदन् ॥ ११ ॥
 
वांत्याव्यतिकराक्रांत--पताकार्पितदृष्टयः ।
मिथो हहेति जल्पाका रेजिरे वैजयंतिकाः ॥ १२ ॥
 
पदप्रपातप्रोद्धूतै रभितेपि रजोव्रजैः ।
छायार्थमिव सैन्यस्य प्रतेने दिवि मंडपः ॥ १३ ॥
 
केचिद्रजानां केचिच्च पत्तीनां केपि वाजिनां ।
र५थानां केच नावोचन् सैन्ये तस्य प्रभूततां ॥ १४ ॥
 
परःसहस्रैर्गंधर्वैः परो लक्षैश्च पत्तिभिः ।
क्रमात्त्क्रामन्धरां धीरो प्रापद्भीमरसं पुरं ॥ १५ ॥
 
तत्र श्रिताभ्यमित्रत्वं गर्जन्नर्जुनभूपतिं ।
कुट्टयित्वासिदंडेन स्वनिदेशवशं व्यधात् ॥ १६ ॥

ततो मंडलकृत् दुर्गा त्करमादाय सत्वरं ।
यगौ धारां धरासारां वारांराशिर्महौजसां ॥ १७ ॥
 
परमारान्वयप्रौढो भोजो भोज इवांपरः ।
तत्रांभोजमिवानेन राज्ञा म्लानिमनीयत ॥ १८ ॥

ततोति बलभारेण कासारितमहीतलः ।
व्यधादवंतीं दंतीद्रं--मदाक्तप्रांतकाननां ॥ १९ ॥

क्षिप्रां विप्रांजलित्यक्तैः सिक्तवप्रां पयाकणैः ।
दृष्ट्वा तस्याऽभवन् सैन्याः सज्जा मज्जनहेतवे ॥ २० ॥
 
विमुक्तबंधनास्तत्र कृतमंज्जनकौतुकाः ।
नासन् रेवानदीसेवा---हेवाकिह्रुदया गजाः ॥ २१ ॥

धुन्वंतः कंधराकेशान् वाजिनः स्नातनिर्गताः ।
आसारं तेनिरे तीरे तटिंन्याः पटुकांतयः ॥ २२ ॥
 
उन्मज्जत्कुंभिकुंभा सा स्रवंती सैनिकाशयं ।
हरतिस्म चकोराक्षी यथा पीनोन्नमत्कुवा ॥ २३ ॥
  
नृपोपि निर्मितस्नानो हितदानैकतानधीः ।
तत्रानर्च महाकालं--कालं दुष्कर्मवैरिणां ॥ २४ ॥
 
प्रविश्य मध्ये मेध्यश्री-विशालां तां निभालयन् ।
नैकशो विक्रमादित्त्यं सस्मार स्मेरविक्रमः॥ २५ ॥
 
विनिवृत्तस्ततो विश्वां विश्वां स्वकरवर्त्तिनीं ।
सू०जन् शौर्यवतां धुर्य श्चित्रकूट मकुट्टयत् ॥ २६ ॥
 
ततः स्फुटं नटन्मेद--पाटपाटनपाटवे ।
प्राप्यार्बुदाद्रिं सांद्रश्री स्तत्रावासान्न्यवेशयत् ॥ २७ ॥
 
प्रतीभबुद्धया बिंबान् स्वान् स्फटिकीषु शिलास्विह ।
संपश्यतॊ ऽभवं स्तस्य सिंधुराः प्रधनोद्धुराः ।। २८ ।।
 
हरिन्मणिगणंस्यात्र पोल्लसंत्यो मरीचयः ।
नवदूर्वावणभ्रांति तद्धयानामजीजनन् ॥ २९ ॥
 
श्रमेण वर्मभिं: सैन्यै रधिशांखं निवेशितैः ।
रोज्ञिरे शैलराजस्य सुभटा इव शाखिनः ॥ ३० ॥

तत्र विश्रम्य विश्रम्य पादपानां तले तले ।
गीयमानानि भिल्लीभिः स्वयशांस्यशृणोन्नृपः ॥ ३१ ॥

घनधीध्याततन्नाग--प्रमोदिशिखिकूजितैः ।
जगाविवार्बुदो ऽमुष्य दिग्जथप्रभवं यशः ॥ ३२ ॥

कुंभिकुंभमदांभोभि र्द्विगुणीकृंतनिर्झरः ।
आरुह्य पृष्ठमस्याद्रे श्वारिमानमलोकत ॥ ३३ ॥

वसतौ विमलात्मायं विमलस्याऽर्षभप्रभुं ।
ननाम नोत्तमाना हि चित्ते स्वपरंकल्पना ॥ ३४ ॥

तत्र श्रीवस्तुपालस्य कीर्तनं कलिकर्त्तनं ।
दृष्टासौ विस्मितो नैक-वेलं मौलिमकंपयत् ॥ ३५ ॥

प्रणम्य महतीभक्ति: सर्वदामर्बुदां ततः ।
आश्रमेऽरुंधतीजाने र्विशश्राम क्षणं नृपः ॥ ३६ ॥

मंदाकिन्यां विधायोच्चैः स्नपनं शमनं रुजां ।
अपूजयज्जगत्पूज्य मथासावचलेश्वरम ॥ ३७ ॥

साक्षाद्धनंजयस्येह धांरातर्षस्य धन्वितां ।
निरीक्ष्य नृपतिर्जज्ञे विस्मयॊत्तानलोचनः ॥ ३८ ॥

प्रचलद्वलपाथोधि--मैनाकिकृतवैरिणः।
अत्राभूतवर्वदो गर्वः सर्वदोस्यार्बुदेश्वरः ॥ ३९ ॥

ततोवतीर्य वर्यश्री र्निर्धनं वर्धनं पुरं ।
चंगामपि गलद्गंगां गां चक्रे चक्रेरिविक्रमः ॥ ४० ॥

अजयोपपदं मेरुं मध्ये कृत्य स कृत्यवित् ।
पुष्करं तीर्थमासाद्य दुष्करं पुण्यमर्जयत् ॥ ४१ ॥
 
आनर्च भूपस्तत्रादि--वराहाख्याधरं हरिं ।
चित्रं दशावतारोपि.न यो दाहात्मतां गतः ॥ ४२ ॥

प्रयाणपटहध्वान-प्रतिध्वनितकंदरान् ।
पश्यन्स्वकीर्तिगानैक--तानानिव धराधरान् ॥ ४३ ॥

ततः शाकंभरीद्वारि वारस्त्रीवारलोचनैः ।
अभून्निपीतलावण्य-सर्वस्वो वसुधेश्वरः ॥ ४४ ॥

अदसीयरिपुस्त्रैण-गलल्लोचनवारिभिः ।
तदादिलवणस्येह मन्ये खानिरजायत ॥ ४५ ॥

ध्वस्तराष्ट्रं महाराष्ट्रं खंडुिल्लं खंडितप्रभं ।
चंपां च विस्फुरत्कंपां भूपस्तदनु तेनिवान् ॥ ४६ ॥

ककरालं करालश्रि कृत्वाथास्मात्र तस्धुष ।
श्रीमॉस्त्रिभुवनाद्रींद्रो मिलद्दत्तमहोपदः॥ ४७ ॥

चतसृष्वपि दिक्ष्वेवं स्वाज्ञां राज्ञां स मौलिषु ।
मौलिलीलायितां बिभ्रन् स्वपुरोपांतमासदत् ॥ ४८ ॥

अमान् पुरांतरे पौर---रागांभोधिर्नृपागमे ।
वेल्लद्रक्तध्वजव्याजात् दधाबुद्वेलतामिव ॥ ४९ ॥

द्वारि निर्यज्जनप्रौढ--द्युतिदिव्यांशुकच्छलात् ।
पुरमप्यहसत्स्फीत--प्रीतीवोपेयुषि प्रभौ ॥ ५० ॥

उदंचितकरौर्विप्रे र्द्धत्ताः शृण्वन्नथाशिषः ।
बंदिवृंदजयारावै र्मुखरीकृतदिङ्भुखः ॥ ५१ ॥

धर्मसिंहादिभिर्मुख्यै रभ्येत्य प्रणतक्रमः ।
पुरं प्राविशदुर्वीदुं रतुच्छोत्सवसच्छविः ॥ ५२ ॥

उत्तंभिताः प्रतिद्वारं पौरैरुत्सवबांछया ।
कलशा रेजिरे सद्म--श्रीणामुरासिजा इव ॥ ५३ ॥

स्फूर्जत्तूर्पावलीध्वानै राहूता इव सर्वतः ।
त्यक्तान्यकार्या नार्योथ द्रष्टुमेनं दधाविरे ॥ ५४ ॥

क्षिप्वैकं कुंडलं कर्णे करेऽन्या बिभ्रती परं ।
रेजे पुरः स्फुरच्चक्रा सेनेवानंगभूपतेः ॥ ५५ ॥

एकेनैव कटाक्षेण विश्वं जेतुमहं सहा ।
आख्यांतीवेत्पशोभिष्ट परैकांजितलोचना ॥ ५६ ॥

असमाप्ततयाऽन्यस्या वेणिः पंचांगुलीधृता ।
पद्मकोशविनिर्गच्छत्---भृंगश्रेणिभ्रमं दधौ ॥ ५७ ॥

दंतक्षतार्द्धा कस्याश्विद्दिद्युते वीटिका करे ।
भालेनास्याजिता कृष्णा कृशा लेखेव सीतगोः ॥ ५८ ॥

उपरुध्य करेणैव वॆगान्नीवीमसंयता ।
प्रस्थिताभात् परासादी वल्गुवल्गत्करो यथा ॥ ५९ ॥

प्रसाधिकाकरात्पादं रभसाक्षिप्य काचन ।
चचाललंक्तकांकानु--मिताधिस्पष्टभूतला ॥ ६० ॥

९]'
७७
ह्रस्मीदेवदिग्विज्ञयवर्णैनम्


कुंभिकुंभेक्षणादात्म--स्तनापह्रतिशंकिनी ।
काचिदन्वेषयामास पाणिना स्वमुरो मुहुः ॥ ६९ ॥

सव्यांगभूषणं सव्ये-तरांगे बिभ्रती परा ॥
साम्यं मिथोऽनयेरेव स्माहेव जितविश्वयोः ॥ ६२ ॥

पश्यंत्युदंचितग्रीवं पादाग्राक्रांतभूः परा ।
विजेतुं कुंभिनः कुंभा निवाभादुन्नमत्कुचा ॥ ६३ ॥

धम्मिल्लबंधे कस्याश्चि दंगुल्यंतर्विनिर्गता ।
कलिका चंपकस्येव रेजे पत्रावलीवृता ॥ ६४ ॥

कराब्ज एव बिभ्राणा रेजेन्या कनकावलीं ।
यूनां नेत्रकुरंगाणां क्षेप्तुकामेव वागुरां ॥ ६५ ॥

सुप्रसाधितसव्यांघ्री रणद्भि र्नूपुंरैः परा ।
अर्धनारीश्वरालेाक-रागिणां रागमादधे ॥ ६६ ॥

शिरस्यपिहितेन्यस्या रक्षा वेणिमुखस्थिता ।
फणाभृतः फटाटोपे फणामणिरिवाबभौ ॥ ६७ ॥

तानवं प्रापयन्मध्यं वक्षोजौ गैौरवं नयत् ।
स्त्रीणामूर्ध्वस्थितं रेजे प्रभुशक्तिमिवाश्रितं ॥ ६८ ॥

दृग्द्वयॆन पिबंत्योस्याऽसीमं लावण्यवारिधिं ।
जिग्युश्चलुत्रयापीत-ससीमाब्धिं मुर्नि स्त्रियः ॥ ६९ ॥

अवाप्तावसराः काश्चित्कटाक्षैर्विव्यधुर्नृपं ।
ता धानुष्क इवाऽमुष्य कामः काडैर्व्यडंबयत् ॥ ७० ॥

पिबंत्ये नृपलावण्य--सुधां तृप्तिं न लेभिरें ।
तथापि शिरसः कंपं सद्यः काश्चन तेनिरे ॥ ७१ ॥

इत्थं पुरवरांगीभि र्मनोहत्य दृगंचलैः । ।
निपीयमानलावण्यः स स्वं प्रासादमासदत् ॥ ७२ ॥

अहितापकरस्फार-विक्रमाक्रांतभूतलः ।
अच्युतस्थितिरप्यासी न्न स कापि जनार्दनः ।। ७३ ॥


७८
[सर्गः
श्रीहम्मीरमहाकाव्ये

व्याख्या धर्मार्थकामाख्या: पुरुषार्थास्त्रयोप्यमी |
यथायोगमवाप्तात्मा ऽवसरास्तं सिषेविरे ॥ ७४ ॥

अहिंसाटोपमाबिभ्रद्विलसत्सर्वमंगलः ।
महेश्वरोपि तद्राज्ये न विषादी जनोऽद्धुतं ।। ७५ ।।

कोटियज्ञफलं राज्ञा पृष्ठोन्योद्धुः पुरोहितः ।
विश्वरूपाख्ययाख्यातो व्याचख्याविति तं पटुः ॥ ७६ ॥

जित्वा भुजबलेनोर्वीं कोठियज्ञं यथोदितं ।
निर्मेिमाणो नृपः प्रीति-पात्रं स्यात् त्रिदिवश्रियां ॥ ७७ ॥

इति स्मृतिसुधांभोधि-छटाछोटपदुच्छवेिं ।
निशम्य तद्गिरं भूपस्तं क्रतुं कर्त्तुमैहत ॥ ७८ ।।

आहूताः पुरुहूतेन ततो भूमेः प्रमोदिना ।
मिमिलुर्वाडवास्तत्र दुष्कर्मोदधिवाडवाः ॥ ७९ ॥

अंतःस्फुरच्चतुर्वेद-सुधांभोधेरिवोर्मयः ।
रेजिरैऽगेषु विप्राणां गोपीचंदनभंगयं ॥ ८० ॥

नित्यस्नानवशात् पिँगी-भूतकुंतलकैतबात् ।
बिभ्राणैः परमं तेजः शिरस्यंतरमादिव ॥ ८१ ।।

द्विभ्रमक्षिप्तरुद्राक्षा-क्षमालाव्यपदेशतः।
भृंगैरिवांबुजभ्रांत्या लीनैर्भूषितपाणिभिः ॥ ८२ ॥

अंहोराशिपरित्रासि-काशीवासप्रकाशिभिः |
आययानं परानंदवर्षिभिश्च महर्षिभिः ॥ ८३ ॥

त्रिभिर्विशेषकं
मारेर्निवारणं सप्तं व्यसनानां च वर्जनं ।
मोक्षणं गुप्तिगुप्तानां प्रावर्ततं तदा पुरे ॥ ८४ ॥

तोरणभ्रूलतोत्तुंग-कल्याणकलशस्तनी ।
शुशुभे वेदिका तत्र यज्ञश्रीरिव देहिनी ॥ ८५ ॥

धूर्मस्तोममिषाद्धूप किल्बिषं विक्षिपाश्तिव ।
ज्वालांजिव्होत्र जज्वालः ज्लावजटिलितांबरः ॥७६॥



९]
७९
हम्मीरऎवयागवर्णनम्

द्विजादेशान्नृपो यज्ञ-दीक्षामीक्षाकटाक्षितः ।
स कृतोपनिषद्वेदी वेदीपार्श्वमशिश्रियत् ॥ ८७ ॥

मंत्राहूतत्रयस्त्रिंश-द्दनुजद्वेषिकोटयः ।
जुव्हाति स्म बृहद्भानौ वाडवा द्रव्यमंडलं ॥ ८८ ॥

वेदमंत्रानुभावास्ता रुचिना शुचिना ऽमुना ।
पिपिंरे सर्पिषां विप्रा---र्पिताः स्फीताः परंपरा: ॥ ८९ ॥

तदर्थास्यसुधात्यागात् दाहभीचकिता इव ।
अापतंत्यपि हव्यानि तदा जगृहिरे सुराः ॥ ९० ॥

गायत्सु मधुरं वैदी-ऋचो विप्रेषु हर्षतः ।
चलत्कीलावलिव्याजा न्ननर्त्तेव हुताशनः ॥ ९९ ॥

नृपपुण्यप्रभावेण निःप्रत्यूहं द्विजेश्वराः ।
ययुः क्रतुक्रियापारं भवपारं तपस्विवत् ॥ ९२ ॥

हाटकानां ततः कोटिं क्षोणीं चाक्षीणसंपदं ।
भूदेवेभ्यो नृदेवोऽदा द्दक्षिणां चारुलक्षणां ॥ ९३ ॥

नृपविश्राणितस्वर्ण-कूटेषु नटतो द्विजान् ।
निरीक्ष्य निर्जरा मेरु--कोडक्रीडामदं ज्ञहुः: ।। ९४ । ।

इहैष स्वर्णदानेन तथाऽतूतुषदार्थिनः ।
तान्विहायोच्चकैर्दातॄ नुपास्थितं यथार्थिता ॥ ९५॥

रत्नराशिप्रदं केचि त्केचित्पुष्कलनिष्कदं ।
गजदं वाजिदं केचित् श्रीहम्मीरं तदास्तुवन्'॥ ९६ ॥

विश्राणनं सृजन् चिंता-कल्पनाकामनातिगं ।
स चिंतामणिकल्पद्रु-कामकुंभेष्वधात् घृणां ॥ ९७ ॥

सितोपलामिलन्मुग्ध-दुग्धादिरसपेशलं ।
राज्ञा तदा मुदा तेने प्राज्यं भोज्यं द्विजन्मनां ॥ ९८ ॥

ततः पुरोहितेनाभि-युक्तो युक्तं पुरोहितं ।
आददे नृपति: प्रीतो मारामेकं मुनिव्रतं ॥ ९९ ॥

८०
[ सर्गः
हम्मीरमहाकाव्ये


इतश्व शत्रुहृद्भल्लचां दिल्लचां शकमतल्लिका ।
बभूवाल्लावदीनाख्यो व्याख्यः शौर्यवतां धुरि ॥ १०० ॥

ज्ञातभूपस्वरूपेण तदा तेन स्वसोदरः ।
उल्छूखानाऽख्यया ख्यातो जगदे जगदेकजित् ॥ १०१ ॥

रणस्तंभपुराधीशो जैत्रसिंहोऽभवत्पुरा ।
प्रददौ स सदा दंडं मम चंडौजसो भयात् ॥ १०२ ॥

हम्मीरनामा तत्सूनु रधुनाऽखर्वगर्ववान् ।
दंडं दूरत एवास्तु न वाक्यमपि यच्छति ॥ १०६ ॥

स महौजस्तया शक्यो जेतुं नाभूदियञ्चिरं ।
व्रतेस्तिथीतयेदानीं लीलयैव विजीयते ॥ १०४ ॥

तद्गत्वास्यारणस्तंभ-तलं देशं विनाशाय ।
हते देशे स संस्थातुं सासहिः कति वासरान् ॥ १०५ ॥

इत्यवाप्य प्रभेोराज्ञा-मुल्लूखानोत्यमर्षणः ।
प्रतस्येष्ठायुतीमाना-श्ववारस्फारविक्रमः ॥ १०६ ॥

रंगत्तुरंगतुंगोर्मि र्गर्जद्विरदवारिदः ।
शाणोलेखितशस्त्रौर्वे रेजेऽस्य बलवारिधिः ॥ १०७ ॥

भुग्नयन् बलभारेण फटाटोपं स वासुकेः ।
प्रवेष्टुमक्षमोभ्यंत-र्वर्णनाशतटे स्थितः ॥ १०८ ॥

ज्वालयन्नुद्वसान् ग्रामान् आर्द्रबल्लांश्व चारयन् ।
आसन्नष्टादशान् घस्त्रान् सुखेनैषोत्यवाहयत् ॥ १०९ ॥

त्रिशुद्ध्यात्तव्रतत्वेन जोषं तस्थुषि भूपतैौ । ।
भीमसिंहोय सेनानी-र्धर्मसिंहधियोद्धुरः ॥ ११० ॥

उत्फालसमरोत्ताल--वीरवाराकुलं बलं ।
सहादाय महावीर्य श्वचालारिबलं प्रति ॥१११॥
 
युग्मं
चाहमानबलेवाद्य-माननिस्वाननिस्वनान् ।
निशम्य व्याकुलीभावं शिबिरे दधिरे शकाः ॥ ११२ ।।

|
८१
हम्मीरदेवदिग्विजयवर्णनम्


वारणेष्वक्षिपन् केपि प्रखरान् प्रखरा रणे ।
वाहानभ्युद्यतोत्साहा मंक्षु पर्याण्ययन् परे ॥ ११३ ॥

अबध्रन्केपि तूणीरा नगृह्णन् केपि मुद्गरान् ।
अकर्षन् केपि निस्त्रिंशा नवह्न्के हि खेटकान् ॥ ११४ ॥

चंडदंडप्रपातेन केचित् वाद्यान्यवीवदन् ।
योद्धृन् ज्ञापयितुं योद्धु सन्निधीभवितुं रयात् ॥ ११५ ॥

धीरत्वं प्रापयन् सैन्या नयोल्लूखाननायकः ।
निर्ययौ स्वयमारुह्य सिंधुरं सिंधुरोजसां ॥ ११६ ॥

वंशाग्रलंवितश्याम-सितचामरकैतवात् ।
लग्नगंगायमीलक्षं अंतरिक्षमज्ञायत ।। ११७ ।।

३ाकानां बाहुजानां च मिथोप्यथ निरीक्षणात् ।
अजागरीन्महॉवैरं दैत्यानां द्युसदामिव ॥ ९१८ ॥

पदगः पदगं सादी सादिनं रथिनं रथी ।
निषादिनं निषादीचे--त्यवृण्वन् सैनिका मिथः ।। ११९ ।।

माभूद्युद्धरसच्छेदो ऽस्माकं तापनतापनात् ।
इतीव प्राक् भटास्तेनु र्गगने कांडमंडपं ॥ ९२० ॥

अंगे लगंतः प्रत्यर्थि-पत्रिणो वीरकुंजरान् ।
सुखयामासुरेणाक्षी-कटाक्षा इव कामिनः ॥ ९९९ ॥

वीराः सर्वांगसंलमै रिपुक्षिप्तैः शिलीमुखैः ।
रेजु र्जयरमाश्लेष-सुखाद्रोमांचिंता इव ॥ १२२ ॥

