हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०३१

← अध्यायः ०३० हरिवंशपुराणम्
अध्यायः ०३१
वेदव्यासः
अध्यायः ०३२ →
कंसस्य स्त्रीणां मातुः च विलापः

एकत्रिंशोऽध्यायः

वैशम्पायन उवाच
भर्तारं पतितं दृष्ट्वा क्षीणपुण्यमिव ग्रहम् ।
कंसपत्न्यो हतं कंसं समन्तात् पर्यवारयन् ।। १ ।।
तं महीशयने सुप्तं क्षितिनाथं गतायुषम् ।
भार्याः स्म दृष्ट्वा शोचन्ति मृग्यो मृगपतिं यथा ।। २ ।।
हा हताः स्म महाबाहो हताशा हतबान्धवाः ।
वीरपत्न्यो हते वीरे त्वयि वीरव्रतप्रिये ।। ३ ।।
इमामवस्थां पश्यन्त्यः पश्चिमां तव नैष्ठिकीम् ।
कृपणं राजशार्दूल विलपामः सबान्धवाः ।। ४ ।।
छिन्नमूलाः स्म संवृत्ताः परित्यक्तास्त्वया विभो ।
त्वयि पञ्चत्वमापन्ने नाथेऽस्माकं महाबले ।। ५ ।।
को नः कोपपरीताङ्गी रतिसंसर्गलालसाः ।
लता इव विचेष्टन्तीः शयनीयानि नेष्यति ।। ६ ।।
इदं तेऽसदृशं सौम्य हृद्यनिःश्वासमारुतम् ।
दहत्यर्को मुखं कान्तं निस्तोयमिव पङ्कजम् ।। ७ ।।
इमे ते श्रवणे शून्ये न शोभेते विकुण्डले ।
शिरोधरायां संलीने सततं कुण्डलप्रिये ।। ८ ।।
क्व ते स मुकुटो वीर सर्वरत्नविभूषितः ।
अत्यर्थं शिरसो लक्ष्मीं यो दधारार्कसप्रभाम् ।। ९ ।।
अनेन हि कलत्रेण तवान्तःपुरशोभिना ।
कथं दीनेन कर्तव्यं त्वयि लोकान्तरं गते ।। 2.31.१० ।।
ननु नाम स्त्रियः साध्व्यः प्रियभोगेष्ववञ्चिताः ।
पतीनामपरित्याज्याः स त्वं नस्त्यज्य गच्छसि ।। ११ ।।
अहो कालो महावीर्यो येन पर्ययकर्मणा ।
कालतुल्यः सपत्नानां त्वं क्षिप्रमपनीयसे ।। १२ ।।
वयं दुःखेष्वनुचिताः सुखेष्वेव त्वयैधिताः ।
कथं वत्स्याम विधवा नाथ कार्पण्यमाश्रिताः ।। १३ ।।
स्त्रीणां चारित्रलुब्धानां पतिरेकः परा गतिः ।
त्वं हि नः सा गतिश्छिन्ना कृतान्तेन बलीयसा ।। १४।।
वैधव्येनाभिभूताः स्मः शोकसंतप्तमानसाः ।
रोदितव्यह्रदे मग्नाः क्व गच्छामस्त्वया विना ।। १५ ।।
सह त्वया गतः कालस्त्वदङ्के क्रीडितं कृतम् ।
क्षणेन तद्विहीनाः स्म अनित्या हि नृणां गतिः ।। १६ ।।
अहो बलविहीनाः स्म विपन्ने त्वयि मानद ।
एकदुष्कृतकारिण्यः सर्वा वैधव्यलक्षणाः ।। १७ ।।
त्वया स्वर्गप्रतिच्छन्दैर्लालिताः स्म रतिप्रियाः ।
त्वयि कामवशाः सर्वाः स नस्त्यज्य क्व गच्छसि ।। १८।
अस्माकं त्वमनाथानां नाथो ह्यसि सुरोपम ।
