प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ५२ हरिवंशपुराणम्
अध्यायः ५३
वेदव्यासः
अध्यायः ५४ →
ब्रह्मणः आज्ञया देवानां अंशावतरणम्

त्रिपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच
ते श्रुत्वा पृथिवीवाक्यं सर्व एव दिवौकसः ।
तदर्थकृत्यं संचिन्त्य पितामहमथाब्रुवन् ।। १ ।।
भगवन् ह्रियतामस्या धरण्या भारसंततिः ।
शरीरकर्ता लोकानां त्वं हि लोकस्य चेश्वरः ।। २ ।।
यत् कर्तव्यं महेन्द्रेण यमेन वरुणेन च ।
यद् वा कार्यं धनेशेन स्वयं नारायणेन वा ।। ३ ।।
यद् वा चन्द्रमसा कार्यं भास्करेणानिलेन वा ।
आदित्यैर्वसुभिर्वापि रुद्रैर्वा लोकभावनैः ।। ४ ।।
अश्विभ्यां देववैद्याभ्यां साध्यैर्वा त्रिदशालयैः ।
बृहस्पत्युशनोभ्यां वा कालेन कलिनापि वा ।। ५ ।।
महेश्वरेण वा ब्रह्मन् विशाखेन गुहेन वा ।
यक्षराक्षसगन्धर्वैश्चारणैर्वा महोरगैः ।। ६ ।।
पतङ्गैः पर्वतैश्चापि सागरैर्वा महोर्मिभिः ।
गङ्गामुखाभिर्दिव्याभिः सरिद्भिर्वा सुरेश्वर ।। ७ ।।
शीघ्रमाज्ञापय विभो कथमंशः प्रयुज्यताम् ।
यदि ते पार्थिवं कार्यं कार्यं पार्थिवविग्रहे ।। ८ ।।
कथमंशावतरणं कुर्मः सर्वे पितामह ।
अन्तरिक्षगता ये च पृथिव्यां पार्थिवाश्च ये ।। ९ ।
सदस्यानां च विप्राणां पार्थिवानां कुलेषु च ।
अयोनिजाश्चैव तनूः सृजामो जगतीतले ।। 1.53.१० ।।
सुराणामेककार्याणां श्रुत्वैतन्तिश्चितं मतम् ।
देवैः परिवृतः प्राह वाक्यं लोकपितामहः ।। ११ ।।
रोचते मे सुरश्रेष्ठा युष्माकमपि निश्चयः ।
सृजध्वं स्वशरीरांशांस्तेजसाऽऽत्मसमान्भुवि ।।१२।।
सर्व एव सुरश्रेष्ठास्तेजोभिरवरोहत ।
भावयन्तो भुवं देवीं लब्ध्वा त्रिभुवनश्रियम् ।। १३।।
पार्थिवे भारते वंशे पूर्वमेव विजानता ।
पृथिव्यां सम्भ्रममिमं श्रूयतां यन्मया कृतम् ।। १४ ।।
समुद्रेऽहं पुरा पूर्वे वेलामासाद्य पश्चिमाम् ।
आसं सार्धं तनूजेन कश्यपेन महात्मना ।। १५ ।।
कथाभिः पूर्ववृत्ताभिर्लोकवेदानुगामिभिः ।
इतिवृत्तैश्च बहुभिः पुराणप्रभवैर्गुणैः ।। १६ ।।
कुर्वतस्तु कथास्तास्ताः समुद्रः सह गङ्गया ।
समीपमाजगामाशु युक्तस्तोयदमारुतैः ।। १७ ।।
स वीचिविषमा कुर्वन् गतिं वेगतरङ्गिणीम् ।
यादोगणविचित्रेण सच्छन्नस्तोयवाससा ।। १८ ।।
शङ्खमुक्तामलतनुः प्रवालमणिभूषणः ।
युक्तश्चन्द्रमसा पूर्णः साभ्रगम्भीरनिःस्वनः ।। १९ ।।