नीरंध्रप्रसृतैर्बाणैः कल्पिते मेघमंडले ।
युक्तमेवोदडीयंत हंसा हृत्सरसोंऽगिनां ॥ १२३ ॥

वैरिवक्त्रसरोजेषु भ्रामयित्वा शिलीमुखान् ।
अपाययन्मनोहत्य तज्जीवितरसान्परे ॥ १२४ ॥

हर्षात्प्रनृत्यतां वीर-कोटीराणां रणांगणे ।
खाङ्काराः खङ्गदंडानां कस्यासन्न मनोमुदे ॥ १२५ ॥

८२
[ सर्गः
श्रीहम्मीरमहाकाव्ये

क्षणयायार्वरैः प्राणै श्र्यिरस्थास्नुयशोर्जनात् ।
भेजिरे भटकोटीरा दिव्यां व्यवहृतिक्रियां ॥ १२६ ॥

उत्प्लुत्योत्प्लुत्य धार्वतः सादिशीर्षच्छिदेच्छया ।
जीवंतोपि येियासंत इव स्वर्गं बभुर्भटाः ॥ १२७ ॥

असृजारुणिता रेजु वीराणां तरवारयः ।
लोला इव पलादानां रणे कीलालपायिनां ॥ १२८ ॥

लग्रमात्रा अपि भटान् प्रापर्यत्यो यमोदरं ।
यमदंष्ट्रनिजं नाम निन्यिरे चरितार्थतां ॥ १२९ ॥
 
खड्गलूनपतन्मुंड-दंतुरेपि रणांगणे ।
धावंतो नास्खलन्वीराः स्वशौर्यालंबिता इव ॥ १३० ॥

त्वत्कुचोन्नतिहृत्कुंभा कुंभिनोद्य हता रणे ।
इत्येके स्रीप्रतीत्यर्थ दंतिदंतानलासिषुः ॥ १३१ ॥

समप्रदेशमापन्नान् यवना वीक्ष्य बाहुजान् ।
अधार्वत पुरस्कृत्य वारणान्वीरवारणान् ॥ १३२ ॥

चाहमानैरुरःपूरं पूरिता मर्मभिच्छरैः ।
तस्थुरूर्ध्वदमा एव द्विट्गजा स्तंभिता इव ॥ १३३ ॥

तदा भटप्रकांडानां युद्धं किमिव वर्ण्यते ।
यदयुध्यत शास्त्राण्य-प्यन्योन्यास्फालनच्छलात् ॥ १३४ ॥

बलोच्छलितधूलीभि र्महाध्वति प्रसर्पति ।
स्वान्योपलक्षणं जज्ञे केवलं स्वस्वभाषया ॥ १३५ ॥

एवं स्फुरति कीनाश - कोदिहत्तर्पणे रणे ।
धानापेषं स्म पिंषंति चाहमाना द्विषद्बलं ॥ १३६ ॥

शत्रुभीया कबंधांत-नैिर्विष्टजनरक्षणात् ।
मृते अपि भटाश्र्वित्रं न शरणयव्रतं जहुः ॥ १३७ ॥

दृढात्ततापतच्छत्रैः पर्यस्तै र्भटपाणिभिः ।
युयुत्सुरिव भाति स्म् तुदा ससरभूरपि ॥ १३८ ॥

९]
८३
हम्मीरदेवदिग्विजयवर्णनम्


दंतिदंते पदं दत्वा प्रहरंतो निषादिनः ।
चेतांसि पातयामासुः सादिनां रथिनामपि ॥ १३९ ॥

निषादिनो न ते ते न सादिनो न च ते भटाः ।
उर:पूरमपूर्यंत चाहमानशरैर्न ये ॥ १४० ॥

हयान्केचिद्गजान्केचित् शस्त्राण्येके रथान्परे ।
हायं हायं स्म नश्यंति काकनाशं शकायुधाः ॥ १४१ ॥

केचित्तृणं दधुर्दद्भिर्निपेतुः केपि पादयोः ।
त्वद्गौरित्यवदन्केपि जीवं त्रातुं शकब्रुवाः ॥ १४२ ॥

इत्थं भंत्क्वा शतानीकं भीमसिंहो न्यवर्तत ।
अनुप्रतस्थे प्रच्छन्न मुल्लूखानो प्यमर्षणः ॥ १४३ ॥

बाहुजा लुंठितानेक-स्वर्णकोटीरकंकटाः ।
जितकाशितया भीमं पश्चांत्त्यक्त्वाऽगमन्पुरः ॥ १४४ ॥

अद्रिघट्टान् विशन् भीम-सिंहोपि परया मुदा ।
आच्छिद्य स्वीकृतान्युच्चैः शकवाद्यान्यवीवदन् ॥ १४५ ॥

यत्र यत्र स्वकातोद्य---निर्घोषः प्रसरत्परं ।
तत्र तत्र जयं मत्वा गंतव्यं निखिलैरपि ॥ १४६ ॥

इति संकेतनाद्भ्रांता मन्वाना जयमात्मनः ।
तदाभाव्यर्थभावेन मिमिलुर्यवना जवात् ॥ १४७ ॥

मिलितं स्वबलं वीक्ष्य शको योद्धुमढौकत ।
ववले भीमसिंहोपि तादृशाः किमु कातराः ॥ १४८ ॥

तत्र कृत्वा महायुद्धं शकान् हत्वा परः शतान् ।
कांडखंड़ितसर्वांगो भीमसिंहो व्यपद्यत ॥ १४९ ॥

जितकाशी शकेंद्रोपि शिबिरं प्राप्य सस्वरं ।
बाहुजेभ्यः पुनर्बिभ्यत् ववले स्वपुरं प्रति ॥ १५० ॥

अथ पूर्णव्रतो धर्म-सिंह मत्याद्रिघट्टकान् ।
हित्वा ऽगतं नृपो भीम-सिंहं मत्वा तमाह्वयत् ॥ १५१ ॥

८४
[सर्गः
श्रीहम्मीरमहाकाव्ये

स्फुटिते त्वदृशौ नूनं यन्नादर्शि शको बली ।
स्वयं पश्चाद्यदस्थासी स्तन्न पुंस्त्वमपि त्वयि ॥ २५२ ॥

साक्रोशमित्युपालभ्या-भिसभ्यं भूपतिर्मुहुः ।
मुष्कयुग्मच्छिदा पूर्वं तद्दृशौ निरचीकसत् ॥ १५३ ॥

पंडोर्विदुरवत्तस्य राज्ञोऽभूदनुजो जयी ।
भोजदेवाभिधः खड्ग-ग्राहीत्यपरनामभाक् ॥ १५४ ॥

धर्मसिंहपदं तस्मै तुष्टोथ प्रददे नृपः ।
तं च निर्वासयन् देशादमुनैव न्यषिध्यत ॥ १५५ ॥

अथापमानात्सोभ्येत्य गुप्तवैरः स्वमंदिरं । -
अधीतीभरते धारां देवीं नृत्यमशिक्षयत् ॥ १५६ ॥

तां च प्रेष्यानिशं नृत्य-च्छलात्पार्थिवपर्षदि ।
वेश्मस्थोपि विदामास स सर्वां नृपतिस्थितिं ॥ १५७ ॥

चिंताचितांगी सान्येद्यु रागता नृपपर्षदः ।
पृष्टांऽधेन जागौ चिंता--कारणं हृद्विदारणं ॥ १५८ ॥

ताताद्य वेधरोगेण मृताऽश्वश्रवणात् विभोः ।
प्रीत्यै न गीतनृत्यादि चिंता तेनेयमुल्बणा ॥ १५९ ॥

श्रुत्वैत्यसाविमामाह चिता मास्म कृथा वृथा ।
तं प्राप्तावसरं किंतु पार्थिवं प्रार्थयेरिति ॥ १६० ॥

आसाद्यते विभो धर्म-सिंहश्र्येत्स्वपदं पुनः ।
मृतेभ्यो द्विगुणानश्वा न्तदसावानयेत्पुनः ॥ १६१ ॥

ओमिति प्रतिपद्यैषां गता राज्ञे तदूचिषी ।
लोभात्सोप्यंधमाहूया-ध्यकार्षीत्स्वपदे पुनः ॥ १६२ ॥

विवेकदीपो दीप्येत तांबद्दृदि सतामपि ।
तृष्णाशंझामरुद्याव न्न भजेदुन्मदिष्णुतां ॥ १६६ ॥

तृष्णावल्लिरियं कापि नवैव प्रतिभासते ।
सद्विवेककुठारोगा न्न वरं यत्र कुंठतां ॥१६४॥

९]
८५
हम्मीरदेवदिग्विज्ञयवर्णनम्

बिंदवोपि स्फुरल्लोभ-मदेनांधंभविष्णवः ।
सपत्नान्सोदरीयंति सपत्नीयंति सोदरान् ॥ १६५ ॥

प्रचिकीर्षन्नथामर्षा दंधो वैरप्रतिक्रियां ।
चक्रे तद्राज्यमुच्छेत्तुं स उपायान्दुरायतान् ॥ १६६ ॥

लोभदृष्टिं नृपं कृत्वा द्रविणादानवर्त्मना ।
स प्रजाः पीडयामास चंडदंडप्रपातनैः ॥ १६७ ॥

गृह्णन्नश्वधनेभ्योऽश्वान् धनवद्भ्यो धनानि च ।
क्रूरकर्मा स लोकानां क्षयकाल इवाभवत् ॥ १६८ ॥

द्रव्यैः संपूरयन्कोशं राज्ञोऽभूत् भृशवल्लभः ।
वेश्यानां च नृपाणां च द्रव्यदो हि सदा प्रियः ॥ १६९ ॥

प्रज्ञादंडेन यत्तेन प्रतेने कोशवर्धनं ।
तत्किं स्वस्यैवे मांसेन न स्वदेहोपबृंहणं ॥ १७० ।।

अथ स्वपदभोक्तृत्वात् बद्धवैरश्र्यिरं हृदि ।
स भुक्ताब्दव्ययादाय-शुद्धिं भोजमयाचत ॥ १७१ ॥

क्रुद्धोऽधंस्फूर्तिमालोक्य भोजदेवोथ सत्वरं ।
गत्वा व्यजिज्ञपत् भूपं मौलिमैलीयतांजलिः ॥ १७२ ॥

देवस्य यदि मे प्राणैः कार्यं गृह्णातु तर्हि तान् ।
न सहे परमंधस्य वाक्यतोदकदर्थनां ॥ १७३ ॥

निजगाद नृपो यस्य मयि भक्तिरनश्वरी ।
न लुप्यतेऽत्र केनापि धर्मसिंहस्य शासनं ॥ १७४ ॥

स्वामीव स्वामिनां मान्यः सेवनीयोऽनुजीविभिः ।
सुस्थिरस्थाणुतत्कारात् अनड्वान् किन्न पूज्यते ॥ १७५ ॥

भाषणेनामुना रौद्र-दृग्वत्नालोकनेन च ।
नृपं दुष्टाशयं ज्ञात्वा भोजदेवः स शुद्धधीः ॥ १७६ ॥

निरीहचित्तवत् तस्य सर्वस्वमपि दत्तवान् ।
मूलाद्विनष्टे कार्ये हि किं कुर्यात् बलवानपि ॥ १७७ ॥ युग्मं

८६
[सर्गः
श्रीहम्मीरमहाकाव्ये

तथाप्येषोभिजातत्वा दजहन् स्वामिभक्ततां ।
योगीव परमं ब्रह्म भोजो भूपमसेवत ॥ १७८ ॥

अन्पेधुर्नृपतिर्वैज’-नाथयात्रामुपागतः ।
दृष्ट्वा पृष्ठस्थितं भोज मन्योक्तयेदमभाषत ॥ १७९ ॥

संत्येवात्र पदे पदेपि बहवः क्षुद्रा निकामं खगा ।
नो कुत्रापि समोस्ति गर्ह्य इतर: काकाद्वराकात्परं ।
क्रोधाविष्ट पठिष्ट घूकनिकरास्याग्रोत्थकोटिक्षतै-
स्त्रुट्यत्पक्षचयोपि यस्तरुतटं नापचपः प्रोज्झति ॥ १८० ॥

अनयाऽन्योक्तिकौमुद्या भोजोंऽभोजमिवास्तरुक् ।
वेश्मागत्य रहः पीथ-सिंहं सोदरमब्रवीत् ।। १८१ ॥

देवोद्यकल्प उत्पश्य वचनैर्दुर्मनायितः ।
सेवा हेवाकिनोप्यस्मा न्नतृणान्यपि मन्यते ॥ १८२ ॥

आवाप्तामेयसाम्राज्य--मदमोहितमानसाः |
यदि वा पार्थिवा नैव क्वचिदेकांतवत्सलाः ॥ १८३ ॥

यात्राव्याजेन तद्यामो दिनानि कतिचित् बहिः ।
कालक्षेपोऽशुभे श्रेयान् नीतिविद्भि र्जगे यतः ॥ १८४ ॥

संमंत्रयं सोदरेणैवं भूपं गत्वा व्याजिज्ञपत् ।
काश्यां व्रजामि यात्रायै यद्यादिशति भूपतिः ॥ १८५॥

जगाद भूपति र्यासि परतः परतो न किं ।
विना भवंतमप्येवं पुरं संशोभते पुरा ॥ १८६ ॥

इत्याक्रुष्टोपि कौलिन्या त्क्षमामेव क्षमापतैौ।
बिभ्राणः प्रचचालैंर्षेो ऽनु कांशीं सपरिच्छदः ॥ १८७ ॥

तस्मिन् गते क्षितिपतिः प्रसरत्प्रमोद
हद्दडनायकपदे रतिपालवीरं ।
युक्याभिषिच्य जगदेकहितत्रिवर्ग -
संसर्गतोतिसंरसान् दिवसाननैषित् ॥ १८८ ॥

८७
हम्मीरदेवदिग्विजयवर्णनम्

                     
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहाकाव्ये वीरांके हम्मीरदेवदिग्विजयवर्णनोनाम नवमः सर्गः ॥




॥ अथ दशमः सर्गः ॥


   
धरणीरमणापमानना दथ भोजः सशिरोहमागतः ।
परिभाव्य मुहुः स्वदुर्दशा मभिमानेन हृदीत्यचिंतयत् ॥९॥

विततान विनापि कारणं नरनाथो मम यां तिरस्क्रियां ।
विदधे यदि तत्प्रतिक्रियां न तदा केव मनस्विनां गति: ॥२॥
 
गुणवानपि वक्रतां गतः पुरुषश्चाप इवातिभीषणः ।
स शरैरिव दुर्जनैर्यतो गुणमुक्तैस्तनुतेऽतिपीडनं ॥३॥

अपमानपरेपि यो नरे शममेव प्रयतोऽवलंबते ।
अपि शूकशिखा ततो वरं व्यथयत्पंघ्रिमसौ तदाऽहता ॥४॥

अपकारपरान्सहोदरान् अपि हन्यात्किल नास्ति पातकं ।
अभिमानवतां नयोन्मुखैः स्थितिरेषा जगदे सनातनी ॥५॥

सुहृदां यदि वा विरोधिनां क्रिययैव क्रियते परीक्षणं ।
सुहृदप्यपकारकृत् द्विष न्नुपकारीं तु सुहृद्विषन्नपि ॥६॥

सहतेऽरिकृतं पराभवं ननु यः क्लीबमना मनागपि ।
जनिरेव जनिष्ठ तस्य मा जननी यौवनगर्वगर्हिणी ॥७॥

परिपृच्छ्यं ततः सहोदरं पिथमं सन्मतिवासमंदिरं ।
अगमल्लघुयोगिनीपुरं यवनानां समगच्छदीश्वरं ॥८॥
 
तादृक्कुलीनोपि तदा स भोज-देवोऽधुनाऽहिकृतवान्यदेवं ।
तन्म्लेंछभूजृंभितमेव तस्मात् सतां न तद्धूरपि वासयोग्यां ॥९॥

तत्समागमनहर्षवशात्मा ऽल्लावदीननृपतिः स ततोऽस्मै ।
वस्त्रनिर्वपणपूर्वमयच्छ न्मुद्गलेशनगरीं जगरां तां ॥१०॥
 
तत्र चित्ररूचिभाजि स भोज सोदरं स्वमदरं परिमुच्य ।
स्त्राग् स्वयं पुनरूपेत्य च दिल्लीं सेवतेस्म शकनायकमेव ॥११॥

८८
[ सर्गः
श्रीहम्मीरमहाकाव्ये


प्रौढमानमनुघस्रममानैः कांतकांचनहयादिकदानैः ।
तं तथापुषदसावपि भूपो जायतेस्म स यथा निज एव ॥ १२ ॥

तं विपक्षमपि यत्सदकार्षीत् स्त्राक् शकस्तदुचितोचितमेव ।
अन्यथा कथमिवारिजयेऽसौ जागदीति निरपायमुपायं ॥ १३ ॥

आत्मनीनमधिगत्य तमुच्चै रन्यदेति यवनेंदुरपृच्छत् ।
ब्रूहि भोज्ञज कथमेष हमीरो जीयते युधि मया द्रुतमेव ॥ १४ ॥

सत्यमेवं यदि पृच्छसि कार्यं स्तर्हि नो मम गिरीश्वर कोपः ।
इत्युदीर्य गिरमाहितभारा माततान गतभीरथ भोजः ॥ १५ ॥

शैथिल्यं कुंतलेषु प्रसभमुपनयन् पीडयन्मध्यदेशं
स्थानभ्रष्टां च कांचीं विदधदुपचयन् काममंगेषु लीलां ।
यो भूमेश्यंवचलाक्ष्या: पतिरिव तनुते भाग्यसौभाग्यलक्ष्मीं
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १६ ॥

दीपः पर्यायशेषः स्फुरदरुणमणीदीप्तिराकारशेषः ।
सूरोप्याख्यानशेषः प्रलयशखिशिखाश्रेणिराभासशेष: ।
यस्य प्रौढप्रतापे प्रसरति नितमां क्षोणिपीठे क्षितींदोः
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १७ ॥

यस्मिन् शश्वन्निवासां ऋतव इव गुणंणा हायने षट् क्षितींदौ
श्रित्वा तस्रोपि तस्थुः पुरुषमिव गुणा यं परं शक्तयोपि ।
अंगैः स्फीता यथोक्तैः प्रथयति पटुतां यस्य विद्येव सेना ।
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ ९८ ॥

यं व्यालोक्यापि खङ्गग्रहणपटुकरं बिंभ्यतां पार्थिवानां ।
निष्वासो नासिदंडो न च कुलममलं नापि शौर्यं न धैर्यं ।
.::: किंंचेकं तूर्णमेवापसरणमयते ध्यानमार्गेऽध्वगत्वं
स: श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैवः ॥ १९ ॥

अश्राँतस्राविदानोच्छलितपरिमलाकृष्टगुंजद्द्विरेफ -
श्रेणीद्विट्कुभिकुंभस्थलदलनकलाकेलिकंढूलहस्तः ।

 
सोदर्यो यस्य वीरव्रजमुकुटमणिर्वीरमो विश्वजेता
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २० ॥
त्वद्भ्रातुर्लुठितार्थाऽर्थननिबिडमते र्मानमुन्मूलयंतो
निःशंकं मेनिरे त्वां स्फुटसुभटतया ये तृणायापि नैव ।
औदीच्यास्तेपि सेवां विदधति महिमासाहिमुख्या यदीयां
सः श्रीहम्मीरवीर ! समरभुवि कथं जीयते लीलयैव ॥ २१ ॥
देशो यस्यानुघस्रं कृतसुकृतजनाचारचारुग्रदेशो
दुर्गं दुर्ग्राह्यमेवाहितधरणिभुजां श्रेणिभिश्चेतसापि ।
अन्योन्यस्पर्धिवीर्यार्जितशुचियशसोप्याहवे वीरवाराः
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २२ ॥
अंगो नांगानि धत्ते कलयति न पुनर्युद्धलिंगं कलिंगः
काश्मीरः स्मेरमास्यं न वहति तनुते शौर्यसंगं न वंगः ।
गर्जि नो गुर्जरेंद्रः प्रथयति पृथुधीर्यस्य कौक्षेयकाग्रे
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २३ ॥
यस्याग्रे नैव किंचिद्र‌--------पतिर्भीतिशुष्कोष्ठकंठो
यं नाथत्यश्वनाथः प्रथितकृपणधीर्जीवरक्षामभीक्ष्णं ।
आत्मक्षेमाय मंत्रं जपति गजपतिर्यत्कटाक्षेण दृष्टः
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २४ ॥
शूरः कश्चन कश्चनापि मतिमान्दाक्षिण्यवान्कश्चन
प्राज्ञः कश्चन कश्चनापि सुकृती दाता पुनः कश्चन ।
इत्येकैकगुणप्ररूढमहिमा जागर्ति भूयान् जनः
सर्वैः श्रेष्ठगुणैरधिष्ठिततनुर्हम्मीरवीरः परं ॥ २५ ॥
एतस्याधिपतेस्तथोन्नतकरांभोजप्रसादोदयात्
दोष्मंतः श्रियमाप्नुवंति तदिदं मंस्था स्म मात्यद्भुतं ।
किं चिंतामणयः स्फुरंति न नखाः किं कामधेनो स्तना
नांगुल्यस्तलमस्य वा किसलयाः कल्पद्रुमाणां न किं ॥ २६ ॥

९०
[ सर्गः
श्रीहम्मीरमहाकाव्ये


संग्रामेस्य तुरंगनिष्ठुरखुरोत्खातैरजोभिः क्षणात्
पंकत्वं गमिते मिलद्रिंपुशिरश्छेदोच्छलच्छोणितैः ।
व्योमो मध्यपथे रथस्खलनतामाशंकमानोर्यमा
ऽवाचीं कर्ह्यपि चंचरीति भगवान् कर्ह्यप्युदीचीमपि ॥ २७ ॥

दीपस्येव समीरण: सरसिजश्रेणेरिवांभोधरः
सूर्यस्येव दिनात्ययो यतिवरस्येवैणटूक्संगमः ।
देहस्येव गदोदयो गुणगणस्येवातिलोभाश्रयः
तद्राज्यस्य विनाशहेतुरधुनैर्क्रोधः परं दीव्यति ॥ २८ ॥