आसां विलपमानानां कुररीणामिव प्रभो ।
प्रतिवाक्यं जगन्नाथ दातुमर्हसि मानद ।। १९ ।।
एवमार्तकलत्रस्य शाम्यमानेषु बन्धुषु ।
गमनं ते महाभाग दारुणं प्रतिभाति नः ।। 2.31.२० ।।
नूनं कान्ततराः कान्त परलोके वरस्त्रियः ।
यतस्त्वं प्रस्थितो वीर विहायेमं गृहे जनम् ।। २१ ।।
किं नु ते कारणं वीर भार्यास्वेतासु भूरिद ।
आर्तनादं रुदन्तीषु यन्मोहान्नावबुध्यसे ।। २२ ।।
अहो निष्करुणा यात्रा नराणामौर्ध्वदेहिकी ।
यत् परित्यज्य दारान्स्वान्निरपेक्षा व्रजन्ति हि।।२३।।
अपतित्वं स्त्रियाः श्रेयो न तु शूरः पतिः स्त्रियाः ।
स्वर्गस्त्रीणां प्रियाः शूरास्तेषामपि च ताः प्रियाः ।।२४।।
अहो क्षिप्रमदृश्येन नयता त्वां रणप्रियम्।
प्रहृतं नः कृतान्तेन सर्वासामन्तरात्मसु ।। २५ ।।
हत्वा जरासंधबलं जित्वा यक्षांश्च संयुगे ।
कथं मानुषमात्रेण हतस्त्वं जगतीतले ।। २६ ।।
इन्द्रेण सह संग्रामं कृत्वा सायकविग्रहम् ।
अमर्त्यैरजितो युद्धे मर्त्येनासि कथं हतः ।। २७ ।।
त्वया सागरमक्षोभ्यं विक्षोभ्य शरवृष्टिभिः ।
रत्नसर्वस्वहरणं जित्वा पाशधरं कृतम् ।। २८ ।।
त्वया पौरजनस्यार्थे मन्दं वर्षति वासवे।
सायकैर्जलदाञ्जित्वा बलाद् वर्षं प्रवर्तितम् ।। २९ ।।
प्रतापावनताः सर्वे तव तिष्ठन्ति पार्थिवाः ।
प्रेषयन्तो वरार्हाणि रत्नान्याच्छादनानि च ।। 2.31.३० ।।
तवैव देवकल्पस्य दृष्टवीर्यस्य शत्रुभिः ।
कथं प्राणान्तकं घोरमीदृशं भयमागतम् ।। ३१ ।।
प्राप्ताः स्मो विधवाशब्दं त्वयि नाथे निपातिते ।
अप्रमत्ताः प्रमत्तेन कृतान्तेन निराकृताः ।। ३२ ।।
यद्येवं नाथ गन्तव्यं यदि वा विस्मृता वयम् ।
वाङ्मात्रेणापि यामीति वक्तव्ये कः परिश्रमः ।। ३३ ।।
प्रसीद नाथ भीताः स्म पादौ ते याम मूर्द्धभिः ।
अलं दूरप्रवासेन निवर्तस्व नराधिप ।। ३४ ।।
अहो वीर कथं शेषे निषण्णस्तृणपांसुषु ।
शयानस्य हि ते भूमौ कस्मान्नोद्विजते वपुः ।। ३५ ।।
केन सुप्तप्रहारोऽयं दत्तोऽस्माकमतर्कितः ।
प्रहृतं केन सर्वासु नारीष्वेवं सुदारुणम् ।। ३६ ।।
रुदितानुशयो नार्या जीवन्त्याः परिदेवनम् ।
किं वयं सति गन्तव्ये सह भर्त्रा रुदामहे ।। ३७ ।।
एतस्मिन्नन्तरे दीना कंसमाता प्रवेपती ।
क्व मे वत्सः क्व मे पुत्र इति रोरूयती भृशम् ।। ३८ ।।
सापश्यन्निहतं पुत्रं निष्प्रभं शशिनं यथा ।
हृदयेन विदीर्णेन भ्राम्यमाणा पुनः पुनः।। ३९ ।।