स मां परिभवन्नेव स्वां वेलां समतिक्रमन् ।
क्लेदयामास चपलैर्लावणैरम्बुविस्रवैः ।। 1.53.२० ।।
तं च देशं व्यवसितः समुद्रोऽद्भिर्विमर्दितुम् ।
उक्तः संरब्धया वाचा शान्तोऽसीति मया तदा ।। २१ ।।
शान्तोऽसीत्युक्तमात्रस्तु तनुत्वं सागरो गतः ।
संहतोर्मितरङ्गौघः स्थितो राजश्रिया ज्वलन् ।। २२ ।।
भूयश्चैव मया शप्तः समुद्रः सह गङ्गया ।
सकारणां मतिं कृत्वा युष्माकं हितकाम्यया ।। २३ ।।
यस्मात् त्वं राजतुल्येन वपुषा समुपस्थितः ।
गच्छार्णव महीपालो राजेव त्वं भविष्यसि ।। २४ ।।
तत्रापि सहजां लीलां धारयन् स्वेन तेजसा ।
भविष्यसि नृणां भर्ता भारतानां कुलोद्वहः ।। २५ ।।
शान्तोऽसीति मयोक्तस्त्वं यच्चासि तनुतां गतः ।
सुतनुर्यशसा लोके शान्तनुस्त्वं भविष्यसि ।। २६ ।।
इयमप्यायतापाङ्गी गङ्गा सर्वाङ्गशोभना ।
रूपिणी च सरिच्छ्रेष्ठा तत्र त्वामुपयास्यति ।। २७ ।।
एवमुक्तस्तु मां क्षुब्धः सोऽभिवीक्ष्यार्णवोऽब्रवीत् ।
मां प्रभो देवदेवानां किमर्थं शप्तवानसि ।। २८ ।।
अहं तव विधेयात्मा त्वत्कृतस्त्वत्परायणः ।
अशपोऽसदृशैर्वाक्यैरात्मजं मां किमात्मना ।। २९ ।।
भगवंस्त्वत्प्रसादेन वेगात् पर्वणि वर्धितः ।
यद्यहं चलितो ब्रह्मन् कोऽत्र दोषो ममात्मनः ।। 1.53.३० ।।
क्षिप्ताभिः पवनैरद्भिः स्पृष्टो यद्यसि पर्वणि ।
अत्र मे किं नु भगवन् विद्यते शापकारणम् ।। ३१ ।।
उद्धतैश्च महावातैः प्रवृद्धैश्च बलाहकैः ।
पर्वणा चेन्दुयुक्तेन त्रिभिः क्षुब्धोऽस्मि कारणैः।। ३२ ।।
एवं यद्यपराद्धोऽहं कारणैस्त्वत्प्रकल्पितैः ।
क्षन्तुमर्हसि मे ब्रह्मञ्छापोऽयं विनिवर्त्यताम् ।। ३३ ।।
एवं मयि निरालम्बे शापाच्छिथिलतां गते ।
कारुण्यं कुरु देवेश प्रमाणं यद्यवेक्षसे ।। ३४ ।।
अस्यास्तु देवगङ्गाया गां गतायास्त्वदाज्ञया ।
मम दोषात् सदोषायाः प्रसादं कर्तुमर्हसि ।।३५।।
तमहं श्लक्ष्णया वाचा महार्णवमथाब्रवम् ।
अकारणज्ञं देवानां त्रस्तं शापानलेन तम् ।। ३६ ।।
शान्तिं व्रज न भेतव्यं प्रसन्नो ऽस्मि महोदधे ।
शापेऽस्मिन् सरितां नाथ भविष्यं शृणु कारणम् ।। ३७।।
त्वं गच्छ भारते वंशे स्वं देहं स्वेन तेजसा ।
आधत्स्व सरितां नाथ त्यक्त्वेमां सागरीं तनुम्।। ३८ ।।
महोदधे महीपालस्तत्र राजश्रिया वृतः ।
पालयंश्चतुरो वर्णान् रंस्यसे सलिलेश्वर ।। ३९ ।।