तिदमुं जिगीषसि यदीश सर्वथा त्वरया तदा प्रयितर प्रयाणकं ।
यदमुष्य नीवृदधुना न वोल्लसत् सुमनप्ररोहहरितीकृतावनिः ॥ १९ ॥

ननु तेषु मंक्ष्वपि कथावशेषतां गमितेषु भूप भवदीयसैनिकैः ।
जहति प्रजा अमुप्तिता निराशतां गतनेत्रचंडतरदंडनात्पुरा ॥ ३० ॥

आचम्येत्थं तस्य वाचं शकाना मीशो प्युल्लूखाममाहूय सद्यः ।
दत्वा लक्षं सादिनः सादितारीन् देश्ं येनाचीचलच्चाहमानं ॥ ३१ ॥

उल्लूखानः पूरवत्सोथ वार्धे र्वृत्तिं शत्रून् प्रापयन् वैतसीं स्राक् ।
क्षत्रोत्तंसान्मन्यमानस्तृणांशान् हैिदूवाटं प्राप तीव्रप्रतापः ॥ ३२ ॥

चरैरथोक्तारिसमागमोसौ हम्मीरदेवः क्षितिंपालमौलिः ।'
न्यपातयत्पर्षदि हर्षहेला--मयेषु वीरेषु दृशं सभावां ॥ ३३ ॥

राज्ञश्रेष्ठासौष्टयं तद्विभाव्य हृष्यच्चित्ता वीरमाद्या अथाष्टौ ।
वीराः स्मेरास्यांबुजाम्लेच्छभूभृत्सेनामेनामन्वधावंत वेगात् ॥ ३४ ॥

दृष्ट्वा ग्लेछान्मारितान्मत्प्रकाशे सूरीन् भूवन् क्वाप्यमी मावसन्नाः ।
इत्थं ध्यात्वेवास भास्वान् प्रतीची-भूभृच्चूलाचुंबिबिंबस्तदानीं ॥ ३५ ॥

जीवं लात्वा द्राक् शका यात रेरे प्राप्ता ह्येते बाहुजास्तीव्रकोपाः ।
व्याचक्षाणानामितीव प्रकामं व्यापे विश्वं कूजितैर्व्योमगानां ॥ ३६ ॥

गलद्विचारोल्लसितानि भास्वत् गवां विनाशे रुचिरद्युतीनि ।
तमांसो संगंतुमिव स्वबंधून् शकान्प्रसस्त्रुर्भुवनेभितोपि ॥३७ ॥

१० ]
९१
हम्मीरदेववीरयुद्धवर्णनम्


श्रीवीरमेंद्रो दिशि माघवत्यां दिशि प्रतीच्यां महिमाख्यसाहि: ।
श्रीजाजदेवी दिशि दक्षिणस्पां दिश्युत्तरस्यामपि गर्भरुकः ॥ ३८ ॥

आग्नेयभागे रतिपालवीरः समीरभागे तिचरः शकेशः ।
ईशानभागे रणमल्लमल्लः श्रीवैचरो नैर्ऋतनामभागे ॥ ३९ ॥

इत्थं यथाशक्तिकृतप्रतिज्ञा वीरा रणोत्साहलसच्छरीराः ।
हम्मीर हम्मीर इति ब्रुवाणाः शकाधिपीये शिबिरे निपेतुः ॥ ४० ॥

द्रुतमेव केपि परिखामपूपुरन् अदहन्परे दलिकदुर्गमुच्छ्रितं ।
न्यविशंत चांतरितरेतिगत, पटवासरज्जुनिचयान्परेऽलुनन् ॥ ४१ ॥

धीरं धीरं यातरे माऽ कुलत्वं चापाग्रे नो बाहुजाः संतु के ऽमी ।
दूर्वालावं मंक्ष्वपीमान् लुनीमः शब्दाद्वैतं.जातमेवं शक्रानां ॥ ४२ ॥

केचित्कृपाणांल्लगुडांश्व केचि च्चापान्परे केचन मुद्गरांश्व ।i
आक्रम्यमाणा नृपवीरवारै स्तदाशकेंद्रा जगृहुर्जवेन ॥ ४३ ॥

श्रुत्वाखिलास्वपि ककुप्सु मृदंगनादान्
आतंककंपितहृदो यवना जवेन ।
संदेहमूर्जितमिताः किल जीवितव्ये
कर्त्तः किमद्य भवितेत्यवदन्सदैन्यं ॥ ४४ ॥

श्रावं श्रावं सिंहनादान् भटानां भीताश्वकुः सारसीं यामिर्भेद्राः ।
तामाकर्ण्य त्रासवंतोतिजीवं लात्वा क्वापि क्वापि नेशुस्तुरंगाः ॥ ४५ ॥

कराग्रजाग्रन्निशितासिदंड-दीप्रप्रभाप्रज्वलितप्रदीपैः ।
उत्सारितध्वांतचया वितेनु वीरा यथेच्छं रणरंगलीलां ॥ ४६ ॥

निष्कासयामास रणाय यो यः शकः क्रुधांधो युधि यद्यदंगं ।
तत्तलुनानाः किल तस्य तस्य न चाहमानः कुतुकाय कस्य ॥ ४७ ॥

भीता जीवाघातमाकर्ण्य सद्यो म्लेंछा यावद्दिक्षु चक्षुः क्षिपंति ।
बाणास्तावत्प्रेरिताश्चाहमानै र्विध्यंति स्मैवाशु मर्माणि तेषां ॥ ४८ ॥

चाहमानभटपाणिपंकजो--न्मुक्तमार्गणगणैश्चितीकृताः ।
रेजिरे करिवरा रणांगणे पर्वता इव नवोल्लसच्छदाः ॥ ४९ ॥

९२
[सर्गः
श्रीहम्मीरमहाकाव्ये

सुभटप्रकांडघनकांडवर्षणा-तिकदर्थनेन भशविक्लवाशयाः ।
यवना युगांतपवना इवास्फलन्नितरां मिथोपि समरांगणे तदा ॥ ५० ॥

शस्राशख्रि शराशरि कुंताकुंति गदागदि दंडादंडि ।
दंतादंति भुजाभुजि वीराः केपि परे विदधू रणलीलां ॥ ५१ ॥

खङ्गक्षतारिकरिकुंभमंडलान् मुक्ताफलानि निपतंति रेजिरे ।
स्वेदोदबिंदुनिवहा जयश्रियां वीरोपगूहनसमुद्भवा इव ॥ ५२ ॥

विगतद्युतीकृतपराननांबुजाः परिखंडिताश्वतरवीचिसंचया: ।
सुभठा गजा इव शकेशवाहिनीं सुतरां हमीरनृपतेर्जगाहिरे ॥ ५३ ॥

शंके शकानां रुधिरापगाभि र्वाधैिस्तदा रक्तमयो व्यधायि ।
तदंभसि स्नातविनिर्गतोसौ धत्तेऽरुणखं कथमन्यथेंदुः ॥ ५४ ॥

क्वचिच्छिरोभिः क्वचिदंघ्रिपद्मै: क्वचित्करै: क्वापिच बाहुदंडैः ।
आरेचिता संगरभूरराज न्निर्माणशालेव जगद्विधातुः ॥ ५५ ॥

रंगत्तुरंगोरुतरंगवीर-रसांबुपूर्णे रणपल्वलेऽस्मिन् ।
सितांबुजानीव विरेजुरात-पत्राणि कौक्षेयकपातितानि ॥ ५६ ॥

स्फूर्जद्वीर्यैर्बाहुजैर्दत्तदैन्यं दृष्ट्वा सैन्यं सर्वथामात्मनीनं ।
कांडैर्दंडैस्ताड्यमानोपि जीव जुलूखानो नेशिवान् भाग्ययोगात् ।। ५७ ।।

केचिन्मम्लुः केपि जग्लुः परेच त्रेसुनैशुः केचन ग्लेछपाशाः ।
हाहारावं चक्रिरे केपि केचि ज्जीवं वातुं प्राविशन् गुप्तदेशां ।। ५८ ।।

जितकाशिनोथ युधि वीरमादयः सुभठा वितीर्णरिपुराजिसंकटाः ।
रणशोधने च शकसैन्यलुंठने त्वरयांबभूवुरभितोपि सैनिकान् ।। ५९ ।।

तुरगान्निपातिततुरंगिणः शिली-मुखलूनकेतुनिचयान् रयोच्चयान् ।
करिणः पलायितनिषादिनो वसू-न्यमितानि तत्र सुभटां ललुस्तमां ।॥ ६०॥

तत्रैणनेत्रा यवनाधिपानां बध्वात्यमर्षाद्रतिपालवीर: ।
व्यचिक्रयत् ख्यातिकृते क्षितींदो स्तक्रं प्रतिग्राम ममूभिरेषः ॥ ६१ ॥

यवनाधिपतैन्यसागरं प्रविलोड्येति भटा मुकुंदवत् ।
परिरब्धजयश्रियो नृपं जयवार्ताभिरवर्धयन्नथ ॥ ६२ ॥

१०]
९३
हम्मीरदेववीरयुद्धवर्णनम्

अथ क्षितीशो रतिपालशौर्यं अतीभमाकर्ण्य लसत्प्रमोदः ।
मत्तो ममायं गज इत्यमुष्य पादेऽक्षिपत्कांचनशृंखलानि ॥ ६३ ॥

परेष्वपि प्रीतिकृदंशुकादि दत्वा विसृष्टेष्वथ मानपूर्वं ।
नृपेण पृष्टा यवनास्तथैव स्थिताः स्थिते कारणमूचुरेवं ॥ ६४ ॥

अस्मासु जीवत्सु यदीह भोज --देवः कृतघ्नो जगरां भुनक्ति ।
वीरव्रतं तर्हि विलीनमेव संबीभवन् मा कतरो नरेश ॥ ६५ ॥

सहामहे यच्च दिनांस्तमेता-वतोऽत्र हेतुस्तव बंधुतैव ।
त्वद्देशमन्वानयतो ऽधुनाऽरि–बलं विभो का बत बंधुता ऽस्य ॥ ६६ ॥

तद्यात्रायै गंतुमेते नर३ारेश प्रादिश्यंतां तष्विति प्रोक्तवत्सु ।
भद्रा भद्रेण त्वरध्वं त्वरध्वं स्फीतप्रीतिस्तान्नृपो व्याजहार ॥ ६७ ॥

जयश्रियो मोहनमंत्रवत्त मादेशमासाद्य नृपस्य तेऽथ ।
भंक्त्वा पुरीं तां विनियम्य भोजबंधुं समागुः सकुटुंबमेव ॥ ६८ ॥

इतश्च तस्मात्समराद्विनष्ठः खानः स उल्लूपपदः कथंचित् ।
समेत्य दिल्लीं निजगाद राज्ञे तच्चाहमानप्रकृतं समस्तं ॥ ६९ ॥

पलायितः कातरवद्भवान् किं ततः क्षितीशे गदतीति सोवक् ।
पलायनं चेन्नृप नाकरिष्यं कौतस्तुतस्तर्हि तवामिलिष्यं ॥ ७० ॥

निःशेषमिति तदुक्त्वा विरराम न यावदेव शकबंधुः ।
मन्यूत्पीडग्रहिलः समेत्य तावत्स भोजदेवोपि ॥ ७१ ॥

विस्तार्यसिचयमग्रे गतः सरस्तत्तदद्भुतमतीनां ।
कटुकं विरटन् तदुपरि सुतरां विलुलोठ भूतचांत इव ॥ ७२ ॥

किमरे किमरे जातं पृष्टः शकभूभुजा जगादैषः । |
मरणावध्यपि स्वाभि न्न विस्मरेद्यत्तदद्य संपन्नं ॥ ७३ ॥

हम्मीरवीरनुन्नो महिमासाहिं: स वीरकोटीरः ।
हत्वा जगरां बध्वा सपरिच्छदमेव सोदरमयासीत् ॥ ७४ ॥

लाभायततां पुंसामभाग्यतः क्वापि मूलनाशः स्यात् ।
अद्यप्रभृति जनोक्ति र्मदुदाहरणा प्रववृत्तेऽसौ ॥ ७५ ॥

९४
[सर्गः
श्रीहम्मीरमहाकाव्ये

तत्किं करोमि कं वा श्रयामि यामि क्व वा किमु वदामि ।
हृदयं वातंदोलित--तूलतुलां कलयतीदमनुवेलं ॥ ७६ ॥ ,

लुठितोसि किमिह सिचयो—परीति पृष्टोमुना पुनः सोवक् ।
जानासि किं न निखिला मिलां जितां चाहमानेन ॥ ७७ ॥

रणभंगाकुलसोदर-परिदेवनदलिकसंकुले नितमां ।
नृपहृदि कोपहुताशे घृताहुतिर्भोजभणितिरभूत् ॥ ७८ ॥

तद्वाक्यश्रवणादथप्रसृमरक्रोधप्रकंपाधरो
वाहुष्टंभनमासनं प्रतिलवं सव्यापसव्ये नयन् ।
प्रत्युत्क्षिप्य शिरोवतंसमवनीपीठे तथास्फालयन्
चक्रे काव्यपरंपरामिति तदा म्लेंछावनीवल्लभः ॥ ७९ ॥

रेरे भोज विमुंच शोकमखिलं लज्जाकरं दोष्मतां
हे भ्रातस्ततकीर्तिकेलिसदनं स्वैर्यै त्वमप्याश्रय ।
दुःखेनैव सह क्षणेन युवयोरेतस्य सोहं बली
हम्मीरस्य समूलकाषमधुना मानं कषाम्युच्चकैः ॥ ८० ॥

निद्रामुद्रणसांद्रनेत्रयुगुलः सॆिहः समुत्थापितो
निर्मोकोज्झनतीव्रकोपफणिनो लातुं मणिः कांक्षितः ।
सर्वांगं प्रचिकीर्षितं च इतभुक्कीलापरिष्वंजनं ।
हम्मीरेण बताद्य कोपितवता म्लेंछावनीवल्लभं ॥ ८१ ॥

कः कंठीरवकंठकेसरसटां स्पृष्टुं पदेनेहते
कुंताग्रेण शितेन कश्चय नयने कंडूयितुं कांक्षति ।
कश्चाभीप्सति भोगिवक्त्रकुहरे मातुं च दंतावलीं
को वा कोपयितुं नु वांछति कुधीरल्लावदीनं प्रभुं ॥ ८२ ॥

देशो यद्यस्ति चंचत्तरसुकृतजनोद्यत्प्रदेशस्ततः किं
दुर्गं यद्यस्ति दुर्गे प्रतिभटनिकरैः कोटिभिर्वा ततः किं ।
वीराश्चेत्संत्यनेके समरभुवि महावीर्यवंतस्ततः किं
कोपिन्यल्लावदीने सकलमपि भजेद्व्यर्थतामेव सद्यः ॥ ८३ ॥

१०]
९५
अल्लावदीनामर्षणवर्णनम्


तावद्गर्जतु जाग्रन्मदभरतरलाश्चंचला वीरमाद्या
वीराः प्रत्यर्थिवीरावलिदलनकलाकेलिकंडूलहस्ताः ।

ज्यारावैर्विस्फुरद्भिर्जगदखिलमपि प्रापयन्नेडभावं
यावन्नाल्लावदीनः किरति शरभरं प्रावृषेण्यच्छटावत् ॥ ८४ ॥

पाताले प्रविशत्यसौ यदि तदा नूनं खनित्वा ददे
स्वर्गं चेत्समुपैति सेंद्रमपि तं संपातयाम्यग्रतः ।
दृग्भ्यां चेद्ददृशे न संगरभरे मद्दोर्द्वयीविक्रमः
कर्णाभ्यामपि श्रुश्रुवे किममुना तर्हि क्षितौ न क्वचित् ॥ ८५ ॥

रेरे हम्मीर वीरस्त्वमसि परमसौ सांप्रतं वीरता ते
नूनं व्यक्तीभवित्री मम नयनपथे प्राप्तपांथव्रतस्य ।
भ्राम्यत्युच्चैर्वनति मदमलिनकपोलस्थलो हंत दंती
तावद्यावन्मृगेंद्रः पतति न पुरतो जृंभया व्यात्तवक्त्रा ॥ ८६ ॥

आसारः कमलाकरे मृगगणे सिंहः कुठारस्तरौ।
भास्वान्संतमसे पविः क्षितिधरे दावानलः कानने ।
यत्कर्म प्रतनेति संगरभरं प्राप्तस्तदेवाधुना
कुर्वेहं भटसंकुलेपि निखिले श्रीचाहमाने कुले ॥ ८७ ॥

तत्कालं यवनावनीपतिरथ प्रोल्लासिमानान् स्फुरन्
मानान्स्वेन शयाप्सुजेन लिखितान् विश्राण्य संप्रेषितैः ।
देशेभ्यो निखिलेभ्य एव निखिलान् दूतै: प्रभूतैरसौ
वीरानाव्हयतिस्म विस्मयकरप्रोहामदोर्विक्रमान् ॥ ८८ ॥

इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा
काव्ये वीरांके अल्लावदीनामर्षणोनाम दशमः सर्गः समाप्तः ॥




॥ अथैकादशः सगैः ॥



अंगस्तिलंगो मगधो मसूरः कलिंगवंगौ भटमेदपाटौ ।
पंचाल बंगाल थमीम भिल्ल नेपाल डाहाल हिमाद्रिमध्याः ॥ १ ॥
\,

९६
[सर्गः
श्रीहम्मीरमहाकाव्ये


इत्यादयोऽन्योन्यमहंयुताभिः संमेलितप्रौढपताकिनीका: ।
शकाधिराजा निखिला अपीमां पुरीमथायुर्यवनेश्वरस्य ॥ २ ॥ युग्मं ॥

वीरैर्जयश्रीकरपीडनाय लुंठाकवृंदैरपि लुंठनाय ।
व्रजद्भिरन्यैः कुतुकेक्षणाय शून्यीभवंतिस्म दिशां प्रदेशाः ॥ ६ ॥

याते मयीदं बलभारभुग्रां कः सासहिर्धर्त्तुमिमां धरित्रीं ।
इतीव शेषाहिरमुष्य सैन्ये न केवलं गंतुमना बभूव ॥ ४ ॥

साश्वद्विपेष्वेषु चलत्सु भूभृ-न्निदेशमात्रेण दिशो दशापि ।
दिग्दंतिनो दंतिषु यद्यतिष्ठन् भास्वद्रथाश्वाश्च तुरंगमेषु ।। ५ ।।

पादातिकानां करिणां रथानां चया हयानां च तथा प्रसस्रुः।
तलं तिलस्यापि तुषानुमेयं रिक्तं यथा न क्वाचिदास भूमेः ॥ ६ ॥

ततोऽनुजौ स्फारभुजौ शकाना मधीश उल्लूनिसुरत्तखानौ ।
इदं महावीर्यि वितीर्य सैन्यं अचीचलत् जेतुममुं हमीरं ॥ ७॥

शकेश्वरोद्यापि समस्तिपश्चात् सृजन्निति क्षत्रकुलेषु भीतिं ।
शरीरमात्रः स्वयमत्र चास्थात् अहो शकानां नृपनीतिवित्त्वं ॥ ८ ॥

लब्ध्वा सहायं निसुरत्तखानं ज्वलन् कुधोल्लूपपदः सखानः ।
इयेष मूलादपि'वैरिवंशान् दग्धुं बृहद्भानुरिवाहिकांतं ॥ ९ ॥

बलं र्किलैतत् व्रजतिस्म यत्र यत्रैष शेषोपि च तत्र तत्र ।
महीतलध्वंसभिया प्रसर्पन्नासीच्छकाज्ञाप्रविलोपिधैर्या ॥ १० ॥

पद्भिः पतद्भिर्ध्रुवमस्मदीयैः शेषो धरां धर्त्तुमसौ न शक्तः ।
तन्वीं भुवीतीव वितेनुरेते गतिं तुरंगा गगने तु गुर्वी॥ ११ ॥

धावद्धयालीपदंपादजात-रेणूत्करै पूरिषताब्धये मां । ।
हेतोरिवास्मात् द्विरदा असिंचन् मदांबुपूरैरभितोपि भूमिं ॥ १९ ॥

सहाभविष्याम पुरा वयं चेत् किं बाहुजास्तर्हि पराभविष्यन् ।
इत्यूचुष कांश्चिदुपेतपूर्वानाद्यापि किंचित् गतमित्यवोचन् ॥ १३ ॥

गजाः कियंतस्तुरगाः कियंतो रथाः कियंतः कति वा भटाश्च ।
जनैर्जनानामिति वादितानां संख्या न हीत्युत्तरमेकमेव ॥ १४ ॥

११]
९७
यवनवीरवर्णनम्


सर्वांगसन्नेह निवेशलक्ष्य चक्षुर्द्वयीमात्रतयातिरौद्राः ।
प्रधावमानाः सुभटा विरेजु र्लेहस्य गोला इव विस्फुरंतः ॥ १५ ॥

क्षणात् शकानां कटकैनैिपीता-शेषांभसामध्वनि निग्नगानां ।
गभीरमप्यास तलं सुदर्शं जडात्मनां वा न दुरापमंतं ॥ १६ ॥

भुक्ति व्यधाद्यत्र न तत्र सुप्तिं यत्राततैतां न च तां च तत्र ।
अथेत्यविश्रांततरैः प्रयाणै र्लक्षीचकारैष विपक्षसीमां ॥ १७ ॥

सैन्यैः शकानां प्रसृतैः समंतात् देशः कृतः क्लेशवशंवदः सः ।
निर्नाथवन्मंक्षु पलाय्य जीव-ग्राहं प्रयातिस्म यतस्ततोपि ॥ १८ ॥

ततोद्रिघट्टान् प्रसमीक्ष्य पूर्वां-नुभूतभीसंस्मरणाद्भयालुः ।
आहूय खानो निसुरत्तखानं सहोदरं सुंदरमित्युवाच ॥ १९ ॥

भ्रातः प्रवेशे विषमा गिरींद्रा भटास्तदीयाः प्रकटौजसश्च ।
तदद्रिघट्टान् विशतो बलस्य भवन्नपायः खलु नो हिताय ॥ २० ॥

तद्वाहुजान् संधिमिषेण विप्र-तार्यादिघट्टेषु सुखं विशाम: ।
उपायसाध्ये खलु कार्यबंधे न विक्रमं नीतिविदः स्तुवंति ॥ २१ ॥