पुत्रं समभिवीक्षन्ती हा हतास्मीति वाशती ।
स्नुषाणामार्तनादेन विललाप रुरोद च ।। 2.31.४० ।।
सा तस्य वदनं दीनमुत्संगे पुत्रगृद्धिनी ।
कृत्वा पुत्रेति कारुण्यं विललापार्तया गिरा ।। ४१ ।।
पुत्र शूरव्रते युक्त ज्ञातीनां नन्दिवर्द्धन ।
किमिदं त्वरितं वत्स प्रस्थानं कृतवानसि ।। ४२ ।।
प्रसुप्तश्चातिविवृते किं पुत्र नियमं विना ।
वत्स नैवंविधा भूमौ शेरते कृतलक्षणाः ।। ४३ ।।
रावणेन पुरा गीतः श्लोकोऽयं साधुसम्मतः ।
बलज्येष्ठेन लोकेषु राक्षसानां समागमे ।। ४४ ।।
एवमूर्जितवीर्यस्य मम देवनिघातिनः ।
बान्धवेभ्यो भयं घोरं दुर्निवार्यं भविष्यति ।। ४५ ।
तथैव ज्ञातिलुब्धस्य मम पुत्रस्य धीमतः ।
ज्ञातिभ्यो भयमुत्पन्नं शरीरान्तकरं महत् ।। ४६ ।।
सा पतिं भूपतिं वृद्धमुग्रसेनं विचेतसम् ।
उवाच रुदती वाक्यं विवत्सा हरिणी यथा ।। ४७ ।।
एह्येहि राजञ्छुद्धात्मन पश्य पुत्रं जनेश्वरम् ।
शयानं वीरशयने वज्राहतमिवाचलम् ।। ४८ ।।
अन्य कुर्मो महाराज निर्याणसदृशीं क्रियाम् ।
प्रेतत्वमुपपन्नस्य गतस्य यमसादनम् ।। ४९ ।।
वीरभोग्यानि राज्यानि वयं चापि पराजिताः ।
गच्छ विज्ञाप्यतां कृष्णः कंससत्कारकारणात् ।। 2.31.५० ।।
मरणान्तानि वैराणि शान्ते शान्तिर्भविष्यति ।
प्रेतकार्याणि कार्याणि मृतः किमपराध्यते ।। ५१ ।।
एवमुक्त्वा पतिं भोजं केशानारुज्य दुःखिता ।
पुत्रस्य मुखमीक्षन्ती विललापैव सा भृशम् ।। ५२ ।।
इमास्ते किं करिष्यन्ति भार्या राजन् सुखोषिताः ।
त्वां पतिं सुपतिं प्राप्य या विपन्नमनोरथाः ।।५३।।
इमं ते पितरं वृद्धं कृष्णस्य वशवर्तिनम् ।
कथं द्रक्ष्यामि शुष्यन्तं कासारसलिलं यथा ।। ५४ ।।
अहं ते जननी पुत्र किमर्थं नाभिभाषसे ।
प्रस्थितो दीर्घमध्वानं परित्यज्य प्रियं जनम् ।। ५५ ।।
अहो वीराल्पभाग्यायाः कृतान्तेनाभिवर्तिना ।
आच्छिद्य मम संदायो नीयसे नयकोविदः ।। ५६ ।।
दानमानगृहीतानि तृप्तान्येतानि तैर्गुणैः ।
रुदन्ति तव भृत्यानां कुलानि कुलयूथप ।। ५७ ।।
उत्तिष्ठ नरशार्दूल दीर्घबाहो महाबल ।
त्राहि दीनं जनं सर्वं पुरमन्तःपुरं यथा ।। ५८ ।।
रुदतीनां भृशार्तानां कंसस्त्रीणां सुविस्तरम् ।
जगामास्तं दिनकरः संध्यारागेण रञ्जितः ।। ५९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कंसस्त्रीविलापे एकत्रिंशोऽध्यायः ।। ३१ ।।