इयं च ते सरिच्छ्रेष्ठा बिभ्रती रूपमुत्तमम् ।
तत्कालं रमणीयाङ्गी गङ्गा परिचरिष्यति ।। 1.53.४० ।।
अनया सह जाह्नव्या मोदमानो ममाऽऽज्ञया ।
इमं सलिलसंक्लंदं विस्मरिष्यसि सागर ।। ४१ ।।
त्वरता चैव कर्तव्यं त्वयेदं मम शासनम् ।
प्राजापत्येन विधिना गङ्गया सह सागर ।। ४२ ।।
वसवः प्रच्युताः स्वर्गात् प्रविष्टाश्च रसातलम् ।
तेषामुत्पादनार्थाय त्वं मया विनियोजितः ।। ४३ ।।
अष्टौ ताञ्जाह्नवी गर्भानपत्यार्थं दधात्वियम् ।
विभावसोस्तुल्यगुणान्सुराणां प्रीतिवर्धनान् ।। ४४ ।।
उत्पाद्य त्वं वसूञ्छीघ्रं कृत्वा कुरुकुलं महत् ।
प्रवेष्टासि तनुं त्यक्त्वा पुनः सागर सागरीम् ।। ४५ ।।
एवमेतन्मया पूर्वं हितार्थं वः सुरोत्तमाः ।
भविष्यं पश्यता भारं पृथिव्याः पार्थिवात्मकम्।। ४६ ।।
तदेष शान्तनोर्वंशः पृथिव्यां रोपितो मया ।
वसवो ये च गङ्गायामुत्पन्नास्त्रिदिवौकसः ।। ४७ ।।
अद्यापि भुवि गाङ्गेयस्तत्रैव वसुरष्टमः ।
सप्तेमे वसवः प्राप्ताः स एकः परिलम्बते ।। ४८ ।।
द्वितीयायां स सृष्टायां द्वितीया शान्तनोस्तनुः ।
विचित्रवीर्यो द्युतिमानासीद् राजा प्रतापवान् ।। ४९ ।।
वैचित्रवीर्यौ द्वावेव पार्थिवौ भुवि साम्प्रतम् ।
धृतराष्ट्रश्च पाण्डुश्च विख्यातौ पुरुषर्षभौ ।। 1.53.५० ।।
तत्र पाण्डोः श्रिया जुष्टे द्वे भार्ये सम्बभूवतुः ।
शुभे कुन्ती च माद्री च देवयोषोपमे तु ते ।। ५१ ।।
धृतराष्ट्रस्य राज्ञस्तु भार्यैका तुल्यचारिणी ।
गान्धारी भुवि विख्याता भर्तुर्नित्यं व्रते स्थिता।। ५२ ।।
तत्र वंशा विभज्यन्तां विपक्षाः पक्ष एव च ।
पुत्राणां हि तयो राज्ञोर्भविता विग्रहो महान् ।। ५३ ।।
तेषां विमर्दे दायाद्ये नृपाणां भविता क्षयः ।
युगान्तप्रतिमं चैव भविष्यति महद् भयम् ।। ५४ ।।
सबलेषु नरेन्द्रेषु शान्तयत्स्वितरेतरम् ।
विविक्तपुरराष्ट्रौघा क्षितिः शैथिल्यमेष्यति ।। ५५ ।।
द्वापरस्य युगस्यान्ते मया दृष्टं पुरातनम् ।
क्षयं यास्यन्ति शस्त्रेण मानवैः सह पार्थिवाः ।। ५६ ।।
तत्रावशिष्टान् मनुजान् सुप्तान् निशि विचेतसः।
धक्ष्यते शङ्करस्यांशः पावकेनास्त्रतेजसा ।। ५७ ।।
अन्तकप्रतिमे तस्मिन् निवृत्ते क्रूरकर्मणि ।
समाप्तमिदमाख्यास्ये तृतीयं द्वापरं युगम् ।। ५८ ।।
महेश्वरांशेऽपसृते ततो माहेश्वरं युगम् ।
शिष्यं प्रवर्तते पश्चाद् युगं दारुणदर्शनम् ।। ५९ ।।