मते मतेऽत्रानुमतेमुनापि श्रीमोल्हणं श्राग् विधिनानुशास्य ।
दिदेश संधानकृते हमीर--(राज्ञः स)मीपे कितवः प्रयातु ॥ २२ ॥

स्वयं च सन्नह्य बलान्यमुष्मि न्नेवं छलेनाविशदंतरद्रि ।
मध्ये प्रविष्टः सुखसाध्य एवा–स्माकं भटैरित्थमुपेक्षितश्च ॥ २३ ॥

मुड्यां प्रतौल्यामनुजस्य शस्य श्रीमंडपे दुर्गवरे निजं च ।
सरश्च जैत्रं परितः परेषा मतिष्ठिपत्सैन्यमपास्तदैन्यः ॥ २४ ॥

स मोल्हणः प्राप्य कथंचिदंत स्ततः प्रवेशो नृपशासनेन ।
दृष्ट्वा रणस्तंभपुरं तदुच्चै-र्बभूव चित्रापैितनेत्रपंद्मः ॥२५ ॥

वप्रे यदीये स्फटिकोद्भवानां मालां लसंत्यः कपिशीर्षकाणां ।
दिगंगनानां वदनश्रियं स्वां विलोकितुं दर्पणभावमीयुः ॥ २६ ॥

प्रदेशयोरप्युभयोर्मिलद्धि र्माणिक्यसोपानमयूखजालैः।
विलासवापीषु पयश्चकासां-बभूव यत्रेव निबद्धसेतुः ॥ २७ ॥

13 κ -

९८
[सर्गः
श्रीहम्मीरमहाकाव्ये


यस्मिन्मृगाक्षीवदनेंदुभाभि विंसारिणीसारिणीभिर्विजितः शशांकः ।
स्वेयांबुपूरुप्रविंबदंभात् किमेष दुःखात्प्रददौ न झंपां ॥ २८ ॥

त्यागाय भोगाय विवेकभाजा जनेन शश्वद्विधृता कराब्जे ।
लेभेऽवकाशं चपलापि लक्ष्मीः पलायनं कर्तुंमहो न यत्र ॥ २९ ॥

मरुत्तरंगप्रविकंपितायां ध्वजावलौ इम्यतमालयेषु ।
लीनेव यत्रास्थिरता न जातु रमासु रमासु समुल्ललास ॥ ३० ॥

जालैर्मणीनामधिकुट्टिमोद्य-द्वासैः समंतात्प्रसरन्मयूखैः ।
प्रासादशृंगेषु दशैधनावली निन्येवकेशित्वमुषासु यन्न ॥ ३१ ॥

यत्रोज्वलत्स्फाटिकभित्तिभागे ऽप्येणीदृशो दृष्टनिजांगलक्ष्म्यः ।
मांगल्यहेतो र्नवरं निरीक्षां-चक्रुर्बिभाते मुकुरेषु वक्त्रं ॥ ३२ ॥

यवेभदंतोद्भवचित्रजाल-वातायमस्याः कृतदिव्यभूषाः ।
विनिद्रपाथोजदृशो विमान मधिश्रिता देव्य इव स्म भांति॥ ३३ ॥

नृपालयोत्तंसितशातकुंभ-कुंभप्रभा यत्र समुल्लसंत्यः ।
अभ्युन्नतासंन्नपयोधराणां वर्षासु संपासमंतामगच्छन् ॥ ३४ ॥

अनारतं कौमुदमादधानाः संसेव्यमाना द्विजराजिभिश्व ।
मिष्टैः पयोभिः प्रतिभासमाना विभांंति यागा इव यत्तडागाः ॥ ३५ ॥

वातायना किं किममी विमाना जनः संमं तेष्विति संशयानः ।
अबोधि यस्मिन् मिथुनैस्तु तत्स्थै रेवाऽनिमेषैश्च निमेषिभिश्च ॥ ३६ ॥

विलासिवेश्मोदरदह्यमान--सुगंधिधूपोत्थितधूमसंगात् ।
व्यधापि यस्मिन्नपि किन्नरीभि रयत्नजन्या पटवासयुक्तिः ॥ ३७ ॥

मदृद्धिसंस्पर्धिविवद्धद्धिंकीर्त्तिं परं पुरं किंचिदिहास्ति नो वा ।
इतीव यद्भूध्राशिरोधिरुह्य भुवं दृशां पश्यति गोपुरेण ॥ ३८ ॥

निवासवद्भिः सुमनेभिरेभि र्विमानतास्मासु कृतेति दुःखात्।
नैवास्वपन्निश्यपि निर्निमेष-कपाटपक्ष्माणि गृहाणि यत्र ॥ ३९॥

विसारितत्कोतुचयाभिभूति द्विरेफितस्वर्णतुलासु यत्र ।
स्त्रीणा मुखानि प्रतिबिंबितानि स्वर्णोत्पलानीव-यमीषु रेजुः॥ ४० ॥

११]
९९
 


सूर्याश्मकुड्यप्रतिबिंबिनारी–मुखानि यत्राब्जधिया वितर्क्य ।
दधुः सुकेश्यः पततो द्विरेफान् दशन् सखीवक्त्रमीस्ममेति ॥ ४१ ॥

कुशेशयायासिदृशो निशायां रतौ ह्रिया यत्र निशम्य दीपान् ।
ध्वस्तेऽभवन् संतमसेऽवकेशि-यत्नाः स्फुरत्कुड्यमणिप्रभाभिः ॥ ४२ ॥

निशम्य यत्राविरतोत्सवेषु मृदंगनादान् ध्रुवमर्जितो यः ।
अद्याप्यमी गर्जिषु वारिवाहा विवृण्वतेऽभ्यासभरं तमेव ॥ ४३ ॥

दृग्मीलनाकेलिषु यत्र बाला सखीग्रहातंकसुनिश्चलांगी ।
पांंचालिकानां वितनौ निलीना दृष्टापि नाग्राहि सखीजनेन ॥ ४४ ॥
महाकुलकं
निभालयन् लोचनलोभिलक्ष्मि क्रीडानिकेतं पुरमेतदुच्चैः ।
नृपालयश्रीकरकैरवेषु दृशं भृशं भ्रमरीचकार ॥ ४५ ॥

स्तंबेरमाणां मदवारिभिन्न--कुंभस्थलीसंचरणप्रमत्ताः ।
झंकारवै र्यत्र सदा द्विरेफा वसंतमाहुः स्म वसंतमेव ॥ ४६ ॥
  
क्रीडागिरींदैरिव वीरलक्ष्म्या यदेकतो राजत वारणेंद्रैः ।
गंगातरंगैरिव दत्तरंगै स्तथा न्यतोश्चैः पदखातविश्वैः ॥ ४७ ॥

भुजंगमाधिष्ठितचंदनद्रु मिवासिहस्तं प्रकृतिप्रशस्तं ।
पूर्वाद्रिचूलाश्रिततिग्मरश्मि मिवोरुसिंहासनसन्निविष्टं ॥ ४८ ॥

सिंहासनोंतर्गतबिंबदंभात् धराधिपैः शीर्ष इवोह्यमानं ।
रंगत्तरंगांगरुचीचयेने-व खर्वर्यंतं नवहेमगर्वं ॥ ४९ ॥

नक्षत्रचक्रेष्विब शीतरश्मि ममर्त्यचक्रेष्विव देवदेवं ।
नरेंद्रचक्रेषु विराजमान मनन्यजन्येन महामहिम्ना। ५० ॥

निबद्धभूबिंबितसंभ्यददंभान् सभामधस्तादिव कुर्वती गोः ।
अधिश्रितं तत्र सभां विभाव्य हम्मीरदेवं स हृदीति दध्यौ ॥ ५९ ॥

किमेषकामो न यतो ऽननंगः किमेष दस्त्रौ न यदद्वितीयः ।
किमेषविष्णुर्न यतोऽद्विबाहुः किमेष वज्री न यतो द्विनेत्रः ॥ ५२ ॥ :

१००
[ सर्ग:
श्रीहम्मीरमहाकाव्ये


त्यक्त्वान्यकार्यैरथवीरवर्यै र्विलोक्यमानो वदतीति किं किं ।
प्रणम्य भूपं दरनस्रमौलिः प्रचक्रमे व्यक्तमिदं प्रवक्तुं ॥ ५३ ॥

“स्वतेजसैवारिगणं विजित्या---कुतोभयं संसृजतः स्वराज्यं ।
वृथैव वर्षासनमाददाना ललज्जिरे यस्य भटा निकामं ॥ ५४ ॥

दुर्गाणि दुर्ग्राह्यतराणि शाणो-ल्लीढानि शस्त्राणि भटा रणोत्काः ।
अभ्रंलिहाग्रा गिरयो यदग्रे न वास्तवीं वृत्तिमयुः कदाचित् ॥ ५५ ॥

दुर्गाणि दुर्ग्राह्मतराणि यः श्री-देवाद्रिमुख्यान्यपि मंक्षु भंक्त्वा ।
अपींद्रमुद्यद्दरदंतुराक्षी-चक्रार कारायमितारिचक्रः ॥ ५६ ॥

दुर्गाणि दुर्ग्राह्यतराण्यरीणां भजन्ननेकान्यपि लीलयैव । '
आजन्मभग्रत्रिपुरैकदुर्गे दुर्गापतौ योत्र घृणां बिभर्ति ॥ ५७ ॥

यद्यन्मनस्यप्यमुना नरेंंद्र ! निधीयते तत्तदहो तदात्वं ।
संपादयन् सोपि विधिर्विशंके न शासनं यस्य विहंतुमीष्टे ॥ ५८ ॥

अल्लावदीनस्य नृपस्य तस्या-नुजौ किलेल्लूनिसुरत्तखानौ ।
देशं तवाक्रम्य तदाज्ञयैव त्वामाहतुः स्मेति मदाननेन ॥ ५९ ॥

हम्मीर ! राज्यं यदि भोक्तुमीहा तत्स्वर्णलक्षं चतुरो गजेंद्रान् ।
अश्वोरसानां त्रिशतीं सुतां च दत्वा किरीटीकुरु नो निदेशं ॥ ६० ॥

इदं विमुक्तं यदि वा परंतु तथांस्मदाज्ञाप्रविलोपिनो ये ।
स्त्राग्मुद्गलांस्तांश्चतुरोपि दत्वा क्रीडीकृतां क्रीडयं राज्यलक्ष्मीं॥ ६१ ॥

त्यक्त्वा यथैतं तव दुर्गरोधं देशान् पुरः साधयितुं व्रजामः ।
न चेद्विधाता प्रतिधोचितं स्व-राज्यां तु तत्तेनुभवोऽभिधाता॥ ६२ ॥

इत्येतदीयानि वचांसि भूपः श्रुत्वाथःभीमां भृकुटीं दधानः ।
नवोल्लसत्क्रुद्विषवल्लिसून-द्विरेफलीलाक्षरमित्युवाच ॥ ६३ ॥

वशिष्टयुक्त्या यदि नाभविष्य दाजग्मिवानत्र भवान् कथंचित् ।
तदा त्वयोगादि ययेदमर्वाक् जिव्हां ध्रुवं तां निरकासयिष्यं ॥६४ ॥
  
दंतौ द्विपस्येव मणिं भुजंग-स्येवैणशत्रोरिव केशरांलीं ।
श्रीचाहमानस्य धनं बलेन न जीवतः कश्चन लातुमीष्टे ॥ ६५ ॥

११]
१०१
हम्मीरभाषणवर्णनम्

 
स्वर्णं गजा दंतितुरंगमानां पदे प्रदेया यदि खडूघाताः ।
भवत्प्रभू सूकरमांसमेव सद्यः स्वदेतां यदि जातु यातः ॥ ६६ ॥

द्विषामपि स्याच्छरणागतानां रक्षासु मंदोपि निबद्धकक्षः ।
तद्युद्गलान्नौ ननु याचमानौ न किं त्वदीशौ जडधीवतंसौ ॥ ६७ ॥

शतांशमप्येकविशोपकस्य न प्राणमोक्षेपि ददे बलेन ।
यद्रोचते नाम भवत्प्रभुभ्यां तत्तूर्णमेवाचरतां यथेच्छं ॥ ६८ ॥

एवं विनिर्भर्त्स्र्य मुहुर्मुहुस्तं वशिष्टपाशं गलहस्तयित्वा ।
निष्कासयामास पुराद्भटानां वातुं च दुर्गं ददिवान् विभज्य ॥ ६९ ॥

उत्तंभितान्युध्धतघर्ममर्म---छिदेधिशालंपटमंडपानि ।
दिवानिशं संगरजागरूकभुजैर्विरेजुर्निभृतं भृतानि ॥ ७० ॥

वंगोपलिप्तस्फुटलोहबंध-दृढोल्लसट्टिंकुलियष्टिदंभात् ।
शालोपि युद्धाय विवृद्धमन्युः संबर्म्मयामास भुजानिव स्वान् ॥ ७१ ॥

रालाविलं तैलमयंःकटाहे तप्तं प्रकामोत्कलिकाछलेन ।
दग्धुं युयुत्सून्प्रतिपक्षपक्षान् अलक्ष्यतौत्सुक्यमिवादधानं ॥ ७२ ॥

चेतश्वमत्कारिकलोत्सृतानि संश्चक्रिरे भैरवयंत्रकानि ।
व्यामोहहेतोः स्फुटमिंद्रजाला-मीवागतानां शकपुगवानां ॥ ७३ ॥

दूतः प्रभूतप्रतिघोथ गत्वा निजप्रभुभ्यामखिलं तदुक्तं ।
न्यवेदयत्तावपि निर्विलंबं युद्धाय सैन्यं-गुणं व्यधत्तां ॥ ७४ ॥

ब्रह्मेव मध्ये पुरमाहवाय ससर्ज यान् यान् नृपतिः प्रयोगान्।
तांस्तानमर्षात्कुशिकांगभूवत् सद्यः शकेंद्रोपि बहिस्ततान ॥ ७५ ॥

शकेषु वाद्येषु भृशाहतेषु दंडैः स्वना ये प्रकटीबभूवुः ।
प्रतिस्वनैः स्तांस्तिरयन् गिरींद्रो नस्वामिभक्तव्रतमुझ्झतिस्म ॥७३॥
  
निषादिनो दंतिवरांस्तुरंगा नंप्यश्चवारा रथिका रथांश्च ।
समंततो प्यारुरुहुः पदा (ति!) पूगा वितेनुः-श्रममाहवाय ॥ ७७ ॥
 
महीध्रमभ्रंकषमप्यमुं स्व-वीर्याग्रतः क्षुद्रमिवेक्षमाणाः ।
ढुढौकिंरे योद्धुमतिप्रवृद्धो-त्साहास्ततस्ते समरोत्कवाहाः ॥ ७८ ॥

१०२
[सर्गः
श्रीहम्मीरमहाकाव्ये

समं छुटद्भिर्भठपाणिपद्मा द्वाणैस्तमिस्रं ककुभां बभूव ।
निर्घोषपूरैरपि कार्मुकाणां विश्वं समग्रं बधिरत्वमाप ॥ ७९ ॥

नीरंध्रमाकाशमनूज्झितेषु काडेषु क्लृप्तांबुदतांडवेषु ।
आग्नेयबाणा भृशमुत्पतंत आकालिकीकेलिकिलीबभूवुः ॥ ८० ॥

आकर्षतां संदधतां रयेण विमुंचतां बाणगणान् भटानां ।
विलोकमानैरपि निर्मिमेष मलक्षि नैवांतरमंबरस्थैः ॥ ८१ ॥

तपात्ययाभोदपटुच्छटावत् दुर्गादवर्षन् सुभटाः शरौघान् ।
कौक्षेयदाक्ष्येण मृणालनाल--वच्चिच्छिदुस्तान् यवना जवेन ॥ ८२ ॥

मिथोपि वीरव्रजपाणिमुक्त-पृषत्कवक्त्वास्फलनप्रभूताः ।
रेजुः पतंतोऽग्निकणाः प्रदग्धुं पलायितानामिव कीर्तिवल्लीं ॥ ८३ ॥

क्षत्रप्रकांडप्रविमुक्तकांड-पक्षोद्भवः कोपि स वागुरासीत् ।
यत्रोन्मदिष्णौ रिपुदर्पसर्पो-प्यासीत्क्षणं व्याकुलचित्तवृत्तिः ॥ ८४ ॥

आकर्णमाकृष्य भटैर्विमुक्तैरधोमुखैरूर्ध्वमुखैश्च बाणैः ।
उत्पातहेतोर्ववृषुः शकाना मघोमुखां ऊर्ध्वमुखाश्व मेघाः ॥ ८५ ॥
 
शिलीमुखोघैर्यवनप्रणुन्नै र्वप्रः समंताच्छुशुभे चितांगः ।
विगाहमानो रिपुदर्पसर्प-विनाशहेतोरिव जाहकलं ॥ ८६ ॥

भ्रमंभ्रमं वीरंवरैर्निजांगों-परि प्रणुन्ना प्रतिशत्रुवीरान् ।
कुंता विरेजु र्निशिताः पतंतः स्फुटाः कटाक्षा इव भानुसूनोः॥८७ ॥

सद्यात्रिर्कैर्भैरवयंत्रगोला मुक्ता मिथोप्यूर्ध्वमधः पतंतः ।
अपि द्वयानामरुचन् भटानां पीना उरोजा इव वीरलक्ष्म्याः॥ ८८ ॥

दूरोन्नमट्टिकुलिकाग्रहस्ताः शौर्यश्रियः क्षत्रकुलोद्भवस्य ।
समुत्पतद्गोलकदंबदंभात् पंचेटकै पर्यरमन्निवैताः ॥ ८९ ॥

प्रक्षिप्तरालाविलतप्ततैल-संगज्वलत्कुंतलकैतवेन ।
क्षत्रेषु कोपाग्निरमानिवांतः शंके शकानां बहिरुल्ललास ॥ ९० ॥

प्राकारभित्ते खनने प्रवृत्तान् शकप्रवीरान् कुशटंकहस्तान् ।
विभिद्य शूलैर्वटकानिवोच्चैः सश्चिक्षिपुः क्षेत्रकुलावतंसाः ॥ ९१ ॥

११]
१०३
निसुरन्तखानवधः


उत्प्लुत्य शाखामृगवद्गिरींद्र मारूढवंतः किल केपि वीराः ।
प्रचख्निरे शालतलं प्रविश्य केचिद्वराहा इव तीव्रकोपात् ॥ ९२ ॥

दुर्गस्थवीरव्रजमौलिमौली-नपाहरन् बाणगणा: शकानां ।
समीरगुंजा इव पादपानां पुष्पाणि शाखाशिखरोद्भवानि ॥ ९३ ॥

अचाक्षुषत्वं प्रगतांस्तनुत्वात् घटैकदेशीयभठप्रणुन्नान् ।
नालीकबाणान् प्रविभिन्नगात्रां न-क्-शकानां परिणाम एव ॥ ९४ ॥

उत्खाय शालस्य शिलां प्रविश्य तदंतरे बाहुजघातभीताः ।
स्थिता विरेजुर्यवनादिबांधा इवातपत्त्तापनरश्मिसन्नाः ॥ ९५ ॥

निजप्रहारव्रणजर्जरांगान् शकान् गिरेर्निष्पततो निरीक्ष्य ।
वीरा हंसान् यान् व्यदधंस्त एव हम्मीरवीरस्य वशांस्यभूवन्॥९६ ॥

श्रित्वा नगागान् गरुडासनेन हृष्टा निविष्टा यवनेशयोधाः ।
विद्धाः शरैर्वीरवरैस्तथैव चित्रंं प्रयाता इव रेजुरुच्चैः ॥ ९७ ॥

निश्रेणिमालंब्य धृतासंवोऽन्ये दंतैरथारोहणमाचरंतः ।
दुर्गे हता मूर्धनि मुद्गरेण दुर्गस्थितैः पेतुरमातयैव ॥ ९८ ॥

इत्थं सदाप्यौपयिकैरनेकैः परिस्फुरढ्ढौकनसाहसस्य ।
अगाच्छकानां क्षयकालरात्रि रिव त्रिमासी यवनाधिपस्य ॥ ९९ ॥

प्रवर्तमाने समरेन्यदीथा-पस्फाल गोलः शकगेलकेन ।
प्रभ्रश्यता तच्छकलेन मूर्ध्नि हतो व्यनेशन्निसुरत्तखानः ॥ १०० ॥

अथ गतं सहसापि परासुता ममुमवेक्ष्य परिस्रवदीक्षणः ।
अविदितः परदेवनासवनं भृशमसौ शकपोऽततं मध्यमः ॥ १०१ ॥

प्रक्षिप्यैनं तदनु सहसा मध्यमोसौ शकाना-
मीशः स्वर्णस्फुटजटनतामंजुमंजूषिकांतः ।
ढिल्यां धृत्वा कंथमपि धृतिं प्राहिणोत्प्रभृतं वा
क्षोणीभर्त्तुः स्वसकलकथाज्ञापनापत्रपूर्वं ॥ १०२ ॥

एतद्वीक्ष्याप्तशोकः श्रुतरिपुजनिताशेषतत्तान्निकारः
कृत्वा तस्यांतकृत्यं निखिलमपि यथा युक्तिकोपप्रकंपः ।

१०४
[सर्गः
श्रीहम्मीरमहाकाव्ये

वेगादागादमुत्र स्वयमथयवनैकावनोल्लावदीनो
वीरंमन्या सहंते रिपुजनजनितं क्वापि किंवा निकारं ॥ १०३ ॥

इति जयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा
काव्ये वीरांके निसुरत्तखानवधवर्णनो नामैकादशः सर्गः समाप्तः ॥



अथ द्वादशः सर्गः





अल्लावदीननृपतिं तमागतं श्रुत्वाथ जैत्रिरवनीवनीघनः ।
दुर्गोपरि प्रतिपदं मदादसौ शूर्पाण्यबीबधदुदारधीधनः ॥ १ ॥

दृष्ट्वा तदद्धुतमसौ शकेश्वरो विस्मेरविस्मयविकासिलोचनः ।
पप्रच्छ पाणितलचालसंज्ञये-त्येतत् किमंग वरुणोपरि स्थितान् ॥२ ॥

श्रुत्वऽदसीयभणितिं हमीरराट् हर्षप्रकर्षमतिमानमुद्वहन् ।
प्रोदंच्यवक्त्रकमलं हसन्मनाक् प्रोवाच वाचमिति तं शकाधिपं ॥३ ॥

ग्लेछावनीदयितचारुचारुभो चक्रे त्वयागमदमुत्र यद्भवान् ।
पूर्णे ऽनसि प्रचुरवस्तुसंचयै र्भाराय किं भवति शूर्पसंचयः ॥ ४ ॥

उक्तिं निशम्य स इमां शकाधिपो राज्ञोदितां समुचितामदो वदत् ।
तुष्टस्तवोपरि हमीरभूपते याचस्व वांछितमतुच्छविक्रम ॥ ५ ॥

क्षत्रोत्तमोथ निजगाद यद्यद स्तर्हि प्रयच्छ समरं दिनद्वयीं ।
आयोधनादपरमत्र दोष्मतां नो वांछितं किमपि वल्गु वल्गति ॥६॥

तद्वचः श्रवणतः शकोत्तमः क्षावव्रते स्तुतिमुखो मुहुर्मुहुः ।
प्रातस्तदेव भवितेति भाषुकः स्वावासमासददुसादमानसः ॥ ७ ॥

प्रातर्भविष्यति कदेति सत्वरं निध्यायतामथ रणाय दोष्मतां ।
भास्वान्प्रियार्थमिव पूर्वपर्वत-स्योत्संगसंगसुभगं वपुर्दधौ ॥ ८ ॥

लक्ष्मीभराभिरमणीयतागुणं धर्तुं तदा प्रबलतामुपागमन् ।
पाथोरुहाणि सलिलाशयोदरे सैन्योदरे च सुभटाननेंदवः ॥ ९ ॥
 
दोषोदयस्फुरितमूर्त्तिविद्विषत् -ध्वांतव्रजोर्जिततिरश्चिकीर्षया ।
सूरप्रकांश उपमानमानभित् प्रादुर्बभूव गगने बलेपि च ॥ १० ॥

१२]
१०५
प्रथमदिनयुद्धवर्णनम्


व्युष्टोचितां---बलिक्रियां युक्त्या वितत्य स ततः क्षितीश्वरः ।
संग्रामसंगमविनोदहेतवे सैन्यान् रयेण समनीनहत्तमां ॥ ११ ॥

अल्पेतरद्युतिविकल्पिताहवाः कल्पप्ररूढरुचिरांगरोचिषः ।
षट्त्रिंशदायुधभृतो धृतोदया वीरा विनिर्ययुरजीर्यविक्रमाः ॥ १२ ॥

शृंगारतः समरसंभवो रसो नूनं विशेषमधुरत्वमंचति ।
हित्वा प्रियांगपरिरंभणादरं वीरा रणाय यदमी प्रतस्थिरें ॥ १३ ॥

संग्रामसंगमविनोदहेतवे स्फातिं गतानि नितमां महीयसीं ।
अंगानि वीरनिकरस्य नो तदा मांतिस्म वर्मसु सुविस्तृतेष्वपि ॥ १४ ॥

कश्चिद्विलोक्य कबरीं भियोद्भ्रमत् सारंगशावकंदृशः प्रकंपिनीं ।
ध्यानाध्वगीकृतरणांगणोल्लसत् खड्गश्चचाल करवालमुद्वहन् ॥ १५ ॥

अंगे लगंत इषवः किमंगना कांक्षाः किमंग नितमां प्रियंकराः ।
एतत् विवेचनविधानकौतुकी कश्चिन्महीरणमहीमभूषयत् ॥ १६ ॥

पूर्वं त्वदेकहृदयामरालयं गच्छाम्यहं ज्वलनवर्त्मना ऽमुना ।
किंवा मदेकहृदयोसि वर्त्मना त्वं काप्यवोचदिति सस्मितं हितं॥ १७ ॥

संभाव्य वैरिकरिणां रणांगणे कुंभान्मम स्तनधियातिकामुक ।
माभूरनंगरससंगकौतुकी-त्येकं जगाद सुमुखी हसोन्मुखी ॥ १८ ॥

प्रेयांस्तवास्मि यदि वल्लभा ततः स्वोत्खातदंतिरदजातकंकणैः ।
पाणी विभूषय ममाद्य कंचिदि-त्यूचेः प्रियारचितसाचिलोचना॥१९॥

स्नेहातिरेकवशतः स्वपाणिना माताधिमौलितिलकं यदाकरोत् ।
शौर्यात्तदेव कवचाधिकं विदन् कश्चिच्चचालं किंल वीरशेखरः॥२० ॥

कृत्वा करे दलिकखङ्गमुद्गतं तात प्रहंतुमरिवीरकुंजरान् ।
एष्यामि नन्वहम्पीति भाषुकं कश्चिच्चचालं तनयं हसन् मुहः॥२१ ॥

पुत्राद्य संगरमवाप्य सत्वरं विस्तारये र्भुजपराक्रमं तथा ।
वीरप्रसूतिलकतां यथाश्रये कंचिज्जगाद जननी प्रमोदिनी ॥ २२ ॥

मेदस्विवीररससंगसंभव--द्रोमोद्गमत्रुटितवर्म्मसंहतिः ।
मूर्त्तो भयानकरसः स्फुरन्निवा चालीत्परो रुणितदारुणेक्षणः॥ २३॥

14 k
१०६
[ सर्गः
श्रीहम्मीरमहाकाव्ये


वॆिद्वेषिवीरजनमानदारणो माभूत्प्रवृत्त ऋत एव मारणः ।
संंभावयन्निति निशम्य काहलां प्रायात् परं समरजित्वरत्वरः ॥ २४ ॥

गृध्रं भ्रमंतमुपरीत्यवक्परो संवर्म्मयन्नयमिह प्रतीक्ष्यतां ।
मूर्ध्रीतरस्य यदि वात्मनस्तनौ श्रद्धां तनोमि फलिनीं तवाधुना ॥ २५ ॥

स्याज्जीवता युधि यशो मृतस्य तु स्फीतं च तच्च सुरवल्लभा अपि ।
इत्यस्य वीरनिकरस्य निर्यतो जज्ञे न दु:शकुनमध्वनि क्वचित् ॥ २६ ॥

कुंभान्निधाय शिरति प्रपूरितान् एलालवंगरसशीतलैर्जलैः ।
प्रीत्यानुयातुमसुवल्लभान्निजान् सज्जीबभूव निखिलो भटीजनः ॥ २७ ॥

अल्लावदीनविभुरप्यथोद्भठ-द्विट्प्रोन्मिमांथिषुतयाऽकुलाशयः ।
संनह्य सैन्यमनुजादिभिर्वृतः स्थाने प्रतिश्रुतमशिश्रियन्मिथः ॥ २८ ॥

अन्योन्यवीक्षणवशोल्लसन्महा–कोपप्ररूढमहिमप्रसृत्वरा: ।
वीरा रवाः प्रतिरवैश्च- दिभि योंगैर्द्विरुक्तिमिव धातवो ययुः ॥ २९ ॥

अभ्रंकषोल्लसितचारुचामरे कुक्षिंभरिद्विरदबृंहिते दिशां ।
प्रस्पर्धयेव दधतुः परस्परां सैन्ये इमे श्रियमिहाधिकाधिकं ॥ ३० ॥

पुष्णंत्यरंविनमयेन संगरो-त्साहं हृदि प्रधनकारिणां नृणां ।
तूर्याणि पूरितहरिंति निस्वनैः सैन्यद्वयेपि नितरामराणिषुः ॥ ३१ ॥

भक्तुं विपक्षकंरिकुंभघर्षणैः कंडूलतां स्वभुजदंडयोरथ ।
चेलुर्भटा अपि बलद्वयाद्रणो-त्साहत्रुटत्त्रुटदशेषकंकटाः ॥ ३२ ॥

पत्ति: पदातिकमियाय सादिनं सादी रथस्थितमहो महारथी ।
मातंगयानगमनो निषादिनं द्वंद्दाहवोऽजनि तदेतिदोष्मतां ॥ ३३ ॥

ऊर्ध्वींभवंत उरुविक्रमैः शिर-स्त्राणानि वीरनिकरस्य मूर्धजाः ।
स्मोत्स्वासयंति घनकालसंभवा भूस्फोठका इव महीप्रदेशकान्॥३४॥
  
अन्योन्यजातहठतो गतांतरं मुक्तैः पृषत्कनिवहै रणांगणे ।
पाणिग्रहाय विजयश्रियो भटा यत्नेन मंडपमिव व्यरीरचन् ॥ ३५॥

कोदंडचंडरुचिमंडलादत्तो दीप्राः क्षुरप्रकिरणाः प्रपातिनः ।
प्रत्यार्थिवीरतिमिराणि वेगतो-प्यानिन्पिरे युधि कथावशेषतां ॥३६॥

१२]
१०७
प्रथमदिनयुद्धवर्णनम्

 

 मत्पावनोद्य समरे तनुत्यजां भावी समागम इति प्रमोदतः ।
 भ्रष्ठांतरभ्रमदिषुव्रजच्छला द्रोमांचितांगमिव दिद्युते नभः ॥ ३७ ॥

 वीरैः प्रकाममभिमुक्तपत्रिणां नीरंध्रमंबरतले प्रसर्प्पतां ।
 अंतः प्रकर्त्तनभयादिव क्षमः क्षेप्तुं न तीव्रकिरणोप्यभूत्करान् ॥ ३८ ॥

वीरव्रतस्य ददतोकपालिकां मास्मांतरायमिह कार्षुरेतके । ।
सद्रिपि बाणनिवहे निपेतुषि स्फारान् स्फरानिति न केप्यलासिषुः ॥ ३९॥

वायुं विजित्य तरसा पतत्स्विह श्वासैः पुरैव चलितं विरोधिनां ।
भित्वा तदंगमनवेक्ष्य तानि वै--तत्पृष्ठ एव चलितं शरैरपि ॥ ४० ॥

पार्श्वद्भयस्थकरिदंतभासुर स्तत्कुंभपीठविलुठत्करांबुजः ।
शौर्यश्रियो भुजलता स्तनद्वयी-संस्पर्शसौख्यमितरोऽन्वभूत्तमां ।। ४१ ।।

प्रोतोऽरिणा सह शरेण वाजिनः पृष्ठे न शल्पभृशसंनिवेशनात् ।
संप्राप्तवानपि परासुतां परो नाश्वात्पपात युधि जीववानिव ॥ ४२ ॥

आरोढुमन्यसुभटे प्रलंबितै-कांघ्रो रदस्थितपरांघ्रिभासुरे ।
क्रोधाद्भ्रमन् करिवरो रणांगणे शुंडाद्वयीं दधदिव व्यभाव्यत ॥ ४३ ॥

द्वैधीकृते शिरसि पाणिना धृते चोर्ध्वं निहंतुमहिप्तस्य चिंतयन् ।
संधागतेन्यशरशल्यतः परो ह्रृष्यन्नधावत नियोद्धुमुद्वतः ।। ४४ ।।

ऊर्ध्वं विदारितमरातिना शिरो भ्रश्यन्नियोजितमपि द्विधाप्यधः ।
 स्वेनैव भिन्नजठरादुपादृतै रंत्रैर्निबध्य युयुधे पुनर्भटः ।। ४५ ।।

विस्मेरमारचरितां विकंचुकां स्नेहाधिकां विशदकांतिधारिणीं । ।
 छित्वा करं प्रतिभटस्य कोप्यला-प्तद्वल्लभामिव कृपाणवल्लरी ॥ ४६ ।।

आक्रम्य पादमुरुणैकमंघ्रिणा धृत्वा करेण च परं महाग्रहात् ।
लोकद्वयीमयमसाधयध्युधी-त्याख्यन्निव द्विरकृतेतरं करी ॥ ४७ ॥

याभ्यामहारि मम वल्लभांस्तन-श्रीस्ताविमाविति परोत्यमर्षणः ।
कुंभौ गजस्य समरे विदारयन् आधोरणप्रहृतिमप्यजीगणत् ॥ ४८ ॥

अन्योन्यदत्तकरवालवल्लरी–प्रौढप्रहारपरिभिन्नहृत्तया ।
कौचिद्गतौ युधि भटौ परासुता मालिंगिताविव मिथोपि रेजतुः ।। ४९ । ।

१०८]
[सर्गः
श्रीहम्मीरमहाकाव्ये

 
  
 सद्वंशजोपनतकोटिभूषणा संलीनसायकसमुल्लसद्गुणा ।
दृष्ट्वा परस्य समरे धनुर्लता वेश्येव कंपमतनिष्ठ कस्य न ॥ ५० ॥

कस्याप्यसिर्द्विरदकुंभमंडला त्पीत्वा भृशं समितिशोणितासवं ।
उन्मत्ततां गत इवाशु विद्विषां वक्षःस्थलीमभिनिपेतिवान्मुहुः ॥ ५१ ॥

लूनेऽग्रजन्मनि पदद्वयेऽरिणा दंतावलस्य पततः क्षितौ किल ।
उत्तंभनाय निजमेव दंतयो र्युग्मं बभूव किमिवान्यदीदृशं ॥ ५२ ॥

प्रत्यर्थिमुक्तशरभिन्नपुष्करो लेभे न घातसमयेपि तां किल ।
अग्रे स्फुरंतमपहर्त्तुमक्षमा लेभे वपां प्रतिभटं करी व्यथां ॥ ५३ ॥

दत्वा प्रहारमतिलाघवात्पुरः पृष्ठं श्रयत्यसकृदुद्भटे भटे ।
क्रुद्धो भ्रमन् समिति तज्जिघृक्षया वात्या विनोदमभजत्परो गजः ॥ ५४ ॥

भित्वाखिलांगमपि भूजुषेषुणा हत्वा करेणुमितरोभिपातुकं ।
वर्त्मेव हंसगमनाय तेनिवान् क्रौंचं पराशरसुतो गिरिं यथा ॥ ५५ ॥

कस्यापि कुंडलितचापमंडलां-तर्वत्तिंवक्त्रकमलं बभौतमां ।
प्रत्यर्थिषु प्रबलबाणवृष्टये बिंबं स्फुरत्परिधिशीतगोरिव ।। ५६ ॥

द्वेधीकृतस्प सुभटस्य कस्यचि-त्सव्येतरार्धमवलोक्य वर्ष्मणः ।
लब्धेाद्य शंभुरुमयाविनेत्यधा-वंतामरेशदयितो दिशोदिशः ॥ ५७ ॥

जज्ञे तदा रणभृतां च रक्षसां यज्ञे महाहटभरः परस्परां ।
 एके प्रथीयसितरामसृन्नदीं चक्रुः पराणि पपुरेव तत्क्षणात् ।। ५८ ।

न: संख्यसंख्यविवरातिथीभव-द्वीरातिथेयकरणैरिवातुरे ।
द्वीपांतरं व्रजति तिग्मदीधितौ सैन्ये उभे अपि ततो विरेमतुः ॥ ५९ ॥
 इति प्रथमदिनं

द्वितीयादिनयुद्धम् :
स्वप्नप्तसंगसमरैरनेकधा रात्रिं व्यतीत्य सुभटाः कथंचन।
 प्रातः पुनर्निजनिजाधिपाज्ञया संग्रामसीमनि मनो व्यनोदयन् ॥ ६०

१२]
१०९
द्वितीयदिनयुद्धम्

  
   
संनद्धयोरथ च सैन्ययोर्द्वयो रानद्धहेममयकंटकैर्भटैः ।
स्वस्मिंस्तदा संमरभूरपि स्फुटं प्राचीव कांचनरुचं दधौतमां ॥ ६१ ॥

मूर्छामितोपि किल कोपि विद्विष-त्खड्गप्रहारवशतो रणांगणे ।
तं लातुमागतमरीकरामृत- स्पर्शाद्विबुध्य युयुधे भृशं पुनः ।। ६२ ।।

उत्प्लुत्य वीरकलशेन कोपिना मुक्तेन हस्तिपककुंभभूभिदा ।
कुंतेन भिन्न इतरः करी बभा-वालानलंबित इवाहवांगणे ।। ६३ ।।

लग्नप्रतीभदशनद्वयीतया संरूढसिंधुमितदंतभासुरः ।
स्तंबेरमो रणभुवीतरो भ्रम-न्नैरावणेन सुलभां दधौ विभां ।। ६४ ।।

लग्नारिबाणगणसंभवङ्कण-श्रेणिप्रमत्तकरिकुंभमंडलात् ।
धारा निपेतुरसूजो मदस्य च स्पर्धा दधत्य इतरेतरामिव ॥ ६५ ॥

कस्पाप्युदंयतरवारिदारिता दंत्राणि रेजुरुदरापतंत्यधः ।
आदातुमेकपदमेव तं दिवः क्षिप्ताः सुरीभिरिव पांशपंक्तयः ॥६६॥

क्रुद्धे प्रधावणाय सिंधुरे वाहानुपर्युपरि वीक्ष्य पातिनः ।
देवैरहासि यदहो तदेव त-न्मौलौ बभूव सुमवृष्टिरुत्कटा ॥ ६७ ॥

उत्पाट्य बाहुमभिसन्निवेशनात् कुंतव्रणोच्छलितशोणितच्छटाः । ।
वीरश्रियेव नवकुंकुमच्छटा दत्ता भटोरुषु विरेजिरेतमां ॥ ६८ ॥

स्वारोढुरुन्नततरान्मिषादिनो हंतुं सुखेन वितरन् प्रवीणतां । ।
श्रीवृक्षकी हयवरो रणांगणे स्वामुन्नतिं प्रविदधौ फलेग्नहिं ॥ ६९ ॥

उत्प्लुत्य भूत इभकुंभमाश्रितः स्वोजोर्जिताद्भुतयशःसितद्युतिः । ।
मेधात्पयोभ्र इव तुंगभूभृतः शृंगायलीन इतरो व्यराजत ॥ ७० ॥

संग्रामभूपतितवीरमर्दनात् पादांतलग्नलसदंत्रकैतवात् । ; :
कीडन्परः समरपल्वले करी सेवालजालमिव बिभ्रदाबभौ ॥ ७१ ॥

एकः करी समरसीग्नि सादिनं चिक्षेप कंदुकमिवाधिपुष्करं ।
धृत्वा करेण च कटौ परो हयं प्रास्फालयद्रजकवस्रवद्भुवि ॥ ७२ ॥

धाराप्रपातकृतलोककौतुक स्तेजोवितानविलसच्छतन्हद ।
कंस्याप्यसिर्युधि पयोधरायितो युक्तं द्विषामजनि हंसनाशकृत् ॥ ७३ ॥

११०
[सर्गः
श्रीहम्मीरमहाकाव्ये

  

कस्याप्यपाकृतगणोन्नमार्गणो लक्षाय धावति तदा स्म धावतु ।
कोटिद्वये सति ननाम् यद्धनुः सद्वंशजस्य न तदस्य सांप्रतं ।। ७४ ।।

ज्योतिर्मयीभिरिह मूर्तिभी रणे व्याप्तेभितोपि गगने समित्कृतां ।
नालक्षि दैवतगणैरपि क्षणं व्यक्तं सहस्रकिरणस्य मंडलं ॥ ७५ ॥

क्रेधारुणेक्षणरुचीचयाचितं कस्यापि कृष्ठमरुचत् धनूरणे ।
कुंडं हविर्भुज इव स्फुरञ्जय-श्रीकृष्टयेऽरिपुपशून् जुहूषतः ॥ ७६ ॥

क्रोधप्रधावितरथांघ्रिमर्दनात् व्युव्यत्करंकसविकाशशब्दितैः ।
जीवत्यहो मयि कथं भ्रमंत्यमी इत्यन्वशेत पतितः किलेतरः ।। ७७ ॥

कुर्वद्भिरन्विह रणे पलायितान् धावद्रथस्खलनतां पदेपदे ।
वीरेर्जहे न बिरुदं पलायितप्राकार इत्यनुगतं मृतैरपि ॥ ७८ ।।

संग्रामसंगमविनोदिवारण-प्रोक्षिप्तवीरवृतिलोलचेतसां ।
स्वर्योषितामपि तदा परस्परा माविर्बभूव दिवि दारुणो रणः ॥ ७९ ।।

प्रागेव मास्म सुरवल्लभा अमुं वृण्वन्निति स्फुरितवेगविस्तराः ।
आलिंग्य वल्लभमपातुमप्युर स्तन्व्यशश्वितां प्रविविशुर्भुजाभृतां ।। ८० ।।

छत्रैः सितांबुजमयीव कुत्रचित् कुत्रापि पल्लवमयीव पाणिभिः ।
कुत्रापि शैवलमयींव कुंतलै र्भ्रष्टै र्बभौ रणभूतां रणावनिः ॥ ८१ ॥

शस्त्रप्रहारभृशजातमूर्च्छया स्वारोहकेषु पतितेषु भूतले ।
हेषारवैः समिति जातगौरवै र्दुःखाद्विलापमिव वाजिनो व्यधुः ॥ ८२॥

द्विट्कुंभिकुंभविनिपातिमौक्तिक-श्रेणिप्ररूढरुचिराजिभू रभात् ।
वीरश्रियं प्रपरिरभ्य दोषमतां शय्येव पुष्पखचिता सुषुप्सतां ॥ ८३ ॥

वीरैर्निहत्य विनिपातिता रण-क्षोणौ बभुः करिवराः पदेपदे ।
सेतोः कृते हनुमतैव चालिताः शैला इवार्धपथ उज्झिता भरात्॥८४ ।।

जग्मुर्मूर्तिं दशशतानि भटां इहेति जल्पन्निवाऽतत करद्वितयांगुलीभिः।
नृयक्रियामभजतैकतरःप्रवीरः काबंधिकी महितवीरविलूनमौलिः॥८५॥

इति तिरस्कृतभारतसारते रणभरे स्फुरिते दिवसद्वयीं।
दिनकंरः प्रतिवक्तुमिवावधिं चरमभूमिधराम्रमसेवत ॥ ८६ ॥

१२]
१११
द्वितीयदिनयुद्धम्


शौर्येण प्रतिपक्षपक्षहृदयं स्वस्वामिभक्तव्रतै
श्वेतांसि स्वविभोरसिप्रहृतिभिर्द्विट्कुभिकुंभानपि |
अंगैरंगणमाहवस्य विलसत्कीर्या च लोकत्रयीं
वीरा व्यानशिरेऽव योद्धृविसरश्रेयस्करे संगरे ॥ ८७ ॥