अधर्मप्रायपुरुषं स्वल्पधर्मप्रतिग्रहम् ।
उत्सन्नसत्यसंयोगं वर्धितानृतसंचयम् ।। 1.53.६० ।।
महेश्वरं कुमारं च द्वौ च देवौ समाश्रिताः ।
भविष्यन्ति नराः सर्वे लोके न स्थविरायुषः ।। ६१ ।।
तदेष निर्णयः श्रेष्ठः पृथिव्यां पार्थिवान्तकः ।
अंशावतरणं सर्वे सुराः कुरुत मा चिरम् ।। ६२ ।।
धर्मस्यांशस्तु कुन्त्यां वै माद्रयां च विनियुज्यताम् ।
विग्रहस्य कलिर्मूलं गान्धार्यां विनियुज्यताम् ।। ६३ ।।
एतौ पक्षौ भविष्यन्ति राजानः कालचोदिताः ।
जातरागाः पृथिव्यर्थे सर्वे संग्रामलालसाः ।। ६४ ।।
गच्छत्वियं वसुमती स्वां योनिं लोकधारिणी ।
सृष्टोऽयं नैष्ठिको राज्ञामुपायो लोकविश्रुतः ।। ६५ ।।
श्रुत्वा पितामहवचः सा जगाम यथागतम् ।
पृथिवी सह कालेन वधाय पृथिवीक्षिताम् ।। ६६ ।।
देवानचोदयद् ब्रह्मा निग्रहार्थे सुरद्विषाम् ।
नरं चैव पुराणर्षि शेषं च धरणीधरम् ।। ६७ ।।
सनत्कुमारं साध्यांश्च सुरांश्चाग्निपुरोगमान् ।
वरुणं च यमं चैव सूर्याचन्द्रमसौ तदा ।। ६८ ।।
गन्धर्वाप्सरसश्चैव रुद्रादित्यांस्तथाश्विनौ ।
ततोंऽशानवनिं देवाः सर्व एवावतारयन् ।। ६९ ।।
यथा ते कथितं पूर्वमंशावतरणं मया ।
अयोनिजा योनिजाश्च ते देवाः पृथिवीतले ।। 1.53.७० ।।
दैत्यदानवहन्तारः सम्भूताः पुरुषेश्वराः ।
क्षीरिकावृक्षसंकाशा वज्रसंहननास्तथा ।। ७१ ।।
नागायुतबलाः केचित्केचिदोघबलान्विताः ।
गदापरिघशक्तीनां सहाः परिघबाहवः ।। ७२ ।।
गिरिशृङ्गप्रहर्तारः सर्वे परिघयोधिनः ।
वृष्णिवंशसमुत्पन्नाः शतशोऽथ सहस्रशः ।। ७३ ।।
कुरुवंशे च ते देवाः पञ्चालेषु च पार्थिवाः ।
याज्ञिकानां समृद्धानां ब्राह्मणानां च योनिषु ।। ७४ ।।
सर्वास्त्रज्ञा महेष्वासा वेदव्रतपरायणाः ।
सर्वर्द्धिगुणसम्पन्ना यज्वानः पुण्यकर्मिणः ।। ।७५ ।।
आचालयेयुर्ये शैलान् क्रुद्धा भिन्द्युर्महीतलम् ।
उत्पतेयुरथाकाशं क्षोभयेयुर्महोदधिम् ।। ७६ ।।
एवमादिश्य तान् सर्वान् भूतभव्यभवत्प्रभुः ।
नारायणे समावेश्य लोकाञ्छान्तिमुपागमत्।। ७७ ।।
भूयः शृणु यथा विष्णुरवतीर्णो महीतले ।
प्रजानां वै हितार्थाय प्रभुः प्राणिहितेश्वरः ।। ७८ ।।
ययातिवंशजस्याथ वसुदेवस्य धीमतः ।
कुले पूज्ये यशस्कर्मा जज्ञे नारायणः प्रभुः ।। ७९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि देवानामंशावतरणे त्रिपञ्चाशत्तमोऽध्यायः ।। ५३ ।।