एतस्मिन्समरे वीरा यवनानां महौजसः।
पंचाशीतिसहस्राणि यमावासमयासिषुः ।। ८८ ।।

म्लेंच्छानामथ दोष्मतामधीशितारावादत्तावधिकालपालनात्तचित्तौ ।
वीरेंद्रान्कथमप्यमून्निवार्य युद्धात् भेजाते शिबिरं निजं निजं रयेण ॥ ८९ ॥

इति श्रीजयसिंह्० वीरांके दिनद्वयसंग्रामवर्णनोनाम द्वादशः सर्गः ।।

अथ त्रयोदशः सर्गः

अन्यदाथ क्षमानाथः स्फारशृंगारभासुरः ।
अलंचकार शृंगारचंचरीं चतुराशयः ॥ १ ॥

निरीक्ष्य सहसा यत्रं भोभ्रांत्या स्फाटिकीः शिलाः ।
उत्संबभार वस्त्राणि प्रक्मूयनभयानकः ।। २ ।।

रंभा ग्रावोद्भवा यत्र वीक्ष्य साक्षाज्जनं स्मरन् ।
फलेभ्यः स्पृहयन्नुच्चै र्नैकशः करमक्षिपत् ।। ३ ।।

यत्र स्तंभेष्वराजंत विचित्राः शालभंजिकाः । ।
देव्यो नृदेवमालोक्य तद्गुणैस्तंभिता इव ।। ४ ।।

यत्रोत्कृत्तेषु पद्मेषु सिस्वादयिषवो मधु ।
भृंगा निपत्य व्यर्थत्वात् हियेव शितितामगुः ॥५॥

यत्र स्फाटिकपांचाल्या--स्येष्वब्जाध्याश्रितालिषु।
चकोराः शशभृद्वीक्षा‌--श्रद्धामह्यप्यपूपुरन् ॥६॥

। यत्कुट्टिमे पदप्रांता-रुणिमप्रतिबिंबनात् ।
। रक्तं क्षौममिवास्तीर्णं पदन्यासाय भूभृतः ।। ७ ।

११२
[[सर्गः
श्रीहम्मीरमहाकाव्ये

स्फारकर्पूरपारीकं चंदनक्षोदमेदुरं।
मृगनाभिस्फुरन्नाभि पदंगणमराजत ।। ८ ||

नृपोरस्थेंद्रनीलाश्म-दाम यत्स्फठिकाश्मसु ।
निरीक्ष्य बिंबितं सर्प-भ्रांत्या लोकाश्वकंपिरे || ९ ||

अधो निबद्धभूभाग-प्रतिबिंबिस्वतामिषात् ।
भोगींद्राणामपि सभां विजेतुं प्रस्थितेव या ॥ १० ।।

वीरमोमान्नृपात्तत्र दक्षिणे चारुलक्षणः ।
हासंहासं सृजन् गोष्ठीं रतिपालो रतिं दधौ ॥ ११ ॥

परीतो महिमासाहि स्त्रिभिरप्यनुजन्मभिः ।
व्यक्ततामभजत्तत्र परमात्मा गुणैरिव ।। १२ ।।

मार्दंगिका मृदंगानि वीणामपि च वैणिकाः ।
अपि वैणविका वेणुं यथातालमवीवदन्ं ॥ १३ ॥

रणद्वेणुझणत्कारा-नुकारिप्रसरत्स्वराः ।
गायना वीरहम्मीरकीर्तिस्फूत्तिंगासिषुः ।। १४ ।।

मिथोपि स्पर्धया वर्धमानत्वादिव संयते ।
दृढं चोलांतरीयाभ्यां स्तनश्रेणीप्रबिभ्रती ॥ १५ ॥
                                       
वपुर्वल्लिविलासेन मूर्छयंतीवः कामिनः। विभिर्विशेषकं
कूणिताक्षप्रपातेनोज्जीवयंतीव मन्मथं ॥ १६ ॥

प्रविश्य तत्र सभ्यानां मनसीव प्रमोदिनी ।
प्रवृत्ता नर्तितुं धारा देवी सोत्पश्य नर्तकी ।। १७ ।।

तस्या लास्येन वेल्लंती रेजिरे पाणिपल्लवाः |
मोहनव्रततेः कामं स्फुरंतः पल्लवा इव ॥ १८ ॥

गोलकत्रितयोच्छाल-च्छलेन भुवनत्रयीं ।
सा जगादेव लोकानां कृतां स्वशयशायिनीं ॥ १९ ॥

अंगुत्र्यग्रभ्रमच्चक्र-दंभेन युवतीजने ।
रूपलावण्यसौंदर्यै सा दधौ चक्रितामिव ॥ २० ॥

१२
११३
नर्तकीगायनम्

कर्णोपतिभ्रमश्चक्र-व्याजात्स्माहेव तां शशी ।
ममोपमा तवास्यस्य भ्रम एव विपश्चितां ।। २१ ।।

कर्पूरपरिमाणूनां व्याजाल्लग्नानि पादयोः ।
भ्रमिभिर्भ्रामयंतीव रेजे यूनां मनांसि सा ॥ २२ ॥

मयूरासनबंधेन नृत्यंती विलुलोप सा ।
वाच्यं विधेर्मयूरस्य दुःक्रमाधानसंभवं ।। २३ ।।

अंगहारतयाहार-लता तस्यास्तनाग्रत: ।
रराज बिसवल्लीव चक्रचंच्वग्रसंस्थिता ॥ २४ ॥

लास्येन धनुषीवास्याः पश्चाद्वपुषि संनते ।
पार्ष्णिसंस्पर्शिनीवोणि जीवाभावमजीजिवत् ॥ २५ ॥

सभ्यानामसकृत्तस्यां दृष्टिरापादमस्तकं ।
चक्रेवरोहमारोहं व्रतत्यां वानरी यथा ।। २६ ।।

तांडवं निर्मिमाणेति सा तालत्रुटनक्षणे ।
अधस्थाय शकेंद्राय पश्वाद्भागमदीदृशत् ॥ २७ ॥

शकेशस्तेन दूनात्मा सभाध्यक्षमदो वदत् ।
धनुर्धरः स कोप्यस्ति वेध्यमेनां तनोति यः ॥ २८ ॥

अवदत्सोदरो राजन् गुप्तौ क्षिप्तोस्ति यः पुरा ।
उडुानसिंहस्तं हित्वा नान्येनात्र प्रभूयते ॥ २९ ।।

सद्यः शकेशोथानाय्य भंत्का निगड़संचयं ।
द्विधापि स्नेहदानेन तं सज्जांगमचीकरत् ।। ३० ।।

ततः स सज्जीभूतांगो ऽनन्यसाधारणं धनुः ।
आदायान्हाय तां पापो विव्याध व्याधवन्मृगीं ॥ ३१ ॥

मूर्छामतुच्छामृच्छंती बाणघातेन तेन सा ।
उपत्यकायां न्यपत द्दिवो विद्युदिव च्युता ॥ ३२ ॥

नृपादयस्ततो लोकाः क्षणं वैलक्ष्यलक्षिताः ।
धानुष्कतां स्तुवंतोस्य मूर्धानं दुधुवुर्मुहः ।। ३३ ।।

११४
[सर्गः
श्रीहम्मीरमहाकाव्ये

तन्मर्म महिमासाहि बिंभ्रत् हृदि परेदिवि ।
शकेशं वेद्ध्यतां नीत्वा हम्मीरमिदमब्रवीत् ॥ ३४ ।।

यद्यादिशति भूनाथो मामिदानीं तदा रिपुं ।
शरसात्तरसा कुर्वे धारामिव धनंजयः ।। ३५ ।।

नृपोवग्निहतेत्रामा रंस्येहं केन संगरे ।
हित्वा तं महिमासाहे जह्युडुानं धनुर्धरं ।। ३६ ।।

 शकेशवेध्येनासाद्या देशं दूनमनास्ततः ।
 हत्वा तं महिमासाहि र्धिगित्यौज्झद्धनुः करात् || ३७ ।।

 चकितस्तद्विनाशेन सद्यः सोपि शकेश्वरः ।।
  त्यक्त्वा सरः पुरोभागं तत्पृष्ठे शिबिरं न्यधात् ।। ३८ ।।

ढौकनानि ततोभ्येत्य दायंदायमनेकधा ।
खिन्नोसौ दापयामास सुरंगां समयागिरिं ॥ ३९ ॥

 उपलैर्मृतिकापूरै र्दलिकैस्तृणपूलकैः ।
परिखां पूरयामास सोदरश्वान्यदेशतः ॥ ४० ॥

 कियद्भिरप्ययो मासैः सिद्धेत्रौपयिकद्वये ।
शका ढुढौकिरे योद्धुमादिष्टाः शकभूभुजा ॥ ४१ ॥

 विज्ञाय चाहमानास्तं त्परिखां वन्हिंगोलकैः ।
अदहन् जतुतैलं च सुरंगायां प्रचिक्षिपुः ।। ४२ । ।

 तेन तैलेन पूर्णायां सुरंगायां द्विषद्भटाः ।
 उदच्छलन् यथा मीनाः सरस्यां ज्वलदंभसि ॥ ४३ ।।

 चीत्कारान्मुमुचुः केपि कंठस्थैर्भापिता भटैः ।
यष्टिलोष्ठकरैर्डिभै रिव श्वानौधुमध्यगाः ॥ ४४ ।।

 तत्तैलदग्धसर्वांगा बभूवुर्द्विषतां भटाः ।
क्षणारुणक्रमश्याम-तप्तायोगोलसन्निभाः॥ ४५ ।।

जलदंगसमुद्भूतो-च्छलत्कीलावलिच्छलात्।
तेजांस्यपि शकारोभ्यो। नेशुर्दाहभयादिव॥ ४६॥

१३]
११५
वर्षाकालवर्णनम्

शकाधीशः शकैरेतां सुरंगां यैरचीखनत् ।
अपूपुरन् द्राग्दोष्मंत स्तेषामेव कलेवरैः ।। ४७ ।।

इत्थं दुर्गजिघृक्षायै धान्यान्यत्नान् शकेश्वरः ।
असृजत्सततं तांस्तां नवकेश्यकरोन्नृपः ।। ४८ ।।

ततो दुर्गं शकेंद्रोसौ हातुमादातुमक्षमः ।
दिने दिनेप्यवासीद दुरगो गिरिकामिव ॥ ४९ ॥

दिवानिशं स योगीवा–शेषसौख्यपराङ्मुखः ।
दृष्टिमेकां ददौ दुर्गे परां च क्षितिमंडले ॥ ५० ॥

दुर्गाग्रहणदुःखाग्निप्लुष्ठमस्याथ मानसं ।
प्रसेक्तुमिव पाथोदः प्रोन्ननाम नभोंगणे ।। ५१ ।।

बर्हिणो व्यदधन्केका उन्नीयोन्नीय कंधरां ।
आव्हयंत इवांभोदं मिलितुं चिरमागतं ॥ ५२ ॥

वीक्ष्याभ्युन्नतमंभोदं केकाव्याजेन केकिनः ।
कदा गामीति पप्रच्छु र्हर्षादर्धोक्तिभंगिभिः ॥ ५३ ॥

उद्गीते केकिभिर्गीते तूर्यिते घनगर्जिते ।
ननर्त्त नर्त्तकीवोच्चै स्तडिद्गगनमंडपे ॥ ५४ ॥

सांद्रोद्बमोल्लसन्नील-तृणश्रेणिच्छलात्क्षितिः ।
मेघप्रियागमप्रीता पर्यधादिव कंचुकं ।। ५५ । ।

दधत्यंवुनिधेः स्पर्धां सरांसीह रराजिरे ।
त्रुटित्वा वारिभारेणा-भ्राणीव पातितान्यधः ॥ ५६ ॥

वियोगिनीनां नेत्राणि व्योम्न्यभ्रपटलानि च।
मिथः स्पर्धां दधंतीव वर्षंतिस्माधिकाऽधिकं ।। ५७ । ।

किरत्यसूचीसंचारा-धारावारिधरे भृशं ।
  वियोगिनीनां लावण्यं जगालेति किमद्भुतं ।। ५८ ।

शंभो: परिभवात्त्यक्त-मधुचापोऽधुना स्मरः ।
वर्षासखस्ताडिब्दंभा दासिश्रममिवातनोत् ॥५९॥

'११६
[सर्गः
' श्रीहम्मीरमहाकाव्ये

वारिदेन तदासिक्ता रराजे भूरि भूरियं ।
कांतकांतोपभुक्तायाः छायान्यैव मृगीदृशः ॥ ६० ॥

अंभोधरस्य ग्रीष्मर्त्तुं निर्जित्य विशतः सतः ।
स्फूर्जद्गर्जिच्छलात्प्राटु-रासंस्तूर्यस्वना इव ॥ ६१ ।।

अंगानि कानि सिक्तानि कानि सेच्यानि वा भुवः ।
इति विद्युत्प्रकाशेन ददर्शैव घनाघनः ॥ ६२ ।।

मालतीकुटजामोद-हारी स्पृष्टपयकणः ।
लतालास्यकलाचार्यो ववौ वर्षासमीरणः ॥ ६३ ॥

क्षेत्रप्रं च सरःप्रं च गात्रस्तायमपि क्वचित् ।
चेलत्कोपं तदा वर्ष न्नाहो वंध्यं व्यधाद्धनः ।। ६४ ।।

यथा यथा जगर्जायं स्तनयित्नुस्तथा तथा ।
प्रियाः शकानां चक्रंदुर्बाहुजैर्विधवीकृताः ।। ६५ ।।

इलामध:कर्दमिलां धारा उपरिपातिनीः ।
विलोक्य यवनाः सेवा-व्रते वैराग्यमासदन् ॥ ६६ ॥

अमुंचंस्तुरगारंग मगच्छन्कृशतां द्विपाः ।
अक्षुभ्यन् स्यंदना धात्र्यां जनान्दंशा उपाद्गवन ॥ ६७ ॥

इत्यालोक्यांबुमुक्कालं साक्षात्कालमिंवागतम् ।
यथाकथंचित्संधान मचिकीर्षक्छकाधिपः ।। ६८ ।।

आजुहाव ततो दूतै रतिपालं शकाधिपः ।
शकेशः किंकिमाहेति हम्मीरोप्यत्वमन्यत ॥ ६९ ॥

रतिपाले गते जाते संधाने चलिते शके। ।
वृथा नो दोष्मतेत्याप रणमल्लस्तदा रुषं ।। ७० ।।

आयाते रतिपालेऽथ स मायावी शकेश्वरः ।
उपावीविशदेतं स्वा-सनेभ्युत्थानपूर्वकं ॥ ७१ ।।

अरंजयंच कूठेन मानैर्दानैरनेकधा ।
कूटोपजीविनः किंवा कूटे मुह्यंति कुत्रचित् ॥ ७२ ॥

१३]
११७
रतिपालशकसंवादः


अपवार्य सभास्वारान् भ्रातृमात्रद्वितीयकः ।
रतिपालं जगादैष विस्तार्याग्रे सिचोंचलं ॥ ७३ ॥

अल्लावदीन इत्याख्यः सोहं शककुलाधिपः ।
दुर्गाण्यनेकशो येन दुर्ग्राह्याण्यपि जिग्यिरे ॥ ७४ ॥

इदानीमस्वसात्कृत्वा यदि दुर्गं व्रजाम्यदः ।
ज्वलदग्न्युप्तवल्लीव तन्मे कीर्ति: कियच्चिरं ॥ ७५ ॥

स्वसात्कर्तुं बलेनैतत्सहस्राक्षोपि न क्षमः ।
परं भाग्यात् त्वमायासीः सिद्धमस्मत्समीहितं ॥ ७६ ॥

तद्यतस्व तथा तूर्णं यथा स्यां सत्यसंगरः ।
एतद्राज्यं तवैवास्तु जयेच्छुः केवलं त्वहं ॥ ७७ ॥

दुराचारो यदाचारो माया यत्सहचारिणी ।
अनृतं यत्पदं न्यासाः क्रोधो यत्पारिपार्श्वकः ॥ ७८ ॥

अत्रांतरे कलिर्नाम लोभं कृत्वा तमग्रतः ।
विविशे रतिपालस्य मनोदुर्गं सुदुर्ग्रहं ॥ ७९ ॥ युग्मं

रतिपालमनोदुर्गं बलाद्गृह्णस्तदा कलिः ।
शकुन्यभूच्छकेशस्य रणस्तंभं जिघृक्षतः ॥ ८० ॥

अंतरंतःपुरं नीत्वा शकेशस्तमभेजयत् ।
अपीप्यत्तद्भगिन्या च प्रतीत्यै मदिरामपि ॥ ८१ ॥

प्रतिश्रुत्य शकेशोक्तं ततः सर्वं स दुर्मतिः।
विरोधोद्बोधितीर्वाचो गत्वा राज्ञे न्यंरूपयत् ॥ ८२ ॥

देवाहंकारलंकेशो निजगाद शकेश्वरः ।
हम्मीरः किमयं मूढः पुत्रीं मे न प्रयच्छति ॥ ८३ ॥

यद्वा मादादसौ किं त्व--ल्लावदीनोस्मि नो तदा ।
पुत्रीमयच्छतोमुष्यं नाददे यदि वल्लभाः ।। ૮૪ ॥

किं जातं यद्यगुर्वीरा भूयांसोपि परासुतां ।
किं द्वित्रिपदभंगेपि खर्जूरो याति खंजतां ॥ ८५ ॥



११८
[सर्गः
श्रीहम्मीरमहाकाव्ये

किं जातं नीयते कोशो यदि निःकोशतां व्ययैः ।
किं शुष्यति समुद्रोपि वरिभिर्वारिदाहृतैः ॥ ८६ ॥

त्वरे प्रयाहि यत्कर्त्ता कर्तां तद्भविता ध्रुवं ।
भर्त्सनापरमेवं तं निर्भर्त्स्याहमपीयिवान् ॥ ८७ ॥

विशंके रणमल्लोसौ रुष्टः केनापि हेतुना ।
तेनाज्ञायि ध्रुवं येन दृढां प्रौढिं वहत्यसौ ॥ ८८ ॥

तत्पंचषैर्जनैर्युक्तो गत्वा सायं तदालयं ।
तं प्रसादय सद्योपि किंमात्रोसौ शकेश्वरः ॥ ८९ ॥

त्वरयित्वेति भूकांतं रणमल्लानुरंजने ।
वीरम्ं निकषाभूय रतिपालो विनिर्ययौ ॥ ९० ॥

तदा चास्य मुखाद्गन्धः प्रसंसार मदोद्भव। ।
अंगादन्यप्रियाश्लेषसंशीत्वर्या इवानिलः ॥ ९१ ॥

दाक्ष्यात् विज्ञायते नैनं संगतं शत्रुभूपतेः ।
नृपं विज्ञापयामास वीरमो रहसि स्थितं ॥ ९२ ॥

निर्यतोस्य मुखाद्राजन् मदगंधस्तथा ययौ ।
जाने मयैष पापीयान्निश्चितं संगतो द्विषः॥ ९३ ॥

कुलं शीलं मतिर्लज्जाऽभिमानः स्वामिभक्तता ।
सत्यं शौचं च न क्वापि जृंभते मद्यपायिनि ॥ ९४ ॥

अकृत्ययकरणागम्य---गमनाभक्ष्यभक्षणात् ।
मद्यं विशेष्यते यस्मादस्मात्संपद्यते त्रयं ॥ ९५ ॥

तथा हि स ऋषिः पीत्वा मधु वेश्यामरीरमत् ।
असिस्वदश्च गोमांसं लैिगंभंगमरीरचत् ॥ ९६ ॥

असिसात् क्रियते स्वामिंस्ततो यद्येवमेव तत् ।
स शकेशो निष्फलांभः सद्यस्तर्हि प्रयात्यसौ ॥ ९७ ॥

वाचमाचम्प तस्येत्थं विश्रम्य क्षणमायतौ ।
उपाददे नृपो वाचं वंचितामृतचंचुतां ॥९८॥

१३]
११९
रतिपालविज्ञाप्तिः

उदेति काले कस्मिंश्चित्प्रतीच्यामपि भास्करः ।
भज्यमानं परं दुर्गं न तिष्ठेदिति मे मतिः ॥ ९९ ॥

तदस्मिन्निहते जाते दुर्गभंगे च दैवतः ।
लोकानिति प्रजल्पाकान्निरोद्धुं कतमः क्षमः ।। १०० ॥

ध्रुवं सपरिवारोपि दुर्मतिर्विभुरेष नः ।
यदेवमविमृश्यैव रतिपालं प्रजघ्निवान् ॥ १०१ ॥

जीवयत्यत्र दुर्गेस्मिन् विलसंतीति किं शकाः ।
पारींद्रे सति किं तस्य गुहायां कोपि दीव्यति ॥ १०२ ॥

हनूमदयनं यद्व दभविष्यज्जितेऽमुना ।
हतेत्र भविता तद्व द्रतिपालायनं क्षितौ ॥ १०३ ॥

विरम्यतां तदेतस्मा द्भाव्यमस्ति यदस्तु तत् ।
रावणादिभिरप्युग्रै र्न भाव्यं रुरुधे यतः ॥ १०४ ॥

उक्त्वेति विरते राज्ञि प्रससार पुरांतरे ।
वार्ता नृपं शकाधीशो यत्पुत्रीमेव पाचते ॥ १०५ ॥

इतश्व राजपत्नीभि रनुशास्य प्रणोदिता ।
पुत्री देवल्लदेवीति नत्वा भूपं व्यजिज्ञपत् ॥ १०६ ॥

हाहा तात मदर्थं किं राज्यं विप्लावयस्यदः ।
किं कीलिकार्थं प्रासादं प्रपातयति कश्चन ॥ १०७ ॥

प्रभूता अपि पुत्राः किं कुर्युः पूर्वं तमोगजाः ।
परार्थमेव वर्धेत या क्षुद्रश्रीरिवान्वहं ॥ १०८॥

मत्प्रदानेन साम्राज्यं चिरं यत्क्रियते स्थिरं ।
तत्काचखंडदानेन रक्षा चिंतामणेर्न किं ॥ १०९ ॥

परासोर्यन्नं कुत्रापि जीवति तनुंज्ञां वरं ।
दृष्टाहि पुनरावृतिर्जीवतां न गतायुषां ॥ ११० ॥

नीतिः स्वहितमालोच्य व्ययं कुर्याद्विचक्षणः ।
तत्तात मयि दत्तायां किं किं भावि न ते हितं ॥ १११ ॥

१२०
[सर्गः
श्रीहम्मीरमहाकाव्ये

जामाता भूपतिस्तादृग्सुखं स्वक्षितिरक्षणं ।
खलूक्त्वा बहु सर्वेषां वयमेव किलोपरि ॥ ११२ ॥

त्यजेदेकं कुलस्यार्थे नीतिरित्याह वाक्पतिः ।
त्रातुमावर्धित क्ष्मां मां ददतस्तव का क्षतिः ॥ ११३ ॥

तन्निधेहि धियं तत्वे विधेहि समयोचितं ।
पिधेहि मा च मद्वाक्यं शकेंद्राय प्रदेहि मां ॥ ११४ ॥

अयशःपटनिर्माणतुरीं तच्चातुरीमिति ।
श्रुत्वा भृशं स जज्वाल नृपतिस्तर्पिताग्निवत् ॥ ११५ ॥

जगाद च सुते नैत त्धुवं त्वन्मतिवल्गितं ।
अस्पृष्टपापपंकानां कुमारीणामधीरिति ॥ ११६ ॥

शिक्षयित्वेति पापिन्या त्वमिह प्रेषिता यया ।
छिनद्मि रसनां तस्या बिभेमि स्त्रीवधान्न चेत् ॥ ११७ ॥

त्वद्दानेन यदिप्स्येत प्राज्यराज्यसुखासिका ।
त त्किं न जीवितव्याशा पुत्रकालेयभक्षणैः ॥ ११८ ॥

त्यजेदेकं कुलस्यार्थे इति नीर्तिं यदभ्यधाः ।
शैशवात्तन्न तेद्यापि तत्परार्थे समर्थता ॥ ११९ ॥

त्याज्य एकः कुंलस्यार्थे तस्माद्धीनतरः स चेत् ।
अहिदष्टो ययांगुष्ठः छेद्यो जिव्हापि किं तथा ॥ १२० ॥

सत्यामप्यासमुद्रोर्व्या कुले सारं त्वमेव नः ।
न चेच्छकोपि तां हित्वा कथं त्वामेव याचते ॥१२१ ॥

यदूचे मयि दत्तायां किंकिं भावि न ते हितं ।
तदेतदपि ते बाल-लीलोन्मीलितमंगजे ॥ १२२ ॥

सर्वात्मना निकृष्टाय प्रकृष्टाय गवाशिने ।
शकाय त्वयि दत्तायां कुतो हंत हितार्जनं ॥ १२३ ॥

अयशःपटहो लोके परलोके च दुर्गतिः ।
स्वकुलाचारविध्वंसो धिक् नृणां जीवितं ततः॥ १२५ ।।

१६]
१२१
देवल्लदेवीकन्यासंवादः


दुर्लभं नृभवं प्राप्य द्वयमेवार्जयेत्सुधीः ।
कीर्तिं धर्मं च तौ सम्य---क्कुलाचारप्रपालनात् ॥ १२५ ॥

पूर्वाचारं निहत्योच्चैः सुखं हंत चरंति ये ।
आज्ञालोपान्न किं पापै र्हतास्तैः पूर्वजा निजाः ॥ १९६ ॥

आचाहमानमप्याद्यै र्यन्नाकृत्यं कृतं पुरा ।
तत्कुर्वन्नधुनाहं तान् कथं वक्ता स्वपूर्वजाम् ॥ १२७ ॥

[यतः]पितर्युपरते यस्तु नोद्वहेत्पैतृकीं धुरं ।
तेन नैयोपदेष्टव्याः स्वस्य वंशस्पय पूर्वजाः ॥ १२८ ॥

बद्धवाचं विधायेति प्रतीपोक्तितरंगितैः ।
स्वावासं प्रेषयामास सद्यस्तां क्षितिवासवः ॥ १२९ ॥

इतः स रतिपालोपि तूर्णं गत्वा तदालयं ।
कलयन्नाकुलीभावं रणमल्लमभाषत ॥ १३० ॥

भ्रात ! किं सुखमासीन स्त्वरस्व प्रपलायितुं ।
सेवाहेवाकिनां शत्रुर्बद्धुमभ्येति यद्विभुः ॥ १३१ ॥

सुधांशौ विषवत्तस्मि न्नेतत्संभाव्यते कथं ।
इत्याक्षिप्तवचास्तेन रतिपालः पुनर्ज्जगौ ॥ ॥ १३२ ॥

स पंचषैर्जनैर्युक्तो यदि सायं त्वदालयं ।
एति तन्मे वचः सत्य मित्युक्त्वासात्वगाद्गृहं । १३३ ॥'

अथ दृष्ट्वा यथादिष्ट मायांतं स क्षितीश्वरं ।
जातप्रतीतिरुत्तीर्य दुर्गाद्भीत्यामिलद्रिपोः ॥ १३४ ॥

उत्तीर्य रतिपालोपि दुर्गोत् स्वर्गादिवोच्चकैः ।
शिश्राय निरयावासमिवावासं शकेशितुः ॥ १३५ ॥
 
तयोस्तच्चेष्टितं दृष्ट्वा कलि धिक्कलयन्नयं ।
कोशेऽन्नं कियदस्तीति नृपः पप्रच्छ जाहडं ॥ १३६ ॥

वदामि यदि नास्तीति तदा संधिर्भवेत्ध्रुवं ।
भाव्यर्थभावाद्ध्यात्वेति जगौत् तं कियदित्यसैौ ॥ १३७ ॥

6 k

१२२
[सर्गः
श्रीहम्मीरमहाकाव्ये


कुर्वन्नपि हितं मूर्खोंऽहितायैव प्रगल्भते ।
अत्रोदाहरणं व्यक्तं किंन्न पश्यति जाहडं ॥ १३८ ॥

तद्गिरा चितयाचांतो भूकांतोभ्येत्य मंदिरं ।
उच्चंद्रे विगलत्तंद्र श्येतसीति व्यचिंतयत् ॥ १३९ ॥

अमानैरपि सन्मानै र्दानैस्तैस्तैरनेकधा ।
पूजितौ सत्कृतौ शश्व द्यौ मया भ्रातराविव ॥ १४० ॥

यदि तावप्यहो स्वामिद्रोहमेवं प्रचक्रतुः ।
तदा स्वभावनीचानां परेषां गणनास्तु का ॥ १४१ ॥

साजात्यात्तस्य संगम्य रिपोश्चेन्मुद्गला अमी ।
परः प्रेममदुस्तस्य महद्भावि विडंबनं ॥ १४२ ॥

यथा कथंचिदर्हास्त द्विसृष्टुं स्वपुरादमी ।
परः प्रेमपरोप्युचैः परत्वं यन्न मुंचति ॥ १४३ ॥

एतस्मिन्नंतरे द्वास्यो विदग्धः कोपि मागधः ।
प्रत्यूषोन्मेषकं काव्य-द्वयमेतदपीपठीत् ॥ १४४ ॥

कोकीनिश्वासवातज्वलिततमतमोगारैवभातरागा-
र्चिष्मत्स्थव्योममूषाजठरविनिहितेपास्तनिःशेषदोषे ।
क्षिप्त्वा प्रत्यूषकल्कं शशभृतिविशदे पारदे कालयोगी
भास्वंतं निर्मिमीते नवमिव कनकं भूषणार्थं दिनस्य || १४५ ॥

आयातेन वितन्वता हृदि करस्पर्शं भृशं प्रेयसो-
न्निद्रत्वं गमितापि तिग्मरुचिना यांतीव निद्रालुतां ।
अप्रौढेव सरोजकोशविगलद्भृंगावलीझंकृतैः
सोत्कंपं वितनोति पश्य नलिनी प्रौढाप्यहो हुंकृति ॥ १४६ ||

प्रीतस्तदर्थचारिणा नृपस्तत्पारितोषिकं ।
दत्वा क्षणमुपाक्रांस्त ब्राह्ममौहूर्तिकीं क्रियां ॥ १४७ ॥
 
अथ प्रातरधिश्रित्य सभां स क्षितिवल्लभः ।
स्वतत्सहोदराध्यक्षं महिमासाहिमब्रवीत्॥ १४८॥


१३]
१२३
हम्मीरस्वर्गगमनवर्णनम्


प्राणानपि मुमुक्षामो वयमात्मक्षितेः कृते ।
क्षत्रियाणामयं धर्मो न युगांतेपि नश्वरः ॥ १४९ ॥

स एव क्षत्रियः प्राणां-तेपि यो हुंकृतौ क्षमः ।
किं नोदाह्रियते व्यक्त मिह राजा सुयोधनः ॥ १५० ॥

यूयं वैदेशिकास्तद्व: स्थातुं युक्तं न सापदि ।
पिपासा यत्र कुत्रापि ब्रूत तत्र नयामि यत् ॥ १५१ ॥

नृपस्य वचसा तेन प्रासेनेव हतो हृदि ।
मूर्छया प्रपत्तन्नुच्चै रवष्टब्ध इव कुधा ॥ १५२ ॥

एवमस्त्विति जल्पाको यहिमाभ्येत्य मंदिरं ।
कुटुंबमसिसात्कृत्वा नृपं गत्वेदमब्रवीत् ॥ ५५३ ॥

पाणिगृहीती त्वद्धातु र्गंतुमुत्कंठिताप्यसैौ ।
इलाविलासिनी कांतं मामाहेति सगद्गदं ॥ १५४ ॥

कांतैतावंति वर्षाणि तस्थिवांसो यदोकसि ।
अप्यात्तानुभवं नैवा स्मार्ष्मम शत्रुपराभवं ॥ १५५ ॥

यस्य प्रसार्दैः संप्राप्त-सौख्यंलक्षैर्निरंतरं ।
अबोधि नापिं तिग्मांशुरुदितोस्तमितोपि वा ॥ १५६ ॥

तमिदानीमदृष्ट्वेव यद्येवं नाथ गम्यते ।
पश्चात्तापहतं तर्हि मनः केनोपशाम्यति ॥ १५७ ॥

प्रसाद्यागत्य तत्सद्यो मंदिरं मेदिनीपते ।
स्वदर्शनामृतेः पश्चात्तापतप्तं निषिचंतां ॥ १५८ ॥

एवमभ्यर्थितस्तेन महिमासाहिना विभुः ।
आलंब्य तद्धुजादंडं सादरं सानुजोचलत् ॥ १५९ ॥

आसाद्य तद्गृहं भूपौ यावद्वर्तविशात्यसौ ।
कुरुक्षेत्रमिवाद्राक्षी त्तावत्सर्वं तदंगणं ॥ १६० ॥

असृक्पूरे शिरांतीह शिशूनां योषितामपि ।
तरंत्यवेक्ष्य मूर्छालः क्ष्मापालः क्ष्मातलेऽपतत् ॥ १६१ ॥

--
१२४
[सर्गः
श्रीहम्मीरमहाकाव्ये

बंधूनां वीरमादीनां विमूर्छोथाश्रुसेवनैः ।
लगित्वा महिमासाहेः कंठे व्यलपदित्यसौ || १६२ ॥

हा कंबोजकुलाधार हा कीर्तिकुलमंदिर ।
हानन्यजन्यसौजन्य हा धन्यतमविक्रम ॥ १६३ ॥

हा क्षत्रैकव्रतागार हा विश्वजनवत्सल ।
कथंकारं भविष्यामि प्राणदोप्यनृणस्तव ॥ १६४ ॥

मत्तो नैवाधमः कोपि त्वत्तो नैवोत्तमः परः ।
अध्यायं मंदधी स्तादृगीदृग्प्रेम्ण्यपि यत्त्वयि ॥ १६५॥

प्रातिकूल्याद्विधेर्जाता ममेयं यदि दुर्मतिः ।
आश्वक्रियैतत्त त्किं त्वं यदा भाव्यं हि नान्यथा ॥ १६६ ॥

पुमानात्महितं कर्तुं धियं-त्यनेकधा ।
सा सतीव पतिं क्वापि भवितव्यं जहाति न ॥ १६७ ॥

अन्यथैव विचार्यते पुरुषेण मनोरथाः ।
दैवादाहितसद्भावा कार्याणामन्यथा गतिः ॥ १६८ ॥

विनिवृत्तस्ततो मान मन्नमालोक्य कोष्ठगं ।
किमेतदिति पप्रच्छ जाहडं जगतीपतिः ॥ ५६९ ॥

उक्तायामथ तेनात्म-बुद्धौ प्रोवाच पार्थिव ।
त्वन्मतौ पतताद्वत्वं यया जज्ञे कुलक्षयः ॥ १७० ॥

ततः प्रदाय पैौराणां मुक्तिद्वारं स युक्तिवित् ।
प्रवेष्टुं ज्वलने शिष्टमतिरादिष्टवान् प्रियाः ॥ १७९ ॥

स्वयं च कृत्तदात्तादि-धर्मोऽर्चितजनार्दनः ।
क्षणं पद्मसरस्तीरे निषसादं विषादमुक् ॥ १७९ ॥

आरंगदेवप्रमुखो अथ ता दिव्यभूषणाः |
तत्र स्नात्वा नृपं नत्वा तस्थुरूर्ध्वंदमाः पुरः ॥ १७३ ॥

कस्याश्वित् कर्णयोः स्वर्ण--कुंडले रेजतुस्तमां ।
चक्रे इव जगज्जैत्रे रतितत्प्राणनाथयोः॥ ५५४ ॥

१३ ]
१२५
हम्मीरराज्ञस्वर्गगमनम्


बभौ परस्याः कस्तूरी--तिलकं कलिकाकृति ।
स्मरेण त्रिदिवं जेतुं सहितं धनुषीष्वव ॥ १७५ ॥
नासावंशाग्रतोऽन्यस्या मुक्तं मुक्ताफलं बभौ ।
तिलपुष्पाग्रतो यस्या वारिबिंदुरिव स्फुरन् ॥ १७६ ॥
कस्याश्चिदुरसि स्फारा मुक्ताहारलता बभौ ।
वितता हासधारेव निर्याता सृक्किणीद्वयात् ॥ १७७ ॥
रेणुसंगभयात्काम--स्पंदनांगमिवावृतं ।
बभौ नीलदुकूलेन कस्पाश्चिच्छ्रोणिमंडलं ॥ १७८ ॥
करद्वयांगुलीयानां मयूखैर्वृत्तवर्तिभिः ।
परीता हरिचापाभ्या मिव काचिदराजत ॥ १७९ ॥
आच्छिद्याहितचक्रांग-याननाशभंयादिव ।
रजे नियंत्रणान्यस्याः पादयोर्नृपुरच्छलात् ॥ १८० ॥
ततस्तुष्टो नृपश्छित्वा कबरीं स्वां वरीयसीं ।
मूर्त्तश्रृंगारसर्वस्व मिव तासां व्यशिश्नणत् ॥ १८१ ॥
पुत्रीं देवलदेवीं च दोर्भ्यामालिंग्य निर्भरं ।
नितरां निःश्वसन् क्रंदन् कष्टेन महता जहौ ॥ १८२ ॥
ऊचे च चेद्भवेत्पुत्री भूयात्तर्हि भवादृशी ।
परां कीटिं ययानायि गौर्येव जन्कौ निजः ॥ १८३ ॥
स्वर्नारीरूपलुब्धोसौ यदि न स्वीकरोति नः ।
तदास्मै प्राक् प्रतीत्यर्य मिमां दशयितास्महे ॥ १८४ ॥
इति ध्यात्वेव तां वेणीं हृदि विन्यस्य सुभ्रुवः ।
ज्वलद्धनंजयज्वालां-करालां प्रावैिशंश्चितां ॥ १८५ ॥
स्वास्त्रीरूपवशीकृतो यदि कदाप्यस्मानग्रं स्वप्तियाः
स्वीकर्त्ता न तदा प्रतीतिमनयास्योत्पादयिष्यामहे ।
ध्यात्वेवेति निधाय तां स्वहृदये वेणि विभोस्ता ज्वलत्-
श्रीखंडाऽगरुसारचंदनचितां सद्योप्पविक्षंश्चितां ॥ १८६ ॥
१२६
[सर्गः
श्रीहम्मीरमहाकाव्ये


विसृष्ठोत्यांजलीन् तासां दत्वा जाजः सभूभुजा ।
अगात् छित्वा द्रुतं क्षिप्ता-ष्ठस्त्र्येकां गजमस्तकः ॥ १८७ ॥

किमेतदिति राज्ञोक्ते सोवक्राजन् यथा पुरा ।
रावणः शंभुमानर्चं तथात्वामर्चयाम्यहं ॥ १८८ ॥

तच्छिरांसि नवैतानि रक्षोहस्तपदे पुनः ।
शिरो ममेदमित्युक्त्वा स्वं च शीर्षमदीदृशत् ॥ १८९ ॥

राज्यार्थी सोदरं हित्वा वीरमः स्थितवामिति ।
जनापवादभीतेन वीरमेण तिरस्कृतं ॥ १९० ॥

वितीर्य जाजदेवाय ततो राजयं मुदा नृपः ।
द्रव्यं क्व निक्षिपामीति चिंतयन् निद्रयादृतः ॥ १९१ ॥

तदा पद्मसरः स्वप्ने ऽभ्येत्य भूपमदो वदत् ।
म्लेंछा धनं मयि क्षिप्तं लप्स्यंते नाप्यसुव्यये ॥ १९२ ॥

सर्वेपि रतिपालाद्या नीचा द्रोहमयासिषुः ।
एते भठा अहं दुर्गस्तुभ्यं द्रुह्यंति नो पुनः ॥ १९६ ॥

अथापनिद्रभूपाला--देशात्सर्वं स जाहडः ।
प्रक्षिप्य सारं कासारे तमूचे किं करोम्यहं ॥ ९९४ ॥

उक्तो निदेशं देहीति श्रीहम्मीरेण वीरमः ।
कूष्मांडवच्छिरस्तस्य छित्वा भूमौ व्यलोडयत् ॥ १९५ ॥

अथ श्रावणमासस्य सितषष्ठ्यां रवौ निशि ।
दिवि कीर्तिं कलंतीं स्वां विलोकितुमिवोत्सुकः ॥ १९६ ॥

अहंकारैरिवाध्यक्षै र्मूत्तैर्वीररसैरिव ।
अन्वितो नवभिर्वीरै रणं शिश्राय पार्थिवः ॥ १९७ ॥

आगाद्धम्मीर इत्युक्ति--श्रुत्या व्यंजितविक्रमः ।
ससैन्यः शकराजोपि भेजे तत्राभ्यमित्रतां ॥ १९८ ॥

एकस्तस्य नृपस्याग्रे वीरमौलिः स वीरम: ।
बभौ चंपाधिपः प्रौढः कौरवाधिपतेरिव ॥ १९९ ॥

१३]
१२७
हम्मीरराजस्वर्गमगनम्


विशिखान् विकिरन् भूरीन् ध्वानयंश्चापमंडलं ।
क्षणात्स वीरकोठीरो व्याकुलं द्विठ्कुलं व्यधात् ॥ २०० ॥

क्ष्वेडानादैर्द्विषचक्रं त्रासयन्नेणयूथवत् ।
सिंह: सिंह इवाध्यक्षो जज्ञे यज्ञेव वैरिणां ॥ २०१ ॥

नयन्नग्निशिरोल्काभिः प्रतिवीराननंगतां ।
ठाको गंगाधरः स्वाख्यां सत्याख्यामिह तेनिवान् ॥ २०२ ॥

चत्वारोपि व्यराजंत मुद्गलास्ते स्फुरद्बलाः ।
चतुरंगमपि द्वेषि--बलं जेतुमिवोद्यताः ॥ २०३ ॥

परान् परः शतान् प्रेत---पतेरतिथितां नयन् ।
परमारान्वयं चक्रे क्षेत्रसिंहोत्र सार्थकं ॥ २०४ ॥

रिपुप्राणापहाराय दंडभृत् दूतिकास्विव ।
क्ष्वेडासु वीरैर्मुक्तासु चकितं दधिरे शंकाः॥ २०५ ॥

सा कीदृगस्ति स्वःश्री र्यां नृपः परिणिनीषते ।
इति द्रष्टुमिवायासीद्वीरमः प्राग् नृपात् दिवं ॥ १०६ ॥

वीराः परेपि हम्मीरा निर्विण्णा इव जीविते ।
प्रभोः पूर्वं ययुः स्वर्गं स्थितिरेषा भुजाभृतां ॥ २०७ ॥

मूर्छितं महिमासाहिं विभाव्य रिपुपत्रिभिः ।
युद्धाय स्वयमुत्तस्था-–वथ हम्मीरभूपतिः २०८ ॥

अतिधारानिषूनस्य वर्षतः शुचिनाऽमुना ।
शंके द्वेषो भवेन्नोचे त्कथमस्यायमतकृत् ॥ २०९॥

संयत्येकोपि हम्मीरः परो लक्षत्वमाश्रयन् ।
व्योमासिकृत्तैर्द्विद्वक्त्रैः पद्माकरमिवाकरोत् ॥ २१० ॥

हम्मीराग्निशरश्रेणिपरीताः परितः शकाः ।
अमंसत प्रविष्टं स्वं मंडलं चंडदीधितेः ॥ २११ ॥

एकोप्यसौ जिगायाशु प्रभूतानपि वैरिणः ।
एणव्यूहं जयन् सिंहः किं सहायमपेक्षते ॥ २१२ ॥

१२८
[सर्गः
श्रीहम्मीरमहाकाव्ये

निषादी पदगः सादी रथी वा यो यथाऽमुना ।
निहतः स तथैवास्थात् चिवन्यस्त इवोच्चकैः ॥ २१३ ॥

वरीवर्षन् शरासारै स्तपात्ययपयोदवत् ।
नृपः कदर्थयामास वक्त्राभोजानि वैरिणां ॥ २१४ ॥

भृशं शरप्रपातेना--कुलयन्मत्तवारणं ।
तदारोढुश्च तस्यापि मदं स उदतीतरत् ॥ २१५ ॥

रतिपालवदेतेपि जाता इत्यपवादतः ।
भीता इवास्यारात्यंगं भित्वा दूरं ययुः शराः ॥ २१६ ॥

अत्यर्जुनं धनुर्विद्यावेदिनामपि विद्विषां ।
कोदंडस्थं करस्थं च गुणं चिच्छेद पार्थिवः ॥ २१७ ॥

धनुर्गुणटणत्कार--श्रुत्यैव त्यक्तजीविताः ।
द्विषो नान्वभवस्तस्य शरप्रहरणव्यथां ॥ २१८ ॥

नृपेण मध्यतश्छिन्नै भूर्गताग्रैर्द्विषच्छिरैः ।
रणांगणमभाल्लून--तिलक्षेत्रमिवांतकं ॥ २१९ ॥

शरौघान् क्षिपतस्तस्य शकराजवरूथिनी ।
वसुहीनस्य वेश्येव क्षणेनासीत्पराङ्मुखी ॥ २२० ॥

नृपः कांश्चिदुरःपूरं पूरयामास सायकैः ।
दूर्वालावं लुलावोच्चैः कांश्चित्खड्गेन मध्यतः ॥ २२१ ॥

वीरोसौ समरेऽरीणां तथात्र कदनं व्यधात् ।
यथामीभिर्यमस्यापि संकीर्णमभवद्गृहं ॥ २२२ ॥

सध्वजान् खंडयन् दंडान् व्यध्यन्नश्वान् ससादिनः ।
द्विधापि विग्रहं भिंदन् सोऽरेश्चक्रे चिरं रणं ॥ २२३ ॥

अतिधारानिषून्वर्षन् रिपुक्षेत्रेषु भूरिषु ।
चाक्षुषः श्रावणो जज्ञे चित्रं हम्मीरभूपतिः ॥ २४ ॥

श्रीहम्मीरोथ वीरव्रजमुकुटमणिर्म्लेछबाणंप्रहारैः ।
सर्वांगेषु प्ररूढैः क्षितितलमभितो भावितो भीष्मकर्म्मा ।

१३ ]
१२९
हम्मीरराजस्वर्गगमनम्

जीवंतं पाहिषुर्मा क्वचिदपि यवना मामिति ध्यातबुद्भिः
कंठं छित्वात्मनैव स्वमटक्षि च दिवं स्मात्तसूरातिथित्वः ॥ २२५ ॥

इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर महाकाव्ये वीरांके हम्मीरस्वर्गगमनवर्णनो नाम त्रयोदशः सर्गः ॥ १३ ॥



अथांतिमश्चतुर्दशः सर्गः

तादृक्षस्य विभोरथ प्रतिभटत्रासैकदीक्षागुरो-
र्हम्मीरावनिवासवस्य जगतीलोकं पृणप्रोन्नतिं ।
श्रुत्वा केचन केचनापि सुतरामाकर्ण्य मृत्युं बुधा-
श्चक्रुः काव्यपरंपरामिति तदा कष्टैकमुष्ठिंधयाः ॥ १ ॥

धर्मः शर्मपदं मुमोच करुणारण्यं शरण्यं यया
वौदार्प विजगाल बालललितं शिश्रीप वीरव्रतं ।
नीतिर्भीतिमुपाजगाम कमला वैधव्यमुद्रां दधौ
श्रीहम्मीर नृपालभालतिलक स्वर्गं गतेऽद्य त्वयि ॥ २ ॥

भूदेवानिदमादिकांचनचयैः कः पूजयिष्यत्यहो ।
को वा नाम करिष्यति प्रतिपदं षट्दर्शनोपासनां ।
को वा पास्यति गोकुलं शककुलैराहन्यमानं रुषाऽ
स्माकं का गतिरस्तु निस्तुषमते हम्मीर हा त्वां विना ॥ ३ ॥

गीर्वाणद्रुमधेनुकुंभमणयः काले कराले कलौ
नैव क्वापि किल स्फुरति धरणावेवं पदाहुर्बुधा: ।
तत्सर्वं निरवद्यमेव नितमां मन्यामहे सांप्रतं
श्रीहम्मीर महीमहेन्द्र भवति प्राप्ते पशःशेषतां ॥ ४ ॥

पाताले भुजगेश्वराः सुमनसा व्यूहाः सूपर्वालपे
पुष्पौघाः प्रतिकाननं प्रतिसरस्ते राजहंसादयः ।
एणाक्ष्यः प्रतिमंदिरं प्रतिपुरं प्रेमातुरा नागराः
शोचत्येकमहों हमीरनृपतिं हाहा त्रिलोकीपति ॥ ५ ॥

17

१३०
[सर्ग:
श्रीहम्मीरमहाकाव्ये

धैर्यं मेरुगिरिं मतिः सुरगुरुं गंभीरता सागरं
सौम्यत्वं शशिनं प्रतापसरणिः सूरं हरिं शूरता ।
चिंता रत्नमुदारता सुभगता शिश्राय कामं क्षणात्
हम्मीरे सुरसुंदरीस्तनमहाशैलस्खलचक्षुषि ॥ ६ ॥

किं कुर्वीमहि किं ब्रुवीमहि विभुं कं चानुरुंधीमहि
व्याचक्षीमहि किं स्वदुःखमसमं कं वा बभाषेमहि ।
यन्निःकारणदारुणेन विधिना तादृग्गुणैकाकरं
हम्मीरं हरतांऽजसा हृतमहो सर्वस्वमेवावनेः ॥ ७ ॥

लक्ष्मीर्याति ससत्वरं मुररिपोर्देवस्य वक्षस्थले
वीरश्रीरपि वीरवेश्मनि हरे स्तास्ताः समस्ताः कलाः ।
पौलोमीकुचकुंभपत्ररचनाचातुर्यचिंतामणौ
श्रीहम्मीर नरेश्वर त्वयि निराधारा हहा भारती ॥ ८ ॥

संति क्षोणिभुजः क्षितौ कति न ते ये स्वप्रियाप्रीतये
वाहं वाहमनेकबाहनिवहान् प्रौढ़िं दृढां तन्वते ।
म्लेछातुच्छकिरीटकोटिघटनैर्यो दंतुरं सत्वरं
चक्राणः क्षितिमंडलं स तु परं हम्मीर एकः कलौ ॥ ९ ॥

एधंतां प्रबलैर्बलैः स्वबिरुदान्नध्यापयंतां जनान्
गार्हतां नयवर्त्म मध्यमसमं स्फीतां वहंतां मुदं ।
बाधंतां युधि बाहुजेशनिकरान् प्रौढिं भजंतां तमां
एकस्मिंस्त्वयि वीर नाक मयिते स्वैरं वराकाः शकाः ॥ १० ॥

भोक्तुं ध्वांक्षमियेष विक्रमविभुः पंगुः स जैत्रो जले
मज्जद्राग्मलयैणराट्रिपुपुरो मार्दगिकत्वं दधौ ।
इत्थं स्वंस्म विडंबयंति कतिनो हम्मीरराजन् परं
यत्वं चक्रिय तच्चकार कुरुते कर्त्ताथवा कः कलौ ॥ ११ ॥

संध्यावंदनकर्मकर्मठधियो माद्यन्मराला इवा-
मज्जन् पद्मसरोवरे श्रितमुदो यन्नानिशं वाडवाः ।

१४ ]
१३१
हम्मीरराजवर्णनम्


निःशंकं यवना विगंधिवसनास्तत्र प्रविश्याधुना
कूर्दते महिषा इव क्षितिपते हम्मीर हा त्वां विना ॥ १२ ॥

ईदृक्षं नरमौलिमंडनमणिं हत्वा हहा हेलया
दुःसाधं यदसाधि नाम भवता धातस्तदाचक्षतां ।
नीचानां यदि वेदृशी स्थितिरहो यत्ते प्रयोगं विना-
प्यन्येषां हितवस्तुराहृतिविधौ शश्वद्यतंतेतमां ॥ १३ ॥

नेत्रे निष्कशतां नितांतबधिरीभावं भजेतां श्रुती
नो कार्यं युवयोरतःपरमहो किंचित् क्वचिद्वल्गति ।
याभ्यामेव समीक्षितो गुणगणस्तस्याथ वा संश्रुतो
लज्जेतामितरं हहा किमु न ते श्रोतुं तथा वीक्षितुं ॥ १४ ॥

लोको मूढतया प्रजल्पतुतमां यच्चाहमानः प्रभुः
श्रीहम्मीरनरेश्वरः स्वरगमत् विश्वैकसाधारणः ।
तत्त्वज्ञत्वमुपेत्य कॆिंचन वयं ब्रूमस्तमां स क्षितौ
जीवन्नेव विलोक्यते प्रतिपदं स्तैस्तैर्निजैर्विक्रमैः ॥ १५ ॥

धिक्धिक् त्वां रतिपाल याहि विलयं श्रीसूरवंशाधम
द्राग्वक्त्रं रणमल्ल कृष्णय निजं पापिंस्त्वमप्युच्चकैः ।
एको नंदतु जाज एव जगति स्वाभाविकप्रीतिभृत्
येनात्रायि दिवंगतेपि नृपतौ दुर्गं किलाहर्द्वयीं ॥ १६ ॥

राधेयः कवचं ददौ शिबिरहो मांसं बलिर्मेदिनी
जीमूतोर्धवपुस्तथापि न समा हम्मीरदेवेन ते ।
येनोच्चैः शरणागतस्य महिमासाहेर्निमित्तं क्षणा-
द्रात्मा पुत्रकलत्रभृत्यनिवहो नीतः कथाशेषता ॥ १७ ॥

द्वौ नञौ प्रस्तुतार्थं प्रवदत इतिवत् क्षमाभृता द्विः प्रयुक्ता-
मौचित्याद्याहि याहीति वचनरचनां स्वार्थसंस्थां विधाय ।
यस्तिष्ठन्नप्यलुंपन्नन खलु निजविभोः शासनं स्वामिभक्तः
ख्यातस्तेनैव नाम्नापि च जयतु चिरं चाहमानः सजाजा ॥ १८ ॥



१३२
[सर्गः
श्रीहम्मीरमहाकाव्ये


श्रीकांबोजकुलाब्धिवर्धनविधुर्निर्व्याजवीरव्रतो
हंकारैकनिकेतनं स महिमासाहिः कथं वर्ण्यते ।
हित्वैकं तमलक्ष्यमक्षितनयं हम्मीरवीरं तथा
प्राणांतेपि पुरः परस्य न पुनर्यो नानमत्स्वं शिरः ॥ १९ ॥

नैव स्वं स्वेन हन्यादिति कुलचरितं पालयन् यो गृहीतो
जीवन् म्लेछाधिपाग्रे सदसि पदतलं दर्शयंश्च प्रविष्टः ।
कर्त्ता त्वं जीवितः किं मयि च तदुदितः प्रोक्तवान् यध्धमीरे
कार्षीस्त्वं तेन साम्यं कलयति महिमासाहिना कोत्र वीरः ॥ २० ॥

आजौ पादतलेन दर्शितवतो हम्मीरभूभृच्छिरः
पृष्टस्तेन तदर्पितांश्च गदतस्तांस्तान् प्रसादानपि ।
खल्लंते रतिपाल यच्छकपतिर्निष्कासयामासिवान्
तद्युक्तं त्वमिवान्यथा कतिपुनर्द्रुह्यंति न स्वामिने ॥ २१ ॥

जयति जनितपृथ्वीसंमदः कृष्णगच्छो
विकसितनवजातीगुच्छवत् स्वच्छमूर्तिः ॥
विविधवुधजनालीभृंगसंगीतकीर्तिः
कृतवसतिरजस्रं मौलिषु छेकिलानां ॥ २२ ॥

तस्मिन्विस्मयवासवेश्मचरितश्रीसूरिचक्रे क्रमात्
जज्ञे श्रीजयसिंहसूरिसुगुरुः प्रज्ञालचूडामणिः ।
षट्भाषाकविचक्रशक्रमखिलप्रामाणिकाग्रेसरं
सारंगं सहसा विरंगमतनोद्यो वादविद्याविधौ ॥ २३ ॥

श्रीन्यायसारटीकां नव्यं व्याकरणमथ च यः काव्यं ।
कृत्वा कुमारनृपतेः ख्यातस्त्रैविद्यवेदिचक्रीति ॥ २४ ॥

तदीयगणनायकः क्रमनमज्जनन्नायक:
प्रसन्नशशभृत्प्रभुर्जयति वादिभेदिप्रभः ।
यदीयपदपंकजे भ्रमिरभृंगलीलायितं
श्रयति महतामपि क्षितिभृतां सदा मौलयः ॥ ९५ ॥

१४]
१३३
कविवाक्यवर्णनम्

  
तत्पट्टांभोजचंचत्तरखरकिरणः सर्वशास्त्रैकबिंदुः
सूरींदुः श्रीनवेंदुर्ज्जयति कविकुलोदन्वदुल्लासनेंदुः ।
तेने तेनैव राज्ञा स्वचरिततनने स्वप्ननुन्नेन कामं
चक्राणं काव्यमेतन्नृपतिततिमुदे चारुवीरांकरम्यं ॥ २६ ॥

पौत्रोप्ययं कविगुरोर्जयसिंहसूरेः
काव्येषु पुत्रतितमां नयचंद्रसूरिः ।
नव्यार्थसार्थघटनापदपंक्तियुक्ति-
विन्यासरीतिरसभावविधानयत्नैः ॥ २७ ॥

श्रीहर्षामरयोः कविप्रवरयोर्वाक्कल्पवल्लीं निजा-
मुद्यांतीमभिवर्षतोर्नवनवैः पीयूषधारारसैः ।
मद्भाग्यानिलखेलनैरपहृता या विप्रुषः काश्चिद-
प्यासामेष निषेकशाद्वलतमः सोयं मदुक्तिश्रमः ॥ २८ ॥

जल्पंत्येके कवींद्राः सरसमनुभवादेव कुर्वति काव्यं
तन्मिथ्या हंत नोचेत्तदिह विदधतां तद्वतां येपि धुर्याः ।
एषोस्माकं प्रसादः सततमपि गिरां देवताया ---
धत्ते लालित्यमुच्चैः खलु चपलदृशां पुण्यतारुण्यमेव ॥ २९ ॥

काव्ये काव्यकृतां न चास्यनुभवः प्रायः प्रमाणं नचेत्
प्राहुस्ते कविधर्म एष इति किं प्रत्याहृतास्तार्किकैः ।
को नामानुबभूव चंद्रसुरभिं कुंदोज्वलां कौमुदी
सीतां कीर्तिमतोन्यथोदितगुणस्फीतामकीर्तिं च कः ॥ ३० ॥

वाणीनामधिदेवता स्वयमसौ ख्याता कुमारी ततः
प्रायो ब्रह्मवतां स्फुरति सरसा वाचां विलासा ध्रुवं ।
कुक्कोकः सुकृती जितेंद्रियचयो हर्षः सवात्स्यायनो
ब्रह्मज्ञप्रवरो महाव्रतधरो वेणीकृपाणोमरः ॥ ३१ ॥

श्रृंगारेनुभवो व्यतर्क्यततमां मूढैरिहोच्चैर्यकः
सुप्तः किंतु स कः परेषु यदयं नैकप्रकाशीप्रमा ।

१३४
[सर्गः
श्रीहम्मीरमहाकाव्ये

तद्वंध्यासुतलालनामिव वृथा वैकल्पिकीं कल्पना-
माकल्पं परिकल्प्य जल्पततमां धैर्यं धियां केवलं ॥ ३२ ॥

ये श्रृंगारकथां प्रथां विदधते वाचां विलासैरस-
प्रोल्लासोत्र समस्तितेष्वनुभवो येष्वस्ति तेन्ये पुनः ।
वर्ण्या ये वदनेषु कुंदविशदास्तंबेरमाणां रदा
नैते चर्वणसाधनं तदिह ये दुर्ल्लक्ष्यरूपास्तु ते ॥ ३३ ॥

काव्यं काव्यप्रकाशादिषु रसबहलं किर्त्तयंत्युत्तमं यत्
तन्नोभावैर्विभावप्रभृतिभिरनभिव्यक्तमुक्तैः कदाचित् ।
तेनेति व्यक्तमुक्तं सरसजनमनःप्रीतये काव्यमेतत्
कश्चिच्चेन्नीरसोस्मिन् भजति बत मुदं नो तदा कस्य दोषः ॥ ३४ ॥

वदंति काव्यं रसमेव यस्मिन्निपीयमाने मुदमेति चेतः ।
किं कर्णतर्णर्णसुपर्णपर्णाभ्यर्णादिवर्णार्णबडंबरेण ॥ ३५ ॥

रसोस्तु यः कोपि परं स किंचिन्नास्पृष्टश्रृंगाररसो रसाय ।
सत्यप्यहो पाकिमपेशलत्वे न स्वादु भोज्यं लवणेन हीनं ॥ ३६ ॥

कविता वनिता गीतिः प्रायो नादौ रसप्रदाः ।
उद्गिरंति रसोद्रेकं गाह्यमानाः पुरः पुरः ॥ ३७ ॥

प्रायोपशब्दादिकृतोपि दोषो नचात्र चित्यो मम मंदबुद्धेः ।
न कालिदासादिभिरप्यपास्तो येऽध्वा कथं वा तमहं त्यजामि ॥ ३८ ॥

प्रायोपशब्देन न काव्यहानिः समर्थतार्थे रससेकिमा चेत् ।
वादेप्यसौ नो विदधीत किंचित् यदि प्रतिज्ञा विरमेन्न विज्ञः ॥ ३९ ॥

वाणी वाणीविलासात्प्रसरति विदुषां तेन शब्दापशब्दौ
प्रायश्चेतोविकल्पः कविमतवशगा शब्दशास्त्रेपि सिद्धिः ।
मत्वैवं मापशब्दं वदत सहृदया प्रौढकाव्यप्रयुक्ता
दिवाश्चेतेन वृद्धिं भजति कथमसौ तर्हि वाग्ब्रह्मकोशः ॥ ४० ॥

भवति काव्येषु महाकवीनां यत्येवभावा अशुभाः शुभा वा ।
प्रदर्शितास्ते कतिचित्ततीह नचेन्महाकाव्यमिदं कथं तत् ॥ ४१ ॥

१४]
१३५
कविवाक्यवर्णनम्

क्षंतव्य एव कविभिः कृपया प्रमादात्
काव्येत्र कश्चिदपि य: पतितोपशब्दः ।
प्रीतिर्यथास्तु सुहृदामथवा सुशब्दै:
किं सा तथास्त्वसुहृदामपि मापशब्दैः ॥ ४२ ॥

काव्यं पूर्वकवेर्न काव्यसदृशं कश्चिद्दिधाताधुने
त्युक्ते तोमरवीरमक्षितिपतेः सामाजिकैः संसदि ।
तद्भूचापलकेलिदोलितमनाः शृंगारवीराद्भुतं
चक्रे काव्यमिदं हमीरनृपतेर्नव्यं नयेंदुः कविः ॥ ४३ ॥

हंसाः संतः क्व येषां गुणपयसि रतिर्नो रतिर्दोषवारि-
ण्यादर्शाः संतु किंतु प्रतिफलति गुणो दूषणं वापि येषु ।
तेमी तिष्ठंतु दूरे क्वचन तितभवोदूषणं कीकशं ये ।
बिभ्रत्युच्चैरधश्चोज्वलगुणसमिता संचयं चिक्षिपंति ॥ ४४ ॥

राजानो युधिबद्धविक्रमरसाः कुर्वंतु राज्यं मुदा
तेषां विक्रमवर्णने च कवयः शश्वद्यतंतांत्तमां ।
अश्रांतं च समुल्लसंत्विह रसैर्वाचः सुधासेकिमाः
स्वादुंकारमिमाः पिबंतु च रसास्वादेषु ये सादराः ॥ ४५ ॥

पीत्वा श्रीनयचंद्रवक्त्रकमलाविर्भाविकाव्यामृतं
कोनामामरचंद्रमेव पुरतः साक्षान्नपश्येत्ध्रुवं ।
आदावेव भवेदसावमरता चेत्तस्य नो बाधिका
दुर्वारः पुनरेष धावतुतमां हर्षावलीविभ्रमः ॥ ४६ ॥

 इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्राहम्मीरमहाकाव्ये वीरांके कविवाक्यवर्णनोनाम चतुर्द्दशः सर्गः ॥ समाप्तमिदं श्रीहम्मीरमहाकाव्यं ॥

कार्यात्कारणसंविदं विदधते नैकांतमुत्सृज्य य-
त्ततेषामिव नोपि कर्हिच न किं चेतन्श्च मत्ताचिकीः ।

१३६
[ सर्गः १४]
तत्समाप्तिश्च


नैवं चेन्नयचंद्रसूरिसुकवेर्वाणीं विधायामृतं
श्रीहर्षं तमथामरं तमपि तत्किं संस्मरेयुर्बुधाः ॥ १ ॥

काव्यानां त्रितयीं व्यरीरचदिमां यां कालिदासः कलां
सृष्ठौ गाधिसुतस्य सार्हति न चेत्कानाम तत्रास्तु सा ।
चक्रुर्या कवयो नयेंदुरमरो हर्षश्च नानारसैः
सर्गे ब्रह्मण एव सा तु घटते तस्यैव संवादत: ॥ २ ॥

नयचंद्रकवेः काव्यं रसायनमिहाद्भुतं ।
संंतः स्वदंते जीवंति श्रीहर्षाद्याः कवीश्वराः ॥ ३ ॥

लालित्यममरस्येय श्रीहर्षस्येव वक्रिमा ।
नयचंद्रकवेः काव्ये दृष्टं लोकोत्तरं द्वयं ॥ ४ ॥

काव्यं काव्ययशोर्थिनां रचयतां सम्यक् कृतत्वस्य नो
मीयेतोपचयो नचाप्युपचयः कश्चित्कवीनां स्फुटं ।
यस्माच्छुद्धमशुद्धमाहुरनयोर्विज्ञापनाकारणं
तत्तेषां मनसैव रुद्धमभितः कुत्रावकाशस्तयोः ॥ ५ ॥

यशोर्थिनां काव्यकृतां कवीनां पुण्यंच पापं च न किंचिदेव ।
पुण्यस्य पापस्य च यन्निदानं मनस्तदेषां यशसैवरुद्धं ॥ ६ ॥

 संवत् १५४२ वर्षे श्रावणे मासि श्रीकृष्णर्पिगच्छेश्रीश्रीजयसिंहसूरिशिष्येण नयहंसेनात्मपठनार्थं श्रीपेरोजपुरे हम्मीरमहाकाव्यं लिलिखे कल्याणमस्तु भद्रंभूयात्संघस्य ग्रंथाग्रः १५६४